________________
विंशः सर्गः।
सजलेति ॥ सजलोऽम्बुधरः तस्यारवं गर्जितमनुकरोतीति तथोक्तः । तद्वद्गम्भीर इत्यर्थः । उपमालंकारः । आपूरितदिङ्मुखो व्याप्तदिगन्तो रथस्य कृष्णरथस्य ध्वनिः । ऊर्ध्वाः कण्ठा येषां तैरूद्धकण्ठैः । आकस्मिकघनरवलोभाद्विस्मयहर्षोन्नमितकंघरैरित्यर्थः । शितिकण्ठैर्नीलकण्ठैः प्रगुणीकृता अतितारीकृताः केका यस्मिन्कर्मणि तद्यथा तथा। 'केका वाणी मयूरस्य' इत्यमरः । उपकर्णयांबभूवे । मेघारवभ्रान्त्या दत्तकर्णरित्यर्थः । एतेन भ्रान्तिमदलंकारो व्यज्यत इति वस्तुनालंकारध्वनिः ॥
अभिवीक्ष्य विदर्भराजपुत्रीकुचकाश्मीरजचिह्नमच्युतोरः । चिरसेवितयापि चेदिराजः सहसावाप रुषा तदैव योगम् ॥६॥ अभीति ॥ चेदिराजः शिशुपालः । 'राजाहःसखिभ्यष्टच्' । विदर्भराजपुत्र्या रुक्मिण्याः कुचयोर्यकाश्मीरजं कुङ्कुमं तच्चिद्रं यस्य तदच्युतोरः कृष्णवक्षः अभिवीक्ष्य चिरसेवितया चिरोपयुजापि । रुक्मिणीहरणात्प्रभृति संभृतयापीत्यर्थः । रुषा रोषेण तदैव तदानीमिवेत्युत्प्रेक्षा । सहसा योगं संबन्धमवाप। यथा कामी काम्यन्तरभोगचिह्नदर्शनोद्दीप्तः कान्तया संयुज्यते तद्वदित्यर्थः । परमार्थ. स्वरूप एव कोपो वैदर्भी कुचकुङ्कुमदर्शनादुद्दीपित इत्यर्थः । अत्र प्रकृतरुड्किशेषणसाम्यादप्रकृतकान्ताप्रतीतेः समासोक्तिः, उक्तोत्प्रेक्षा त्वङ्गमस्याः ॥
जनिताशनिशब्दशङ्कमुच्चैर्धनुरास्फालितमध्वनन्नृपेण । चपलानिलचोद्यमानकल्पक्षयकालाग्निशिखानिभस्फुरज्यम् ७ जनितेति ॥ नृपेण चेदिपेन आस्फालितं संघट्टितं अत एव चपलानिलेन तीवानिलेन चोद्यमानस्य संवय॑मानस्य कल्पक्षयकालाग्नेर्या शिखा ज्वाला तया समाना तन्निभा । इति नित्यसमासः। सा स्फुरन्ती दोधूयमाना ज्या मौर्वी यस्य तत्तथोक्तं धनुः जनिता उत्पादिता अशनिशब्दशङ्का यस्मिन्कर्मणि तत्तथोक्तं उच्चैस्तरामध्वनत् । अत्राग्निशिखानिभेत्युपमाया अशनिशब्दशङ्केति भ्रान्तिमतः आस्फालितमध्वनदिति पदार्थहेतुककाव्यलिङ्गस्य च सापेक्षस्वात्संकरः ॥
समकालमिवाभिलक्षणीयग्रहसंधानविकर्षणापवगैः। अथ साभिसरं शरैस्तरस्वी स तिरस्कर्तुमुपेन्द्रमभ्यवर्षत् ॥८॥ समेति ॥ अथ धनुरास्फालनानन्तरं तरस्त्री बलवान्स चैद्यः समकालमिवेत्युत्प्रेक्षा । अत्यन्तसंयोगे द्वितीया । अभिलक्षणीया दृश्या ग्रहो ग्रहणं संधानं मौर्या योजनं विकर्षणमाकर्षणमपवर्गो मोक्षश्च येषां तैः शरैः साभिसरं सानुचरमुपेन्द्रं हरिं तिरस्कर्तुमाच्छादयितुमभ्यवर्षत् ॥ ऋजुताफलशुद्धियोगभाजां गुरुपक्षाश्रयिणां शिलीमुखानाम् । गुणिना नतिमागतेन संधिः सह चापेन समञ्जसो बभूव ॥९॥ १ 'चिरसंचितया' इति पाठः.