________________
विंशः सर्गः ।
४९९.
सत्त्वमिति ॥ भव्यः कल्याणमूर्तिः लब्धोऽघक्षयः शुद्धिश्च येन स लब्धाक्षयशुद्धिः श्रीवत्सस्य लाञ्छन विशेषस्य भूमिर्वक्षः सा उद्धुरतरा उन्नततरा यस्य स उद्धुरतर श्रीवत्सभूमिः काममपास्तभीः निर्भीकः परे शत्रवस्त एव मृगास्तेषां व्याधः मृगयुरित्यश्लिष्टरूपकम् । व्याधो मृगवधाजीवो मृगयुलुंडधकोsपि च' इत्यमरः । उदयी नित्याभ्युदयवान् । नित्ययोगे मत्वर्थीयः । स्त्र हरिः पुरः पूर्व आजिरभसाद्रणरागात् मानविशिष्टमहंकारोद्धुरं सत्वं बलमालब्यास्थाय मुदा उत्साहेन हरेः सिंहस्य नादं मुक्त्वा । सिंहनादं कृत्वेत्यर्थः । समकालमेककालम् । अत्यन्तसंयोगे द्वितीया । एक ओघो येषां तैरेकोधः एकप्रहारै रोपैरिषुभिरभ्रमाकाशं तदा तस्मिन्काले आतस्तरे आच्छादयामास । 'ऋच्छत्यृताम्' इति गुणः । चक्रबन्धाख्यश्चित्रविशेषोऽलंकारः पूर्वोक्तरूपकेण संसृज्यते । चक्रबन्धोद्धारस्तु - दशमण्डलरे खात्मके नवमखण्डान्तरालवति चक्रे नाभिस्थानेन सहैकोनविंशतिकोष्ठं प्रत्येकं यक्षगतं पक्तित्रयं समरेखया लिखित्वा तत्रैकस्यां पङ्कौ वामपार्श्वप्रक्रमेण आद्यपादमालिख्य तथा प्रादक्षिण्येन द्वितीय * तृतीययोर्द्वतीयतृतीय लिखित्वा नेमिस्थाने बाह्यवलये साक्षरकोष्टषट्ङ्केन सहाटादशकोष्ठवति तृतीयपादान्तकोष्ठवर्तिवर्णमारभ्य प्रादक्षिण्येन चतुर्थपाद लिखित्वा तत्रैव समापयेत् । तत्र तत्राद्यन्तवर्णैः सह चतुर्थपादोद्धारः । तत्र नाभिस्थाने आद्यपादत्रयदशमाक्षरसंवादः । तृतीयान्तकोष्ठे चतुर्थाद्यन्तवर्णयोः संवादः । तृतीयवलये 'माघकाव्यमिदं' षष्ठे 'शिशुपालवधः' इति कविकाव्यनामोद्धारः । शार्दूलविक्रीडितं वृत्तम् ॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां शिशुपालवधकाव्यव्याख्यायां सर्वकषाख्यायां एकोनविंशतितमः सर्गः ॥ १९ ॥
विंशः सर्गः ।
अथ हरिशिशुपालयोर्युद्धं वर्णयितुमुपोद्वातं करोतिमुखमुल्लसितत्रिरेखमुच्चैर्भिदुर श्रूयुगभीषणं दधानः । समिताविति विक्रमानमृष्यन्गतभीराह्वत चेदिराम्मुरारिम् ॥ १ ॥
मुखमिति ॥ इतीरथं समितावाजी । 'समित्या जिसमिथुधः' इत्यमरः । विक्रमान्मुरारेः पराक्रमान् अमृष्यन्नसहमान: अत एव तिस्रो रेखात्रिरेखाः । 'दिक्संख्ये संज्ञायाम्' इति समासः । ता उल्लसिताः क्रोधादुद्भूता यस्मिंस्तदुलसि - तत्रिलेखम् । क्वचित् 'त्रिलोकम्' इत्यपि पाठः । तथा भिदुरेण ग्रन्थिलेन भ्रूयुगेन भीषणं भयंकरं उच्चैरुन्नतं मुखं दधानः चेदिषु राजत इति चेदिराट् । संपदादि