________________
दशमः
सर्गः
: ।
२६१
भाविति ॥ सुशां संबन्धी पाटलोऽरुणो दशनाङ्को दन्तक्षतं धवलगण्डतलेषु कपोलेषु भातु नाम वैवर्ण्याद्भेदेन प्रकाशताम् । नामेत्यङ्गीकारे । दन्तवाससि अधरे तु समानगुणश्रीस्तुल्यवर्णोऽपि तथा संमुखोऽपि सन् परभागं गुणोत्कर्षं तथा पश्चाद्भागं चात्राप इति सावर्ण्यवैवर्ण्ययोः संमुखपराङ्मुखत्वयोश्व विरोधः । उपरिभागमवापेत्युभयत्र परिहाराद्विरोधाभासद्वयसंसृष्टिः । तत्राद्यः श्लेषभित्तिकाभेदाध्यवसायमूलस्तद्गुणोत्थापित इति संकरः ॥
सुभ्रुवामधिपयोधरपीठं पीडनैखुटितवत्यपि पत्युः । मुक्तमौक्तिकलघुर्गुणशेषा हारयष्टिरभवद्गुरुरेव || ८७ ॥
सुभ्रुवामिति ॥ सुभ्रुवां पयोधरपीठे कुचतटे अधिपयोधरपीठम् । विभक्त्यर्थेऽव्ययीभावः । पत्युः पीडनैः परिरम्भादिविमर्दैस्रुटितवति छेदं गतापि । अत एव मुक्तमौक्तिका सा च सा लघुश्च अत एव गुणशेषा सूत्रमात्रशेषापि हारयष्टिर्गुरुः लाध्यैवाभवत् । लघुरिति गुरुरिति विरोधाभासोऽलंकारः ॥
विश्रमार्थमुपगूढमजस्रं य॒त्प्रियैः प्रथमरत्यवसाने । योषितामुदितमन्मथमादौ तद्वितीयसुरतस्य बभूव ॥ ८८ ॥
विश्रमेति || योषितां प्रथमरत्यवसाने विश्रमार्थं श्रमापनोदार्थम् । श्रम्यतेर्घञ्प्रत्ययः । 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' इति वृद्ध्यभावः । अजस्रं प्रियैरुपगृहमुपग्रहनम् । नपुंसके भावे क्तः । 'न लोका-' इत्यादिना षष्ठीप्रतिषेधः । उदितमन्मथमुत्पादितकामम् । अत एव तदुपगूहनं द्वितीयसुरतस्यादौ बभूव । श्रमापनोदमन्मथोद्बोधाभ्यामुभयोपयोगादुभयार्थमभूत् । संयोगपृथक्त्वन्याया दित्यर्थः । अत्र मध्यवर्तिन उपगूढस्यैकस्य पूर्वोत्तरसुरतशेषत्वेन विशेषणगत्याविश्र - मार्थोदितमन्मथपदार्थयोर्हेतुत्वात्काव्यलिङ्गद्वयं तदङ्गाङ्गिभावेन संकीर्यते ॥
आस्तृतेऽभिनवपल्लवपुष्पैरप्यनारतरताभिरताभ्यः ।
दीयते स्म शयितुं शयनीये न क्षणः क्षणदद्यापि वधूभ्यः ॥ ८९ ॥ आस्तृत इति ॥ अनारतमश्रान्तं रते सुरते अभिरताभ्य आसक्ताभ्यो वधूभ्यः क्षणमुत्सवसुखं ददातीति क्षणदा रात्रिस्तयाप्यभिनवैः पल्लवैः पुष्पैश्वास्तृत आच्छादितेऽपि । सुखशयनार्हेऽपीत्यर्थः । शेतेऽस्मिन्निति शयनीये तल्पे । 'कृत्यल्युटो बहुलम्' इत्यधिकरणेऽनीयर् । शयितुं शयनं कर्तुं क्षणोऽल्पकालोऽपि न दीयते स्म न दत्तः किं त्वाप्रभातमरमयत् । क्षणदात्वादेवेति भावः । क्षणदयापि क्षणो न दत्त इति विरोधस्योत्सवार्थत्वेन परिहाराद्विरोधाभासोऽलंकारः । 'निर्व्यापारस्थितौ कालविशेषोत्सवयोः क्षणः' इत्यमरः ॥
योषितामतितरां नखलूनं गात्रमुज्ज्वलतया न खलूनम् । क्षोभमाशु हृदयं नयदूनां रागवृद्धिमकरोन्न यदूनाम् ॥ ९० ॥