________________
चतुर्दशः सर्गः ।
३४१
जिह्वा' इति चामरः । तासां शतानि तेषां प्रभामण्डलेन हसन्निवेति रूपकर्सकीर्णोत्प्रेक्षा । पावको वह्निः वषट्कृतं वषट्कारेण त्यक्तम् । हुतमित्यर्थः । ' हुतं त्रिषु वषट्कृतम्' इत्यमरः । निर्मलीमसममलिनं । शुद्धमित्यर्थः । 'मलीमसं तु मलिनम्' इत्यमरः । ‘ज्योत्स्ना तमिस्रा -' इत्यादिना मलिनशब्दान्नत्वर्थे ईमसच्प्रत्ययान्तो निपातः । प्राज्यं प्रभूतमाज्यमसकृदलीढ आस्वादयत् । लिहेः स्वरितेत्वालङि कृते ‘हो ढः' इति ढत्वं 'झपस्तथोऽधः' इति धत्वे वे दूलोपदी ॥
1
तत्र मन्त्रपवितं हविः ऋतावनतो न वपुरेव केवलम् । वर्णसंपदमतिस्फुटां दधन्नाम चोज्वलमभूद्धविर्भुजः ॥ २६ ॥ तत्रेति ॥ तत्र ऋतौ । मन्त्रैरुत्पवनादिमन्त्रैः पवितं पवित्रितम् । शोधितमित्यर्थः । 'पूङश्च' इति विकल्पादिडागमः । हविराज्यादिकमनतो भुञ्जानस्य । अशेभोजनार्थालटः शत्रादेशः । हवींषि भुत इति हविर्भुजोऽग्नेः संबन्धि | अतिस्फुटामतिविकसितां वर्णसंपदं रूपसमृद्धिं दधत् केवलमेकम् | 'केवलं वेककृत्योः' इति शाश्वतः । वपुरेवोज्वलमोजिष्ठं नाभूत् । किंतु अतिस्फुटामतिव्यक्तां वर्णसंपदमक्षरसमुदायं दधत् । 'वर्णो द्विजादौ शुक्लादौ स्तुतौ वर्ण तु चाक्षरे' इत्यमरः । नाम हविर्भुगिति नामधेयं चोजवलं रूढमभूत् । निरन्तरं हविर्भोजनाद्वपुः पुष्टिमाप, नाम चार्थवदासीदित्यर्थः । अत्र भोजनस्याश्नत इति विशेषणगत्या हेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥
स्पर्शमुष्णमुचितं दधच्छिखी यद्ददाह हविरद्भुतं न तत् । गन्धतोऽपि हुतहव्यसंभवाद्देहिनामदहदोघमंहसाम् ॥ २७ ॥ स्पर्शमिति ॥ उचितं स्वाभाविकमुष्णमुष्णाख्यं स्पर्श स्पर्शनेन्द्रियमात्रग्राह्यं गुणविशेषं दधद्दधानः शिखी शिखावानग्निः । व्रीह्यादित्वादिनिः । हविराज्यादिकं ददाह भस्मीचकारेति यत् तदद्भुतं न । उष्णस्पर्श सहकृतस्याग्नेः पार्थिवद्रव्यदहनशक्तेः स्वाभाविकत्वादिति भावः । कुतः । हुतहव्य संभावाद्भुतहवनीय हवि -
न्यान्धतो गन्धादपि । सांक्रामिकगुणादपीत्यर्थः । देहिनां गन्धं जिघ्रतां प्राणिनामित्यर्थः । अंहसां पापानामोघमपीति भावः । अदहद्भस्मीकृतवान् । नाशितवानित्यर्थः । अदाह्यदहनं त्वाश्चर्यमिति भावः । अन्रोष्णस्पर्शधारणस्य शिखि विशेषणभावेनास्य हविर्दाह हेतुत्वात्पदार्थहेतुकं तावदेकं काव्यलिङ्गम् । उत्तरार्धे त्वंहसां भस्मीकरणाभावलक्षणदाहविरोधस्य नाशलक्षणया समाधानाद्विरोधाभासे लक्ष्यस्य वाच्याभेदाध्यवसायमूलातिशयोक्तिप्रतिभोत्थापितः स एवादाह्यदाहकत्वरूपो वाक्यार्थभूत पूर्वोक्त पदार्थ हेतुककाव्यलिङ्गसहकृतो हविर्दहनाद्भुतवहेतुरिति वाक्यार्थहेतुकं काव्यलिङ्गमन्यैः प्राधान्येन संकीर्यते ॥
उन्नमन्सपदि धूम्रयन्दिशः सान्द्रतां दधदुधः कृताम्बुदः । द्यामियाय दहनस्य केतनः कीर्तयन्निव दिवौकसां प्रियम् ॥ २८ ॥