________________
१३०
शिशुपालवधे
मुत्तरन्तो जलान्निर्गच्छन्तो धौतेषु क्षालितेष्वङ्गेषु लग्नैः सक्तैर्नवनीलपयोजपत्रैर्नवनीलोत्पलदलैरविलम्बितं क्षिप्रमेव प्रत्यवापुः प्रतिभेजिरे । अत्र गजानां नदीनां च समनेत्रश्रीविनिमयोक्त्या समपरिवृत्तिरलंकारः । 'समन्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥' इति लक्षणात् ॥ प्रत्यन्यदन्ति निशिताङ्कुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निषादी | रोद्धुं महेभमपरित्रढिमानमागा
दाक्रान्तितो न वशमेति महान्परस्य ॥ ४१ ॥ प्रतीति ॥ अन्यदन्तिनं प्रति प्रत्यन्यदन्ति । प्रतिगजाभिमुखमित्यर्थः । 'लक्षणेनाभिप्रती आभिमुख्ये' इत्यव्ययीभावः । चलितं धावन्तमत एव निशितेनाशेन दूरं गाढं यथा तथा भिन्नं यन्निर्याणमपाङ्गदेशः । ' अपाङ्गदेशो निर्याणम्' इत्यमरः । तस्मान्निर्यत् निःसरदसृग्यस्य तं महेभं रोद्धुं ग्रहीतुं निषादी यन्ता परिबृंहते प्रभवतीति परिवृढः प्रभुः । बृहतेर्बृहेर्वा कर्तरि क्तप्रत्यये 'प्रभौ परिवृढः ' इति नकारहकारयोर्लोपः निष्ठातकरस्य ढत्वं च निपात्यते । अन्यथा ढलोपस्य सर्वनासिद्धेरिष्टन्नादिषु ' र ऋतो हलादेर्लघोः' इति रेफादेशो न स्यात् । तस्मादिमनिचि रेफादेशे परिवढिमा ततो नञ्समासः । तमपरिव्रढिमानमसामर्थ्य मागात्प्राप । 'इणो गा लुङि' इति गादेशः । तथाहि महान्बलवान् आक्रान्तितो बलात्कारात्परस्य वशं नैति । सामान्येन विशेषसमर्थन रूपोऽर्थान्तरन्यासः ॥
सेव्योऽपि सानुनयमाकलनाय यत्रा नीतेन वन्यकरिदानकृताधिवासः । नाभाजि केवलमभाजि गजेन शाखी
नान्यस्य गन्धमपि मानभृतः सहन्ते ।। ४२ ।।
सेव्य इति ॥ यत्रा निषादिना आकलनाय बन्धनाय सानुनयं ससान्त्वं नीतेन समीपं प्रापितेन गजेन वन्यगजदानैः कृतोऽधिवासो वासना यस्य सः । तद्गन्धीत्यर्थः । शाखी वृक्षः । व्रीह्यादित्वाणिनिः । सेव्योऽपि सन्नाभाजि नासेवि । 'भज सेवायाम् ' कर्मणि लुङि चिणो लुग्वृद्धिश्च । किंतु केवलमभाजि । अभञ्जी - त्यर्थः । 'भञ्जो आमर्दने' । 'भञ्जेश्व चिणि' इति विभाषानलोपः । शेषं पूर्ववत् । तथा हि मानभृतोऽहङ्कारिणोऽन्यस्य गन्धमपि न सहन्ते । परं किमुतेति भावः । अतो वृक्षभञ्जनं गजस्य युक्तमेवेत्यर्थः । पूर्ववदलंकारः ॥
1
अद्रीन्द्रकुञ्जचरकुञ्जरगण्डकाषसंक्रान्तदानपयसो वनपादपस्य । सेनागजेन मथितस्य निजप्रसूनै
र्मम्ले यथामतमगामि कुलैरलीनाम् ॥ ४३ ॥