________________
शिशुपालवधे प्रत्ययः । 'आपज्ञप्यधामीत्' इतीकारः । न भवन्ति किंतु पुण्यकृतामेव । अतः कृच्छ्रलभ्याः सन्तः पूज्या इत्यर्थः ॥ न यावदेतावुदपश्यदुत्थितौ जनस्तुषाराञ्जनपर्वताविव । स्वहस्तदत्ते मुनिमासने मुनिश्चिरंतनस्तावदभिन्यवीविशत् ॥ १५ ॥ . न यावदिति ॥ उत्थितावेतौ मुनिकृष्णौ जनस्तुपाराञ्जनयोः पर्वताविव यावनोदपश्यन्नोत्प्रेक्षितवान् । तावच्चिरंतनः पुराणो मुनिः कृष्णः 'पुरा किल भगवान्ब. दरिकारण्ये नारायणावतारेण तपसि स्थितवान्' इति पुराणात् । 'सायंचिरम्-' इत्यादिना ट्युप्रत्ययस्तुडागमश्च । स्वहस्तेन दत्ते आसने मुनिं नारदमभिन्यवीविशस्वाभिमुखेनोपवेशितवान् । अभिनिपूर्वाद्विशतेर्ण्यन्ताल्लुङि ‘णिश्रि-' इति चङ् ॥ महामहानीलशिलारुचः पुरो निषेदिवान्कंसकृषः स विष्टरे । श्रितोदयाद्रेरभिसायमुच्चकैरचूचुरच्चन्द्रमसोऽभिरामताम् ॥ १६ ॥
महामहेति ॥ महत्या महानीलशिलायाः सिंहलद्वीपसंभवेन्द्रनीलोत्पलस्य रुगिव रुग्यस्य तस्येत्युपमालंकारः । 'सिंहलस्थाकरोद्भूता महानीलास्तु ते स्मृताः' इति भगवानगस्त्यः । कंसकृषो हरेः पुरोऽग्र उच्चकैरुन्नते विष्टर आसने । 'वृक्षासनयोर्विष्टरः' इति षत्वम् । निषेदिवानुपविष्टवान् । 'भाषायां सदवसश्रुवः' इति वसुः। स मुनिरभिसायं सायंकालाभिमुखम् । अव्ययीभावसमासः । सायंकालस्य काात्कृष्णोपमानत्वम् । श्रित आश्रित उदयाविरुदयाचलो येन तस्य चन्द्रमसोऽभिरामतां शोभामचूचुरच्चोरितवान् । प्राप्तवानित्यर्थः । 'चुर स्तेये' 'णिश्रि-' इति चङ्। 'अन्यस्यान्यधर्मसंबन्धसंभवाच्चन्द्रमसोऽभिरामतामिवाभिरामतामि'त्यौपम्यपर्यवसानादसंभवद्वस्तुसंबन्धरूपो निदर्शनाभेदः स चोक्तोपमयाङ्गाङ्गिभावेन संकीर्यते ॥ विधाय तस्यापचितिं प्रसेदुषः प्रकाममप्रीयत यज्वनां प्रियः । ग्रहीतुमार्यान्परिचर्यया मुहुर्महानुभावा हि नितान्तमर्थिनः॥१७॥
विधायेति ॥ यज्वानो विधिनेष्टवन्तः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोः-' इति यजिधातोर्डनिप् । तेषां प्रियो हरिः प्रसेदुषः प्रसन्नस्य । 'सदेः क्वसुः' इत्युक्तम् । तस्य मुनेरपचितिं पूजाम् । 'पूजा नमस्यापचितिः' इत्यमरः । विधाय विशेषेण मनोवाक्कायकर्मभिस्तत्परतया कृत्वा प्रकाममत्यर्थमप्रीयत प्रीतोऽभूत् । प्रीयतेर्दैवादिकाकर्तरि लङ्। मुनिपूजायाः प्रीतिहेतुत्वेऽर्थान्तरं न्यस्यति-महानुभावा महात्मान आर्यान्पूज्यान्परिचर्यया मुहुर्ग्रहीतुं वशीकर्तुम् । 'ग्रहोऽलिटि दीर्घः' इतीटो दीर्घः । नितान्तमर्थिनोऽभिलाषवन्तो हि भवन्ति । अर्थनमर्थोऽभिलाषः स एषामस्तीति मत्वर्थ इनिर्न तु णिनिः । 'कृवृत्तेस्तद्धितवृत्तिर्बलीयसी' इति भाष्यात् ॥