________________
कविवंशवर्णनम् । फले मोहादुदाहुरिव वामनः ॥' इति । किंलक्षणं काव्यम् । श्रीशब्दरम्यकृतसर्गसमाप्तिलक्ष्म । श्रीरित्ययं शब्दो ध्वनिर्मङ्गलवाचकत्वात् तेन रम्यं कृतं मनोहरं विहितं सर्गाणां समाप्तौ अर्थादध्यायानां समापने लक्ष्म चिह्नं यत्र तत्तथो. कम् । अपरं किंलक्षणं काव्यम् । लक्ष्मीपतेः श्रीनारायणस्य कीर्तनमात्रचारु कीर्तनमात्रेण वर्णमात्रेण चारु मनोज्ञम् । न त्वलंकारादिनेत्यनौद्धत्यकथनम् । भङ्गया तु सर्वेऽत्र काव्ये गुणाः सन्तीत्युक्तं भवति । श्रीरित्ययं शब्दः । मयूरव्यंसकादित्वात्समासः । यदि श्रीश्चासौ शब्दश्चेति कर्मधारयः केवलमेव । चरितकीर्तनमात्रमित्यस्खपदेन विग्रहः । सुप्सुपेति समासः। वसन्ततिलकावृत्तम् । उदात्तो मध्यमोऽलंकारः ॥
इति कविवंशवर्णनम् ।
समाप्तम्।