________________
चतुर्दशः सर्गः।
३३९. पुरोनुवाक्यायामनूक्तायां तत्प्रकाशितदेवतोद्देशेनाध्वर्युहातृपठितयाज्यान्ते वष. दकारेण सोमादिकं हविरग्नावत्याक्षीदित्यर्थः । स्वभावोक्तिरलंकारः ॥
सप्तभेदकरकल्पितस्वरं साम सामविदसङ्गमुजगौ । तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीपत ॥ २१ ॥
सप्तेति ॥ तत्र ऋतौ । सामानि वेत्तीति सामविदुगाता सप्तभेदं सप्तप्रकार यथा तथा करेण हस्तेन कल्पिताः संपादिताः स्वरा निषादादयो यस्य तत् । करविन्यासभेदादिभिय॑ञ्जितसप्तस्वरमित्यर्थः । 'निषादर्षभगान्धारषडमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त' इत्यमरः । यद्वा स्वराः कष्टादयः । कष्टः प्रथमो द्वितीयो मन्दो नीच इत्यादयः। साम बृहद्रथन्तरादिकमसङ्गमस्खलितमुजगावुदगायत् । किंच सूनृतगिरः प्रियसत्यवाचः । 'प्रियं सत्यं च सूनृतम्' इत्यमरः । सूरयो विद्वांसो होत्राध्वर्वादयः पुण्यं श्रेयस्करम् । ऋचश्च यजूंषि च तत् ऋग्यजुषमग्निमीळे इषेत्वा इत्यादिकम् । द्वन्द्वैकवद्भावः 'अचतुर-' इत्यादिना द्वन्द्वे समासान्तनिपातः। अध्यगीषत । इङो लुङि 'विभाषा लुङ्लुङोः' इति गाङादेशपक्षे 'गाङ् कुटादि-' इति सिचः कित्त्वे 'घुमास्था-' इत्यादिना ईत्वम् । अत्र सामसामेत्यादी वृत्त्यनुप्रासभेदो द्रष्टव्यः ॥
बद्धदर्भमयकाश्चिदामया वीक्षितानि यजमानजायया । शुष्मणि प्रणयनादिसंस्कृते तैर्हवींपि जुहवांवभूविरे ॥ २२ ॥ बद्धेति ॥ बद्धं दर्भमयं दर्भविकारं काञ्चिदाम रशनागुणो यस्यास्तस्याः । आग्नीध्रसंनद्धयेत्यर्थः । 'आशासाना सौमनसमित्युत्तरेण गार्हपत्यमूर्ध्वजुमासीनां पत्नी संनह्य तिष्ठन्तीं वाचयतीत्येके, मौओन दाम्नान्यतरतःपाशेन योक्रेण च' इत्यापस्तम्बवचनात् । दामेति 'डाबुभाभ्यामन्यतरस्याम्' इति डाप्प्र. त्ययः। यजमानो यष्टा। 'पूयजोः शानन्' इति यजेः शानन्प्रत्ययः। तस्य जायया पल्या वीक्षितानि दृष्टानि हवींष्याज्यादीनि । 'पत्यवेक्षते' इत्याज्यस्य पत्यवेक्षणसंस्कारविधानादर्थप्रधानत्वात्सर्वेषामाज्यादीनां प्राणभृन्यायेन वीक्षितत्वव्यपदेशः । प्रणयनं नाम गार्हपत्यादुद्धृत्य मन्त्रेणायतने सादनम् । आदिशब्दात्परिस्तरणपरिधानसमार्गादिसंस्कारसंग्रहः । तैः प्रणयनादिभिः संस्कृते आहितातिशये शुप्मण्यग्नौ । 'बर्हिः शुष्मा कृष्णवर्मा' इत्यमरः। अत्राप्याहवनीये जुहोतीति हूयमानेऽध्वयुः कर्ता । जुहूपात्रव्यापृतया स्रुवाहवनीयं प्रधानमिति न्यायवचनात् । तैः ऋत्विग्भिः जुहवांबभूविरे । जुहोतेः कर्मणि लिट् 'भीहीभृहवाम्-' इति विकल्पादाम्प्रत्ययः । अत्र विषयस्य योक्रस्यानुपादानेन विषयिणः काञ्चीगुणस्यैव तदभेदेन निर्देशाङेदेऽभेदरूपातिशयोक्तेरनुप्रासेन संकरः ॥ नाञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे । तत्र कर्मणि विपर्यणीनमन्मन्त्रमूहकुशलाः प्रयोगिणः॥२३॥