________________
॥ श्रीः॥ श्रीमन्माघकविप्रणीतं
शिशुपालवधम्। मल्लिनाथकृतया सर्वंकषाव्याख्यया समेतम् ।
प्रथमः सर्गः। इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् ।
वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् । दन्ताञ्चलेन धरणीतलमुन्नमय्य पातालकेलिषु वृतादिवराहलीलम् । उल्लाघनोत्फणफणाधरगीयमानक्रीडावदानमिभराजमुखं नमामः ॥
शारदा शारदाम्भोजवदना वदनाम्बुजे। .
सर्वदा सर्वदास्माकं संनिधिं संनिधिं क्रियात् ॥ वाणी काणभुजीमजीगणदवाशासीच वैयासिकी
मन्तस्तन्त्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत् । वाचामाचकलद्रहस्यमखिलं यश्चाक्षपादस्फुरां लोकेऽभूधदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ॥ मल्लिनाथः सुधीः सोऽयं महोपाध्यायशब्दभाक् । विधत्ते माघकाव्यस्य व्याख्या सर्वकषाभिधाम् ॥ ये शब्दार्थपरीक्षणप्रणयिनो ये वा गुणालंक्रिया
शिक्षाकौतुकिनो विहर्तुमनसो ये च ध्वनेरध्वनि । क्षुभ्यद्भावतरङ्गिते रससुधापूरे मिमङ्क्षन्ति ये
तेषामेव कृते करोमि विवृतिं माघस्य सर्वकषाम् ॥ नेतास्मिन्यदुनन्दनः स भगवान्वीरः प्रधानो रसः
शृङ्गारादिभिरङ्गवान्विजयते पूर्णा पुनर्वर्णना। इन्द्रप्रस्थगमाधुपायविषयश्चैद्यावसादः फलं धन्यो माघकविर्वयं तु कृतिनस्तत्सूक्तिसंसेवनात् ॥
इहान्वयमुखेनैव सर्व व्याख्यायते मया । ... नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥ .. अथ तत्रभवान्माघकविः 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इत्यालंकारिकवचनप्रामाण्यात्का