________________
•
शिशुपालवधे
प्रमुखेऽभिहताच पत्रवाहाः प्रसभं माधवमुक्तवत्सदन्तैः । परिपूर्णतरं भुवो गतायाः परितः कातरवत्प्रतीपमीयुः ॥ २५ ॥
प्रमुख इति ॥ पत्राणि वहन्तीति पत्रवाहाः पत्रिणश्चैद्यशराः । 'कर्मण्यण्' । माधवमुक्तवत्सदन्तैः शौरिक्षिप्तशरैः प्रसभं बलात्प्रमुखे शल्या वदने चाभिहृताः खण्डिताः सन्तः अत एव कातरैस्तैस्तुल्यं कातरवत् । तुल्यार्थे वतिप्रत्ययः । परिपूर्णतरं गतायाः । यावद्गन्तव्यं गताया इत्यर्थः । भुवोऽन्तरालभूमेः परितः प्रतीपं प्रतिकूलमीयुः प्रापुः प्रत्यागताश्च । माधवान्तिकात्परावृत्य जग्मुरित्यर्थः । चकारः पूर्वश्लोकोक्त पतनसमुच्चयार्थः । केचित्खण्डितास्तन्नैव पेतुः । केचिन्मुखेषु प्रतिहताः । प्रतिनिवृत्ता इत्यर्थः । कातरवदिति तद्धितगता श्रौती पूर्णोपमा ॥
५०६
इतरेतरसंनिकर्षजन्मा फलसंघट्ट विकीर्ण विस्फुलिङ्गः । पटलानि लिहन्बलाहकानामपरेषु क्षणमज्वलत्कृशानुः ॥ २६ ॥ इतरेतरेति ॥ इतरेतरसंनिकर्षजन्मा शराणां मिथःसंश्लेषोत्थः । जन्मोत्तपदत्वाद्व्यधिकरणोऽपि बहुव्रीहिरिष्यते । फलसंघट्टनेन शल्यसंघट्टनेन विकीर्णा विस्फुलिङ्गा यस्य सः कृशानुरग्निर्बलाहकानाम् । वारि वहन्तीति बलाहकाः । पृषोदरादित्वात्साधुः । पटलानि लिहन्नास्वादयन् अपरेषु शत्रुषु ‘समरेषु' इति पाठे समरेषु युद्धेषु क्षणमज्वलददीप्यत । अत्र शत्रु वलाहकानामग्निदाहास्वादासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥
शरदीव शरश्रिया विभिन्ने विभुना शत्रु शिलीमुखाभ्रजाले । विकसन्मुखवारिजाः प्रकामं बभ्रुराशा इव यादवध्वजिन्यः २७
शरदीव इति ॥ विभुना देवेन कर्त्रा शरश्रिया शरसंपदा करणेन शरदीव शत्रु शिलीमुखा अभ्राणीव तेषां जाले विभिन्ने सति विकसन्ति मुखानि वारिजानीव यासां ताः यादवध्वजिन्यः यदुसेनाः आशा दिश इव प्रकामं बभुः । अनेकैवेयमुपमा ॥
स दिवं समचिच्छदच्छरौघैः कृततिग्मद्युतिमण्डलापलापैः । ददृशेऽथ च तस्य चापयष्ट्यामिषुरेकैव जनैः सकृद्विसृष्टा ॥ २८ ॥
स इति ॥ कृतस्तिग्मद्युतिमण्डलस्यापलापो निह्नवो यैस्तैः । आच्छादितार्कमण्डलैरित्यर्थः । शरौघैर्दिवमाकाशं स हरिः समचिच्छदच्छादयति स्म । छादेः 'णौ चङयुपधाया ह्रस्वः' 'सन्यतः' इत्यभ्यासस्येत्वम् । युक्तं चैतत् । लघुहस्तवादस्येत्याशयेनोत्प्रेक्ष्यते । अथास्मिन्नवसरे तस्य हरेश्वापयष्ट्या मिपुः सकृदेकदा विसृष्टा मुक्ता एकैव जनैर्ददृशे दृष्टा च । इपूणां पुङ्खानुपुङ्खगमनाद्रावाने - पुरेदैव गच्छतीत्युप्रेक्षा । ईटालहत्याकाशसंछादनं युक्तमिति भावः ॥