________________
२२
शिशुपालवधे
च यस्य तत् । अपास्तानि पुष्पाणि, पुष्पकं विमानं च यस्मात्तत् । पुष्पपक्षे वैभाषिकः कप्प्रत्ययः । मनुष्यस्येव धर्मः श्मश्रुलत्वादिर्यस्येति स्वामी । तस्य मनुष्यधर्मणः । 'धर्मादनिच् केवलात्' इत्यनिच् । मानसं चित्तं, तदीयं सरश्च । 'मानसं सरसि स्वान्ते' इति विश्वः । मुहुर्न कम्पयामास न क्षोभयामासेति न । किंतु कम्पयामासैवेत्यर्थः । कुबेरस्य महामहिमतया संभाविताप्रकम्पित्वनिवारणाय नद्वयम् । 'संभाव्यनिषेधनिवर्तने नद्वयम्' इति वामनः । अत्र दन्तिरा - वणयोः प्रकृताप्रकृतयोः श्लेषः ॥
रणेषु तस्य प्रहिताः प्रचेतसा सरोषहुंकारपराङ्मुखीकृताः । प्रहर्तुरेवोरगराजरजवो जवेन कण्ठं सभयाः प्रपेदिरे ॥ ५६ ॥
रणेष्विति ॥ किंचरणेषु प्रचेतसा वरुणेन प्रहिताः प्रयुक्ता उरगराजा महासर्पास्ते रज्जव इव उरगराजरज्जवः । नागपाशा इत्यर्थः । तस्य रावणस्य सरोषहुँकारेण पराङ्मुखीकृता व्यावर्तिताः । अतएव सभयाः सत्यः जवेन वेगेन प्रहर्तुः प्रयोक्तुः प्रचेतस एव कण्ठं प्रपेदिरे प्राप्ताः । अत्र परहिंसाप्रयुक्तस्यायुधस्य वैप - रीत्येन स्वकण्ठग्रहणादनर्थोत्पत्तिरूपो विषमालंकारः । ' विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत्' इति लक्षणात् ॥ परेतभर्तुर्महिषोऽमुना धनुर्विधातुमुत्खातविषाणमण्डलः । हृतेऽपि भारे महतस्त्रपाभरादुवाह दुःखेन भृशानतं शिरः ॥ ५७ ॥
परेतभर्तुरिति ॥ अमुना रावणेन धनुः शाङ्गं विधातुं निर्मातुमुत्खातमुत्पाटितं विषाणयोः शृङ्गयोर्मण्डलं वलयं यस्य स परेत भर्तुर्यमस्य महिषः । वाहनभूत इति भावः । भारे विषाणरूपे । भृञो घञ् । हृतेऽपि महतस्त्रपैव भरस्तस्मात् । ततोऽपि दुर्भरादिति भावः । भृधातोः कैयादिकात् 'ऋदोरपू' इत्यप्प्रत्ययः । भृशमत्यर्थमानतं नम्रं शिरो दुःखेनोवाह वहति स्म । 'असंयोगालिद कित्' इति कित्त्वात् ' वचिस्वपि -' इत्यादिना संप्रसारणम् । हृतेऽपि भारे नतमिति विरोधः । तदनुप्राणिता चेयमवनति हेतुत्वसाधर्म्यात्रपाभारत्वोत्प्रेक्षा ॥ स्पृशन्सशङ्कः समये शुचावपि स्थितः कराग्रैरसमग्रपातिभिः । अधर्मधर्मोदकविन्दुमौक्तिकैरलंचकारास्य वधूरहस्करः ॥ ५८ ॥
1
स्पृशन्निति ॥ अहः करोतीत्यहस्करः सूर्यः । ' दिवाविभानिशा -' इत्यादिना टप्रत्ययः । कस्कादित्वात्सत्वम् । शुचौ समये ग्रीष्मकाले, अनुपहते आचारे च स्थितोऽपि । ‘शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोरपि । ग्रीष्मे हुतवहेऽपि स्यात्' इति विश्वः । 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । असमग्रपातिभिः । संकुचितवृत्तिभिरित्यर्थः । कराणामशूनां हस्तानां चायैः । ' बलि हस्तांशवः कराः' इत्यमरः । सशङ्कः स्पृशन् । अविश्वासभयादिति भावः । अधर्मा अनुष्णा धर्मोदकबिन्दवः स्वेदोदबिन्दवः । 'मन्थौदन -' इत्यादिना विकल्पादुदकशब्दस्योदादेशाभावः । तैरेव मौक्तिकैरस्य वधूरलंचकार । ग्रीष्मे तद्भयान्नासह्यं
1