________________
एकोनविंशः सर्गः।
द्विषां तद्योषितां चात्रैः शोणितैः श्लेषमूलाभेदातिशयोक्तिमहिना अत्ररूपतुल्यधर्मयोगित्वात्तुल्ययोगितेत्यङ्गाङ्गिभावेनैषां संकरः ॥
॥ अर्थत्रयवाची ॥ सदामदबलप्रायः समुद्धृतरसो बभौ ।
प्रतीतविक्रमः श्रीमान्हरिहरिरिवापरः ॥ ११६ ॥ सदेति ॥ सदा मदो यस्य स सदामदः नित्यमत्तस्तं बलं बलभद्रं प्रीणानीति सदामदबलप्रायः । परत्वात्कर्मण्यणप्रत्ययः । समुद्धृता रसा भूर्येन स समुद्धृतरसः । प्रतीताः प्रसिद्धा विक्रमाः पादन्यासा यस्य सः । त्रिविक्रम इत्यर्थः । श्रीमान् रमापतिः हरिः कृष्णोऽपरोऽन्यो हरिरिन्द्र इव बभौ । सोऽपि सतामामदो दुःखदो यो बलासुरस्तस्य प्रायो नाशस्तं करोतीति सदामदबल. प्रायः । 'तत्करोति-' इति ण्यन्तात्पचाद्यच् । समुद्धृतरसः अमृतपानेन सम्यगपहृतविषः। 'शृङ्गारादौ विषे वीर्ये द्रवे रागे गुणे रसः' इत्यमरः । प्रतीतविक्रमः प्रसिद्धपराक्रमः श्रीमान्स्वाराज्यलक्ष्मीयुक्तः । तथा परोऽन्यो हरिः सूर्य इव बभौ । सोऽपि आमं रोगं द्यति खण्डयतीत्यामदः । बलं पृणातीति बलप्रः । मूलविभुजादित्वात्कः । सतां भक्तानामामदो बलप्रश्च अय उदयो यस्य स सदा मदबलप्रायः। स्वोदयेन सतामारोग्यबलकारीत्यर्थः। 'उद्यन्नद्य-' इत्यादिश्रुते. रिति भावः । समुद्धृतरसः धर्मकालसंशोषितसलिलः। प्रतीतविक्रमः प्रसिद्धः खगगतिः । 'यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिना कपिले त्रिषु ॥' इत्यमरः। तदेवमुपमानयोरुपमेये चार्थत्रयवचनादर्थत्रय वाच्येषु चित्रभेदः । एतावदेव कवेर्विवक्षितमतोऽन्यत्सुवाच्यं चोपेक्ष्यमेव । अत्रापरो हरिरिवेत्यपरशब्दप्रयोगादुत्प्रेक्षेयं नोपमा।अपरस्येन्द्रस्यार्कस्य वाऽप्रसिद्ध प्रसिद्धसादृश्यवर्णनमुपमा । प्रसिद्धताद्रप्यारोपे रूपकम् । प्रसिद्धताद्रूप्यभावनमुत्प्रेक्षा । अत एव लक्षयन्ति । अप्रकृतगुणक्रियाविसंधानादप्रकृतत्वेन प्रकृतसंभावनमुत्प्रेक्षेति । तस्मादपरशब्देन प्रकृतस्याप्रकृतत्वाध्यवसायप्रतीतेरिवशब्देन तस्य साध्यत्वप्रतीतेरुत्प्रेक्षैवेति सर्वस्वकारः । तस्मादिवशब्दमात्रप्रयोग एवोपमा । अपरशब्दमात्रप्रयोगेऽतिशयोक्तिः । उभयोः प्रयोगे तूत्प्रेक्षैवेति विवेकः । अत एवात्रानेकार्थवर्णनव्यवसायिभिरपरशब्दस्यान्यार्थताव्यतिरेकेणार्थान्तरकल्पनापि नालंकारिकाणां पन्थाः । श्लेषश्चात्रोत्प्रेक्षाबीजभूतसाधर्म्यनिर्वाहमात्रोपक्षीणतया तदङ्गमिति संकर इत्यलमतिप्रसक्त्या ॥
द्विधा त्रिधा चतुर्धा च तमेकमपि शत्रवः ।
पश्यन्तः स्पर्धया सद्यः स्वयं पञ्चत्वमाययुः ॥ ११७ ॥ द्विधेति ॥ शत्रवः एकमपि तं हरिं द्विधा द्वित्वेन त्रिधा त्रित्वेन चतुर्धा चतुष्वेन पश्यन्तः भयात्तथा भ्राम्यन्त इत्यर्थः । स्पर्धया मत्सरेण सद्यः स्वयं पञ्चत्वं पञ्चधाभावं मरणं चाययुः । मत्सरिणस्तदधिकमाचरन्तीति भावः । 'स्था