SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ ४२६ शिशुपालवधे न्मेखलाः । निर्मेखला इत्यर्थः । अन्यत्र लसन्मेखला इति पदच्छेदः । उन्नतः कुचाभोगः कुचविस्तारो मौक्तिकानां हारं हरणं प्राप्तः । अन्यत्र मुक्तादामप्राप्तः । इत्थमुक्तरीत्या तदीयद्विषां युवतयः संपत्सु चापत्स्वपि नित्यविभूषणाः । अत्रापत्संपदोः प्रकृताप्रकृतयोः युवतिविशेषणद्वारा वर्णनाच्छेषः । शार्दूलविक्रीडितं वृत्तम् । लक्षणमुक्तम् ॥ सत्यमीदृशस्ते राजा ततः किमित्याशक्य तर्हि तत्त्वमाकर्णयेत्याहविनिहत्य भवन्तमूर्जितश्रीयुधि सद्यः शिशुपालतां यथार्थाम् । रुदतां भवदङ्गनागणानां करुणान्तःकरणः करिष्यतेऽसौ ॥८५॥ ___ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके षोडशः सर्गः ॥ १६ ॥ विनिहत्येति ॥ अर्जितश्रीरधिकैश्वर्योऽसौ राजा युधि भवन्तं सद्यो विनिहत्य हत्वा रुदतां क्रन्दतां भवदङ्गानागणानां करुणान्तःकरणः कृपाविष्टचित्तः सन् शिशुपालतां यथार्थी करिष्यते । अङ्गनागणान्प्रति तच्छिशुपालनेन निजां शिशुपालसंज्ञामन्वर्थी करिष्यतीत्यर्थः । अन्न रोदनकरुणापदार्थयोर्विशेषणगत्या क्रमात्करुणाशिशुपालनहेतुकत्वाकाव्यलिङ्गयोः संकरः । औपच्छन्दसिकं वृत्तम् ॥ इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवध काव्यव्याख्यायां सर्वकषाख्यायां षोडशः सर्गः ॥ १६ ॥ सप्तदशः सर्गः। इतीरिते वचसि वचखिनामुना युगक्षयक्षुभितमरुद्गरीयसि । प्रचुक्षुमे सपदि तदम्बुराशिना समं महाप्रलयसमुद्यतं सदः॥१॥ इतीति ॥ इतीत्वममुना वचस्विना वाग्मिना । 'मनस्विना' इति पाठे मनस्विना धीरेण दूतेन युगक्षये कल्पान्ते क्षुभित उद्धतो मरुत्तद्वद्गरीयसि वचमि ईरिते सति । तदम्बुराशिना युगक्षयवर्धिना समं तुल्यं यथा तथा सदो हरेरास्थानं महाप्रलये सर्वसंहारे समुद्यतमुधुक्तं सत् सपदि प्रचुक्षुभे प्रचुकोप । कल्पो. द्धतमहामारुतेन महार्णव इव तद्वचनेन तत्सदः क्षुभितमासीदित्यर्थः । उपमा । रुचिरा वृत्तम् । 'चतुर्ग्रहैरिह रुचिरा जभरजगा' इति लक्षणात् ॥ अथाष्टादशभिः सभाक्षोभं वर्णयतिसरागया स्रतघनधर्मतोयया कराहतिध्वनितपृथूरुपीठया । मुहुर्मुहुर्दशनविखण्डितोष्टया रुपा नृपाः प्रियतमयेव भेजिरे ॥२॥
SR No.002351
Book TitleSishupal Vadha
Original Sutra AuthorN/A
AuthorDurgaprasad Pandit, Sivadatta Pandit
PublisherPandurang Jawaji
Publication Year1933
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy