________________
पञ्चमः सर्गः।
१३१
अद्रीन्द्रेति ॥ अद्रीन्द्रस्य रैवतकस्य कुशेषु चरति यस्तस्य कुञ्जचरस्य कुञ्जरस्य गण्डकाषेण कपोलसंघर्षणेन संक्रान्तं दानपयो मदाम्बु यस्य तस्यात एव सेनागजेन मथितस्य भग्नस्य वनपादपस्य निजैरात्मीयैः प्रसूनैः पुष्पैः । 'निजमात्मीयानात्मीययोर्भेदे' इति वैजयन्ती। मम्ले म्लानम् । म्लायतेर्भावे लिद । अलीनां कुलैस्तु यथागतमामामि गतम् । आगतक्रमेणैव गतं न तु म्लानमित्यर्थः । 'आपद्यात्मीयनित्ययोः' इति भावः । गमेर्गत्यर्थस्याकर्मकत्वविवक्षणाद्भावे लुङ् । इभवनपादपादीनां विशेषणसाम्यादापन्नाद्यौपम्यप्रतीतेः कथंचित्समासोक्तिरुन्नेया ॥
नोचैर्यदा तरुतलेषु ममुस्तदानी
माधोरणैरभिहिताः पृथुमूलशाखाः । बन्धाय चिच्छिदुरिभास्तरसात्मनैव
नैवात्मनीनमथ वा क्रियते मदान्धैः ॥४४॥ नेति ॥ इभा यदा उच्चैरुन्नतेषु तरुतलेषु न ममुर्नावर्तन्त तदानीमाधोरणैर्नियन्तृभिरभिहिता इमांश्छिन्तेत्युपदिष्टाः पृथुमूलशाखाः बन्धाय स्वबन्धनायैव तरसा बलेनात्मना स्वयमेव चिच्छिदुः । न चैतद्युक्तमिति भावः । यद्वा मूढानां युक्तमेवेत्याह-अथवेति । अथवा मदान्धैरात्मनीनमात्मने हितं न क्रियत एव । 'आत्मन्विश्वजनभोगोत्तरपदात्खः' इति खप्रत्ययः । 'आत्माध्वानी खे' इति प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपो न पूर्ववदर्थान्तरन्यासः ॥
उष्णोष्णशीकरसृजः प्रबलोष्मणोऽन्त
रुत्फुल्लनीलनलिनोदरतुल्यभासः । एकान्विशालशिरसो हरिचन्दनेषु
नागान्वबन्धुरपरान्मनुजा निरासुः ॥४५॥ उष्णोणेति ॥ मनुजा नरा उष्णोप्णा उप्णप्रकाराः । 'प्रकारे गुणवचनस्य' इति द्विवचनम् । कर्मधारयवद्भावात्सुपो लुक् । तान् शीकरान्सृजन्ति मुञ्चन्तीति तथोक्तान् । क्विप् । अन्तः प्रबलोप्मणः प्रवृद्धतापान् । उत्फुल्लं विकचम् । 'उत्फुलसंफुल्लयोरुपसंख्यानम्' इत्युपसर्गेऽपि फुल्लेनिष्ठानत्वम् । तस्य नीलनलिनस्य नीलोत्पलस्योदरेण तुल्यभासः समानकान्तीन् । कृष्णवर्णानित्यर्थः । विशालशिरसो विपुलमस्तकानेकान्कतिचिन्नागान् । गजानित्यर्थः । हरिचन्दनेषु चन्दनविशेषेषु । 'तैलपर्णिकगोशीचे हरिचन्दनमस्त्रियाम्' इत्यमरः । बबन्धुः । अपरान्नागानहीनित्यर्थः । 'दुष्टाभ्राहिगजा नागाः' इत्युभयत्रापि वैजयन्ती। निरासुर्निष्कासयामासुः । अस्यतेर्लिट् । अत्रोभयेषामपि नागानां प्रकृतत्वात्केवलप्रकृतश्लेषः ॥
कण्डूयतः कटभुवं करिणो मदेन
स्कन्धं सुगन्धिमनुलीनवता नगस्य ।