________________
४९८
शिशुपालवधे पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः । अन्तो नाशो द्वयोर्मृत्युमरणं निधनोऽस्त्रियाम् ॥' इत्यमरः । पाञ्चभौतिकस्य शरीरस्य पञ्चधाभावः पञ्चता । अत्र स्पर्धेति हेतोरुत्प्रेक्षणाद्धेतूत्प्रेक्षा । सा च व्यञ्जकाप्रयोगाद्गम्या। स्पर्धयेवेत्यर्थः ॥
॥समुद्गः॥ सदैव संपन्नवपू रणेषु स दैवसंपन्नवपूरणेषु । महो दधे स्तारिमहानितान्तं महोदधेऽस्तारिमहा नितान्तम् ११८
सदेति ॥ सदैव सर्वदैव संपन्नं सर्वलक्षणसमग्रं वपुर्यस्य स संपन्नवपुः । नित्यपरिपूर्णमूर्तिः । संहितायां 'ढलोपे पूर्वस्य दीर्घोऽणः' । अस्तं निरस्तमरीणां महस्तेजो येनासौ अस्तारिमहाः महानधिकः स हरिः दैवसंपत् भाग्यसंपत्तिः सैव नवं पूरणं प्रत्ययसाधनं येषां तेषु दैवसंपन्नवपूरणेषु देवसहायेषु रणेषु महोदधेर्महार्णवस्य इतान्तं प्राप्तपारं समुद्रपारगामि नितान्तं स्तारि विस्तीर्ण महस्तेजो दधे धारयामास । अर्धाभ्यासलक्षणसमुद्यमकभेदः 'अर्धाभ्यासः समुद्गः स्यादस्य भेदास्त्रयो मताः' इत्युक्तं दण्डिना । उपेन्द्रवज्रा वृत्तम् ॥ इष्टं कृत्वार्थ पत्रिणः शापाणे
रेत्याधोमुख्यं प्राविशन्भूमिमाशु । शुद्धायुक्तानां वैरिवर्गस्य मध्ये
___ भर्ता क्षिप्तानामेतदेवानुरूपम् ॥ ११९ ॥ इष्टमिति ॥ शाङ्ग पाणौ यस्य शाङ्गपाणेः कृष्णस्य । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति पाणेः परनिपातः । पत्रिणो बाणाः इष्टमर्थ शत्रुवधात्मकं कृत्वा आधोमुख्यमधोमुखत्वमेत्य प्राप्य आशु भूमिमाविशन् शुद्ध्या लोहशुद्ध्या पवित्रतया च युक्तानां तथापि भ; स्वामिना वैरिवर्गस्य मध्ये क्षिप्तानां पातितानाम् , एतदेव अधोमुख्येन क्वचिन्निलयनमेव वानुरूपमुचितम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः । जागतं वैश्वदेवीवृत्तम् । 'पञ्चा. श्वैश्छिन्ना वैश्वदेवी ममौ यौ' इति लक्षणात् ॥
॥चक्रवन्धः ॥ सत्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो
लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिच्दा । मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरेरेकौघैः समकालमभ्रमुदयी रोपैस्तदा तस्तरे ॥ १२० ॥ इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्यङ्के
एकोनविंशतितमः सर्गः ॥ ५९॥