Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600100/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रेष्ठि- देवचन्द्र लालभाई - जैनपुस्तकोद्धारे - प्रन्थाङ्क: ३९. श्रीमद् — हरिभद्रसूरिविरचिता - आचार्य मलयगिरिप्रणीतया टीकया समलङ्कृता । धर्मसङ्ग्रहणिः । ( विभागः प्रथमः ) संशोधकः - विद्वद्वर्य श्रीमत्कल्याण विजयमानः प्रसेधिका - देवचन्द्र लालभाई जैनपुस्तकोद्धारभाण्डागार संस्था विख्यातिकारकः -- शाह नगीनभाई घेलाभाई - जव्हेरी, अस्यैकः कार्यवाहकः । इदं पुस्तकं मुम्बय्यां शाह नगीनभाई घेलाभाई जव्हेरी ४२६ जव्हेरी बाजार इत्यनेन 'निर्णयसागर ' मुद्रणास्पदे कोलभाटवीथ्यां २३ तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रापितं प्रकाशितं च । प्रथमसँस्कारे प्रतयः ५००.] अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागार कार्यवाहकाणामायत्ताः स्थापिताः । [ मोहमयीपत्तने. संवत् २४४३. विक्रमसंवत् १९७३. क्राइष्टस्य सन् १९१६. वेतनं १-८-० [ Rs.1-8-0] Page #2 -------------------------------------------------------------------------- ________________ [ All Rights Reserved by the Trustees of the Fund. ] Printed by Ramchandra Yesu Shedge at "Nirnaya-Sagar" Press, 23 Kolbhat Lane, Bombay. Published by Shah Naginbhai Ghelabhai Javeri, for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, at the Office of Sheth Devchand Lalbhai J. P. Fund, No. 426 Javeri Bazar, Bombay. For Private & Personel Use Only Page #3 -------------------------------------------------------------------------- ________________ Jain श्रेष्ठी देवचंद लालभाई जव्हेरी. For Privans & P जन्म १९०९ क्रमादे कार्तिकशुकादश्याम् 'सूर्यपुरे. Born 1853 A. D. Surat. The Late Sheth Devchand Lalbhai Javeri. निर्याणम् १९६२ वैक्रमाब्दे पौषकृष्ण तृतीयायाम् मुम्बय्याम्. Died 13th January 1906 A. D. Bombay. The Dombey Art Printing Works, Fort.. orary org Page #4 -------------------------------------------------------------------------- ________________ Page #5 -------------------------------------------------------------------------- ________________ श्रेष्ठिदेवचन्द लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्केश्रीमद-हरिभद्रसूरिविरचिता धर्मसङ्ग्रहणिः। आचार्यमलयगिरिप्रणीतया टीकया समलङ्कता । श्रीवीतरागाय नमः। यथास्थिताशेषपदार्थसार्थप्रकाशनं शासनमद्वितीयम् । कुतर्कसम्पर्कविमूढचित्तप्रवाद्यधृष्यं जयताजिनानाम् ॥१॥ ज्योतिर्ध्वस्ततमस्काण्डं, प्रकाण्डं वस्तुदेशिनाम् । बृहस्पत्यादिखद्योतोयोतमार्तण्डमण्डलम् ॥२॥ श्रीवर्द्धमानमानम्य, प्रमाणं तत्त्वनिर्णये । धर्मसङ्ग्रहणेष्टीकामहमाधातुमुत्सहे ॥३॥ (युग्मम् ) JainEdur धर्म. १ For Private & Personel Use Only ww.jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ | संग्रहणिः HWAGANGACARRORS-AA% अविघ्नेन शास्त्रपरिसमाप्त्यर्थमिष्टदेवतास्तवमभिधित्सुरादाविदमाह नमिऊण वीयरागं, सवन्नु तियसपूइयं विहिणा। जहणायवत्थुवादि, अचिंतसत्तिं महावीरं ॥१॥ सुहभावजियतित्थगरणामकम्मस्स सुहविवागातो। अणुवगियपरहियरयं तित्थगरमिमस्स तित्थस्स ॥ २ ॥ - नन्वविघ्नेन शास्त्रपरिसमाप्त्यर्थमिष्टदेवतास्तवाभिधानमित्ययुक्तं, स्तवविघ्नयोः शीतपावकयोरिव परस्परं विरोधा|सिद्धेः, तत्सिद्धौ च स्तवाभिधानतो विघ्नानामभावसिद्धिः, यथा शीतस्य पावकसद्भावतः, अन्यथा परस्परतः सकलवस्तूनामप्यभावापत्तेः । उच्यते-विघ्नो हि प्रागुपात्ताशुभकर्मविपाकोदयलक्षणः, तचाशुभं कर्म विशिष्टेष्टदेवतास्तवकरणतः प्रशस्तभावोपपत्त्या क्षयमुपपद्यते, ततो जलानलयोरिव स्तवविघ्नयोर्विरोधः । एतेन यदुच्यते 'नानयोर्विरोधः, स्तवभावेऽपि क्वचित् विघ्नदर्शनात्तदभावेऽपिच क्वचित् विघ्नानुपलब्धेरिति' तदपि प्रत्युक्तमवसेयम् ।। १ हरिभद्रसूरिरिति कर्तुरध्याहारः । २ आद्यमङ्गलस्यैतदर्थकत्वात् पर आशङ्कते-नन्विति । Jan Education Intematon For Private 3 Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Jain Education Inter तथाहि--यथा नातिप्रबलोऽग्निर्जलकणिकामात्रेणोपशाम्यति, न चासावल्पः स्वयमेव नोपशान्तिमेति, न चानयोर्न विरोधः, तथेहापि द्रष्टव्यमित्यलं प्रसङ्गेन । तत्र व्याख्या - रज्यतेऽनेनेति रागः - रागवेदनीयं कर्म्म, कचिदिष्टे वस्तुनि तेन जन्तोरभिष्वङ्गपरिणामापादनात्, रञ्जनं वा रागः - रागवेदनीय कर्म्मविपाकोदय सम्पादितो जन्तोरभिष्वङ्गपरिणाम एव । वीतो रागो येनं स वीतरागस्तम् " नमिऊण " नत्वा । रागग्रहणं द्वेपमोहोपलक्षणं, ततो वीतद्वेषं वीतमोहं चेत्यपि द्रष्टव्यम् । तत्र द्विष्यतेऽनेनेति द्वेषः - द्वेषवेदनीयं कर्म्म, कचिदनिष्ठे वस्तुनि तेनात्मनोऽप्रीतिपरिणामापादनात्, द्वेषणं वा | द्वेषः - द्वेषवेदनीयकर्म्मविपाकोदयजनितो जन्तोरप्रीतिपरिणाम एव । तथा मुह्यतेऽनेनेति मोह: - मोहवेदनीयं कर्म, तेन यथावस्थितवस्तुतत्त्वपरिच्छेदविषये जन्तोरज्ञानपरिणामापादनात्, मोहनं वा मोह :- मोहनीयकर्म्मवि| पाकोदयजनितो जन्तोरज्ञान परिणाम एव । एतदुपलक्षणं रागग्रहणं यस्मादाह - " सवण्णुं " सर्वज्ञम् । नह्यवीतराग इवावीतद्वेषादिः सर्वज्ञो भवतीति । सर्व जानातीति सर्वज्ञः, यथा च विशेषग्रापि ज्ञानं कथञ्चित्सामान्यस्यापि ग्राहकत्वात्सर्ववस्तुग्राहि भवति तथोत्तरत्र स्वयमेवाचार्यो दर्शयिष्यतीति नाधुना वितन्यते । ननु यो वीत| रागः स सर्वज्ञ एव, ततो गतार्थमिदं विशेषणमिति नोपादेयम्, न, छद्मावस्थाभाविवीतरागव्यवच्छेदफलत्वात् । १ कर्तृत्वविवक्षया अन्तर्भूतणिजर्थत्वात् । %%% *% *% *% *% *%** Page #8 -------------------------------------------------------------------------- ________________ धर्म ॥२॥ Jain Education Int *%%%%%% ' यद्येवं तर्हि सर्वज्ञमित्येतावदेवास्तामलं वीतरागग्रहणेन, न, अवीतरागाणामपि सकलशाचार्योपनिषद्वेदिनामुपचारेण लोके सर्वज्ञत्वव्यवहारदर्शनात्, आजीविकनयमतानुसारिभिश्च गोशालशिष्यैः सर्वज्ञस्तत्त्वतः खल्ववीतरागो|ऽप्यभ्युपगम्यते, 'अवाप्तमुक्तिपदा अपि तीर्थनिकारदर्शनादिहागच्छन्तीति वचनात् तत्त्वतो वीतरागस्य चेहागमनासंभवात्, ततस्तद्यवच्छेदार्थ वीतरागग्रहणम् । एतद्विशेषणायैवाह - “ तियसपूइयं विहिणा " त्रिदशपूजितं | विधिना, उपपातान्तर्मुहूर्त्तानन्तरं सदा तृतीया यौवनलक्षणा दशा-अवस्था येषां ते त्रिदशा - वैमानिकादयो देवाः, | पूरणार्थच वृत्तावन्तर्भूतो यथा तृतीयो भागविभाग इति, तैः पूजितः - समभ्यर्चितो यो, विधिना - तदेकतानतादिलक्षणेन तं नमिऊणेतिक्रियापदविशेषणं वा 'विधिना नत्वेति । ननु यो वीतरागः सर्वज्ञश्च सोऽवश्यं त्रिदशपूजित एवेति नार्थोऽनेन विशेषणेन, तदयुक्तम्, मुण्डकेवलिप्रभृतीनां केषाञ्चिदत्रिदशपूजितानामपि यथोक्तविशेषणविशिटत्वात् तव्यवच्छेदार्थ त्रिदशपूजितग्रहणम् । यद्येवं तर्हि त्रिदशपूजितमित्येतावदेवास्तु, कृतं वीतरागादिग्रहणेन, न, | अवीतरागाणामपि गणधरादीनां त्रिदशपूजितत्व श्रवणात् तदपनोदार्थं वीतरागादिग्रहणम् । पुनरप्येतद्विशेषणायैवाह - " जहनायवत्थुवादि यथाज्ञातवस्तुवादिनं भूतभवद्भाविभावस्वभावावभासिना केवलज्योतिषा यथा यथा - सदसद्रूपत्वादिना प्रकारेण ज्ञातं परिच्छिन्नं वस्तु तथा तथा वदितुं शीलो यथाज्ञातवस्तुवादी तम् । ननु १ हेतुत्वप्राधान्यविवक्षया तृतीया पुंस्त्वं च । २ अतिशयरहिताः सामान्यश्रमणा मुण्डाः । संग्रहणिः, ४ ॥२॥ Page #9 -------------------------------------------------------------------------- ________________ Jain Education Inter यो वीतरागः सर्वज्ञस्त्रिदशपूजितश्च स यथाज्ञातवस्तुवाद्येवेति किमनेन विशेषणेन ?, न, अस्य कुवादिमतव्यवच्छेदार्थत्वात् । विद्यते हि परेषामेवंविधोऽप्यसदभ्युपगमो, यथा - ' वीतरागत्वादिविशेषणयुक्तोऽपि न यथाज्ञातवस्तुवादी', " वस्तु वाचामगोचर " इति वचनप्रामाण्यात् । यद्येवं तर्हि यथाज्ञातवस्तुवादिनमित्येतावदेव शोभनमलं वीतरागादिग्रहणेन, न, चतुर्द्दशपूर्वधरादीनामपि यथाज्ञातवस्तुवादित्वसंभवात्, ततस्तद्यवच्छेदार्थं वीतरागादिग्रहणम् । भूयोऽप्येतद्विशेषणायाह - " अचिंतसत्तिमिति " अचिन्त्या - चिन्तातिक्रान्ता प्राकृतजनानामध्यवसातुमप्यशक्यत्वात् शक्तिः - खप्रदेशैः सकललोकाकाशप्रदेशपूरणसामर्थ्यादिलक्षणा यस्यास्ति सोऽचिन्त्यशक्तिस्तम् । नन्विदं विशेषणमपार्थकं, यथोक्तवीतरागत्वादिखरूपोपेतस्याचिन्त्यशक्तित्वव्यभिचाराभावात् सति च व्यभिचारसंभवे विशेषणोपादानमर्थवत्तामश्रुते, तदुक्तम् — “संभवे व्यभिचारे च विशेषणमर्थवद्भवति, यथा नीलोत्पलमिति " | व्यभिचाराभावे तु तदुपादीयमानं न प्रयासमृते अन्यमर्थ पुष्णाति, यथा कृष्णो भ्रमरः शुक्ला बलाकेति, तस्मादचिन्त्यशक्तिमित्यतिरिच्यते, न अभिप्रायापरिज्ञानात् यस्मादिह यथोक्तवीतरागत्वादिखरूपोपेतोऽचिन्त्यशक्ति| रेव नान्यथेति नियमार्थत्वेन स्वरूपपरिज्ञानार्थमिदं विशेषणम्, ततोऽनवद्यमेव । न चैकान्ततो व्यभिचारसंभव एव विशेषणोपादानम्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने च शिष्टोक्तिषु तत्प्रयोगदर्शनात् । १ प्ररूपणामाश्रित्य श्रुतकेवलिनः केवलितुल्यत्वात् । %%%%%% Page #10 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः तत्रोभयपदव्यभिचारे यथा-नीलोत्पलम् , एकपदव्यभिचारे यथा-आपो द्रव्यं पृथ्वी द्रव्यं, स्वरूपज्ञापने यथा-परमाणुरप्रदेश इति । यद्येवं तर्हि अचिन्त्यशक्तिमित्येतावदेव मनोहरं, वीतरागादिग्रहणं पुनरपार्थकम् , न, लोके मण्यादीनामपि अचिन्त्यशक्त्युपेततयाऽभ्युपगमात्, “अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव" इतिप्रवादात्, अतस्तत्कल्पो भगवान् मा प्रापदिति तद्यवच्छेदार्थ वीतरागादिग्रहणम् । एतैश्च विशेषणपदैरपायापगमातिशयादयश्चत्वारो मूलातिशया निर्दिष्टा वेदितव्याः, तद्यथा-अपायापगमातिशयः ज्ञानातिशयः पूजातिशयो वागतिशयश्च । तत्र वीतरागमित्यनेनापायापगमातिशयमाह, सर्वज्ञमित्यनेन ज्ञानातिशयम्, त्रिदशपूजितमित्यनेन पूजातिशयम् , यथाज्ञातवस्तुवादिनमित्यनेन तु वागतिशयम् , अचिन्त्यशक्तिमित्यनेन पुनः खरूपावधारणमिति । हैनन्वेषामतिशयानामित्थमुपन्यासे किञ्चिदस्ति प्रयोजनमुत यथाकथञ्चिदेष प्रवृत्त इति, अस्तीति ब्रूमः, किं तदिति चेत् ?, उच्यते-एवमेव भावः, तथाहि-नावीतरागः सर्वज्ञो भवति, न चासर्वज्ञस्य सतस्त्रिदशास्तथा पूजां कुर्वन्ति, नच तत्कृतपूजोपचाराभावे भगवान् धर्ममाचष्टे इति । एते चान्येषामपि देहसीगन्ध्यादीनामतिशयानामुपलक्षणम् , ततश्चतुस्विंशदतिशयसम्पत्समन्वितं भगवन्तं नत्वेत्युक्तं द्रष्टव्यम् । तथा चाह" तित्थयरं " तीर्थकरम् , नद्यपायापगमातिशयादिरहित इव देहसौगन्ध्याद्यतिशयरहितस्तीर्थकरो भवतीति । १ भावाईन्यनिबन्धनत्वादेषाम् । २ अतिशयचतुष्कस्य आजन्मभावित्वात् । Jain Education Inte! For Private & Personel Use Only Page #11 -------------------------------------------------------------------------- ________________ SEASSADORICALCULOSROCKS तत्र जन्मजरामरणसलिलसङ्कलं मिथ्यादर्शनाविरतिगम्भीरं रागद्वेषपवनविक्षोभितं