________________
तृतीयः सर्गः।
महिम्ना वाच्यायाः शोभायाः प्रतीयमानायाः श्रीदेव्या सहाभेदाध्यवसायादियमन्यैव लक्ष्मीरित्यभेदे भेदरूपातिशयोक्तिरलंकारः ॥ अथैनमेवार्थ भङ्ग्यन्तरेणाहकपाटविस्तीर्णमनोरमोरःस्थलस्थितश्रीललनस्य तस्य । आनन्दिताशेषजना बभूव सर्वाङ्गसङ्गिन्यपरैव लक्ष्मीः ॥१३॥ कपाटेति ॥ कपाटवद्विस्तीर्णे मनोरमे चोरःस्थले स्थिता श्रीरिति ललना कान्ता यस्य तस्य हरेरानन्दिताशेषजना सर्वाङ्गसङ्गिनी सकलदेहव्यापिनी अत एवापरैवासाधारण्येव श्रीदेव्या अन्यैव लक्ष्मीः शोभा, रमा च बभूव । स एवालंकारः । प्रायेणैकार्थमप्यनेकं श्लोकमुक्तिविशेषलाभाल्लिखन्ति कवयः। तथाहि नैषधे-आदावेव निपीयेत्यादि श्लोकद्वयं, तथा स्वकेलिलेशेत्यादि श्लोकद्वयं चेति ॥ अथ देवीसहचरस्यैवास्य यात्रेति सूचयन्प्रसाधनविधेः फलमाहप्राणच्छिदा दैत्यपतेर्नखानामुपेयुषां भूषणतां क्षतेन । प्रकाशकार्कश्यगुणौ दधानाः स्तनौ तरुण्यः परिवत्रुरेनम्॥१४॥ प्राणेति ॥ भूषणतामुपेयुषाम् नतु प्रहरणवतामिति भावः । दैत्यपतेः हिरण्यकशिपोः प्राणच्छिदां प्राणमुषां प्राणापहारिणाम् । वज्रादपि कठोराणामित्यर्थः । नखानां क्षतेन व्रणेन प्रकाशो व्यक्तः कार्कश्यमेव गुणो ययोस्तौ स्तनौ । स्तनानित्यर्थः । जातावेकवचने प्राप्ते जातिभूयस्सु स्तनादिषु जातेर्द्वित्वविशिष्टत्वाविवचनम् । यथाह वामनः-स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेण' इति । दधानास्तरुण्यो युवतयः । 'वयसि प्रथमे' इति डीए । एनं हरिं परिवत्रुः । अत्र हरिनखानां नरहरिनखभेदेऽप्यभेदोक्त्या स्तनयोश्च तादृक्काठिन्यासंबन्धेऽपि तत्संबन्धोक्त्यतिशयोक्ती तयोश्च सापेक्षत्वात्संकरः॥
आकर्षतेवोर्ध्वमतिक्रशीयानत्युन्नतत्वात्कुचमण्डलेन । ननाम मध्योऽतिगुरुत्वभाजा नितान्तमाकान्त इवाङ्गनानां १५
आकर्षतेति ॥ अत्युन्नतत्वाद्धेतोः ऊर्ध्वमाकर्पतेव नमन्तम् । मध्यमुन्नमयतेव स्थितेनेत्युत्प्रेक्षा । अतिगुरुत्वमतिभारत्वम्, अतिप्रवृद्धत्वं च भजतीति भाक् । 'भजो ण्विः' । तेनाङ्गनानां कुचमण्डलेनातिक्रशीयानत्यन्तकृशतरः तनीयान्, क्षीणश्च । 'र ऋतो हलादेर्लघोः' इति रेफादेशः । मध्यो नितान्तमा. क्रान्तः पीडित इव ननाम नतः, प्रणतश्च । अत्र मध्यकुचमण्डलयोर्विशेषणसाम्यादरिविजिगीपुराजप्रतीतेः समासोक्तिः । तथा वाच्ययोः प्रतीयमानाभेदे. नाक्रमणक्रियाकर्मकर्तृभावसंभावितेयं नभस्याक्रमणहेतुकत्वोत्प्रेक्षेत्यनयोः संकरः । उत्प्रेक्षयोस्तु नैरपेक्ष्यादसंसृष्टिरेवेति विवेकः ॥
१'दैत्याधिपप्राणमुपां नखानाम्' इति पाठः.