________________
सप्तदशः सर्गः।
४२७
सरागयेत्यादि ॥ नृपा राजानः सह रागेण पाटलिम्ना, अनुरागेण च सरागया। 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । श्रुतं धनं सान्द्रं धर्मतोयं स्वेदोदकं यस्यां सा तया कराहत्या पाणितलास्फालनेन ध्वनितं पृथु महदुरु पीठमिव उरुपीठं यस्यां तया मुहुर्मुहुर्दशनविखण्डितोष्टया दन्तदष्टाधरया । रुषा प्रियतमयेव भेजिरे । आविष्टोऽनाविष्टश्च रौद्रस्थायी क्रोधः प्रादुर्भूत इत्यर्थः । उपमालंकारः ॥
अथ सप्तदशभी राज्ञां क्रोधानुभावानाहअलक्ष्यत क्षणदलिताङ्गदे गदे करोदरप्रहितनिजांसधामनि । समुल्लसच्छकलितपाटलोपलस्फुलिङ्गवान्स्फुटमिव कोपपावकः॥३॥ ___ अलक्ष्यतेत्यादि ॥ करोदरप्रहितं पाणितलास्फालितं निजमंसधाम स्वांस. प्रदेशो येन तस्मिन् । अत एव क्षणाद्दलिताङ्गदे भन्नकेयूरे गदे गदाख्ये कृष्णानुजे समुल्लसद्भिरुत्पतद्भिः शकलितैः शकलीकृतैर्दलदङ्गदगलितैः पाटलोपलै: पद्मरागैः कोपपावकः स्फुलिङ्गवानिव स्फुटं व्यक्तमलक्ष्यतेत्युत्प्रेक्षा । 'त्रिषु स्फुलिङ्गोऽग्निकणः' इत्यमरः ॥ अवज्ञया यदहसदुच्चकैर्वलः समुल्लसद्दशनमयूखमण्डलः । रुषारुणीकृतमपि तेन तत्क्षणं निजं वपुः पुनरनयन्निजां रुचिम् ॥४॥
अवशयेति ॥ बलो बलभद्रः समुल्लसत्समन्ततः प्रसरद्दशनमयूखमण्डलं दन्तरश्मिपटलं यस्य स सन् अवज्ञयानादरेण उच्चैरहसदिति यत् तेन हासेन रुषारुणीकृतमपि निजं वपुः तत्क्षणं तस्मिन्क्षणे । अत्यन्तसंयोगे द्वितीया । पुननिजां रुचिं धावल्यमेवानयत् । अत्र वपुषः स्वधावल्यत्यागेन दन्तधावल्यस्वीकारात्तद्गुणालंकारः । 'तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः' इति लक्षणात् ॥ . यदुत्पतत्पृथुतरहारमण्डलं व्यवर्तत द्रुतमभिदूतमुल्मुकः।। बृहच्छिलातलकठिनांसघट्टितं ततोऽभवद्भमितमिवाखिलं सदः ५ __ यदिति ॥ उल्मुको नाम राजा उत्पतदुल्लुठस्पृथुतरं हारमण्डलं मुक्ताकलापो यस्मिन्कर्मणि तद्यथा तथा अभिदूतं दूताभिमुखं व्यवर्तत विवृत इति द्रुतं यत् ततो विवर्तनादखिलं सदः बृहता शिलातलकठिनेनांसेन स्कन्धेन घट्टितं भ्रमितमिवाभवत् । विवर्तवेगवशोत्थादसघट्टनामितमिवाभूदित्युत्प्रेक्षा ॥ अकुप्यतः श्वसनसमीरणाहतिस्फुटोष्मभिस्तनुवसनान्तमारुतैः । युधाजितः कृतपरितूर्णवीजनं पुनस्तरां वदनसरोजमविदत् ॥६॥
प्रकुप्यत इति ॥ अकुप्यतोऽतिक्रुध्यतो युधाजितो नाम राज्ञो वदनसरोज श्वसनसमीरणस्य निःश्वासमारुतस्याहतिभिः स्फुटः प्रकट ऊष्मा उष्णत्वं येषां तैः तनुवसनान्तमारुतैः सूक्ष्मवस्त्राञ्चलवातैः कृतं परिपूर्णवीजनं शीघ्रविधूननं यस्य तत् । अतिशीघ्र वीज्यमानमपीत्यर्थः । पुनस्तरां पुनरत्यन्तम् । अव्ययादा