________________
२६२
शिशुपालवधे. योषितामिति ॥ नखलूनं न खलु उनम् । नयत् ऊनां न यदूनां इति पदच्छेदः । अतितरामतिमात्रम् । अव्ययादामुप्रत्ययः। नखैलूनं क्षतं नखलूनम् । 'ल्वादिभ्यश्च' इति निष्ठानत्वम् । तथाप्युज्वलतया औज्वल्येन न ऊनं न न्यूनम् । किं तु समग्रमेवेत्यर्थः । नखक्षतानां कामिनीगात्रमण्डनत्वादिति भावः । अत एवाशु हृदयं प्रियचित्तं क्षोमं विकारं नयत्प्रापयत् । नयतेर्लटः शबादेशः । योषितां गात्रं यदूनां यादवानां रागवृद्धिमूनां न्यूनां नाकरोत्खलु । किं तु भूयोऽपि समग्रमेवाकरोदित्यर्थः । अत्र यमकं शब्दालंकारः। औज्वल्यस्य विशेषणगत्या रागवृद्धिहेतुत्वाकाव्यलिङ्गमर्थालंकारः ॥
इति मदमदनाभ्यां रागिणः स्पष्टरागा
ननवरतरतश्रीसङ्गिनस्तानवेक्ष्य । अभजत परिवृत्तिं साथ पर्यस्तहस्ता
रजनिरवनतेन्दुर्लज्जयाधोमुखीव ॥ ९१ ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यके सुरत
वर्णनो नाम दशमः सर्गः ॥ १० ॥ इतीति ॥ इतीत्थं मदमदनाभ्यां स्पष्टरागान्सर्वदा रागित्वेऽपि तदा । ताभ्यामपि व्यञ्जितरागानित्यर्थः । अनवरतरतश्रीसङ्गिनः अविच्छिन्नसुरतसंपल्लम्पटांस्तान्रागिणो रागिण्यश्च रागिणश्च तान्रागिणः । 'पुमान्स्त्रिया' इत्येकशेषः । अवेक्ष्य अथावेक्षणानन्तरं पर्यस्तः परिवृत्तो हस्तो नक्षत्रविशेषः, करश्च यस्याः सा । 'हस्तो नक्षत्रभेदे स्यात्करेभकरयोरपि' इत्युभयत्रापि विश्वः । अवनतेन्दुः त्रस्तचन्द्रा अत एव सा रजनिर्लजया । ग्राम्यचेष्टादर्शनजनितयेति भावः । अधोमुखी नम्रमुखीवेत्युत्प्रेक्षा। परिवृत्तिं निवृत्त्युन्मुखतामभजत । प्रभातप्रायाभूदित्यर्थः । स्त्रियो हि परकीयग्राम्यचेष्टादर्शने पावनतमुख्यो हस्तेन दृष्टिमन्तर्धाय दागपसरन्तीति भावः । अत एवानन्तरसर्गे प्रभातवर्णनाय प्रस्तावः । मालिनीवृत्तमेतत् । लक्षणं तूक्तं वक्ष्यते चोत्तरसर्गादौ ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध
काव्यव्याख्याने सर्वकषाख्ये दशमः सर्गः ॥ १० ॥
इति पूर्वार्धम् ।