________________
पञ्चमः सर्गः।
११९
मालाः पुनरुक्तसान्द्राः द्विगुणसान्द्राः कुर्वन् । स्वभावतोऽपि सान्द्रस्वादिति भावः । मयूरव्यंसकादित्वादिस्पष्टपटुवत्समासः । क्षणं यदूनां बलैः सैन्यैः क्षुण्गोऽनेरुत्थितो दिवमाकाशमातनितुमवतनितुमिच्छुरातितांसुः । तनोतेः सन्नन्तादुप्रत्ययः । 'सनीवन्तर्ध-' इत्यत्र तनिपतिदरिद्राणामुपसंख्यानाद्वैकल्पिक इडभावः । 'तनोतेर्विभाषा' इति दीर्घः । पांशुर्दिशां मुखमतुत्थयदाच्छादयतिस्म । 'तुत्थ आच्छादने' इति धातोश्चौरादिकाल्लङ् ॥
उच्छिद्य विद्विष इव प्रसभं मृगेन्द्रा
निद्रानुजानुचरभूपतयोऽध्यवात्सुः । वन्येभमस्तकनिखातनखाग्रमुक्त
मुक्ताफलप्रकरभाञ्जि गुहागृहाणि ॥१२॥ उच्छिद्येति ॥ इन्द्रानुजस्योपेन्द्रस्य हरेरनुचरा अनुजीविनो भूपतयो मृगेन्द्रान्सिहान् विद्विषः शत्रूनिव प्रसभं प्रसह्योच्छिद्य हत्वा वन्येभानां मस्तकेषु निखातैनिक्षिप्तै खाप्रैः सिंहनखमुखैर्मुक्तान्विकीर्णान्मुक्ताफलप्रकरान्भजन्तीति तथोक्तानि । गुहा गृहाणीवेत्युपमितसमासः । विद्विष इवेति लिङ्गादध्यवात्सुरध्युषितवन्तः । 'उपान्वध्याङ्सः' इति कर्मत्वम् । 'वस निवासे' लुङि सिचि वृद्धिः । 'सः स्यार्धधातुके' इति तत्वम् ॥
बिभ्राणया बहलयावकपङ्कपिङ्ग
पिच्छावचूडमनुमाधवधाम जग्मुः। चश्वग्रदष्टचटुलाहिपताकयान्ये
स्वावासभागमुरगाशनकेतुयष्ट्या ॥ १३ ॥ बिभ्राणयेति ॥ अन्ये भूपतयः याव एव यावकोऽलक्तकः । 'लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो दुमामयः' इत्यमरः । 'यावादिभ्यः कन्' इति स्वार्थे कन् । बहलेन यावकपङ्केन पिङ्गं पिङ्गलं पिच्छं बर्हमेवावचूडमधोलम्बिकलापं बिभ्राणया 'अस्योचूडावचूडाख्यावूर्वाधोमुखचूडको' इति ध्वजाङ्गेषु हलायुधः । चक्षुस्त्रोटिः। 'च[स्त्रोटिरुभे स्त्रियाम्' इत्यमरः । तस्या अग्रेण दष्टा चटुला चञ्चला अहिरेव पताका यस्यां तया उरगाशनो गरुडस्तस्य केतुयष्टिः । तदधिष्ठितो ध्वजदण्ड इत्यर्थः । तथा अभिज्ञानेनेति भावः । अनुमाधवधाम हरिशिबिरमनु स्वावासभागं स्वनिवेशदेशं जग्मुः प्रापुः । दूरादेव गरुडध्वजेन माधवधाम ज्ञात्वा तत्संनिहितान्नियतदिक्कान्स्वावासानिश्चित्य जग्मुरित्यर्थः ॥
छायामपास्य महतीमपि वर्तमाना
मागामिनी जगृहिरे जनतास्तरूणाम् । सर्वो हि नोपगतमप्यपचीयमानं
वर्धिष्णुमाश्रयमनागतमभ्युपैति ॥ १४ ॥