नानाविधानिष्टेष्टसंयोगवियोगवीचीनिचयोपेतं दुरवगाहमोहाव-भीषणं विविधशारीरमानसानेकदुःखौघपुष्टश्वापदं महाभीमकपायपातालं प्रबलमनोरथवेलाकुलं सुदीर्घसंसारसागरं तरन्यनेनेति तीर्थम् , एतच सकलजीवाजीवादिपदार्थसार्थप्ररूपकं त्रिलोकीगतावदातधर्मसम्पद्युक्तमहासत्त्वाश्रयम् अत्यन्तानवद्यान्याविज्ञातचरणकरणक्रियाधारम् अचिन्त्यशक्तिसमन्वितम् अविसंवादिप्रवचनम् , तदाधारश्च सङ्घः, निराधारस्य प्रवचनस्याभावात् , तत्करणशीलस्तीर्थकरः, "हेतुतच्छीलानुलोमेष्वशब्देत्यादिना"टः, तं नत्वा । कस्य पुनस्तीर्थस्य भगवान्कत्यत आह-'इमस्स तित्थस्स' अस्य ऐदंयुगीनजनानां साक्षादुपकारितया प्रत्यक्षीभूतस्य तीर्थस्य पूर्वव्यावर्णितशब्दार्थस्य । ननु प्रेक्षावतां प्रवृत्तिः फलवत्तया व्याप्ता, अन्यथा प्रेक्षावत्ताक्षतिप्रसङ्गात्, फलं चेदसौ तीर्थकरणादपेक्षते व्यक्तमवीतरागत्वप्रसङ्ग इत्यारेकानिराकरणार्थमिदमाचष्टे-"अणुवगियपरहियरयं" अनुपकृतपरहितरतम् , योऽनुपकृत एव सन् परस्मै यत् हितं तस्मिन् कर्त्तव्यतया रत-आसक्तः सकलतियरामरगणसाधारण्या वाण्या तदुपायप्रदर्शनेन सोऽनुपकृतपरहितरतस्तम् । नत्वेति योगः । अनुपकृतत्वाविशेषाच सर्वेष्वपि जन्तुष्वविशेषेण परहितकरणे भगवतः प्रवृत्तिरिति न पूर्वोक्तदोषावकाशः । ननु च यद्यसावुपकायरनुपकृतः खयं चाशेषरागादिदोषविप्रमोषोपेतस्ततः कथं परहितसम्पादनार्थमेष प्रवर्तते ?, प्रयोजनाभावादित्याशङ्काशेषमपाचिकीर्षुरिदमाह-सुहभावजियतित्थयरनामकम्मस्स सुहविवागाउत्ति' अहंदा NCR Jain Education Intel For Private & Personel Use Only | Page #12 -------------------------------------------------------------------------- ________________ संग्रहणि. ॥४॥ दिवात्सल्यप्रभृतिलक्षणेन शुभेन भावेन-अध्यवसायेन यत् अर्जितं तीर्थकरनामकर्म तस्य यः शुभो विपाक-उदयदानाभिमुख्यं तस्मादनुपकृतपरहितरतम्। एतदुक्तं भवति-अर्हद्वात्सल्यादिनिमित्ततीर्थकरनामकर्मोदयसामर्थ्यात्तत्वभावतया सवितेव प्रकाशमुपकार्यकृतोपकारानपेक्षः शास्त्रार्थमातनोति, ततो न यथोक्तदोषप्रसङ्ग इति । ननु यो वीतरागत्वादिगुणकलापोपेतः सोऽवश्यं तीर्थकर एवेति नार्थोऽनेन विशेषणेन, न, गणभृतां समुत्पन्नकेवलज्योतिषां सकलस्यापि विशेषणकलापस्य घटनात्, अतस्तद्यवच्छेदार्थ तीर्थकरग्रहणम् । यद्येवं ततस्तीर्थकरमित्येतावदेवोच्यतामलं वीतरागादिग्रहणेन, उच्यते-इह सरिदादीनां विषमस्थानेषु ये सुखावताराय तीर्थकरणशीलास्तेऽपि लोके तीर्थकरा उच्यन्ते, तन्मा भूदतिमुग्धबुद्धीनां तेष्वपि संप्रत्यय इति तदपनोदाय वीतरागादिग्रहणम् । कं पुनरेवंभूतं नत्वेत्यतो विशेष्यमाह-महावीरमिति, 'ईर गतिप्रेरणयों रित्यस्य विपूर्वस्य विशेषेण ईरयति-प्रेरयति विनाशयति कर्म याति च शिवमिति वीरः, महांश्वासौ वीरश्च महावीरस्तं नत्वा । ननु यो महावीरः स वीतरागत्वादिगुणक लापोपेत एवेत्यपार्थकं वीतरागाधुपादानम्, न, नाममहावीरादिभेदव्युदासकारितया अस्य सफलत्वात् । एवं| हयादिसंयोगापेक्षयाऽपि विचित्रनयमताभिज्ञेन यथाशक्ति विशेषणसाफल्यं वाच्यमित्यलं प्रसङ्गेन ॥१-२॥ एवमिष्टंदेवतास्तवाभिधानेन निरस्ताशेषविघ्नविनायकः प्रेक्षावतां प्रवृत्त्यर्थ प्रयोजनादि प्रतिपिपादयिषुरिदमाह १ धर्मस्यात्राधिकृतत्वात्तस्य प्रकृष्टस्य च तीर्थकर एव सत्त्वाद्धर्मधर्मिणोश्चाभेदादत्र तीर्थकर एवाधिकृतदेवता इष्टदेवता तस्यै कृतैव नतिरत्र दागाथायुग्मेन। तं नत्वेत्यतो विश ALSSESASSASSSS वीरः, महांश्चाता नाममहावीरादिनाच्यमित्यलं प्र ॥ ४ ॥ Jain Education Inter For Private & Personel Use Only W ww.jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ CCESCREENSH सपरुवगारट्टाए जिणवयणं गुरुवदेसतो णाउं। वोच्छामि समासेणं पयडत्थं धम्मसंगहणिं ॥३॥ असति हि प्रयोजनाधभिधाने प्रेक्षावतामेवमाशङ्का प्रवर्त्तत-निष्फलमस्याभिधेयं, काकदन्तपरीक्षावत् , अशक्यानुष्टानं वा, सत्यपि फले सर्वव्याधिहरानन्तचूडारत्नधारणोपदेशवत् , अनभिमतं वा श्रवणप्रयोजनं, मातृविवाहोपदेदशवत्, अतो वा प्रकरणालघुरन्यस्तस्य प्रयोजनस्य प्राप्त्युपायो भविष्यतीति । न चासामन्यतमयाऽप्याशङ्कया प्रेक्षा-16 वान् प्रवर्त्तत, तद्वत्ताहानिप्रसङ्गात् , अतस्तन्निवृत्त्यर्थमेष प्रयोजनाडुपन्यास इति । नन्वयं प्रयोजनाडुपन्यासो|ऽनर्थकः, अतः सम्यक प्रयोजनाद्यनवगतः, सकलप्रकरणार्थपरिज्ञानपुरस्सरा हि प्रयोजनाद्यवगतिः, सा कथमतो भवितुमर्हतीति, न, अस्मादेव प्रयोजनाद्युपन्यासात्सामान्येन सम्यक् प्रयोजनाद्यवगतेः, तथा लोके व्यवहारदर्शनात् । सामान्येन तदवगतावेव च तद्विशेषपरिज्ञानार्थ प्रकरणे प्रेक्षावतां प्रवृत्तिर्नान्यथेति, तप्रवृत्त्यर्थत्वान्नासावपार्थक इति स्थितम् ॥ तत्र व्याख्या-रागादिशत्रुजेतृत्वाजिनः तस्य वचनम्-आचाराद्यनेकविधम् , अर्थतस्तेन प्रणी-2 तत्वात् , तत् ज्ञात्वा-अवबुध्य । कुत इत्याह-गुरूपदेशात् , गृणाति यथावस्थितमर्थमिति गुरुस्तस्योपदेशः-पूर्वापरसूदत्रावयवानावाधयाऽभिधेययाथात्म्यनिर्देशः तस्मात् । ततः किमित्याह-वक्ष्यामि धर्मसङ्ग्रहणिं, धर्मो-वक्ष्यमाण ORORSCOREAK Jain Education Inter For Private & Personel Use Only diww.jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि, HLORORSCIEAAAAACACAMARS शब्दार्थः, स संगृह्यतेऽनयेति धर्मसंग्रहणिः-धर्मखतत्त्वाभिधायी प्रकरणविशेष इतियावत् तां, वक्ष्यामि एतक्रियापदापेक्षश्च नत्वेति पूर्वकालक्रियानिर्देशः, अस्माच क्रमभाविक्रियाद्वयककर्षभिधानादेकान्ताविकारिपक्षः क्षणिकपक्षश्च निरस्तो द्रष्टव्यः, तत्रैवंविधव्यवहारासम्भवात् , एतचोत्तरत्र खयमेव प्रपञ्चयिष्यति । तामेव धर्मसंग्रहणि विशेषयति-पयडत्थं' प्रकटार्थी प्रकटः-स्थूरयुक्त्याऽभिधीयमानत्वात् अर्थोऽभिधेयं यस्यास्ताम् । कथं पुनर्वक्ष्यामीत्यत आह–'समासेन' संक्षेपेण । अनेन चैतदाह-यद्यपि पूर्वाचार्यैरतिगम्भीरमतिविस्तरेण धर्मख-3 तत्त्वमावेदितं, तथापि दुष्षमानुभावेनापचीयमानमेधायुरादिगुणानामैदंयुगीनजन्तूनां नोपकाराय तद् जायत इति तान् प्रति संक्षेपेण धर्मसङ्ग्रहणिरेषा प्रारभ्यते। किमर्थमित्याह-'सपरुवयारठाए' स्वपरोपकाराय । तत्र परेषाम्आत्मव्यतिरिक्तानामुपकारो-मिथ्यात्वादिदोषापनयनेन सम्यक्त्वाद्यनुत्तरगुणाध्यारोपणं, खस्य त्वशुभकर्मनिर्जरादिः । इह च यद्यपि परोपकारे सत्यवश्यमात्मनोऽपि कृपाविशेषयोगतो यथोदित उपकारो भवति, अनुग्रहबुद्ध्या : प्रवृत्तेः, तथापि यदा क्लिष्टकर्मोदयवशेन यथावस्थितवस्तुतत्त्वानवगत्या परेषामुपकारामावस्तदाप्यात्मनोऽनुग्रहबुद्ध्या प्रवृत्तस्य सतोऽवश्यमुपकारो भवतीति मन्यमानः खशब्दोपादानमकार्षीदिति । इयं च गाथा साक्षाकरणस्याभि|धेयप्रयोजनमेव वक्तुं प्रवृत्ता, द्विविधं हि प्रकरणशरीरं-शब्दोऽर्थश्च । तत्र शब्दोऽर्थप्रतिपादनफलत्वात् क्वचिदपि खतो न निष्फलारम्भः, अर्थस्तु क्वचिनिष्प्रयोजनोऽपि दृष्टः, तादृशं च नारम्भणीयं, प्रेक्षावतां सर्वस्याप्यारम्भस्यार्थि in Education Intematona Page #15 -------------------------------------------------------------------------- ________________ SCALCCCCCCCCCESSAR त्वेन व्याप्तेः, निष्फलाभिधेयेन च पुरुषार्थानुपयोगितया कस्यचिदपि प्रेक्षावतोऽर्थित्वाभावात् , अतः प्रकरणारम्भ सफलं दिदर्शयिषुराचार्योऽनया गाथयाऽभिधेयप्रयोजनमेवाभिधत्ते, तस्मिंश्चाभिहिते सति सामर्थ्यादभिधेयं प्रयोजनं संबन्धश्चोक्तो भवति । वाक्यावयवभेदकल्पनया च केवलं पृथगुपदर्शयिष्यन्ते । नत्वेकं वाक्यमनेकमर्थं खतत्रमुपादातुं समर्थम् । तत्राभिधेयप्रयोजनम्-यतो धर्मेऽभिधीयमाने स्वपरयोरुपकारो भवति, ततो धर्मसङ्ग्रहणिरारभ्यते । अनेन चाभिधेयस्य निष्फलत्वाशङ्काव्युदासः। एवं चोक्ते सति सामर्थ्याद्धर्मशब्देन धर्मोऽभिधेय उक्तः। तथा च सत्यशक्यानुष्ठानत्वाशङ्कानिरासः, अनुक्तादपि च सामर्थ्यब्धाद्धर्मखरूपावगमलक्षणात् श्रोतुरनन्तरप्रयोजनात् अनभिमतश्रवणप्रयोजनाशङ्कापनोदः।धर्मप्रतिपादिका संग्रहणिरारभ्यते, इत्यनेन च समासार्थेन प्रकरणाभिधेययोरुपायोपेयलक्षणः संबन्ध उक्तो द्रष्टव्यः, तेनान्योपायत्वाशङ्काव्युदासः, यदि ह्यतोऽपि लघुरुपायः स्यात् || नवेयमारभ्यतेति । नचातीन्द्रियं वस्तु खमनीषिकयाऽभिधीयमानं प्रेक्षावतामुपादेयं भवतीति धर्माभिधानस्यातीन्द्रियार्थदर्शिवचननिवन्धनतां दर्शयन् क्रियानन्तर्यलक्षणं सम्बन्धान्तरमुपदर्शितवान्-'जिणवयणं गुरुवएसओणाउं वोच्छामि त्ति' जिनवचनगताद्विस्तरतो धर्माभिधानादिदं संक्षेपतो धर्माभिधानमनन्तरं भवतीति ॥३॥ साम्प्रतं यथेदं प्रकरणमवश्यमारम्भणीयं भवति यथा च प्रेक्षावतामिदमवश्यमुपादेयं तथोपपादयितुमुपक्रमते धम्मो खल पुरुसत्थो सपरुवयारो य सो मुणेयवो। Jain Education inte For Private & Personel Use Only Mi Page #16 -------------------------------------------------------------------------- ________________ संग्रहणिः . उवगारोऽविय दुविहो दवे भावे य नायवो ॥ ४ ॥ खलुशब्द एवकारार्थः, स चैवकारो विशेषणविशेष्यक्रियाभिस्सहोचार्यमाणो यथाक्रमं धनुर्द्धरत्वादेर्द्धर्मस्य अयो-2 गमपर्योगमत्यन्तासंभवं च व्यवच्छिनत्ति, यथा चैत्रो धनुर्धर एव, पार्थ एव धनुर्द्धरो, नीलं सरोजं भवत्येवेति ॥ इहापिच खलुशब्द एवकारार्थो विशेष्येण सहोच्चार्यते, ततः पुरुषार्थत्वस्यापरैरादिभिस्सह संबन्धं व्यवच्छिनति, धर्मः खलु पुरुषार्थो, न त्वर्थकामौ इति । तथाहि- इह परप्रतिपत्तये वाक्यमुच्चार्यते, ततो यदेव परेण । व्यामोहादाशङ्कितं, तदेव व्यवच्छेत्तव्यम् । चैत्रस्तु धनुर्धरो लोके न प्रतीतस्ततश्चैत्रस्याधनुर्धरत्वाशङ्काव्यवच्छेदनाय । धनुर्द्धरत्वविधानाय च वाक्यमुच्चार्यते-चैत्रो धनुर्द्धर एवेति । पार्थस्तु धनुर्द्धरो लोके प्रतीत इति तस्मिन्नाधनुर्द्धरत्वाशङ्का कस्यचिद्विद्यते, ततो यदतिशयवत्तस्य धनुर्द्धरत्वं तकिमन्यत्रापि पुरुषान्तरेऽस्ति नवेत्येवं पुरुषान्तरसाधारणमाशङ्कितमिति पुरुषान्तरेण सह तस्य साधारण्यव्यवच्छेदाय वाक्यमिदमुच्यते-पार्थ एव धनुर्धर इति । यदा तु सरोज नीलवर्णविविक्तं कस्यचित्रसिद्धं, नीलत्वं पुनरस्य किमस्ति नास्तीति शङ्कितं भवति, तदा तदत्यन्तासंभवाशङ्काव्यवच्छित्तये वाक्यमेतत्रयुज्यते-नीलं सरोजं भवत्येवेति । तथेहापि धर्मः पुरुषार्थों लोके प्रतीत एवेति तस्मिन्नापुरुषार्थत्वाशङ्का कस्यचिद्विद्यते, यत्पुनरेकान्तिकात्यन्तिकरूपं पुरुषार्थत्वं तत् किमन्यत्रापि अर्थादौ Jain Education For Private & Personel Use Only Page #17 -------------------------------------------------------------------------- ________________ विद्यते नवेत्येवं पदार्थान्तरसाधारण्यमाशङ्कितम्, अतस्तस्यादिभिः साधारण्यव्यवच्छित्तये वाक्यमिदमुच्चार्यतेधर्मः खलु पुरुषार्थो, नार्थकामाविति । यथा चापुरुषार्थता अर्थकामयोस्तथा धर्मसारटीकायामभिहितमिति नेह प्रतायते । अथ किंखरूपः स धर्मो योऽत्यन्तासाधारणः पुरुषार्थ इत्यतस्तत्खरूपमुपदिशति-'सपरुवयारो य सो मुणेयघोत्ति' खपरयोरुपकारखरूपश्च 'स' धर्मो ज्ञातव्यः। स चोपकारो नामादिभेदाचतुर्दा । तत्रातीव सुज्ञातत्वान्नामस्थापने अनादृत्य द्रव्यभावभेदेनोपकारस्य द्वैविध्यमुपदर्शयन्नाह-'उवयारेत्यादि' उपकारोऽपि च द्विविधो 'द्रव्ये' द्रव्यविषयो 'भावे च' भावविषयश्च ज्ञातव्यः, द्रव्यभावखभावभेदेन द्विविध उपकारो ज्ञातव्य इतियावत् ॥