________________
द्वादशः सर्गः। २८९
द्वादशः सर्गः। एवं प्रभातं वर्णयित्वा भगवतः प्राभातिकप्रस्थानवर्णनाय प्रक्रमतेइत्थं स्थाश्वेभनिपादिनां प्रगे गणो नृपाणामथ तोरणाद्वहिः । प्रस्थानकालक्षमवेपकल्पनाकृतक्षणक्षेपमुदैवताच्युतम् ॥ १॥
इत्थमिति ॥ इत्थंभूते । पूर्वसर्गोक्तविध इत्यर्थः । प्रगे प्रातःकाले । 'सायं साये प्रगे प्रातः' इत्यव्ययेप्वमरः। अथ सूर्योदयानन्तरं रथाश्वेभे निषीदन्तीति रथाश्वेभनिपादिनाम् । रथेषु अश्वेपु इभेषु च स्थितानामित्यर्थः । नृपाणां गणः । तोरणाद्भगवतो बाह्यद्वाराद्वहिः । 'अपपरिबहिरञ्चवः पञ्चम्या' इति पञ्चमीसमासविधानाज्ज्ञापकात्पञ्चमी । 'तोरणोऽस्त्री बहिरम्' इत्यमरः । प्रस्थानकाले प्रयाणकाले क्षम उचितो वेप आकल्पः । 'आकल्पवेषौ नेपथ्यम्' इत्यमरः । तस्य कल्पनया संपादनेन कृतः क्षणक्षेपः क्षणविलम्बो येन तमच्युतं हरिमुर्दक्षत । प्रतीक्षितवानित्यर्थः । अत्राच्युतविलम्बस्य विशेषणगत्या प्रतीक्षणहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः । अस्मिन्सर्गे विषमपादयोर्जागतमिन्द्रवंशा वृत्तम् । 'स्यादिन्द्रवंशा ततजैरसंयुतैः' इति लक्षणात् । समपादयोस्तु जागतमेव वंशस्थं वृत्तम् । 'जतौ तु वंशस्थमुदीरितं जरी' इति लक्षणात् । तदेवमुभयमेलनादुपजातिभेदोऽयम् । अत एव त्रिष्टुविन्द्रवज्रोपेन्द्रवज्रालक्षणानन्तरम् 'अनन्तरोदारितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इत्युक्त्वोक्तम् । 'इत्थं किलान्यास्वपि मिश्रितासु वदन्ति जातिविदमेव नाम' इति ॥ वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः । आरुह्य ताय नभसीव भूतले ययावनुद्वातसुखेन सोऽध्वना ॥२॥
स्वक्षमिति ॥ स हरिः शोभनोऽक्षश्चक्रधारणदारुभेदो यस्य तं स्वक्षम् । 'स्यादक्षश्चक्रधारणः' इति वैजयन्ती । अन्यत्र शोभनेन्द्रियम् । 'अथाक्षमिन्द्रियम्' इत्यमरः । सुपत्रं शोभनं पत्रं वाहनं यस्य तम् । स्वश्वमित्यर्थः । अन्यत्र सुपक्षम् । ‘पत्रं वाहनपक्षयोः' इत्यमरः । कनकोज्वलद्युतिं कनकरचनावन्तम् । अन्यत्र कनकवदुज्वलद्युतिं कनकवर्णम् । जवेन नागान्गजानुरगांश्च जितवन्तम् । ततोऽधिकवेगमित्यर्थः । अन्यत्र नागान्तकमित्यर्थः । उच्चकैरुन्नतं ताय रथं गरुडं च । 'तायः स्यादश्वकर्णाख्यवृक्षे रथतुरंगयोः । ताक्ष्यं रसाञ्जने ताक्ष्यों गरुडे गरुडायजे ॥ इति विश्वः । आरुह्य नभसीव भूतलेऽनुदातेनाप्रतिघातेन सुखः सुगमस्तेनाध्वना ययौ गरुडमारुह्य नभसीव स्थमारुह्य भूतलेऽप्यप्रतिहतं ययौ । गरुडवदेव तद्थस्यापि सर्वत्राप्रतिहतगतित्वादित्यर्थः । नायं श्लेपः प्रकृताम्रकृतवादेऽपि तायमिति विशेष्यश्लेषायोगादन्यत्राप्रसङ्गाच्च श्लेषसंकीर्णेयमुपमा ॥ हस्तस्थिताखण्डितचक्रशालिनं द्विजेन्द्रकान्तं श्रितवक्षसं श्रिया । सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्वयासिषुः॥३॥
शिशु० २५