________________
विंशः सर्गः ।
५०७
भवति स्फुटमागतो विपक्षान्न सपक्षोऽपि हि निर्वृतेर्विधाता । शिशुपालबलानि कृष्णमुक्तः सुतरां तेन तताप तोमरौघः ॥ २९ ॥
भवतीति ॥ विपक्षाच्छत्रुकुलादागतः सपक्षः कङ्कादिपत्रवान्, सुहञ्च निर्वृतेर्विधाता सुखकरो न भवति । हि यतः स्फुटम् । तेन कारणेन कृष्णमुक्तस्तोमरौघः शिशुपालबलानि सुतरां तताप ददाह । अतः शत्रुकुलादागतः स्वजनोऽपि न विश्वसनीय इत्यर्थः । सपक्षोऽप्यनिर्वर्तक इति विरोधेऽपिशब्दः । विपक्षादागत इत्यविरोधाद्विरोधाभासः ॥
गुरुवेगविराविभिः पतत्रैरिषवः काञ्चनपिङ्गलाङ्गभासः । विनतासुतवत्तलं भुवः स्म व्यथित भ्रान्तभुजंगमं विशन्ति ॥ ३० ॥
गुर्विति ॥ गुरुवेगविराविभिः गुरुणा वेगेन विरुवन्ति ध्वनन्तीति तथोक्तैः । रौतेर्णिनिः । शीघ्रवेगविराववद्भिः पतन्त्रैः पक्षैरुपलक्षिताः काञ्चनेन पुङ्खलिप्तेन पिङ्गलाङ्गभासः, अन्यत्र काञ्चनवदिति विग्रहः । इषवः शौरिशराः विनतासुतबद्वैनतेयैस्तुल्यं व्यथिता भीषिता अत एव भ्रान्ता मूढा भुजंगमा यस्मिंस्ततथा भुवस्तलं पातालं विशन्ति स्म । तद्धितगता श्रौती पूर्णोपमा पातालप्र• वेशासंबन्धातिशयोक्त्या संकीर्यते ॥
शतशः परुषाः पुरो विशङ्कं शिशुपालेन शिलीमुखाः प्रयुक्ताः । परमर्मभिदोऽपि दानवारेरपराधा इव न व्यथां वितेनुः ||३१||
शतश इति ॥ शिशुपालेन पुरोऽग्रे विशङ्कं निःशङ्कं शतशः प्रयुक्ताः क्षिप्ताः उच्चारिताश्च परुषा निष्ठुराः परमर्मभिदोऽपि शिलीमुखाः शराः । शतशः अपराधाः पञ्चदशसर्गोक्ताः अभिशापा इव दानवारेर्हरेर्व्यथां दुःखं न वितेनुः । खलापकारा महतामकिंचित्करा इति भावः । समासगतोपमा ॥
विहिताद्भुतलोकसृष्टिमाये जयमिच्छन्किल मायया मुरारौ । भुवनक्षयकालयोगनिद्रे नृपतिः स्वापनमस्त्रमाजहार ॥ ३२ ॥
विहितेति ॥ नृपतिश्चैद्यो विहिता अद्भुता लोकसृष्टिरेव माया यस्मिंस्तस्मिन् भुवनक्षयकाले प्रलयकाले । न त्विदानीमिति भावः । उचिता योगनिद्रा यस्य तस्मिन्मुरारौ मायया जयमिच्छन् किल । न तु जेष्यतीति भावः । स्वापयतीति स्वापनमस्त्रमाजहार । प्रयुक्तवानित्यर्थः । अनादिमायाधारे सकलभुवनसृष्टिसंहारमहानाटकसूत्रधारे सर्वाद्भुतनिधाने सकलकलुषकषणपटुतराभिधाने पुरा गैन्द्रजालिके भगवति हरावपि मायया जिगीषेत्यहो महानस्य व्यामोह इति भावः । अत्र हरिविशेषणैस्तस्य दुर्जयत्वसिद्धेः काव्यलिङ्गम् ॥
सलिलार्द्रवराहदेहनीलो विदधद्भास्करमर्थशून्यसंज्ञम् । प्रचलायतलोचनारविन्दं विदधे तद्बलमन्धमन्धकारः ॥ ३३ ॥