________________
दशमः सर्गः।
२५९ प्राप्यते स गतचित्रकचित्रश्चित्रमानखलक्ष्म कपोलैः । दधिरेऽथ रभसच्युतपुष्पाः स्वेदविन्दुकुसुमान्यलकान्ताः॥७८॥ प्राप्यत इति ॥ गतानि बिमर्दात्प्रमृष्टानि चित्रकचित्राणि तमालपत्ररचनानि येषां तैः कपोलैरा यन्नखलक्ष्म तदेव चित्रमिति रूपकम् । प्राप्यते स्म प्राप्तम् । के च रभसेन रतिसंभ्रमेण च्युतपुष्पा अलकान्ताश्वर्णकुन्तलाग्राणि स्वेदबिन्दुनेव कुसुमानीति रूपकम् । दधिरे दधुः। धरतेभीवादिकाल्लिटि जित्त्वादात्मनेपदम् । स्वेदोऽत्र श्रमानुभावः । 'श्रमः स्वेदोऽध्वरत्यादेः श्वासस्वेदातिभूमिकृत् ॥ यद्यदेव रुरुचे रुचिरेभ्यः सुभ्रुवो रहसि तत्तदकुर्वन् ।
आनुकूलिकतया हि नराणामाक्षिपन्ति हृदयानि तरुण्यः॥७९॥ यद्यदेवेति ॥ रुचिरेभ्यो रमणेभ्यो यद्यदेव चेष्टितं रुरुचे रोचते स्म । नियमभूदित्यर्थः । 'रुच दीप्तावभिप्रीतौ च' इति धातोलिट् । 'रुच्यर्थानां प्रीयमाणः' इति संप्रदानत्वम् । सुभ्रुवो रहसि तत्तदकुर्वन् । तथा हि-तरुण्यः अनुलं वर्तन्त इत्यानुकूलिकाः । 'तत्प्रत्यनुपूर्वमीपलोमकूलम्' इति ठक् । तासां भावम्तत्ता तया आनुकूलिकतया अनुकूलवर्तितयैव नराणां पुंसां हृदयान्याक्षिपस्त्यावर्जयन्तीत्यर्थान्तरन्यासः ॥
प्राप्य मन्मथरसादतिभूमि दुर्वहस्तनभराः सुरतस्य । शश्रमुः श्रमजलार्द्रललाटश्लिष्टकेशमसितायतकेश्यः॥ ८० ॥ प्राप्यति ॥ दुर्वहः स्तनभरो यासां ताः। एतेनोपरि सुरतं व्यज्यते । अन्यथा विशेषणवैयर्थ्यात् । असिता आयताश्च केशा यासां ता असितायतकेश्यः स्त्रियः । स्वाङ्गाच्च-' इत्यादिना ङीष् । मन्मथरसात्स्मररागात्सुरतस्यातिभूमि परां काष्टां नाप्य । महान्तं सुरतं प्राप्येत्यर्थः । श्रमजलेन स्वेदाम्बुना आई ललाटे श्लिष्टाः देशा यस्मिन्कर्मणि तद्यथा तथा शश्रमुरिति सानुभावस्य श्रमभावोक्तिः । भावनिबन्धनात्प्रेयोऽलंकारः ॥
अथ सुरतावसानं वर्णयतिसंगताभिरुचितश्चलितापि प्रागमुच्यत चिरेण सखीव । भूय एव समगस्त रतान्ते हीर्वधूभिरसहा विरहस्य ॥ ८१ ॥ संगताभिरिति ॥ उचितैः परिचितः प्रियतमैः सह संगताभिर्वधूभिः प्राक् सुरतादौ चलिता गन्तुं प्रचालितापि हीः सखीव चिरेणामुच्यत मुक्ता । न सहत इत्यसहा । पचाद्यजन्ते नसमासः । विरहस्यासहा । बिरहमसहमाना सतीत्यर्थः । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्टी । रतान्ते भूय एव वधूभिः समगस्त संगता रखीवेत्येव । संपूर्वाद्गमेलुङ् ‘समो गम्यच्छिभ्याम्-' इत्यात्मनेपदम् । 'वा गमः' इति सिचः पक्षे कित्त्वाभावात् 'अनुदात्तोपदेश-' इत्यादिनानुनासिकलोपो न । सुरतेतरकाले स्त्रीणां लज्जैव भूषणमिति भावः । उपमालंकारः ॥