४॥ तत्र-'यथोद्देशं निर्देश' इति न्यायात् द्रव्योपकारं तावदाह दवम्मि अन्नपाणादिदाणरूवो तु होइ विन्नेओ। नेगंतिओ अणचंतिओ य जं दवतो तेणं ॥५॥ 'द्रव्ये' द्रव्यविषय उपकारोऽन्नपानादिदानरूपो विज्ञेयः । तुः पूरणार्थः । यथा चास्य द्रव्यरूपता तथा भावयति'नेगतिये 'त्यादि, 'यत्' यस्मानेवासावुपकार ऐकान्तिकः, कदाचिदतोऽपकारसंभवात् । नाप्यात्यन्तिकः, पुनरुपका Jain EBधर्म For Private & Personel Use Only Page #18 -------------------------------------------------------------------------- ________________ धर्म- *%* % % रापेक्षणात् । तेन कारणेनायमुपकारो 'दघओत्ति' द्रव्यतो द्रव्यखभावत्वेन विज्ञेय इति ॥ ५॥ प्रकारान्तरेण पुनरपि संग्रहणि. द्रव्योपकारमाह इहपरलोगट्टा तह जो कीरइ अविहिणा व भत्तीए । एसोऽवि दवओ च्चिय मोक्खंगाभावतो जाण ॥ ६ ॥ इहलोकार्थ परलोकार्थ वा, 'तथेति द्रव्योपकारप्रकारान्तरतासमुच्चयार्थ, यः क्रियते खपरयोः सम्यग्दर्शनज्ञानचारित्रेषु संस्थापनलक्षण उपकारः, यद्वा इहपरलोकाशंसाविरहेण परमभक्त्या सम्यक्त्वादिषु खपरयोः संस्थापन-II लक्षणो य उपकारः क्रियते, केवलमविधिना, एषोऽपि द्रव्यत एव, चियशब्दः प्राकृतनिपात एवकारार्थी, द्रव्य|स्वभावत्वेनैव ज्ञातव्यः । द्रव्यत्वं चेहाप्राधान्यं विवक्षितम् । तथा चाह-'मोक्खंगाभावओ जाण'ति भावप्रधानाध्य | निर्देशः, मोक्षाङ्गत्वाभावादेषोऽप्युपकारो द्रव्यत एवेति जानीहि । मोक्षाङ्गत्वाभावश्चाविधिकलुषितत्वात् ॥६॥ सम्प्रति भावोपकारं व्याख्यानयन्नाह भावुवयारो सम्मत्तणाणचरणेसु जमिह संठवणं । सइ अप्पणो परस्स य अणियाणं तं जिणा विति ॥७॥ % % ॥ ७ ॥ % % %* For Private Personal Use Only Jan Education in Page #19 -------------------------------------------------------------------------- ________________ भावापकारः स विज्ञेयो, यदिह सम्यक्त्वज्ञानचरणेषु सदा आत्मनः परस्य च संस्थापनम् । तं चामुंभावोपकारं 'जिनाः' समुत्पन्नकेवलज्योतिषस्तीर्थकरा त्रुवते, 'अनिदानं' निदानं-भोगप्रार्थना तद्रहितम् । तथा च सति 'इह-४ परलोगट्ठा तह जो कीरइ' इत्यस्य पूर्वोक्तस्य न व्याघातः, सनिदानत्वेन तस्य भावोपकारत्वप्रसङ्गाभावात् ॥ ७ ॥ इहपरलोगासंसं मोत्तुं जो कीरते अविहिणा तु। भत्तीए दवतोऽविहु एसो भावम्मि बोद्धबो ॥ ८॥ इहपरलोकाशंसां मुक्त्वा यः पुनः सम्यक्त्वादिषु, 'भत्त्या' बहुमानेन, स्वपरयोः संस्थापनलक्षण उपकारः 'अविहिणा उत्ति' अविधिना-विधिवपरीत्येन क्रियते, 'तुः' पुनरर्थे भिन्नक्रमश्च, स च यथास्थानं योजितः, एषः 'अविहिणा व भत्तीए' इत्यनेन प्राक् द्रव्यखभावत्वेनोक्तोऽपि 'भावे' भावविषयो द्रष्टव्यः, अस्य परम्परया मोक्षाङ्गत्वात् । अविधिदोषस्य तु भक्तिगुणेन निरनुबन्धीकृतत्वात् । यत्तु प्रागस्य द्रव्यखभावत्वमुक्तं तत् साक्षान्मोक्षाङ्गत्वाभावापेक्षया द्रष्टव्यमिति ॥८॥ तत्र परस्य चोद्यमाशङ्कते आहऽन्नवत्थलयणादिदाणतो भोगतो य इह सिद्धी। गिहिसंजयाण सुच्चइ सुच्चइ णणु भावतो सावि ॥ ९ ॥ Jan Education Inter For Private Personel Use Only Www.jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः . ॥८ ॥ आह परः-अन्नवस्त्रलयनादिदानतो गृहस्थानां परिभोगतश्च संयतानां 'सिद्धिः' निर्वृतिलक्षणा श्रूयते, गृहिणा- मुत्तरकालं तत्सामर्थ्यतो विशिष्टज्ञानादिलाभात्, इतरेषां तु संयतानां यथागमपरिभोगतस्तदुपष्टम्भेन ज्ञानादिगराणानामुत्तरोत्तरप्रकर्षभावसंभवात् । ततोऽन्नादिद्रव्यदानं भावोपकार एव युज्यते, न तु द्रव्योपकार इति प्रष्टरभिप्रायः। इह च यदेव येषामेवोत्तरोत्तरपरमज्ञानदर्शनादिगुणलाभाय जायते तदेव तेभ्य एव दीयमानमात्मोपकाराय भवति, नान्यत् अन्येभ्यो वा दीयमानमिति ख्यापनार्थ परिभोगतश्च संयतानां सिद्धिरित्युक्तम् । अन्यथा उपकर्तुर्द्रव्यादिरूपतयोपकारखरूपव्यावर्णनप्रसङ्ग नैतदुपन्यासः फलवत्तामियादिति । अत्रोत्तरमाह-श्रूयते सा सिद्धिः, परं 'सा' सिद्धिः 'भावओत्ति' भावोपकारात् द्रष्टव्या, न त्वन्नादिद्रव्यदानमात्ररूपात् द्रव्योपकारात् । तथाहि-तैहिभिस्तेभ्यः तथा विशिष्टेनाध्यवसायेन कल्पनीयमन्नादि संप्रदीयते, यथा न केवलं तेषां संयतानां ज्ञानादिगुणोपष्टम्भो जायते, किंतु खस्याप्यायत्यां विशिष्टज्ञानदर्शनादिगुणलाभो भवति, एवं चायं भावोपकार एव, खपरयोः सम्यक्त्वादिषु संस्थापितत्वात् । एष च भावोपकारो निश्चयनयमतेन तथाविध विशिष्टात्मपरिणामरूप एव केवलो द्रष्टव्यः । “ परिणामियं पमाणं निच्छयमवलंबमाणाण"मितिवचनात् । यत्पुनः कल्पनीयान्नादिद्रव्यदानं तत्तस्य सहकारिकारणमात्रम् , अत एव क्वचित् कदाचित् तथाविधसामग्र्यभावेन कल्पनीयान्नादिद्रव्यदानाभावेऽप्येष भावो १ परिणामिकं प्रमाणं निश्चयमवलम्बमानानाम् । Jain Education irodri For Private & Personel Use Only Nu Page #21 -------------------------------------------------------------------------- ________________ पकारो न विरुध्यते, यथा जीर्णश्रेष्ठिन इति ॥९॥ साम्प्रतमभिहितस्वरूपेणैव भावोपकारेण सह सिद्धेरन्वयव्यतिरेको दिदर्शयिपुरन्नादिद्रव्यदानमात्ररूपेण च द्रव्योपकारेण व्यभिचिचारयिपुदृष्टान्तमाह आहरणं सेटिदुगं जिणिंदपारणगऽदाणदाणेसु। विहिभत्तिभावऽभावा मोक्खंगं तत्थ विहिभत्ती ॥१०॥ उदाहरणमत्र श्रेष्ठिद्विकं' जीर्णश्रेष्ठी अभिनवश्रेष्ठी च । 'जिनेन्द्रपारणकादानदानयो रिति, जिनेन्द्रपारणककाले अदाने दाने च, यथाक्रमं विधिभक्तिभावाऽभावादिति । एकत्र विधिभक्त्योरदानेऽपि भावात् । अन्यत्र च दानेऽप्यभावात् , तत्र मोक्षाझं विधिभक्ती जाते, नतु तद्रहितं दानमात्रमिति ॥१०॥ एतदेव स्पष्टयति वेसालि वासठाणं समरे जिण पडिम सेट्रिपासणया। अइभत्ति पारणदिणे मणोरहो अन्नहिं पविसे ॥ ११ ॥ जाइच्छिदाण धारा लोए कयपुण्णगोत्ति य पसंसा । केवलिआगम पुच्छण को पुण्णो ? जिन्नसिट्ठित्ति ॥ १२ ॥ Jain Education Intelles For Private & Personel Use Only Miww.jainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ धर्म ॥९॥ Jain Education Inter । 'वैशाल्या नगर्यो 'स्मरे' स्मरायतने, जिनस्य-भगवतो महावीरस्य वर्षास्थानमभूत् । तत्र च स्थितस्य भगवतः प्रतिमां - कायोत्सर्गे प्रपन्नस्य श्रेष्ठीनो दर्शनमजायत, श्रेष्ठी प्रतिमाप्रतिपन्नं भगवन्तं दृष्टवानित्यर्थः । दर्शनानन्तरं | चातिभक्तिः समुल्ललास । चतुर्मासानन्तरं च पारणकदिने मनोरथः प्रादुरभूत्-यदि भगवान् मम गृहे पारयति ततोऽहं कृतपुण्य इति । भगवांश्चान्यत्र प्राविशत् । तत्र च यादृच्छिकदानमभूत् । ततो 'धारा' इति वसुधारा न्यपतत् । लोके च कृतपुण्य इति प्रशंसा । तस्मिन्नेव च दिने केवलिन आगमनं, तस्य समीपे जनस्य पृच्छा, कः पुण्यवानस्यां नगर्यो ?, केवली प्राह-जीर्ण श्रेष्ठीति गाथाद्वयाक्षरार्थः ॥ ११-१२ ॥ भावार्थः कथानकादवसेयः, तच्च संक्षेपत इदम्| एकदा भगवान् वर्द्धमानखामी ग्रामानुग्रामं विचरन् वैशाल्यां नगर्यां स्मरायतनेऽवग्रहमनुज्ञाप्य वर्षाकालमवस्थितवान् । तत्र च स्थितं भगवन्तं प्रतिमाप्रतिपन्नमपश्यत् जीर्णश्रेष्ठी । दृष्ट्वा चाहो भगवतो निष्प्रतिकर्मशरीरता, | निरुपमं किमपि वचनगोचरातीतं परमपदविषयं ध्यानं, असाधारणा जगज्जन्तुवत्सलता मनागपि चेष्टाया अकरणात् मूर्त्तः खल्वेष संयमराशिः सर्वात्मना गुप्तत्वात् भावी चैष सम्भाव्यते तीर्थकरः अन्यथैवंविध| लक्षणानामयोगादिति विचिन्त्य परमभक्तिपरीतचेता वभूव । भिक्षाटनाकरणतश्च ज्ञातो भगवतस्तेन चातुर्मासि | कोऽभिग्रहः, अतिक्रान्ताश्चत्वारो मासाः प्राप्तो भगवतः पारणक दिवसो, ददृशे भिक्षागोचरं प्रति चलितो भगवान् । संग्रहणि. ॥९॥ Page #23 -------------------------------------------------------------------------- ________________ समुद्बभूव तस्य पुण्यप्रेरितो निरुपमपुण्यानुवन्धी मनोरथो, यथा " धन्योऽहमस्मि यदि भगवान् मम गृहे पारणकं करोति" तत एवं सञ्जातमनोरथस्त्वरितमेव खगृहमागत्य प्रवृद्धशुभशुभतरभावनाको भगवन्तमागच्छन्तमीक्षितुं है प्रावर्त्तिष्ट । अचिन्तयच-इहेदानी किलागच्छति इहेदानी किलागच्छतीति । भगवांश्चादीनमनस्को यथास्थितगोच रस्थित्या परिभ्रमन् अभिनवश्रेष्ठिगृहे प्राविशत् । सोऽपि चाभिनवश्रेष्ठी भगवन्तमागच्छन्तमालोक्य भद्रकभावेन यदृच्छया कुल्माषादिभोजनमदापयत् । ततः पात्रविशेषप्रभावतः प्रादुरभूवन् नभसि चेलोत्क्षेपादीनि दिव्यानि । निपतिता अर्द्धत्रयोदशहिरण्यकोटयः । जाता चाभिनवश्रेष्ठिनो लोकतः प्रशंसा-अहो कृतपुण्योऽयमिति । जीर्णश्रेष्ठ्यपि भगवतः पारणकं संवृत्तमाकर्ण्य नागमद्भगवान्मद्गृहमित्यवस्थितपरिणामो बभूव । भगवानपि ततः स्थानात्क्षेत्रान्तरं विजहार ॥ अथ च तस्मिन्नेव दिने भगवत्पार्श्वनाथसंतानवर्ती मुनिरुत्पन्नकेवलज्ञानदर्शनो वैशाल्यामागच्छत् । विदितश्च लोकेनागतः। समस्तोऽपि लोकस्तस्य समीपमाययौ । वन्दित्वा विस्मितचेता वसुधारावृत्तान्तमपृच्छत् । यथा-भगवन्नद्य कोऽस्यां नगयों कृतपुण्य इति, भगवानुक्तवान्-जीर्णश्रेष्ठी । लोक उवाच-भगवन् ! न तस्य गेहे भगवान् पारणकं कृतवान् , न च वसुधारा निपतिता, ततः कथं स पुण्यवानिति । केवल्यवादीत्कारितो भगवान् भावतस्तेन पारणम् , अपि चेदृशः खलु तस्य परिणामस्तदानीमजायत, यदि स्तोकवेलायां भगवतः पारणकवृत्तान्तं नाश्राविष्ट (नाऽश्रोष्यत्), ततः प्रवर्द्धमानसंवेगतया क्षपकश्रेणिमारुह्य केवलज्ञानमवाप्स्यत्, परं Jain Education inte For Private & Personel Use Only Page #24 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि: ॥१०॥ पारणकवृत्तान्तं श्रुत्वा झटित्येवावस्थितपरिणामः समजनि । अपि च-प्राप्तं तेन श्रद्धातिशयतो निरुपहतं मोक्षवीजम् , अतो महत्तमपुण्यस्कन्धार्जनेन स एवास्यां नगर्यो सुपुण्यो, यस्त्वभिनवश्रेष्ठी स भगवतो दानं दापयन्नपि मन्दपरिणामत्वान्न सुपुण्यो, यच्च वसुधारानिपतनं तदेकजन्मिकत्वान्न महदिति ॥ तदेवं यतः खपरयोः सम्यक्त्वादिषु संस्थापनरूपाद्भावोपकारादेव सिद्धिः, नान्यस्माद्, अत आचार्योऽपि भव्यजन्तूनुपचिकीपुरत्रैव भावोपकारे प्रवृत्ति|मातन्वानो यथेदं प्रकरणमारम्भणीयं भवति तथा प्रतिपादयन्नाह सम्मत्तादिसु जम्हा संठवणं होइ जिणुवदेसातो। सो अपरिमिओ उ तओ सुहगम्मं किंपि वोच्छामि ॥१३॥ यस्मात्सम्यक्त्वादिषु खपरयोः संस्थापनं जिनोपदेशाद्भवति, 'सच' जिनोपदेशः सूत्रतोऽर्थतश्चापरिमितो नाल्पमेधोभिरिदानींतनजनैरवगाढुं शक्यते, अतस्तदुपकाराय जिनोपदेशादुद्धत्य सुखगम्यं किमपि वक्ष्यामि ॥ १३॥ यत्कथंभूतमित्याह मेधामतिपरिहीणावि, जमिह णाऊण चरणरयणस्स । Jain Educaton Inter For Private & Personel Use Only Page #25 -------------------------------------------------------------------------- ________________ होन्ति परिवालणखमा तत्तो मोक्खं च पावंति ॥ १४ ॥ विशिष्टो ग्रन्थग्रहणपटुरात्मनः परिणामविशेषो मेधा, सहजस्तु मतिः ताभ्यां परिहीणा अपि यत् ज्ञात्वा 'इह', जगति चरणं-मूलगुणादिरूपं वक्ष्यमाणं तदेव सर्वोत्तममुक्तिपदाविकलनिवन्धनत्वात् रत्नमिय रत्नं तस्य परिपालने क्षमाः-समर्था भवन्ति, तस्माच्च यथोक्तविधिपरिपालनेन प्रकर्षप्राप्ताच्चरणरत्नान्मोक्षम्-अशेषकर्माशापगमलक्षणं प्राप्नुभवन्ति तदहं वक्ष्यामीति संबन्धः ॥ १४ ॥ इदानीं यथैतत् वक्ष्यमाणं प्रेक्षावतामुपादेयं भवति, तथोपपिपादयिषुर्जिनवचनं तावत् स्तवीति मिच्छत्तसेलकुलिस अण्णाणतमोहभक्खरब्भूतं । चरणरयणायरनिभं अचिंतचिंतामणीकप्पं ॥१५॥ सिवसुहफलकप्पतरूं जहट्रियासेसणेयपडिबद्धं । णाणानओहगहणं जिणवयणं तिहुयणपसिद्धं ॥ १६ ॥ ( युग्मम् ) मिथ्यात्वम्-अतत्त्वादिषु तत्त्वाद्यभिनिवेशः तदतिदुर्लध्यतया शैल इव मिथ्यात्वशैलस्तद्भेदे अप्रतिहतशक्तितया %EOCOCOGICALCIUCNRok FASAXXXRAKA Jain Education Inte For Private & Personel Use Only O ww.jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि कुलिशमिव कुलिशं मिथ्यात्वशैलकुलिशम् । अज्ञान-विशिष्टसंविदभावस्तदेवाप्रतिपत्तिहेतुत्वसाम्यात्तमओघ इव ॥११॥ अज्ञानतमओघः तद्विध्वंसने भास्करभूतं अज्ञानतमओघभास्करभूतम् । चरणं व्रतादि, उक्तं च-" वयसमणधम्मसंजमवेयावचं च बंभगुत्तीओ। नाणाइतियं तवकोहनिग्गहा इइ चरणमेयं ॥१॥" । तदेव मुक्तिहेतुतया रत्नमिव चरणरत्नं तस्याकरनिभमन्यत्र तदसंभवात् चरणरत्नाकरनिभम् । तथा-अचिन्त्यचिन्तामणिकल्पं, चिन्तातिक्रान्तानाबाधसकलदेशकालावलम्बिवस्तुस्तोमावगमनिवन्धनत्वात् । तदुक्तम्-" अन् यतरमिह एत्तो अन्नं किं अस्थि जीवलोगम्मि? जंजिणवयणेणत्था तिकालजुत्ताविनजंति॥१॥"त्ति । तथा शिवो-मोक्षस्तस्मिन् यत्सुखं तदेव फलं तस्य | प्रार्थ्यमानस्य अवन्ध्यशक्तियुक्ततया कल्पतरुरिव शिवसुखफलकल्पतरुः। 'जहट्टियासेसनेयपडिबद्धंति' यथास्थि तैरशेष यैस्तद्गोचरैः सह वाच्यवाचकभावसंबन्धेन प्रतिबद्धं-संबद्धं यथास्थिताशेषज्ञेयप्रतिबद्धम् । नन्वचिन्यचिन्तामणिकपाल्पमित्यनेनैव गतार्थत्वादपार्थकमिदं विशेषणम् । तथाहि-अचिन्त्यचिन्तामणिकल्पत्वमनावाधवस्तुस्तोमावगमनिद बन्धनत्वं व्याख्यातं, तथा च सति सामर्थ्यादवगम्यत एव अस्य यथास्थिताशेषज्ञेयप्रतिबद्धत्वम् , अन्यथा तन्निवन्धनस्य वस्तुस्तोमावगमस्थानाबाधकत्वायोगादिति, न, कुनयमतव्यवच्छेदफलतयाऽस्य सार्थकत्वात् । अस्ति ह्येवंविधमपि ___१ व्रतश्रमणधर्मसंयमवैयावृत्त्यं च ब्रह्मगुप्तयः । ज्ञानादित्रिकं तपःक्रोधनिग्रहा इति चरणमेतत् ।। २ अद्भुततरमिह एतस्मादन्यत्किमस्ति जीवलोके ? । यज्जिनवचनेनार्थानिकालयुक्ता अपि ज्ञायन्ते ।। १ ।। इति २-oXCCCCCC Jain Education Inter For Private & Personel Use Only R ww.jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ SARAM 25 कुनयमतं यदवस्तुविषयोऽपि वस्त्वध्यवसायनिवन्धनं शब्द इति । तदुक्तम्-" यदेव च वदन्निस्तत्त्वमारोपितम् ।। यस्तत्त्वं जगते जगाद विजयीति” । अतस्तद्यवच्छेदार्थमिदं विशेषणमिति । एतेन यदुच्यते-"प्रमेयं हि वस्तु परिच्छिन्नं प्रापयत्प्रमाणमुच्यते, प्रमेयं च विषयः प्रमाणस्येति प्रामाण्यं विषयवत्तया व्यासं, ततो यद्विपयवन्न भवति, न तत् प्रमाणं, यथा गगनेन्दीवरज्ञानं, न भवति च विषयवत् शाब्दं ज्ञानमिति । तथाहि-द्विविधो विषयः, प्रत्यक्षः परोक्षश्च । तत्र न तावत्प्रत्यक्षः शाब्दज्ञानस्य विषयः, यस्य हि प्रतिपत्तुः संबन्धिनो ज्ञानस्य प्रतिभासेन स्फुटाभनीलाद्याकाररूपेण योऽनुकृतान्वयव्यतिरेकोऽर्थः स तस्य प्रत्यक्षः, तस्य च प्रत्यक्षस्यार्थस्यायमेव प्रतिपत्तिप्रकारो नापरः । तदर्थान्वयव्यतिरेकानुविधायि च स्फुटप्रतिभासं ज्ञानं प्रत्यक्षं, प्रत्यक्षज्ञेयत्वात् । तन्नो प्रत्यक्षोऽर्थों |ऽनेकप्रकारप्रतिपत्तिविषयो, यः शाब्दप्रमाणस्यापि विषयः कल्प्येत । नापि परोक्षोऽर्थस्तस्य विषयो, यतोऽन्वयव्यतिरेकनिश्चिततन्नान्तरीयकार्थदर्शनात्परोक्षस्यार्थस्य प्रतिपत्तिः,यथाधूमदर्शनाद्वः,अन्यथाऽतिप्रसङ्गात् । न चार्थेन सह शब्दस्य नान्तरीयकता अन्वयव्यतिरेकाभ्यां निश्चिता, प्रतिबन्धाभावात् , तादात्म्यतदुत्पत्त्यनुपपत्तेः । तथाहि* अर्था बाह्या घटादयो न रूपं शब्दानां, नापि शब्दो रूपमर्थानां, तथाप्रतीतेरभावात् , तत्कथमेषां ? तादात्म्यं, येन १ एतत्खण्डं चेदं पद्यम्-बुद्ध्या कल्पिकया विविक्तमपरैर्यदूपमुल्लिख्यते, बुद्धिों न बहिर्यदेव च वदन्निस्तत्त्वमारोपितम् । यस्तत्त्वं जगते 18जगाद विजयी निःशेषदोषद्विषो, वक्तारं तमिह प्रणम्य शिरसाऽपोहः स विस्तायते।। Jan Education in For Private Personel Use Only Page #28 -------------------------------------------------------------------------- ________________ १२॥ कृतकत्वानित्यत्वयोरिव व्यवस्थातो भेदेऽपि नान्तरीयकता स्यात् । अपि च-तादात्म्याभ्युपगमे क्षुरिकानलाचला-18 संग्रहणिः द दिशब्दोचारणे बदनपाटनदहनपूरणादिदोपप्रसङ्गः, तन्नायमभ्युपगमः श्रेयान् । नापि तदुत्पत्त्युपगमः, वस्तुनः शब्दो-त त्पत्तावकृतसंकेतस्यापि पुंसः प्रथमपनसदर्शने सति तच्छब्दोचारणप्रसङ्गात् । शब्दाच वस्तूत्पत्ती विश्वस्यादरिद्रताप्रसङ्गः, तत एव कटककुण्डलायुत्पत्तेः । ततः प्रतिबन्धाभावान्न शब्दस्यार्थेन सह नान्तरीयकतानिश्चयः । तदभा वाच न शब्दानिश्चितार्थप्रतिपत्तियुक्ता, अपि त्वनिवर्तितशङ्कत्वादस्ति नवेति विकल्पितार्थप्रतिपत्तिः । न च विक||ल्पितमुभयरूपं वस्त्वस्ति यत्प्राप्यं सत् शब्दस्य विषयः स्यात् । प्रवर्त्तमानस्य तु पुरुषस्यार्थस्य पृथिव्याममजनादव-14 श्यमन्यत् ज्ञानान्तरं तत्प्रतिपत्तिनिमित्तभूतमुत्पद्यते, यतः सोऽवाप्यत इति शाब्दज्ञानस्य विषयवत्त्वाभाव इति"। तदेतदयुक्तमवगन्तव्यं, विषयवत्त्वाभावासिद्धेः । परोक्षस्य तद्विषयत्वात् । यत्पुनरुक्तं- नैवार्थेन सह शब्दस्य नान्तरीयकतानिश्चयोऽस्ति, प्रतिबन्धाभावात् , तादात्म्यतदुत्पत्त्यनुपपत्तेरिति' तदसमीचीनम् । वाच्यवाचकभावलक्षणेन प्रतिबन्धान्तरेण नान्तरीयकतानिश्चयोपपत्तेः । शब्दो हि विवक्षितवाद्यवस्तुवाचकखभावतया तन्नान्तरीयकः । ततश्च शब्दान्निःशङ्किताबाधितार्थप्रतिपत्तौ नातोऽस्ति नवेति विकल्पितार्थप्रतिपत्तिः, येन विकल्पितस्याभावात्तदप्रापयत् शाब्दं ज्ञानमविषयं भवेत् । स्यादेतत् , यदि वास्तवः संवन्धोऽथैः सह शब्दानां तर्हि किमिदानी संकेतेन !, स ॥१२॥ हि संवन्धो यतोऽर्थप्रतीतिः, स चेद्वास्तवो निरर्थकः संकेतः, तमन्तरेणापि तत एवार्थप्रतीतिसिद्धेः । नहि प्रदीपः Jan Education For Private Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ CCCCCCC स्वप्रकाश्यप्रकाशने संकेतमपेक्षते इति, नैप दोषः, यतो न सम्बन्धो विद्यमान इत्येतावतैवार्थप्रतीतिनिवन्धन, किंतु खात्मज्ञानसहकारी, प्रदीपवदेव, तथाहि-यथा प्रदीपः खात्मदर्शनसहकारी सन् रूपप्रकाशनखभावः, ततो-है। |ऽसति चक्षुषि न प्रकाशयति, खात्मदर्शनसहकार्यभावात् , तथा संबन्धोऽपि स्वात्मज्ञानसापेक्षः सन् प्रतीतिजननखभाव इति न संकेताद्यभावेऽर्थप्रतीतिं जनयति, तदा खात्मज्ञानसहकार्यभावात् , तत्वात्मज्ञानं हि तदाऽऽवरणक्षयक्षयोपशमाभ्यां, तौ च क्षयक्षयोपशमी संकेततपश्चरणभावनादिजन्यौ, अत एव कदाचित्संकेताभावेऽपि केषाञ्चित् तपश्चरणभावनादिभ्यः समुत्पन्नतज्ज्ञानाऽऽवरणकर्मक्षयक्षयोपशमभावानां शब्दादाच केवलादप्यवैपरीत्येन वाच्यवाचकभावसंबन्धावगमो भवति । तथा सर्व एव सर्वज्ञाः सुमेरुजम्बूद्वीपादीनान् प्रतिपद्यमानास्तच्छब्दवाच्यानेव प्रतिपद्यन्ते, तैरेव तथा प्ररूपणात् , अन्यैरेवं प्ररूपिता इति तैरपि तथा प्ररूपिता इति चेत् , तेषामपि तथाप्ररूपणे को हेतुरिति वाच्यं ?, तदन्यैरेवं प्ररूपणादिति चेत्, नन्वत्रापि स एव प्रसङ्गः, समाधिरपि स एवेति चेत्, न, सुमेाद्यर्थानां तदभिधायकानां च शब्दानां वास्तवसंवन्धसिद्धिप्रसङ्गात् , कल्पान्तरवर्तिभिरपि सर्वहस्तेपामर्थानां सुमेर्वादिशब्दवाच्यतया प्ररूपणात्, अनादित्वात्संसारस्य कदाचिकैश्चिदन्यथापि सा प्ररूपणा कृता भविष्यतीति चेत्, न, अतीन्द्रियत्वेनात्र प्रमाणाभावात् , तैरपि तथैव सा प्ररूपणा कृतेत्यत्रापि प्रमाणाभावः समान एवेति चेत्, तदयुक्तम् , शाक्यमुनिना हि तावदिदानी सुमेर्वाद्यर्थः सुमेर्वादिशब्देन प्ररूपितः, न च C CCRORSCRESS धर्म.३ Jain Education Intematon For Private & Personel Use Only Ri w .jainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ धर्म ॥ १३ ॥ % , | सुमेर्वादौ सुमेर्वादिशब्दप्रयोगः संकेतद्वारेणाप्यतत्स्वभाववत्त्वे तयोर्भवति, तत्स्वभावाभ्युपगमे च सिद्धं नः समीहि - तं, तत्समानपरिणामस्य प्रवाहतोऽनादित्वात्, तत्रैव च तत्स्वभावतया संबन्धाभ्युपगमात् इत्थं चैतदङ्गीकर्त्तव्य| मन्यथाऽनाद्यनन्तत्वात् संसारस्य कदाचिदन्यतोऽपि धूमादीनां भावो भविष्यतीतिव्यभिचारचोदनं धूमधूमध्वजा - | दिष्वपि समानमित्यलं प्रसङ्गेन । ननु यदि वास्तवसंबन्धोपेतत्वादेते शब्दास्तात्त्विकार्थाभिधायिनस्तर्हि दर्शनान्तर - भिन्नेष्वर्थेषु तेषां प्रवृत्तिर्न घटेत, परस्य विरोधित्वेन तथाभूतानामर्थानामसंभवात्, तथातीतेऽनुत्पन्ने चार्थे प्रवृत्तिर्न स्यात्, तयोरसंभवात् न च स्यात्कस्याश्चिदपि वाचो मिथ्यार्थता, सद्भूतार्थमन्तरेण तस्याः प्रवृत्तेरेवानुपपद्यमानत्वादिति, अत्रोच्यते, द्विविधा हि शब्दाः, मृपाभावावर्गणोपादानाः सत्यभाषावर्गणोपादानाथ, तत्र ये | मृषाभाषा वर्गणोपादानाः स्वस्वनिमित्तवैचित्र्यवशात् प्रधानपरिणामरूपं जगत् ईश्वरेण कृतं जगत् इत्येवं नानारूपास्तेऽनर्थका एवाभ्युपगम्यन्ते, ते हि बन्ध्याऽवला इव तदर्थप्रात्यादिप्रसवविकलाः, केवलं तथाविधसंवेदनभोगमात्रफला इति न तैर्व्यभिचारः, यथा प्रमाणादितरस्य स्वरूपविपयादिपर्यालोचनया स्वतत्त्वावसायस्तथा सत्यभावावर्गणोपादानेभ्योऽपि जीवादिवस्तुवाचकेभ्यः शब्देभ्यस्तेषां मृषाभाषावर्गणोपादानानां शब्दानां स्वरूपविशेषावसायो भवति, तथाहि — दृश्यन्त एव केचिद्विमलमतयः श्रवणमात्रादपि मिध्यार्थत्वादिलक्षणं याथात्म्य- * मवधारयन्तः शब्दानामिति, अतीताजातयोश्च वर्त्तमानरूपतयाभिधायकः शब्दोऽनर्थक एवेष्यते इति न किञ्चिन्नः ॥ १३ ॥ संग्रहणिः, ' Page #31 -------------------------------------------------------------------------- ________________ क्षुण्णं, यदा तु ते अपि वस्तुनी अतीताजातरूपतयाऽभिधत्ते तदा तद्विषयः सार्वज्ञज्ञानमिव सद्भतार्थविषयत्वात् । प्रामाण्यमश्नुत एव, अन्यथा अतीतकल्पान्तरवर्तिपादिसर्वज्ञदेशना भविष्यच्छङ्खचक्रवादिदेशना च सर्वथा । नोपपद्येत, तेषामभावेन तद्विषयज्ञानतन्निवन्धनशब्दप्रवृत्त्ययोगात् । स्यादेतत्-अनले अनलशब्दस्तदभिधानखभावतया यमभिधेयपरिणाममाश्रित्य प्रवर्तते स जले नास्ति, जलानलयोरभेदप्रसङ्गात् , प्रवर्त्तते च संकेतवशात् जलेडप्यनलशब्दस्तत्कथं शब्दार्थयोर्वास्तवः संबन्ध उद्घष्यत इति, तदयुक्तं, शब्दस्यानेकशक्तिसमन्विततया उक्तदोषानुपपत्तेः, तथाहि-नानलशब्दस्य अनलवस्तुगताभिधेयपरिणामापेक्षी तदभिधान एवैकः खभावः, अपि तु समयाधानतत्स्मरणापेक्षितया विलम्वितादिश्तीतिनिबन्धनं, जलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानखभावोऽपि, तथा ततस्तस्यापि प्रतीतेः, अन्यथा ततस्तथा तत्प्रतीत्यभावप्रसङ्गात् । ननु यद्येते शब्दाः तत्त्वतो वस्तुविषयास्तत्कथं चक्षुरादीन्द्रियसमुत्थबुद्धाविक शाब्दे ज्ञाने तस्य बस्तुनोन प्रतिभासः, चक्षुरादीन्द्रियगम्यमेव हि वस्तु नेतरत्, तस्यैवार्थक्रियासमर्थत्वात् , वस्तुनश्च तल्लक्षणत्वात् , न च तत् शाब्दे ज्ञाने प्रतिभासते, तस्मादयस्तुविषया एते । शब्दाः, तथा चात्र प्रयोगः-योऽर्थः शाब्दे ज्ञाने येन शब्डेन सह संसृष्टो नावभासते न स तस्य शब्दस्य विषयः, यथा गोशब्दस्याश्वः, नावभासते चेन्द्रियगभ्योऽर्थः शाब्दे ज्ञाने शब्दसंसृष्ट इति, यो हि यस्य शब्दस्यार्थः स तेन शब्देन संसृष्टः शाब्दे ज्ञानेऽवभासते, यथा गोशब्देन गोपिण्डः, एतावन्मात्रनिवन्धनत्वाद्वाच्यत्वस्येति, तदेतदयु Jain Education in Page #32 -------------------------------------------------------------------------- ________________ कम्, इन्द्रियार्थस्य शाब्दे ज्ञाने शब्दससृष्टस्यानवमासासिद्धेः, तथाहि-कृष्णं महान्तं खण्डं मसृणमपूर्वमपव जासंग्रहणिः. 