________________
४७२
शिशुपालवधे
'देर्द्वितीयस्य' इति द्वितीयस्याचो द्विर्भावः । नुवद्भावादाम्प्रतिषेधः । यमकवा क्यार्थहेतुककाव्यलिङ्गयोः संसृष्टिः ॥
केशप्रचुरलोकस्य पर्यस्कारि विकासिना ।
शेखरेणेव युद्धस्य शिरः कुसुमलक्ष्मणा ।। २२ ।।
केशेति ॥ विकासिना विविधमार्गचारिणा, विकस्वरेण च कुसुमलक्ष्मणा पुष्पकेतुना प्रद्युम्नेन, अन्यत्र कुसुमचिह्वेन । तन्मयेनेत्यर्थः । केशवत्प्रचुराः प्रभूता लोका जना यस्मिंस्तस्य युद्धस्य शिरोऽग्रभूमिः, अन्यत्र केशैः प्रचुरस्य केशाढ्यस्य लोकस्य जनस्य शिरः मूर्धा शेखरेणापीडेनेव । शिखामाल्येनेवेत्यर्थः । ‘शिखास्वापीडशेखरौ' इत्यमरः । पर्यस्कारि परिष्कृतम् । भूषितमित्यर्थः । परिपूर्वात्करोतेः कर्मणि लिट् ‘संपर्युपेभ्यः करोतौ भूषणे' इति सुडागमः 'अडभ्यासव्यवायेऽपीति नियमात् 'परिनिविभ्यः - ' इत्यादिना पत्वे 'सिवादीनां वाङ्व्यवायेऽपि' इति विकल्पः । उपमालंकारः ॥
सादरं युध्यमानापि तेनान्यनरसादरम् ।
सादरं पृतना निन्ये हीयमाना रसादरम् || २३ ||
सादरमिति ॥ सादरं साभिनिवेशं युध्यमानापि संप्रहरन्त्यपि अरं द्रुतम् । हठादिति यावत् । रसाणे रागात् हीयमानापकृष्यमाणा । प्रद्युम्नमहिम्नेति भावः । अत एवात्र विरोधाभासोऽलंकारः । जहातेः कर्मणि लिटः शानजादेशः । सा पृतना वैद्यसेना तेन प्रद्युम्नन अन्येषां तटस्थानामपि नराणां सादं निश्चेष्टतां राति ददातीति अन्यनरसादरम् | 'आतोऽनुपसर्गे कः' इति प्रत्ययः । दरं भयम् । 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः । निन्ये नीता । नयतेः प्रधानेकर्मणि लिट् ' प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्' इति वचनात् विरोधाभासयमकयोः संसृष्टिः ॥
इत्यालिङ्गितमालोक्य जयालक्ष्म्या झषध्वजम् । क्रुद्धयेव क्रुधा सद्यः प्रपेदे चेदिभूपतिः ।। २४ ।।
इतीति ॥ इतीत्थं जलक्ष्म्या आलिङ्गितं झषध्वजं मत्स्यकेतुं प्रद्युम्नम् । 'पृथुरोमा झषो मत्स्यः' इत्यमरः । आलोक्य सद्यः क्रुद्धया सपल्यागमात्कोपितयेवेत्युत्प्रेक्षा । कुधा प्रधुम्नाश्रितया रुषा कर्त्या चेदिभूपतिः प्रपेदे प्राप्तः । तं विहायेति शेषः । कामिन्यः प्रायेण साहसिक्यः सपत्नीगन्धमसहमानाः सद्यः पुरुषान्तरमाश्रयन्त इति भावः। विजयिनं प्रद्युम्नं दृष्ट्वा सद्यश्चैद्यश्व कोपेत्यर्थः ॥
अहितानभि वाहिन्या स मानी चतुरङ्गया । चचाल वल्गत्कलभसमानीचतुरङ्गया ।। २५ ।।
अहितानिति ॥ मानी अभिमानवान्स क्रुद्धश्चैद्यः वल्गन्तः प्लवमानाः कलभसमाः कलभप्रमाणाः अत एवानीचा उच्चास्तुरङ्गा यस्यां तया वल्गत्कलभसमा