________________
२८५
एकादशः सर्गः। अवतमसेति ॥ अवतमसं तिमिरम् । 'अवसमन्धेभ्यस्तमसः' इति समासान्तः । यद्यपि 'क्षीणेऽवतमसं तमः' इत्युक्तं तथापीह विरोधाद्विशेषानादरेण सामान्यमेव ग्राह्यम् । तस्य भिदायै भेदाय । 'पिद्भिदादिभ्योऽङ्' । अभ्युद्गते. नाभ्युदितेनोद्यतेन च भास्वता सूर्येण दर्शनीयोऽप्युडुगणोऽसौ प्रसभं बलाद. पास्तः । तथाहि अमि निरसितुमिच्छोयें तदीयेनाश्रयेणाश्रयणेन श्रियं संपदं शोभां च । 'शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरपि गद्यते' इति विश्वः । अधिगतवन्तः प्राप्तवन्तम्तेऽपि हन्तव्यपक्षे वयकोटावेव । अरिवदरिपक्षा अपि वध्या एवेत्यर्थः । उड्डगणोऽपि तमसि शोभते अतस्तत्पक्ष इति भावः । सामान्येन विशेषसमर्थनरूपोऽशान्तरन्यासः॥
प्रतिफलति करोये संमुखावस्थितायां
रजतकटकभित्तो सान्द्रचन्द्रांशुगौर्याम् । बहिरभिहतमद्रेः संहतं कंदरान्त
र्गतमपि तिमिरौघं धर्मभानुर्भिनत्ति ॥ ५८ ॥ प्रतीति ॥ धर्मभानुरुष्णांशुः संमुखावस्थितायां सान्द्रचन्द्रांशुवद्गौर्यां धवलायामित्युपमा । 'पिौरादिभ्यश्च' इनि डीप । रजतकटकमेव भित्तिस्तस्यां करौघे स्वकिरणजाले प्रतिफलति सति अदेवहिरभिहतं कंदराणां दरीणामन्त. गतं संहतं निमिरोधमपि भिनत्ति । पुरोगतरजतभित्तिप्रतिहतस्य निजतेजसः कंदरान्तःप्रवेशादिति भावः । अत्र करौघस्यान्तःसंबन्धाभावेऽपि संबन्धोक्तेरतिशयोक्तिः ॥
बहिरपि विलसन्त्यः काममानिन्यिरे य
दिवसकररुचोऽन्तं ध्वान्तमन्तर्गृहेषु । नियतविपयवृत्तेरप्यनल्पप्रताप
क्षतसकल विपक्षस्तेजसः स स्वभावः ॥ ५९॥ वहिरिति ! बहिविलसन्त्योऽपि दिवसकररुचोऽर्कभासः अन्तर्गृहेषु गर्भा. गारेपु काम यथेष्टं ध्वान्तमन्तं नाशमानिन्यिर प्रापयामासुरिति यत् । नयतेढिकर्मकाकर्तरि लिट् । सोऽन्तर्गृहध्वान्तनिरासो नियतविषये नियतस्थाने वृत्तिर्यस्य तस्य । नियनदेशवर्तिनोऽपीत्यर्थः । 'नृतीयादिपु' इति पुंवद्भावः । तेजसोऽनल्पेन प्रतापेन स्वप्रकाशेन । स्वप्रभावेनैवेत्यर्थः । 'प्रतापौ पौरुषातपौ' इति वैजयन्ती । क्षतसकल विपक्षो निरस्तसमस्तप्रतिपक्षः स्वभावः। तेजस्विनामेप स्वभावो यत्प्रतापेनैव परोच्छेदनमतो युक्तमर्कभासामप्यन्तर्धान्तहरणमित्यर्थः । अत्र समर्थ्यसमर्थकयोः सामान्यविशेषाभावादर्थान्तरन्यासः ॥ चिरमतिरसलोल्याइन्धनं लम्भितानां
पुनरयमुदयाय प्राप्य धाम स्वमेव ।