________________
२६०
शिशुपालवधे प्रेक्षणीयकमिव क्षणमासन्हीविभङ्गुरविलोचनपाताः । संभ्रमद्रुतगृहीतदुकूलच्छाद्यमानवपुषः सुरतान्ताः ॥ ८२ ॥ प्रेक्षणीयकमिति ॥ हिया विभङ्गुराः स्खलिता विलोचनपाता दृष्टिपाता येषु ते संभ्रमेण द्रुतं गृहीतेन दुकूलेन छाद्यमानानि वपूंषि अन्तरङ्गाणि येषु ते सुरतान्ताः सुरतावसानानि क्षणं प्रेक्षणीयकं दृश्यमिवासन्नित्युपमा । नाटकादिरूपकेष्वाहार्यकं वस्तु तदृश्यं प्रेक्षणीयकमिति चोच्यते । इहाविर्भावतिरोधानादिना तत्तुल्यत्वम् ॥
अप्रभूतमतनीयसि तन्वी काश्चिधानि पिहितैकतरोरु । क्षौममाकुलकरा विचकर्ष क्रान्तपल्लवमभीष्टतमेन ॥ ८३ ॥ अप्रभूतमिति ॥ तन्वी कृशाङ्गी अभीष्टतमेन प्रेयसा क्रान्तपल्लवं गृहीताञ्चलम् अत एवातनीयसि महीयसि काञ्चिधान्नि जघने अप्रभूतं छादयितुमपर्याप्तम् । अत एव पिहितश्छादित एकतर एवोरुयेन तरक्षौमं दुकूलमाकुलकरा व्यग्रपाणिः सती विचकर्ष कृत्स्नापिधानार्थमाचकर्ष । लज्जानुभावोऽयम् । अत्र क्षौमविशेषाणामाकर्षणहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥
मृष्टचन्दनविशेषकभक्तिभ्रंष्टभूषणकदर्थितमाल्यः । सापराध इव मण्डनमासीदात्मनैव सुदृशामुपभोगः ॥ ८४ ॥
मृष्टेति ॥ मृष्टा प्रमृष्टा चन्दनानां विशेषकाणां तमालपत्राणां च भक्ती रशना येन सः । 'तमालपत्रतिलकचित्रकाणि विशेषकम्' इत्यमरः । भ्रष्टानि भूषणानि यस्मिन्स भ्रष्टभूषणः कुत्सितोऽर्थः कदर्थः । लोकतो विशेष्यलिङ्गत्वम् । 'कोः कत्तत्पुरुषेऽचि' इति कुशब्दस्य कदादेशः। कदानि कृतानि कदर्थितानि दूषितानि माल्यानि येन सः। ततस्ततयो(वक्षिकविशेष्यविशेषणभावाद्विशेषणसमासः । एवंभूत उपभोगः सापराध इव पूर्वमण्डनापहारात्कृतापराध इव सुटशामात्मनैव स्वयमेव । प्रकृत्यादित्वात्तृतीया । मण्डनमासीत् । प्रतिनिधिकरणेन स्वापराधनिरासार्थमिवेत्युत्प्रेक्षा । स्त्रीणां संभोग एव मण्डनं तदभावे मण्डनान्तरस्याप्यमण्डनत्वादिति भावः ॥
योषितः पतितकाञ्चनकाञ्चौ मोहनातिरभसेन नितम्बे । मेखलेव परितः स विचित्रा राजते नवनखक्षतलक्ष्मीः ॥८५॥
योषित इति ॥ मोहनातिरभसेन सुरतसंभ्रमेण पतिता काञ्चनी काञ्चनस्य विकारा काञ्चिर्यस्मात्तस्मिन्निर्मेखले योषितो नितम्बे परितः सर्वतो विचित्रा विविधरचना नवनखक्षतलक्ष्मीर्मेखलेव राजते स । उत्प्रेक्षालंकारः ॥
भातु नाम सुदृशां दशनाङ्कः पाटलो धवलगण्डतलेषु । दन्तवाससि समानगुणश्रीः संमुखोऽपि परभागमवाप ॥८६॥