________________
एकादशः सर्गः।
२८१ अतुहिनरुचिनासौ केवलं नोदयाद्रिः
क्षणमुपरिगतेन क्ष्माभृतः सर्व एव । नवकरनिकरेण स्पष्टबन्धूकसून
स्तबकरचितमेते शेखरं बिभ्रतीव ॥ ४६॥ अतुहिनेति ॥ क्षणमुपरिंगतेन स्थितेनातुहिनरुचिनार्केण केवलमसावुदयाद्रिः पूर्वा दिर्न । 'उदयः पूर्वपर्वतः' इत्यमरः। किंत्वेते सर्व एव क्ष्माभृतः सर्वेऽपि शैलाः क्षणमुपरिगतेनावस्थितेन नवकरनिकरेण स्पष्टैर्विकसितैर्बन्धूकसूनस्तबकैर्बन्धुजीवककुसुमगुच्छैर्विरचितम् । 'बन्धूको बन्धुजीवकः' इत्यमरः । शेखरं शिखामाल्यम् । 'शिखास्वापीडशेखरौ' इत्यमरः । बिभ्रतीवेत्युत्प्रेक्षा । न केवलमर्केणो. दयाद्रिरेव बन्धूकशेखरं बिभर्ति, किंतु तत्करजालेन सर्वेऽपि पर्वतास्तथेत्यर्थः ॥
उदयशिखरिशृङ्गप्राङ्गणेष्वेव रिङ्ग
न्सकमलमुखहासं वीक्षितः पद्मिनीभिः। विततमृदुकराग्रः शब्दयन्त्या वयोभिः ___ परिपतति दिवोऽङ्के हेलया बालसूर्यः ॥ ४७ ॥ उदयेति ॥ एष बाल उदितमात्रः बालश्चासौ सूर्यश्च बालसूर्यः उदयशिखरिशृङ्गस्योदयादिशिखरस्य प्राङ्गणेषु रिङ्गन्संचरन्पद्मिनीभिर्नलिनीभिः स्त्रीविशेपैश्च । 'पद्मिनी स्त्रीविशेषेऽपि' इति विश्वः । कमलान्येव मुखानि तेषां हासेन विकासेन, हास्येन च सह यस्मिन्कर्मणि तद्यथा तथा वीक्षितः सन् । वयोभिः पक्षिभिः । 'वयः पक्षिणि बाल्यादौ' इति विश्वः । शब्दयन्त्याः शब्दं कुर्वत्याः। आगच्छागच्छ वत्सेति व्याहरन्त्या इत्यर्थः । शब्दशब्दात् 'तत्करोति-' इति ण्यन्ताल्लटः शतरि ङीप् । दिवोऽन्तरिक्षस्य मातुश्चाङ्के समीपे, उत्सङ्गे च विततानि प्रसृतानि मृदूनि कराग्राणि किरणाग्राणि हस्ताग्रे च यस्य सन् हेलया लीलया परिपतति । श्लेषमूलातिशयोक्त्यनुगृहीतरूपकम् ॥
क्षणमयमुपविष्टः क्ष्मातलन्यस्तपादः
प्रणतिपरमवेक्ष्य प्रीतमह्नाय लोकम् । भुवनतलमशेषं प्रत्यवेक्षिष्यमाण:
क्षितिधरतटपीठादुत्थितः सप्तसप्तिः॥४८॥ क्षणमिति ॥ अयं सप्तसप्तिरर्कः क्षणमुपविष्टः क्षितिधरपीठमध्यासीनः क्ष्मातलन्यस्तपादः । प्रणामस्वीकाराय भूतलप्रसारिताद्भिरित्यर्थः । प्रणतिपरं नम. स्कारं कुर्वाणं प्रीतं प्रणामस्वीकारात्संतुष्टं लोकं जनमहाय झटित्यवेक्ष्य । 'झटित्यञ्जसाहाय' इत्यमरः । रूपावलोकेन संभाव्याशेषं भुवनतलं लोकस्वरूपं प्रत्यवेक्षिप्यमाणोऽनुसंधास्यमानः क्षितिधरस्य तटं पीठमिव सिंहासनमिव । अन्यत्र