________________
शिशुपालवधे
प्रफुल्लेति ॥ प्रफुल्लतीति प्रफुलं विकसितम् । 'फुल्ल विकसने' इति धातोः पचाद्यजन्तम् । फलेर्निष्टायाम् 'अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः' इति निपातनात्प्रफुलमित्येवेति क्षीरस्वामी । तापिच्छस्य तमालस्य पुष्पं तापिच्छम् । 'फले लुक्' इति तद्धितलुक् । ‘द्विहीनं प्रसवे सर्वम्' इति नपुंसकत्वम् । 'कालस्कन्धस्तमालः स्यात्तापिच्छोऽपि' इत्यमरः । तेन सदृशैः प्रफुल्लतापिच्छनिभैः । नित्यसमा - सत्वादस्वपद विग्रहः । अतएव ' स्युरुत्तरपदे त्वमी' इति, 'निभसंकाशनीकाशप्रतीकाशोपमादयः' इत्यमरः । सप्त छदाः पर्णानि पर्वसु यस्येति सप्तच्छदो वृक्षभेदः । ' सप्तपर्णो विशालत्वक्शारदो विषमच्छदः' इत्यमरः । संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवदित्युक्तं भाष्ये । शेषं तापिच्छवत् । तस्य पुष्पाणि सप्तच्छदानि तेषां पांसुवत्पाण्डुभिः शुभैरभीषुभिरन्योन्यरश्मिभिः 'अभीपुः प्रग्रहे रश्मौ' इति शाश्वतः । परस्परेण छुरिते रूषितेऽमले छवी अन्योन्यकान्ती ययोस्तौ । छन्योरभीषूणामवयवावयविभावाद्भेद निर्देशः । तौ हरिनारदौ तदैकवर्णाविव बभूवतुः । उभयप्रभामेलनादुभयोरपि सर्वाङ्गीणो गङ्गायमुनासंगम इव स्फटिकेन्द्रनीलमणिप्रभामेलनप्रायः कश्चिदेको वर्णः प्रादुर्बभूव तन्निमित्ता चेयमनयोरेवर्णत्वोत्प्रेक्षा ॥
1
१०
युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकासमासत । तनौ मुस्तत्र न कैटभद्विपस्तपोधनाभ्यागमसंभवा मुदः ॥ २३ ॥
युगान्तेति ॥ युगान्तकाले प्रतिसंहृतात्मनः आत्मन्युपसंहृता आत्मानो जीवा येन तस्य कैटभद्विषो हरेर्यस्यां तनौ जगन्ति सविकास सविस्तरमासता'तिष्ठन् । 'आस उपवेशने' लङ् । तत्र तनौ देहे तपोधनाभ्यागमेन संभवन्तीति संभवाः संभूताः । पचाद्यच् । मुदः संतोषा न ममुः । अतिरिच्यन्ते स्मेत्यर्थः । चतुर्दशभुवनभरणपर्याप्ते वपुषि अन्तर्न मान्तीति कविप्रौढोक्तिसिद्धातिशयेन स्वतः सिद्धस्याभेदेनाध्यवसितातिशयोक्तिः, सा च मुद्रामन्तः संबन्धेऽप्यसंबन्धोक्त्या संबन्धासंबन्धरूपा ॥ निदाघधामानमिवाधिदीधितिं मुदां विकासं मुनिमभ्युपेयुषी । विलोचने विभ्रधिश्रितश्रिणी स पुण्डरीकाक्ष इति स्फुटोऽभवत् ।।
1
निदाघेति ॥ निदाघमुष्णं धाम किरणा यस्य तथोक्तम् । 'निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि' इति विश्वः । अर्कमिवाधिदीधितिमधिकतेजसं मुनि - मभिलक्ष्य । 'अभिरभागे' इति लक्षणे कर्मप्रवचनीयसंज्ञा 'कर्मप्रवचनीययुक्ते द्वितीया' । मुदा विकास मुपेयुषी उपगते । वसुप्रत्ययान्तो निपातः । अतएवाधिश्रिता प्राप्ता श्रीर्याभ्यां ते तथोक्ते । 'इकोऽचि विभक्तौ' इति नुमागमः । विलो - चने बिभ्रत् । 'नाभ्यस्ताच्छतु:' इति नुमभावः । स हरिः पुण्डरीकाक्ष इत्येव स्फुटोऽभवत् । सूर्यसंनिधाने श्रीविकासभावादक्षणां पुण्डरीकसाधर्म्यात् । पुण्डरीके इवाक्षिणी यस्येत्यवयवार्थलाभे पुण्डरीकाक्ष इति व्यक्तम् । अन्वर्थसंज्ञो -