________________
शिशुपालवधे
अथासारतया जलशोषानिःसारतया मषीभवन्तः अम्बुवाहाः पुनः स्वमाकारं नीलरूपमवापुः । अत्र मेघानां मषीभावाद्यसंबन्धेऽपि संबन्धोक्तरतिशयोक्तिः ॥ ज्वलितानललोलपल्लवान्ताः स्फुरदष्टापदपत्रपीतभासः । क्षणमात्रभवामभावकाले सुतरामापुरिवायतिं पताकाः॥६४॥
ज्वलितेति ॥ ज्वलितेन प्रज्वलता अनलेन अनलतापेन लोलाः पल्लवान्ता अञ्चलायाणि यासां ताः स्फुरद्भिर्दीप्यमानैरष्टापदपत्रैः कनकरचनाभिः पीत. भासः पिङ्गलवर्णाः पताका वैजयन्त्यः अभावकाले विनाशकाले क्षणमात्रभवां क्षणमात्रभाविनीम् । क्षणमात्रस्थायिनीमित्यर्थः । आयतिं दैर्घ्यं सुतरामापुरि. त्यर्थः । प्रदीपवदिति भावः । अष्टसु लोहेषु पदमस्येत्यष्टापदम्। 'अष्टनः संज्ञायाम्' इति दीर्घः । 'रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्' इत्यमरः ॥ निखिलामिति कुर्वतश्चिराय द्रुतचामीकरचारुतामिव द्याम् । प्रतिघातसमर्थमस्त्रमग्नेरथ मेघंकरमसरन्मुरारिः॥६५॥
निखिलामिति ॥ अथानन्तरं मुरारिः इतीत्थं निखिला द्यामाकाशं द्रुतचामीकरचारुतां प्रतप्तहेमकर्बुरामिवेत्युत्प्रेक्षा चारुतामित्यत्र । चिराय कुर्व. तोऽग्नेः प्रतिघातसमर्थ प्रशमनक्षमं मेघान्करोतीति मेघंकर मेघजननम् । 'मेघतिभयेषु कृजः' इति खलप्रत्ययः । 'अरुर्दिषदजन्तस्य मुम्' इति मुमागमः । अस्त्रं वारुणास्त्रमस्सरद्दध्यौ आजहार ॥ चतुरम्बुधिगर्भधीरकुक्षेर्वपुषः संधिषु लीनसर्वसिन्धोः। उदगुः सलिलात्मनस्त्रिधानो जलवाहावलयः शिरोरुहेभ्यः॥६६॥
चतुरिति ॥ चत्वारोऽम्बुधय एव गर्भास्ते धीरो गम्भीरः कुक्षियस्य तस्य वपुषः संधिषु लीनाः सर्वाः सिन्धवो नद्यो यस्य तस्य सलिलात्मनस्तोयात्मकस्य त्रीणि धामानि स्थानानि भूरादीनि सत्वादीनि वा यस्य तस्य विधाम्नो हरेः शिरोरुहेभ्यो जलवाहावलयः मेघपरम्परा उदगुरुद्धभूवुः । 'इणो गा लुङि' इति गादेशे 'गातिस्था-' इत्यादिना सिचो लुक् । 'यस्य केशेषु जीमूता नद्यः सर्वाङ्गसंधिषु । कुक्षौ समुद्राश्चत्वारस्तस्मै तोयात्मने नमः ॥' इत्यागमोक्तं प्रमाणमिति भावः ॥ ककुभः कृतनादमास्तृणन्तस्तिरयन्तः पटलानि भानुभासाम् । उदनंसिपुरभ्रमभ्रसङ्घाः सपदि श्यामलिमानमानयन्तः ॥६७॥
ककुभ इति ॥ कृतनादं कृतगर्जारावं यथा तथा ककुभ आस्तृणन्त आच्छादयन्तः । स्तृणातेर्लटः शत्रादेशः 'श्नाभ्यस्तयोः-' इत्यकारलोपः । भानुभासामकांशूनां पटलानि तिरयन्तस्तिरस्कुर्वन्तः । तिरःशब्दात् 'तत्करोति' इति ण्यन्तालटः शत्रादेशः । णाविष्ठबद्भावाहिलोपः। अश्रमाकाशं ग्रामलिसानमानयन्तः श्यामलत्वं प्रापयन्तः अभ्रसङ्घा मेघौघाः सपदि सद्य उदनंसिपुरुत्पेतुः । उत्पूर्वान्न