________________
त्रयोदशः सर्गः।
३२१ रभसेन हारपददत्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः। परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः॥३२॥
रभसेनेति ॥ रभसेन त्वरया हारपदे मुक्तादामस्थाने वक्षसि दत्तकाञ्चयो न्यस्तरशनाः प्रतिमूर्धजं मूर्धजेषु केशेषु । विभक्त्यर्थेऽव्ययीभावः । विहिताः कर्णपूरकाः कर्णावतंसा याभिस्ताः । परिवर्तितं विपर्यासेन धृतमम्बरयुगं वाससी याभिस्ताः । परिधानीकृतमुत्तरीयं कुचांशुकं च जघने दत्तमित्यर्थः । वलयी. कृताः कंकणीकृताः श्रवणपूरकाः कुण्डलानि याभिस्ताः स्त्रियः समापतन्नधावन् । एतेन विभ्रमाख्या चेष्टोक्ता । 'विभ्रमस्त्वरया काले भूषास्थानविपर्यये' इति लक्षणात् । स च भ्रममूल इति भ्रान्तिमदलंकारो व्यज्यते ॥ व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन । द्रुतयावकैकपदचित्रितावनि पदवीं गतेव गिरिजा हरार्धताम् ॥३३॥
व्यतनोदिति ॥ काचन स्त्री रसवशेन हरिवीक्षणपारतत्र्येण । 'गुणे रागे द्रवे रसः' इत्यमरः । प्रसाधिकाया अलंकाः करपल्लवाच्चरणमपास्य असमा. तावेवाक्षिप्य । हरार्धतां हरस्यार्धाङ्गतां गता। अन्यथैकपादालक्तकासंभवादिति भावः । गिरिजा गौरीव । यावकेनालक्तकेन एकपदेन चित्रिता चित्रवर्णीकृता अवनिर्यस्यास्तां पदवीं व्यतनोदकरोत् । उपमालंकारः । एषां कुतूहलाख्या चेष्टा रसायनादिदृक्षाजनितचापलरूपत्वादिति ॥ व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः । भवनानि तुङ्गतपनीयसंक्रमक्रमणकणत्कनकनूपुराः स्त्रियः ॥३४॥ __ व्यचलन्निति ॥ विशङ्कटानां विशालानां कटीरकस्थलीनां कटिभागानां शिखरेप्वग्रेषु स्खलन्त्यो लुठन्त्योऽत एव मुखराः शब्दायमानास्ताभिर्मेखलाभिराकुलाः तुङ्गेपु तपनीयसंक्रमेपु कनकसोपानेषु क्रमणेन क्वणन्तः कनकनूपुरा यासां ताः स्त्रियः भवनानि हाणि व्यचलन् । तत्र गत्वारोहन्नित्यर्थः । चले. गत्याल्लङ् । एतदपि पूर्ववदतिकुतूहलमेव । वृत्त्यनुप्रासोऽलंकारः ॥ अधिरुक्ममन्दिरगवाक्षमुल्लसत्सुदृशो रराज मुरजिद्दिदृक्षया । वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थितमिवेन्दुमण्डलम् ॥३५॥
अधीति ॥ मुरजितो हरेर्दिदृक्षया द्रष्टुमिच्छया । दृशेः सन्नन्तान् ‘अप्रत्ययात्' इति स्त्रियामप्रत्यये टाप् । रुक्ममन्दिरस्य कनकहर्म्यस्य गवाक्षेऽधिरुक्ममन्दिरगवाक्षम् । विभक्त्यर्थेऽव्ययीभावः । उल्लसत्प्रकाशमानं सुदृशः स्त्रिया वदनारविन्दमुदयाद्रेः कन्दराया गुहाया विवरस्योदरे मध्ये स्थितमिन्दुमण्डलमिव रराजेत्युपमा । अत्रापि सुदृशो गवाक्षाक्रमणस्य रम्यदर्शनार्थचापलरूपत्वात्कुतूहलं मुरजिद्दिदृक्षयेत्यादिना व्यक्तमेव ॥