14 रकात् घटमानयेत्युक्तः सन् कश्चित् तज्ज्ञानावरणकर्मक्षयोपशमयुक्तस्तमेवार्थ तथा प्रत्यक्षमिव शाब्देन ज्ञानेन प्रति पद्यते, तदन्यानेकघटमध्ये तदानयनाय तं प्रति भेदेन प्रवर्तनात् , तथैव चापि तत्प्रारिति, अधोच्येत-. यदि शाब्देऽपि ज्ञाने इन्द्रियार्थः प्रतिभासमानोऽभ्युपगम्यते, तर्हि प्रत्यक्षस्येव तस्यापि स्फुट एव प्रतिभासो भवेत. न च भवति, तथानुभवाभावात् , तन्न शाब्दज्ञानमिन्द्रियार्थविषयमिति, तदयुक्तं, स्फुटास्फुटप्रतिभासयोर्वस्तुभेदकत्वायोगात् , तथाहि-एकस्मिन्नपि नीलखलक्षणे दूरासन्नदेशवर्तिप्रतिपत्तृज्ञाने स्फुटास्फुटप्रतिभासे भवतः, न च । तद्भावेऽपि वाद्यवस्तुभेदः, तथेहाप्येकस्मिन् खलक्षणे इन्द्रियजशाब्दज्ञाने स्फुटास्फुटप्रतिभासे भविष्यतः, न च । हतद्गोचरवस्तुभेद इति । अथ मन्येथाः-वस्त्वभावेऽपि शाब्दज्ञाने प्रतिभासाविशेषात् सत्यपि वस्तुनि शाब्दज्ञानमु दयपदवीमासादयत् न तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुविधानात् , ज्ञानस्य हि प्रतिभासो यस्य भावाभावावनुविधत्ते तस्य तद्राहकं, न च शाब्दज्ञानप्रतिभासः प्रतिभासमानवस्तुभावाभावावनुविधत्ते, तदभावेऽपि तत्प्र-2 तिभासाविशेषात् , तस्मान्न बाह्यवस्तुनो ग्राहकं शाब्दं ज्ञानं, रसज्ञानवत् , तथा चात्र प्रमाणम्-यत् ज्ञानं यदन्वयव्यतिरेकानुविधायि न भवति, न तत्तद्विपयं, यथा रूपज्ञानं रसविषयं, न भवति चेन्द्रियार्थान्वयव्यतिरेकानुविधायि शाब्दज्ञानमिति व्यापकानुपलब्धिः, नियतवस्तुविषयत्वं हि ज्ञानस्य निमित्तवत्तया व्याप्तम् , अन्वयव्यतिरे AMRACCXAM ॥१४॥ Jain Education in For Private & Personel Use Only Pl Page #33 -------------------------------------------------------------------------- ________________ xxxx 6 कानुविधानाभावे च निमित्ताभावः स्यात् तेन विवक्षितवस्तुविषयत्वं निमित्तवद्विपक्षाध्यापकानुपलब्ध्या व्याव| र्त्तमानं तदन्वयव्यतिरेकानुविधानेन व्याप्यत इति प्रतिबन्धसिद्धिरिति, तदेतदसमीचीनं, प्रत्यक्षज्ञानेऽप्येवमवि|पयत्वप्रसक्तेः तथाहि यथा जलवस्तुनि पुरतो विद्यमाने जलोलेखि प्रत्यक्षमुदयते, तथा जलवस्त्वभावेऽपि मरीचिकाखक्षुण्णजलप्रतिभासं तदुदीयमानमुपलभ्यत एव, ततो जलाभावेऽपि जलप्रतिभासाविशेषात् सत्यपि जले जलप्रतिभासं प्रादुर्भवन्न तद्याथात्म्यसंस्पर्शि, तद्भावाभावयोरननुकारादित्यादि सर्व समानमेव, अथ देशकालखरूपादिपर्यालोचनया प्रवृत्तौ तत्प्रात्यभावेन मरीचिकासु जलोल्लेखिनः प्रत्यक्षस्य भ्रान्तत्वमवसीयते, भ्रान्तं चाप्र| माणं, प्रमाणभूतस्य च वस्त्वन्वयव्यतिरेकानुविधायित्वाव्यभिचार इष्यते, ततो न कश्चिद्दोष इति, तदेतदन्यत्रापि समानं, तथाहि - प्रतिपाद्यमर्थ यथास्वरूपं यः पश्यति यथादर्शनं चोपदिशति तेन तथाभूतेनाऽऽप्तेन प्रणीय|मानात् शब्दादुपजायमानं ज्ञानं प्रमाणत्वेनास्माभिरिष्यते, नेतरत् न च तस्य स्वप्रतिभासमानवस्त्वन्वयव्यतिरे| कानुविधायित्वव्यभिचारसंभवो, यत्पुनरितरत् शाब्दं ज्ञानं तत् भ्रान्तत्वादप्रमाणमप्रमाणत्वाच्च व्यभिचारास्पदमिति यत्किञ्चिदेतत् । यदपि चानन्तरमुपन्यस्तं प्रमाणं तदपि हेतोरसिद्धत्वान्न साध्यसाधनायालम्, असिद्धता च हेतोर्यथोक्ताप्त पुरुषप्रणीतस्य शब्दस्य वस्तुव्यतिरेकेण प्रवृत्त्यसंभवात् इति । यत्पुनरिदमुच्यते शब्दः श्रूयमाणो वक्तुरभिप्रायं विकल्पप्रतिविम्बात्मकं तत्कार्यतया धूम इव वह्निमनुमापयति, तत्र स एव वक्ता विवक्षितार्था - Page #34 -------------------------------------------------------------------------- ________________ संग्रहणिः, भिप्रायशब्दयोराश्रयत्वाद्धी अभिप्रायविशेषः साध्यः शब्दः साधन मिति, आह च-" वक्तरभिप्रेतं तु सूचयेयु- रिति स एव तथा प्रतिपद्यमान आश्रयोऽस्त्विति", तत्पापात्पापीयः, तथाप्रतीतेरभावात् , न खलु कश्चिदिह धूमादिव वहिं तत्कार्यतया शब्दादभिप्रायमनुमिमीते, अपि तु वाचकत्वेन बाह्यमर्थ प्रत्येति, तथा प्रवृत्त्या| दिदर्शनात् , तथाप्यन्यथाऽभ्युपगमेऽतिप्रसङ्गो, वस्तुव्यवस्थाऽनुपपत्तिप्रसङ्गात् , नाग्मिधूंमं जनयति, किंतु पिशा चादिरित्यादेरपि कल्पयितुं शक्यत्वात् , अपिच-अर्थक्रियार्थी प्रेक्षावान् प्रमाणमन्वेषते, अन्यथा प्रेक्षावत्ताक्षतिप्रसङ्गात् , न चाभिप्रायो विवक्षितार्थक्रियासमर्थः, किंतु बाह्यमेव वस्तु, तत्किं तेनानुमितेनापि ?, न च वाच्यमभिप्रायं ज्ञात्वा बाह्ये वस्तुनि प्रवर्तिष्यते प्रमाता ततो न कश्चिद्दोष इति, अन्यस्मिन् ज्ञाते अन्यत्र प्रवृत्त्ययोगात् , दृश्यविकल्प्यावर्थावेकीकृत्य बाह्ये प्रवर्तते तेनायमदोष इति चेत् , न, तयोरेकीकरणासंभवात् , अत्यन्तवैलक्षण्येन साधयायोगात् , साधम्म्य चैकीकरणनिमित्तम् , अन्यथाऽतिप्रसङ्गात् , अन्यच्च क एतावेकीकरोतीति वाच्यं ?, स एव विकल्प इति चेत्, न, तत्र स्खलक्षणावभासानभ्युपगमात् , अन्यथा विकल्पवहानिप्रसङ्गात् , अनवभा६ सितेन च एकीकरणानुपपत्तेः, अतिप्रसङ्गात् , अथ विकल्पादन्य एव कश्चिद्विकल्प्यमेवार्थ दृश्यमित्यध्यवस्थतीति प्रतिपद्येथाः, तदयुक्तं, खदर्शनपरित्यागप्रसङ्गात् , एवमभ्युपगमे सत्यात्माऽभ्युपगमप्रसङ्गात् , विकल्पकाले हि |विकल्पादन्यो बोधखभावो दृश्यविकल्प्यावर्थावेकीकुर्वन्नात्मैवोपपद्यते, तदानीमन्यस्य विकल्पस्याभावादनभ्युपग SC-9-3650-5ASC-CG Jain Education Inter For Private & Personel Use Only allow.jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ Jain Education Inter माच, निर्विकल्पकदर्शनस्य चैकीकरणाध्यवसायासंभवात्, अन्यथा विकल्परूपताप्रसङ्गादित्यलं दुर्मतिविस्पन्दितेषु तदेवं वाच्यवाचकभाव संबन्धेन यथास्थितशेषज्ञेयप्रतिबद्धं जिनवचनमिति स्थितम् । पुनरप्येतदेव विशेषयति'नानानयौघगहनं' नाना - अनेकप्रकारा नया-नैगमादयस्तेषामोघः - सङ्घातस्तेन गहनं - गुपिलम् । इत्थं जिनवचनं त्रिभुवनेऽपि प्रसिद्धं त्रिभुवनप्रसिद्धं, प्रसिद्धिग्रहणेन चैतदाह — त्रिभुवनप्रसिद्ध्यैवास्य जिनवचनस्य एवंविधगुणोपेतत्वं सिद्धमिति किमन्यतत्साधकप्रमाणोपन्यासेन ?, निष्फलत्वादिति ॥ १६ ॥ पुनरप्यस्यैवातिशयविशेषमाह - एस एगदेसोऽवि भावओ भवजणपरिग्गहिओ । अत्थsasवितणातो दुक्खक्खयकारणं होइ ॥ १७ ॥ 'एतस्य' जिनवचनस्य, एकदेशोऽपि, आस्तां समस्तं जिनवचनमित्यपिशब्दार्थः, 'भावतो' बहुमानतो, भव्यजनेन सूत्रतोऽर्थतश्च परिगृहीतः, तथाविधशत्तयभावेन तु सूत्रतोऽपरिग्रहेऽपि अर्थोऽपि केवलः 'अवितथज्ञातः' अवैपरीत्येनावबुद्धः सन् दुःखक्षयकारणं भव्यजनस्य भवति, जिनवचनस्याचिन्त्यशक्तिसमन्वितत्वात् ॥ १७॥ ततः किमित्याहतम्हा एवं भावेयवं पगासियां च । अवखित्तेणेदं दुक्खक्खयमिच्छमाणेणं ॥ १८ ॥ ww.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ संग्रहणिः . | यत एवं तस्मादिदं जिनवचनादुद्धस मया वक्ष्यमाणं 'रोचयितव्यं रुचिविषयीकर्तव्यं, सकलस्याप्यनुष्ठानस्य रुचितस्यैव खफलसिद्धिनिवन्धनत्वात् , तथा 'भावयितव्यं' पूर्वापरावयवावपरीत्यपर्यालोचनेनाऽऽत्मसात्कर्तव्यं, तत्त्वाभिनिवेशमूलत्वादुत्तरोत्तरविशिष्टक्रियाप्रवृत्तेः, तथा परेभ्यः प्रकाशयितव्यं च, परप्रतिबोधकरणस्य परमनिर्जराकारणत्वात् , 'अव्याक्षिप्तेन' व्याक्षेपविरहितेन सता, व्याक्षेपाकुलस्य सम्यग्रोचनाद्यनुपपत्तेः, सम्यग्रोचनादेरवश्यकर्त्तव्यतायां हेतुमाह- 'दुक्खक्खयमिच्छमाणेणं' दुःखक्षयमिच्छता, सम्यग्रोचनादिव्यतिरेकेण सकलसांसारिकदुःखक्षयायोगात् ॥ १८ ॥ एवं च सति किमित्याह सफलो मे तो एवं आरंभो रोयणाइजोगातो। तत्थऽप्पणो परस्स य णियमातो कयं पसंगेणं ॥ १९ ॥ यतोऽनन्तरोक्तप्रकारेण वक्ष्यमाणमवश्यं रुच्यादिविषयीकर्तव्यमतो 'मे' ममास्य प्रकरणस्यारम्भः 'एवम्' उक्तनीत्या सफलः । कुत इत्याह-'तत्र' आरभ्यमाणे प्रकरणे 'नियमाद्' अवश्यंतया आत्मनः परस्य च 'रोचनादियोगात्' रोचनाभावनादिभावात् । इह खस्य रोचनाद्ययोगे कथयितुरङ्गारमईकस्येव विवक्षितफलानुपपत्तिः, कर्मदोषेण पुनः कदाचित् परेषां रोचनाद्यभावेऽप्यात्मनो रोचनादिभावतो विशिष्टफलावाप्तिनं व्याहन्यत इत्यात्मन इत्युपादायि, ॥१६॥ Jain Education For Private & Personel Use Only Page #37 -------------------------------------------------------------------------- ________________ 464-CONGRESS. COM अन्यथा परोपकाराय प्रकरणस्याऽऽरभ्यमाणत्वात् परस्यैव रोचनाद्यभिधातव्यं स्यान्नात्मन इति । यत एवं मम || प्रकरणस्यारम्भः सफलोऽतः ‘कृतं' पर्याप्तमिहाधिकेन प्रसङ्गेन ॥१९॥ इह 'धर्मसङ्ग्रहणिं वक्ष्ये' इत्यनेन सामर्थ्या-3 दस्य प्रकरणस्य धर्मोऽभिधेय उक्तः, तत्र धर्मशब्दान्वर्थमाह धारेइ दुग्गतीए पडतमप्पाणगं जतो तेणं । धम्मोत्ति सिवगतीइ व सततं धरणा समक्खाओ ॥ २० ॥ 'धारयति' निवारयति दुर्गतौ प्रपतन्तमात्मानं यतस्तेन कारणेन धर्म इति समाख्यातो वक्ष्यमाणः सम्यग्दर्शनाद्यात्मपरिणामः । अथवा शिवगतौ सततं 'धारणात्' स्थापनात् धर्म इति समाख्यातः ॥ २० ॥ अत्र परः| पिपृच्छिपुरिदमाह धम्माधम्मक्खयतो सिवगतिगमणं ति ता कहं ताए। धारेति ? तओ भन्नति हेतुम्मि फलोवयारोऽयं ॥ २१ ॥ ननु 'धर्माधर्मक्षयात्' पुण्यापुण्यक्षयात्सकाशात् शिवगतौ गमनं भवति, "धर्माधर्मक्षयान्मुक्ति"रितिवच JainEducation intel For Private Personal use only Page #38 -------------------------------------------------------------------------- ________________ धर्म ॥ १७ ॥ Jain Education Inter नात्, ततः कथं तस्यां शिवगतौ धारयति ' तओत्ति ' सको धम्र्मो १, नेवासा धारयति, किन्तु धर्माधर्मक्षय एवेति भावः । अत्राह - ' भण्यते' अत्रोत्तरं दीयते, 'हेतुम्मि फलोबयारोऽयमिति' हेतौ - धर्मे फलस्य - धर्म्मा| धर्म्मक्षयलक्षणस्योपचारोऽयं पूर्वोक्तो निर्देशः, एतदुक्तं भवति - कारणे कार्योपचाराचन्दुलान् वर्षति पर्जन्य | इत्यादिनिर्देशयत् शिवगतौ सततं धारणाद्धर्म्म इत्युक्तमतो न कश्चिद्दोष इति ॥ २१ ॥ तमेव कार्यकारणभावमुप - चारनिबन्धनं दर्शयति ऊ उभयखयरस य धम्मो जं तस्समुज्जतो नियमा | कुणइ तयं तदभावे तस्साणुटुाणवेफल्लं ॥ २२ ॥ 'हेतुश्च' हेतुरेव कारणमेव 'उभयक्षयस्य' धर्म्माधर्म्मक्षयस्य 'धम्म' वक्ष्यमाणः, चोऽवधारणे, भिन्नक्रमश्च, स चादावेव योजितः, कुतो हेतुरेवोभयक्षयस्य धर्म्म इत्यत आह- 'यत्' यस्मात् तस्मिन् धर्मे समुद्यतो 'नियमाद्' अवश्यंतया करोति 'तकम्' उभयक्षयं धर्म्माधर्मक्षयम् । अत्रैव विपक्षे बाधामाह - ' तदभावे' धर्माधर्म्मलक्षणोभयक्षयाभावे 'तस्य' धर्म्मस्य संबन्धिनोऽनुष्ठानस्य वैफल्यं - वैफल्यप्रसङ्गः, तदनुष्ठानं हि धर्माधर्मक्षयार्थ, स चेत्ततो न भविष्यति किं तदनुष्ठानेनेतिभावः ॥ २२ ॥ अत्र पराभिप्रायमाह - संग्रहणिः. ॥ १७ ॥ Page #39 -------------------------------------------------------------------------- ________________ तस्साणुट्ठाणफलं देवादिसु सातमेव सिय होज्जा। तं नो धम्मरयाणवि मोक्खाभावप्पसंगातो ॥ २३ ॥ RAMGARCANAGARCASCAMOCRACC स्यादेतत्, 'तस्य धर्मस्य संबन्धिनोऽनुष्ठानस्य फलं देवादिषु, आदिशब्दाद्विशिष्टकुलादिपरिग्रहः, सातमेव भवेत् , ततः कथं तदनुष्ठानस्य वैफल्यप्रसङ्ग इति । अत्रोत्तरमाह-'तं नो' इति यदेतदुक्तं तन्न, कुत इत्याह-एवमभ्युपगमे सति धर्मानुष्ठाननिरतानामपि मोक्षाभावप्रसङ्गात् , तस्य देवादिविषयसातफलत्वेनैवाभ्युपगमात् , प्रयोगश्चात्र-यत् यजनन एवं प्रतिनियतशक्तिकं न ततस्तदन्यत् भवति, यथा यवबीजात् शाल्यङ्करः, देवादिविषयसातजनन एव च प्रतिनियतशक्तिकमभ्युपगम्यते धर्मानुष्ठानमिति, ततस्तदन्यभावो हि तदन्यजननशक्तिमत्तया व्याप्तः, तद्विरुद्धं च तजनन एवं प्रतिनियतशक्तिकत्वमिति व्यापकविरुद्धोपलब्ध्याऽप्यस्य मोक्षभावस्याभावः प्रसज्यते, ४ अनिष्टं चैतत् , ततो धर्माधर्मक्षयहेतुर्धर्म इति स्थितम् ॥ २३ ॥ अपिच उभयक्खयम्मि हेऊ को वा अन्नोत्ति ? झाणमह बुद्धी । इमिदं णो जम्हा धम्मातो ण तं पिहब्भूयं ॥ २४ ॥ Jain Education Inter For Private & Personel Use Only ww.jainelibrary.org Page #40 -------------------------------------------------------------------------- ________________ संग्रहणिः . ॥१८॥ 'उभयक्षयस्य धर्माधर्मक्षयस्य धर्मादन्यः को हेतुः स्यादिति वाच्यं, निर्हेतुकत्वे सति सदाभावादिप्रसङ्गात् । अथ स्वादियं तव बुद्धिः-ध्यानमुभयक्षयस्य हेतुरिति, अत्राह–इष्टमिदमस्माकं, नात्र विप्रतिपत्तिः, यस्मात् 'तत्' ध्यानं न 'धर्माद' वक्ष्यमाणस्वरूपात् पृथग्भूतं, तस्योत्तरगुणरूपत्वात् ॥२४॥ इह धर्माधर्मक्षयस्य हेतुर्द्धर्म इत्युक्तं, तत्रापरो धर्माधर्मखरूपमजानानः प्रश्नयति-ननु धर्मादधर्मस्य क्षयो भवतु, तस्य तेन सह विरोधात्, धर्मस्य पुनः कथं ?, नहि खस्मात् खस्यैव क्षयो भवितुमर्हति, सर्वभावानामपि खरूपत एव क्षयप्रसक्त्या सकलशून्यताऽऽपत्तेरित्यत आह जो पुण्णकम्मरूवो धम्मो तस्स क्खयातो सिवगमणं । जो पुण आतसहावो पगरिससुद्धो ण तस्सावि ॥ २५ ॥ 8| इह द्विविधो धर्मः-पुण्यकर्मप्रकृतिलक्षणः सम्यग्ज्ञानादिरूपात्मपरिणामलक्षणश्च, तत्र धर्माधर्मक्षयात् शिवगतौ गमनं भवतीत्यत्र यः पुण्यकर्मरूपो धर्मस्तस्य क्षयादिति द्रष्टव्यं, न पुनर्य आत्मखभावः सम्यग्दर्शनादिरूपःप्रकर्षशुद्धस्तस्यापि क्षयात् , ततो न कश्चिदिह पूर्वोक्तदोषावकाशः । ननु यद्यसौ सम्यग्दर्शनादिरूपो धर्मः १ अत एव व्याख्याप्रज्ञप्तौ धम्मकामए पुण्णकामए इति पदयुगलपाठः। CARRORAN Jain Education in For Private & Personel Use Only Al Page #41 -------------------------------------------------------------------------- ________________ पुण्यक्षयहेतुरिष्यते, ततो नैवासौ तन्निबन्धनं भवेत् , न हि यो यत्क्षयहेतुः स तदुत्पादहेतुर्भवति, यथाऽऽपो ज्वलनस्य, पुण्यकर्मक्षयहेतुश्चासौ सम्यग्दर्शनाद्यात्मपरिणामलक्षणो धर्मः, "उभयक्खयस्स हेऊ धम्मो" इतिवचनात्, तथा च सति "पच्छा वि ते पयाया खिप्पं गच्छंति अमरभवणाई। जेसिं पिओ तवो संजमो य खंती य बंभचेरं च ॥१॥” इत्याद्यागमविरोधः, अत्र तपस्संयमादेः खर्गादिफलत्वेनाभिधानात् , तस्य चानन्तरपुण्यकर्मप्रकृतिलक्षणकारणनान्तरीयकत्वादित्यत आह सो उभयक्खयहेऊ सेलेसीचरमसमयभावी जो। सेसो पुण निच्छयओ तस्सेव पसाहगो णेओ ॥ २६ ॥ इह 'निश्चयतो' निश्चयमतेन सम्यग्दर्शनादिरूपात्मपरिणामलक्षणो धर्मः स एवोभयक्षयहेतुः, यः शैलेश्यवस्थाचरमसमयभावी, न चासौ पुण्यकर्मप्रकृतिकारणमागमेऽपीष्यते, ततो न कश्चिदागमविरोधः, शेषः पुनः सर्वोऽपि यथोक्तो धर्मः तस्यैव' शैलेश्यवस्थाचरमसमयभाविनो धर्मस्य साक्षात् पारम्पर्येण वा साधकः । तत्र तदनन्तर१ उभयक्षयस्य हेतुर्धर्मः । २ पश्चादपि ते प्रयाता: क्षिप्रं गच्छन्ति अमरभवनानि । येषां प्रियं तपः संयमश्च क्षान्तिश्च ब्रह्मचर्य च । JainEduधर्म.४ाता For Private & Personel Use Only w ww.jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ धर्म- संग्रहणिः, पश्चात्समयभावी साक्षात् , शेषः पुनः सर्वोऽपि पारम्पर्येण, एकद्वित्र्यादिभवव्यवधानलक्षणेन च पारम्पर्येण तस्य धर्मस्य प्रसाधको भवति वर्गादिफलपुण्यकर्मप्रकृतीर्जनयन्नेव, नान्यथा । ततस्तदपेक्षया सूत्रमप्यनन्तरोक्तं समीची-1 नमेवेति स्थितम् ॥ २६ ॥ तदेवं सप्रपञ्चं धर्मशब्दान्वर्थमभिधाय साम्प्रतं धर्मशब्दनिक्षेपप्रकारमाह णामं ठवणा दविए खेत्ते काले तहेव भावे य । एसो खलु धम्मस्सा णिक्खेवो छबिहो होइ ॥ २७ ॥ नामधर्मः स्थापनाधर्मः द्रव्यधर्मः क्षेत्रधर्मः कालधर्मस्तथैव भावधर्मश्च, एष खलु धर्मस्य निक्षेपः षड्विधो , भवतीति गाथासंक्षेपार्थः । नन्विदं निक्षेपप्रकाराभिधानमयुक्तम् , अप्रस्तुतत्वात् , न हि नामादिभिरिहाभिहितैः किञ्चित्प्रयोजनमीक्षामहे इति, न, व्यामोहनिवृत्तिफलत्वेनास्य प्रस्तुतत्वात् , तथाहि-पूर्वोक्तं धर्मशब्दान्वर्थमाकर्ण्य नामादिपु धर्मशब्दाभिधेयेषु धर्मशब्दान्वर्थादर्शनात् कश्चिद्वयामुह्येत, ततस्तद्वयामोहापनोदार्थ नामादीन अप्रस्तुतान् अपाचिकीर्षः प्रस्तुतेन च वक्ष्यमाणेन भावधर्मेण यथोक्तधर्मशब्दान्वर्थयुक्तेनाधिकारमुपदिदर्शयिपुः १ मोक्षहेतोरपि सम्यक्त्वादेः पुण्यकारणत्वेऽध्यवसायविशेषयुक्ततैव हेतुरिति अत्रत्यो विशेषः शास्त्रवार्त्तावृत्तौ। २ प्रकारानाहेति क पुस्तकपाठः ॥१९॥ -- Jain Education in For Private & Personel Use Only Page #43 -------------------------------------------------------------------------- ________________ सप्रपञ्चं नामादिनिक्षेपप्रकारानाचष्ट इत्यदोपः, तदुक्तम्-"अप्रस्तुतार्थापाकरणात्प्रस्तुतार्थव्याकरणाच्च निक्षेपः फलवानिति" ॥ २७ ॥ तत्र यथोद्देशं निर्देश इति न्यायान्नामधर्ममभिधित्सुराह-॥ दारगाहा ॥ जीवरसाजीवस्स व अन्नत्थविवज्जियस्स जस्सेह। धम्मो णाम कीरइ स नामधम्मो तदक्खा वा ॥ २८ ॥ दारं ॥ जीवस्याजीवस्य या यथोक्तधर्मशब्दान्वर्थविवर्जितस्य यस्य कस्यचिद् ‘इह' जगति धर्म इति नाम क्रियते, स! दानाम्ना धर्मों नामधर्मो, यद्वा नामनामवतोरभेदोपचारान्नाम चासौ धर्मश्चेति व्युत्पत्तेनामधर्म इत्युच्यते । तत्रैव प्रकारान्तरमाह-'तदक्खा वत्ति' तस्य-धर्मस्य आख्या वा-संज्ञा वा नामैव धर्मो नामधर्म इति व्युत्पत्त्या नामधर्मः ॥ २८ ॥ दारं । साम्प्रतं स्थापनाधर्ममाह सब्भावासब्भावे पडुच्च लेप्पक्खचित्तमादीसु। धम्मवतो जा ठवणा ठवणाधम्मो स विन्नेओ॥ २९॥ सद्भावम्-आकारं प्रतीत्य-आश्रित्य लेप्यचित्रादिषु, असद्भावम्-आकाराभावमाश्रित्याक्षवराटकादिषु, 'धर्मवतः' १ निक्षेपनगराभिसरणाय नामादीनां द्वाराणां प्ररूपिका गाथा द्वारगाथा । २ समस्तन्यासस्थलस्यापि लक्ष्यत्वात् । Jain Education in For Private & Personel Use Only Page #44 -------------------------------------------------------------------------- ________________ ॥ २० ॥ साध्वादेर्या स्थापना क्रियते, स स्थापनाधर्मो विज्ञेयः, ननु धर्मवतः स्थाप्यमानत्वात्स स्थापनाधर्मवान् स्यान्न स्थाप-1 संग्रहणिः. नाधर्मः, तत्कथमुक्तं स स्थापनाधर्मो विज्ञेय इति?, नैष दोषः, धर्मधर्मवतोरभेदोपचारादिति ॥२९॥ द्रव्यधर्ममाह सचित्तेतरभेदस्स होइ दवस्स जो खलु सहावो। एसो उ दवधम्मोऽणुवउत्तस्सऽहव सुयमादी ॥ ३०॥ को सचित्तस्य-मनुष्यादेरचित्तस्य वा-धर्मास्तिकायादेर्यः खलु स्वभावः-चेतनायत्त्वादिलक्षणः, स किमित्याह-एसो उदयधम्मो' 'तुः पुनरर्थे एप पुनद्रव्यधर्मो ज्ञातव्य इति शेषः । प्रकारान्तरमाह-'अणुवउत्तस्सऽहव सुयमाई हा अथवेति' द्रव्यधर्मस्य प्रकारान्तरतासूचने, श्रुतमिति श्रुतधर्म आदिशब्दाचारित्रधर्मपरिग्रहः, अनुपयुक्तस्य-श्रुतधर्मादिविषयोपयोगविकलस्य द्रव्यधर्मो विज्ञेयः, "अनुपयोगो द्रव्य"मितिवचनात् ॥३०॥ अधुना क्रमप्राप्त क्षेत्रधर्ममाचष्टे इह दवं चेव णिवासमित्तपज्जायतो मतं खेत्तं । जो तस्सायसभावोऽमुत्तादी खेत्तधम्मो सो ॥ ३१ ॥ 'इह' प्रवचने "अजीवकाया धर्माधर्माकाशपुद्गलाः" "द्रव्याणि जीवाश्थे"ति (तत्त्वा० अ०५ सू०१-२) वचनात् १ पष्ठीतत्पुरुषं लक्षयित्वा कर्मधारयं लक्षयितुं । Jain Education in For Private & Personel Use Only Page #45 -------------------------------------------------------------------------- ________________ द्रव्यमेव सत् आकाशं 'निवासमात्रपर्यायतः' निवासमात्रपर्यायमाश्रित्य क्षेत्रमिति 'मतं' संमतम् । तदुक्तम्-"खेत्तं खलु आगासमिति" । एतेन च आकाशस्य द्रव्यत्वात्तद्धर्मो द्रव्यधर्म एवान्तर्गत इति पृथग्नवासौ वक्तव्य इत्याशङ्का निरस्ता द्रष्टव्या, निवासमात्रपर्यायापेक्षया द्रव्यरूपस्याप्याकाशस्य क्षेत्रत्वेन पृथग्विवक्षितत्वात् , ततो यस्तस्य-क्षेत्र। स्यात्मखभावोऽमूर्त्तत्वादिकः स क्षेत्रधर्मः, धर्मः स्वभाव इत्यनयोरनन्तरत्वात् ॥ ३१ ॥ इदानीं कालधर्ममाह जं वत्तणादिरूवो कालो दवस्स चेव पज्जातो। सो चेव ततो धम्मो कालस्स व जस्स जो लोए ॥ ३२ ॥ 'यद्' यस्मात् 'द्रव्यस्यैव धर्मास्तिकायादेः 'पर्यायो' वर्तनादिरूपः, वर्तते पदार्थः खयमेव, तं च वर्तमानं या क्रिया तथापरिणत्याभिमुख्यखभाषा प्रयोजयति-वर्त्तख वर्त्तख मा निवर्त्तिष्ठा इति, सा वर्तना, आदिशब्दात्सायनादिप|रिणामपरिग्रहः, तत् रूपं-स्वभावो यस्य पर्यायस्य स इत्थम्भूतः काल इत्युच्यते । न हि जीवादिवस्तुव्यतिरिक्तः कश्चित् कालो नाम पदार्थविशेषः परपरिकल्पित एकः प्रत्यक्षेणोपलभ्यते, अथ मा भूत्प्रत्यक्षेणोपलम्भः, अनुमानतो भविष्यति, तथाहि-दृश्यते पूर्वापरव्यवहारः, स च न वस्तुखरूपमात्रनिमित्तो, वर्तमानेऽपि तत्प्रसङ्गात् , ततो१ क्षेत्रं खल्वाकाशमिति । Jain Education For Private & Personel Use Only | Page #46 -------------------------------------------------------------------------- ________________ धर्म॥ २१ ॥ Jain Education Inte sसौ यन्निमित्तः स कालः, तस्य च कालस्य पूर्वत्वमपरत्वं च स्वयमेव प्रतिपत्तव्यम्, अन्यथाऽनवस्थानुषङ्गात्, ततः पूर्वकालयोगी पूर्वोऽपरकालयोगी चापरः, उक्तं च- "पूर्वकालादियोगी यः, स पूर्वाद्यपदेशभाक् । पूर्वापरत्वं तस्यापि, | स्वरूपादेव नान्यतः ॥ १॥” तदयुक्तम्, एकान्तैकत्वाभ्युपगमे पूर्वादित्वासंभवात्, तथाहि - यद्येकान्तेनैकत्वं, कथं तस्य पूर्वत्वमपरत्वं चेति कल्पना, अथ सहचारिसंपर्कवशादेकस्यापि तथात्वकल्पना, तथाहि-- सहचारिणो रामादयः पूर्वे, अपरे चापरे, ततस्तत्संपर्कवशात्कालस्यापि पूर्वापरत्वव्यपदेशः भवन्ति च सहचारिणो व्यपदेशाः, यथा-मञ्चाः क्रोशन्तीति, तदेतदसमीचीनम्, इतरेतराश्रय दोपप्रसङ्गात्, तथाहि - सहचारिणां रामादीनां पूर्वादित्वं कालगतपूर्वादित्ययोगात्, यदि पुनः स्वत एव तेषां स्यात्तर्हि निरालम्बना कालकल्पना भवेत्, कालस्य च पूर्वादित्वं सहचारिगतपूर्वादित्वयोगात्, तत एकासिद्धाव परस्याप्यसिद्धिः, ततः परपरिकल्पितस्य कालस्य युक्त्याऽनुपपद्यमानत्वाद्वर्त्तनालक्षण एव कालः प्रतिपत्तव्यः, तत्राक्लेशेन पूर्वादित्वसंभवात् तथाहि - यस्यातीता वर्त्तना स पूर्व उच्यते, यस्य च भाविनी सोऽपरो, यस्य च तत्काले सती स वर्त्तमानः, तस्य च वर्त्तनालक्षणस्य कालस्य प्रति द्रव्यं भिन्नत्वादानन्यं, ततः स एव कालो धर्म इति विशेषणसमासः, पर्यायस्य च द्रव्यात्कथञ्चिदभि| न्नत्वात्, जीवादिवस्त्वपि तत्पर्यायविशिष्टं कदाचित्कालशब्देनोच्यते, तथा चागमः- “ किमयं भंते ! कालोत्ति १ किमयं भदन्त ! काल इति प्रोच्यते ?, गौतम ! जीवाश्चैवाजीवाश्चैवेति । संग्रहणिः. ॥ २१ ॥ Page #47 -------------------------------------------------------------------------- ________________ Jain Education Int पश्चइ ?, गोयमा ! जीवा चेव अजीवा चेवत्ति" । अन्ये त्वाचार्याः संगिरन्ते - अस्ति धर्मास्तिकायादिद्रव्यपञ्चकव्य|तिरिक्त मर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्ति षष्ठं कालद्रव्यं, यन्निबन्धना एते यः इत्यादयः प्रत्ययाः शब्दाश्च प्रादुष्पन्ति । | तथा च प्रयोगः - द्यःश्व इत्यादीनि वचनानि यथार्थानि आप्तेनाभिहितत्वात् यथा प्रमाणावगम्यः प्रमेयोऽर्थ इति । वचनस्य हि अयथार्थत्वं यथावस्थितवस्तुपरिज्ञानाभावनिमित्ततया क्रोधाद्यभिभूतत्वनिमित्ततया च व्याप्तं, यथार्थदर्शननिर्मूलक्रोधापगमादिगुणयुक्तश्च पुरुष इह आप्तोऽभिप्रेतः, ततस्तस्य वचनं यथार्थदर्शनादिगुणनिमित्ततया व्यासं तस्य चायथार्थत्वेऽभ्युपगम्यमाने स्वव्यापकाभावप्रसङ्गः तद्विरुद्धयथावस्थित परिज्ञानाभावा- | | दिनिमित्ततासद्भावप्रसङ्गात् विरुद्धयोश्चैकत्रासंभवात् तथा च सति तत् आप्तवचनमाप्तवचनमेव न स्यात्, वव्यापकाभावात्, तेनाssसवचनमयथार्थत्वलक्षणे विपक्षे यथार्थदर्शनादिगुणनिमित्ततालक्षणस्वव्यापक विरुद्धे यथावस्थित वस्तुपरिज्ञानाभावादिनिमित्ततोपलब्ध्या ततो व्यावर्त्तमानं यथार्थत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः, साक्षादपि चाभिहितमागमे षष्ठं कालद्रव्यं, यथा- " केइ णं भंते ! दवा पण्णत्ता ?, गोयमा ! छ दवा पण्णत्ता, तंजहाधम्मत्थिकाए, अधम्मत्थिकाए, आगासत्थिकाए, पुग्गलत्थिकाए, जीवत्थिकाए अद्धासमए" इति । एष चाद्धा१ कति खलु भदन्त ! द्रव्याणि प्रज्ञप्तानि १, गौतम ! षडू द्रव्याणि प्रशप्तानि तद्यथा-धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकाय: पुद्गलास्तिकायो जीवास्तिकाय: अद्धासमयः । Page #48 -------------------------------------------------------------------------- ________________ संग्रहणिः धर्म- ॥२२॥ SCSC समयो न समुच्छिन्नपूर्वापरकोटिरेक एव, अत्यन्तासत उत्पादायोगात् , सतश्च सर्वथा विनाशासंभवात् , अपि त्वन्वयी, तेन तस्यान्वयि रूपं ध्रौव्यं, पूर्वापरपर्यायनाशोत्पादौ तु व्ययोत्पादौ, ततश्च “उत्पादव्ययप्रौव्ययुक्तं सदिति" (तत्त्वा० अ०५ सू०२९) सल्लक्षणयोगात् सत् कालद्रव्यं, "गुणपर्यायवत् द्रव्य" (तत्त्वा० अ०५ सू० ३७) मिति द्रव्यलक्षणयोगाच द्रव्यम् । एप च कालो हमन्तादृतुविभागेन परिणममानः शीतोष्णादिपरिणामानामपेक्षाकारणं, बलाकाप्रसवस्येव गर्जितध्वनिरिति, तन्मतमाश्रित्याह-"कालस्स व जस्स जो लोए" इति, वाशब्दो मतान्तरसूचकः, यस्य कालस्य हेमन्तादेर्यो धर्मः-शीतकारित्वादिलक्षणो लोके प्रसिद्धः स कालस्य संबन्धी धर्मः कालधर्म इत्युच्यते ॥ ३२ ॥ अधुना भावधर्ममाह जीवाण भावधम्मो कम्मोवसमेण जो खलु सहावो। पसमादिलिंगगम्मो सोऽणेगविहो मुणेयवो ॥ ३३ ॥ जीवानां यः खलु 'कम्मोवसमणेति' कर्मणां-मिथ्यात्वमोहनीयादीनामुपशमेन, उपलक्षणात् अस्य क्षयोपशमेन क्षयेण च, स्वभावः 'प्रशमादिलिङ्गगम्यः' प्रशम-उपशमो यदशादपरस्मिन्नपराधकारिण्यपि सति न कुप्यति, आदि Jain Education in For Private Personel Use Only KIww.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ Jain Education Inte | शब्दात्संवेगनिर्वेदानुकम्पास्तिक्यपरिग्रहः त एव लिङ्गानि गमकत्वात् तैर्गम्यः स भावधर्मो ज्ञातव्यः । स चानेकप्रकारः, सा चानेकप्रकारताऽस्य सम्यक्त्वभेदाभिधानादिना यथास्थानं निदर्शयिष्यते । अनेनैव च भावधर्मेणेहाधिकारः, अस्यैव धर्मशब्दान्वर्थयुक्तत्वात्, न नामादिरूपेण, तद्विकलत्वात् ॥ ३३ ॥ अमुमेव भावधर्ममिहा|धिकृतं चेतसि संस्थाप्याह जीवम्म कम्मजोगे य तस्स सइ एस जुज्जई जम्हा । तं चैव ततो पुत्रं वोच्छामि सुतानुसारेणं ॥ ३४ ॥ 'एप' प्रशमादिलिङ्गगम्यो जीवस्वभावलक्षणो भावधर्मो, यस्मात्सति जीवे तस्य जीवस्य कर्मयोगे च सति युज्यते, नान्यथा, तस्मात्तमेव जीवं तस्य कर्मयोगं च, पूर्व वक्ष्यामि पश्चाद्धर्मम् । कथं वक्ष्यामीत्यत आह- 'सुया| णुसारेणं' श्रुतस्य- आगमस्यानुसारेण, न स्वमनीषिकया ||३४|| तत्रानेकधा जीवविषया विप्रतिपत्तिरतस्तदपनोदार्थं यद्यत्खरूपविषया विप्रतिपत्तिस्तत्तत्स्वरूपविशिष्टं जीवं तावन्निर्दिदिक्षुराह - जीवो अणादिणिहणोऽमुत्तो परिणामी जाणओ कत्ता । मिच्छत्तादिकतरस य णियकम्मफलस्स भोत्ता उ ॥ ३५ ॥ Page #50 -------------------------------------------------------------------------- ________________ - संग्रहणि, ॥२३॥ CREAC जीवति प्राणान् धारयतीति जीवः, द्विविधाश्च प्राणाः-द्रव्यप्राणा भावप्राणाश्च, तत्र द्रव्यप्राणा इन्द्रियादयः, यदाह-"पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिक्ता" इति । भावप्राणा ज्ञानादीनि। उभयथा च प्राणसंबन्धः संसारिजीवानां, भावप्राणैरेव च सिद्धजीवानामिति । अयमेव च जीवो विशेष्यते-'अनादिनिधन' इति, न विद्यते आदिनिधने यस्य तदुत्पादककारणाभावात् सतः सर्वथा विनाशायोगाच सोऽनादिनिधनः । पुनरप्येष विशेष्यते-अमूर्त इति, रूपादिसंस्थानविशेपो मूर्तिस्तदभावादमूर्तः । परिणामी ति, परिणमनं परिणामः-कथञ्चियवस्थितस्यैव सतः पूर्वरूपत्यागेनोत्तररूपाऽऽस्कन्दः स यस्यास्तीति परिदणामी । पुनरपि कथंभूत इत्याह-'ज्ञायकः' ज्ञाता ज्ञानखभावो, न पुनरेकान्तेन ज्ञानादेरन्यो, यथाऽन्यैः परिकल्प्यत: इति । एनमेव पुनर्विशेषयति-'कर्ते'ति मिथ्यात्वाविरत्यादिवन्धहेतुयुक्ततया तत्तत्कर्मणां कर्ता-निवर्तकः । तथा मिथ्यात्वादिकृतस्य च निजकर्मफलस्य भोक्ता विति, मिथ्यात्वम्-अतत्त्वाभिनिवेशः, आदिशब्दादविरतिकपायादिग्रहणं, तैः कृतस्य, चः पूर्वोक्तविशेषणापेक्षया समुच्चयार्थः, 'निजकर्मफलस्य' खोपात्तकर्मफलस्य भोक्ता, तुरवधारणे, भोक्तैव, न त्वभोक्ता, इह कर्मणां मिथ्यात्वादिहेतु कत्वात् तत्फलमपि तैः कृतमित्युक्त, किमर्थमिति सचेत् , उच्यते, मिथ्यात्वादिकृतस्यैव कर्मणः फलं विपाकानुभूतितोऽपि भोक्तव्यं, न तु केवलयोगप्रत्ययस्य, तस्य ॥२३॥ O CKS Jain Education Intehanda For Private & Personel Use Only Page #51 -------------------------------------------------------------------------- ________________ ACCOCALCERRORSCORE प्रदेशत एवानुभवादिति प्रतिप्राणिप्रसिद्धविपाकानुभूतिभोगयोग्यकर्मफलहेतुविशेषज्ञापनार्थमित्यदोषः ॥ ३५॥ तत्र भौतिकपुरुषवादिनो जीवसत्तायामेव विप्रतिपन्नाः, ततस्तद्विप्रतिपत्तिनिराकरणार्थं तन्मतं तावदुपन्यस्यन्नाह जीवो तु णत्थि केई पञ्चक्खं णोवलब्भती जम्हा । ण य पच्चक्खादपणं पमाणमस्थित्ति मण्णंति ॥ ३६ ॥ 'केचित्' भौतिकपुरुषवादिनो 'जीवः' खोपात्तशुभाशुभकर्मफलभोक्ता परलोकयायी आत्मा नास्तीति मन्यन्ते ।। कुत इत्याह-यस्मात्स जीवः प्रत्यक्षं नोपलभ्यते, प्रत्यक्षमिति क्रियाविशेषणं, यथा प्रत्यक्षो भवति तथा नोपलभ्यत इतियावत् । सन्निहिते ह्यर्थे यथावस्थितार्थग्रहणात्मकं ज्ञानं प्रत्यक्षं, न च घटादेरिवात्मनोऽपि तथाभूतंग ग्रहणमस्ति, तथा प्रतीत्यभावात् , मा भूत्प्रत्यक्षतोऽस्य प्रतीतिः, अनुमानादितो भविष्यतीत्यारेकानिराकरणार्थमाह'न चे'त्यादि, न च प्रत्यक्षादन्यत् प्रमाणमस्ति, तल्लक्षणाद्ययोगात्॥३६॥ यथा च तल्लक्षणाद्ययोगस्तथोपपादयन्नाह अणुमाणमप्पमाणं अणुमाणविरुद्धमादिदोसातो। आगमपमुहेसुं पुण सव्वेऽवि ण संगया पायं ॥ ३७॥ Jain Education in For Private & Personel Use Only | Page #52 -------------------------------------------------------------------------- ________________ धर्म ॥ २४ ॥ Jain Education In अनुमानमप्रमाणम्, 'अनुमान विरुद्धादिदोषात् 'अनुमानविरुद्धत्वादिदोषसद्भावात्, तद्रहितं चानुमानं प्रमाणमिति लक्षणायोगः । तत्रानुमानविरोधो यथा घटस्य नित्यत्वे साध्ये घटस्य हि नित्यत्वं साध्यमानमनित्यत्वसाधकेन | परिणामित्वसाधकेन चानुमानेन वाध्यते, एवं सर्वत्रापि । आदिशब्दा दिष्टविघातकृत्त्वादिदोषपरिग्रहः, तदुक्तम्"अनुमानविरोधो वा यदिवेष्टविघातकृत् । विरुद्धो व्यभिचारी वा सर्वत्र सुलभोदयः ॥१॥” इति ॥ अपिच-अनुमानस्य विषयो भवेत् सामान्यं विशेष उभयं वेति विकल्पत्रयं, तत्र यदि सामान्यं तदा सिद्धसाधनम्, अग्निमात्रास्तित्वे कस्यचिद्विप्रतिपत्त्यभावात् न च तेन सिद्धेनापि किञ्चित्प्रयोजनं, देशादिविशिष्टस्यैव वह्नेः पुरुषस्य प्रवृत्तिं प्रति कारणत्वात् । अथ विशेषः साध्यो, यथा विवक्षितदेशादिविशिष्टो वह्निरस्तीति, तदप्ययुक्तं, विवक्षितदेशादिविशेषणसहितस्य बहेरन्वयाभावात्, न हि अस्मिन्पर्वते वह्निरस्ति धूमादित्यादौ विवक्षितदेशादिविशिष्टेन साध्येन सह हेतोरन्योऽस्ति, तथाविधेन वहयादिना सह धूमादेर्व्याध्यनिश्चयात् । उभयपक्षस्त्वनुपपन्न एव, तथाहि - तत्रापि सामान्यवान् विशेषः साध्यः, तथा च सति पूर्वोक्ताद्विशेषपक्षादस्य विशेषाभाव इति, तदुक्तम् - "विशेषेऽनुगमाभावात्सामान्ये सिद्धसाधनात् । तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः ॥ १ ॥” इति । तदेवं लक्षणाद्ययोगादनु|मानमप्रमाणमभिधाय साम्प्रतमागमादीनामप्रामाण्यमुद्भावयन्नाह - 'आगमे' त्यादि, आगमप्रमुखेषु पुनः प्रमाणेषु 'सर्वेऽपि ' प्रवादिनः प्रामाण्यं प्रति 'न संगता' नैकाभिप्रायाः, तथाहि — दृश्यन्त एवागमादीनां प्रामाण्यं प्रति संग्रहणिः. ॥ २४ ॥ Page #53 -------------------------------------------------------------------------- ________________ धर्मे %%%% %%* बहवो विप्रतिपत्तारस्तत्कथं तेषां प्रामाण्यं भवेत् ?, यत्पुनः प्रमाणं परमार्थसद्वा, तत्सर्वेषामप्यविगानेन स्थितं यथा प्रत्यक्षं प्रमाणं तद्ब्राह्माणि च पृथिव्यादीनि भूतानि ॥ ३७ ॥ उपसंहरति ता कहमागमपमुहा होंति पमाणा उ णज्जती कह य ? | एयं एत्थ पमाणं ण पमाणमिदं तु वत्तवं ॥ ३८ ॥ 'ता' तस्मात्कथमागमादीनि प्रमाणानि भवितुमर्हन्ति ?, नैवार्हन्तीतियावत् । अपि च- कथमिदं ज्ञायते ' अत्र' जीवविचारे, एतत् "जीवो अणाइनिहणो नाणावरणाइकम्मसंजुत्ता' इत्यादिकं जीवास्तित्वप्रतिपादकं वचः प्रमाणम्, एतत्तु पुनः “ पृथिव्यप्तेजोवायुरिति तत्त्वानि ”, “ तत्समुदायेषु शरीरेन्द्रियविषयसंज्ञा" तथा " विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनस्तान्येवानुविश (नश्य) ति" इत्यादिकं जीवप्रतिषेधपरं वचनं न प्रमाणमिति । तस्मादत्र किञ्चिन्नियामकं वक्तव्यं तच्च नास्तीति यत्किञ्चिदेतत् ॥ ३८ ॥ अत्र पराभिप्रायमाशङ्कते - जो पडिसेति सिया स एव जीवो ण जुत्तमेतंपि । १ जीवोऽनादिनिधनो ज्ञानावरणादिकर्मसंयुक्तः । Page #54 -------------------------------------------------------------------------- ________________ संग्रहणि ॥२५॥ नत्थि परलोगगामी भणिमो जं पुण ण एसोऽवि ॥ ३९ ॥ स्यादेतत् , य एवं भूतव्यतिरिक्तं जीवं प्रतिषेधति स एव जीवो ज्ञातव्यः, तदतिरेकेणान्यस्य घटादेरिवाचेतनत्वेन प्रतिषेधकत्वायोगात् । अत्र विधानमाह-'न जुत्तमेयंपि' एतदपि-अनन्तरोक्तं न युक्तं-न समीचीनम् , कुत इत्याह-'यत्' यस्मात् य एव शुभाशुभानां कर्मणां निष्पादकस्तत्फलस्य च खर्गादिविषयसातादर्भोक्ता कश्चित् भूतचतुष्टयव्यतिरिक्तः परलोकगामी परैरिष्यते स एव नास्तीति ब्रूमः, न पुनरेपोऽपि-परलोकगामिजीवनिषेधको नास्तीति ॥ ३९॥ कोऽन्यः पुनरेतस्य प्रतिद्धेत्यत आह अत्थि पडिसेहगो इह चेतण्णविसिटकायमेत्तो तु। दाणादिफलाभावो सो(तो) अस्थि ण संगतमिदंपि ॥४॥ हा अस्ति प्रतिषेधकः 'इह' जीवविचारप्रक्रमे चैतन्यविशिष्टकायमात्र एव । तुरवधारणे । न तु भूतचतुष्टयव्यतिरिक्तः परिकल्पितो जीवः, तत्साधकप्रमाणाभावात् । पुनरप्यत्र पराभिप्रायमाशङ्कमान आह-दाणेत्यादि' अयं च प्रसज्यमानो हेतुः यदि जीवो नास्तीत्यभ्युपगम्यते तर्हि दानादीनामादिशब्दात् यमादीनां च फलाभावः प्राप्नोति । ॥२५॥ Jain Education Intern For Private & Personel Use Only Kalliw.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ ततो-दानादीनां फलाभावप्रसङ्गात् अस्त्येव जीवः परलोकगामीति प्रतिपद्यतामिति, एतहषयति-'न संगतमिददमपी'ति ॥४०॥ तदेवासंगतत्वं भावयति पुट्टो केणइ भोतो देवो णस्थिति केइ सो आह। किं धम्मिओ गतो ता वाडीऍ अणेण जं तुलं ॥४१॥ 'भौतो' भस्मावगुण्ठितवपुः 'केनापि' प्रमाणमार्गविदा पृष्टो यथा-केचिदाचक्षते वादिनो-देवो नास्ति,तत्साधकप्रमाणाभावात् , तत्र किमुत्तरमिति । स एवं पृष्टः सन्नाह-यदि नास्ति देवस्तर्हि किमिति धाम्मिको देवार्चननिमित्त पुष्पानयनाय वाट्यांगत इति,ततश्च यथेदं वचनं प्रश्नाननुरूपत्वादसंगतं,तथा पूर्वोक्तमपि । 'यत्' यस्मात्तदपि तत्त्वतो ऽनेन भौतवचनेन तुल्यं, तत्साधकप्रमाणानभिधानात् । दानादिव्यवहारस्य च लोभमिथ्याज्ञानादितः कैश्चित् प्रवर्त्तितत्वादिति ॥४१॥ पुनरप्यन्यथा परमा(आ)शङ्कते सिय जातीसरणातो थणाहिलासातो चेव अस्थित्ति । जातिस्सरणमसिद्धं भूयसहावातो इतरंपि ॥ ४२ ॥ Jain Education inte For Private & Personel Use Only य ww.jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ धर्म ॥ २६ ॥ Jain Education स्यादेतत्-पूर्वभव संबद्धजातिस्मरणदर्शनादस्त्येव परलोकगाम्यात्मेति प्रतीयते, स्मरणं हि अनुभूतविषयं, अननुभूतविषयत्वेऽतिप्रसङ्गात्, अनुभूतश्चेत्तेन पूर्वो भवस्ततः सिद्धो नः परलोकगाम्यात्मेति । तथा स्तनाभिलापदर्शनादस्त्यात्मेति प्रतीयते, तथाहि - बालकस्य प्रथमत एवोत्पन्नस्य स्तनदर्शनानन्तरं स्तनादानाभिलाषो जायते, स चाभिलाषः पूर्व विवक्षितकारणदृष्टावेव दृष्टेषु कार्येषु तत्कार्यतया च ज्ञातेषु सत्सु पुनरपि कालान्तरे विवक्षित| कारणदर्शनानन्तरमुपजायमानेन स्मरणेन विवक्षितकार्यार्थितया विवक्षितकारणादानविषयो जन्यते, नान्येन, न चासौ | बालकस्य तदानीमसिद्ध इति वाच्यम्, अभिलाषादेव प्रतिनियतविवक्षितकारणोपादानाद्यर्थं प्रवृत्त्यादिव्यवहारो - पपत्तेः । यदुक्तम्- "तद्दृष्टायेव दृष्टेषु संवित्सामर्थ्यभाविनः । स्मरणादभिलाषेण, व्यवहारः प्रवर्त्तते ॥ १॥” इति । ततः प्रथमत एव बालकस्य स्तनादानाभिलाषदर्शनादनुमीयते - अस्ति देहातिरिक्तः परलोकयायी जीवो, येन पूर्वभवे क्षुदपनोदकारिस्तनौ दृष्ट्वा संप्रति स्मरणविषयीकृता इति । अत्र प्रतिविधातुमाह - 'जाईत्यादि' तत्र यदुक्तं जातिस्मरणादस्त्यात्मेति प्रतीयत इति, तदयुक्तम्, जातिस्मरणस्यासिद्धत्वात्, न हि लोके जातिस्मरणं कस्याप्युपलभ्यत इति । 'भूयसहावाउ इयरंपित्ति' इतरदपि स्तनादानाभिलषणं भूतस्वभावात् द्रष्टव्यम् । तथाहि भूताना मेवैष स्वभावो यत्पूर्वमननुभूतमपि किञ्चित्स्वात्मन उपष्टम्भकारकमुपाददते ॥ ४२ ॥ तथा चाह १ क्षुदपनोदकारी स्तने दृष्ट्वा संप्रति स्मरणविषयीकृतं इति इति कपुस्तके पाठः । 66 संग्रहणिः. ॥ २६ ॥ Page #57 -------------------------------------------------------------------------- ________________ ESCLOSCAREERASACAREER चित्तो भूयसहावो एताओ चेव लाभहरणादी। सिद्धत्ति णस्थि जीवो तम्हा परलोगगामी तु ॥४३॥ 'चित्रों' नानारूपोऽचिन्त्यविचित्रकार्यकारितया भूतानां स्वभावो, न च स्वभावे पर्यनुयोगोऽस्ति । तदाहुः|" अग्निदहति नाकाशं, कोऽत्र पर्यनुयुज्यत" इति । तस्मान्न स्तनादानाभिलापदर्शनादप्यात्मानुमानं युज्यत इति । तथा यदप्युच्यते-प्रतिनियतालब्धवित्तलाभलब्धवित्तापहारसुखदुःखादिवैचित्र्यस्य नियामकमन्तरेणानुपपद्यमानत्वात्पूर्वभवोपार्जितमदृष्टं किमपि तन्नियामकमभ्युपगन्तव्यं, तदभ्युपगमे च कर्तारमन्तरेण तस्यानुपपद्यमानत्वात् तत्कर्तुरात्मनः पूर्वभवेऽप्यस्तित्वं प्रतिपत्तव्यमिति, तदप्यतेन प्रत्युक्तमवसेयं, भूतानामेव तथाखभावत्वेनालब्धवित्तलाभादिवैचित्र्योपपत्तेः, यदाह-"जलबुद्दवजीवा" इति । यथैव हि सरित्समुद्रादौ नियामकादृष्टरहिता अपि खखभावसामर्थ्यवशाद्वैचित्र्यभाजो बुद्धदाः प्रादुष्पन्ति, तथा पूर्वभवोपार्जितमदृष्टमन्तरेणापि अलब्धवित्तलाभलब्धवित्तापहारादिवैचित्र्यभाजो जीवा अपि चैतन्यविशिष्टकायमात्ररूपा भविष्यन्तीति । तथा चाह–'एयाओ चेव लाभहरणाई। सिद्धत्ति' अत एव भूतखभाववैचित्र्यतो लाभहरणमादिश १ तदाहेति खपुस्तके । Jain Education Intem For Private & Personel Use Only Ww.jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ धर्म 119 11 Jain Education In दाद्विचित्रसुखादिभावश्च सिद्ध इति । तस्मान्नास्त्येवात्मा परलोकगामी । तुरेवकारार्थी भिन्नक्रमश्च, स च यथास्थानं | योजितः । परलोकिनोऽभावाच्च परलोकस्यापि नारकत्वाद्यवस्थालक्षणस्याभावः । आह च - " एतावानेव लोकोऽयं, यावानिन्द्रियगोचर" इति । एवं च परलोकार्थ तपश्चरणाद्यप्यनुष्ठानमनर्थकम्, यदाह - "तपांसि यातनाश्चित्राः, संयमो | भोगवञ्चनेति” ॥ ४३ ॥ तदेवं भौतिकपुरुषवादिमतमुपन्यस्य साम्प्रतमेतद्दूपयितुमुपक्रमते - भण्णइ ण जुत्तमेयं पच्चक्खं गोवलब्भइ जमुत्तं । जम्हा अवग्गहादी हंदि ससंवेयणपसिद्धा ॥ ४४ ॥ 'भण्यते' तत्रोत्तरं दीयते, तत्र यत्तावदुक्तं 'प्रत्यक्षं नोपलभ्यते जीव' इति । एतन्न युक्तम्, कुत इत्याह- यस्मादवग्रहादयः - अवग्रहेहापायधारणाः हंदि स्वंसेवदनप्रसिद्धाः, तत्र अवग्रहणमवग्रहः, अनिर्देश्यसामान्यमात्रावगम | इत्यर्थः । उक्तं च-" सांमन्नत्थावग्गहणमुग्गहोत्ति” । तथा असद्भूतविशेषपरित्यागेन सद्भूतविशेषोपादानाभिमुखं ज्ञानमीहा । आह च - "भूयां भूयविसेसादाणच्चायाभिमुहमीहा " । तथा सद्भूतविशेषानुयायिलिङ्गदर्शनादसद्भूतविशेषप्रतिक्षेपेण सद्भूतविशेषावधारणमवायज्ञानम् । अवायज्ञानानन्तरमन्तर्मुहूर्त्त यावत्तदुपयोगादविच्यवनमविच्युतिः । १ सामान्यार्थावग्रहणमवग्रह इति । २ भूताऽभूतविशेषाऽऽदानत्यागाभिमुखमीहा । संग्रहणिः. ।। २७ ।। Page #59 -------------------------------------------------------------------------- ________________ ततस्तदाहितो यः संस्कारः संख्येयमसंख्येयं वा कालं यावत् स वासनेत्युच्यते । पुनः कालान्तरे कुतश्चित्ताशार्थदर्शनादिकात् कारणात्संस्कारस्य प्रबोधे सति यत् ज्ञानमुदयते 'तदेवेदं यत् प्रागुपलब्धमित्यादि' तत् स्मृतिः।। एतानि च त्रीण्यप्यविच्युत्यादीनि ज्ञानानि अविशेषेण धारणाशब्दवाच्यानि । यदाह-"तदैनंतरं तदत्थाविच्चवणं जो |य वासणाजोगो। कालंतरेण जो पुण अणुसरणं धारणा सा उ ॥१॥" इति । त एते अवग्रहादयो 'हंदीति' परामन्त्रणे खप्रकाश्यं प्रकाशयतः सतो ज्ञानस्य स्वयं प्रकाशनं खसंवेदनं तेन प्रसिद्धाः-प्रतीतखरूपाः खसंवेदनप्रसिद्धाः ॥४४॥ खसंवेदनप्रसिद्धत्वमेवैषां कार्यान्यथानुपपत्त्या दर्शयति जं जायई सती मे उप्पन्नमिहासि णीलविन्नाणं । इयमणणुभूयविसया जुजइ नातिप्पसंगातो ॥४५॥ 'यत्' यस्मात् जायते स्मृतिः-अवग्रहादिरूपज्ञानविषया, स्मृतेरेवाकारमुपदर्शयति-'इह' विवक्षितनीलखलक्षणविषये नीलविज्ञानं ममोत्पन्नमासीदित्येवमाकारा । ननु यदीयं स्मृतिरुदयते ततस्तेषामवग्रहादीनां खसंवेदनप्रसिद्धत्वे किमायातमित्यत आह–इयमित्यादि', इयं-स्मृतिरननुभूतविषया यस्मान्न युज्यते-न घटते।कुत इत्याह-अतिप्रस १ तदनंतरं तदर्थाविच्यवनं यश्च वासनायोगः । कालान्तरेण यत्पुनरनुस्मरणं धारणा सा तु ॥१॥ Jain Education inte For Private & Personel Use Only Kiww.jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ धर्म ॥२८॥ गात प्रक्रान्तं विषयमतिक्रान्तः प्रसङ्गोऽतिप्रसङ्गस्तस्मात् , अतिप्रसङ्गश्चात्यन्ताननुभूतपञ्चमभूतविषयाया अपि स्मृतेः संग्रहणिः दप्रसक्तिः । ततः स्मृत्यन्यथानुपपत्त्याऽवग्रहादयोऽनुभूता इति प्रतिपत्तव्यम् । अनुभवश्चैषां खसंवेदनेनेति सिद्धं खसंवे-18 दनप्रसिद्धत्वमेषामिति । तेन यदुच्यते मीमांसकैः-"अप्रत्यक्षा च नो बुद्धिः, प्रत्यक्षोऽर्थ इति” तदपास्तमवगन्तव्यम.IN | तथाहि-एते अवग्रहादयः खसंविदितखरूपा एवोदयमाना व्ययमानाश्च लक्ष्यन्ते। तत्र (तेच) कान्तर्भाव्यन्तां, किमर्थ |४ बुद्धौ वा?, नार्थे अध्यात्ममेषां परिस्पन्दनात् , अर्थानां चैवं परिस्पन्दायोगात् । नापि बुद्धौ, यतस्ता भवन्मतेन विद्यमाना अपि सत्यो न प्रकाशन्ते, तासामत्यन्तपरोक्षत्वेनाभ्युपगमात् । एते च प्रकाशमाना अनुभूयन्ते, न च बुद्धितज्ज्ञेयव्यतिरेकेणान्यः कश्चिदनुभवप्रक्रमेऽनुषङ्गो. विद्यते । तत एषामवग्रहादीनामित्थं प्रकाशमानानामभाव एव प्रसक्तः । स च दुरुपपादो, मा भूत्सर्वस्यापि निषेधप्रसङ्गः। तस्मात् बुद्धय एवैतास्ताश्च प्रत्यक्षा इति स्थितम् । अपिचस्वसंवेदनप्रत्यक्षेण बुद्धिमेनामवग्रहादिरूपामवेदयमानः कथमात्मनि निश्चिनुयात् ?-यथा बुद्धिर्ममोत्पन्नेति ।। आत्माधिकरणतया च तस्या अनिश्चये मया ज्ञातमिदं वस्त्विति आत्मानुभवितृकं वस्तु न ज्ञातं भवेत् । तथा च सति प्रतीतिविरोधः । अथोच्येत-यावदर्थो न ज्ञातो भवति न तावत् बुद्धिर्निश्चीयते, तेन सर्वोऽपि वुद्धिनिश्चयो ॥२८॥ |ऽर्थज्ञाननिवन्धनः, ततो योग्यदेशावस्थितार्थज्ञानाद्बुद्धिरात्मन्यस्तीत्यनुमीयते, तन्निमित्तत्वादर्थज्ञानस्येति, तदेतन्निविडजडिमाऽवष्टब्धान्तःकरणताविलसितम् । न हि नामार्थज्ञानमन्यदन्या च बुद्धिः, येनैवमुच्यमानमुपशोभेत, किंतु ROCED URESS RECOREOGROCES Jain Education in For Private Personel Use Only शाww.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ IRCISCEREOGALORERADUAGRESS कायदेवार्थज्ञानं तदेव बुद्धिरिति कथमनयोरनुमानानुमेयभावः। अथ मन्येथा-नार्थज्ञानं बुद्धेर्लिङ्गं, किं तर्हि ?, इन्द्रियाौँ । है तथाहि-यस्मादिन्द्रियमस्ति अर्थश्च, तस्माद्भवितव्यमिन्द्रियाश्रितया अर्थविषयया च बुद्ध्येति, तदप्ययुक्तम् , उभयो रपि व्यभिचारित्वात् । यो ह्यर्थो यन्न व्यभिचरति स तस्य लिङ्गम् , इन्द्रियं च ज्ञानं व्यभिचरति, सत्यपि तस्मिन्निन्द्रिये तज्ज्ञानस्याप्रवृत्तेः । अन्यथा सर्वेन्द्रियाणां सदा सद्भावात्सर्वदा सर्वेन्द्रियविज्ञानोदयप्रसङ्गः । न चैतदृष्टमिष्टं वा, तस्मान्नेन्द्रियं ज्ञानाव्यभिचारि । अर्थोऽपि च ज्ञानं व्यभिचरत्येव, तस्मिन्सत्यपि तदभावात् । इतरथा हि असन्निहितश्चेदर्थो ज्ञानस्य हेतुरिष्यते, तर्हि सर्वस्य सर्वदा सर्वार्थवित्त्वप्रसङ्गः । सन्निहितश्चेत्ततः सन्निहितस्य सर्वस्यापि युगपद्धहणप्रसङ्गो, न चैतदिष्टं, तथानुभवाभावात् । युगपदपीन्द्रियार्थों ज्ञानं व्यभिचरतः, इन्द्रिय सन्निहितेषु चार्थेषु सर्वेषु युगपद् ज्ञानाभावात् , नेन्द्रियार्थों लिङ्गं किन्तु मन इति चेत् , तदयुक्तम् , यतस्तदपि पूर्व तावत्सिद्धस्य ज्ञानस्य सिद्धया तस्य युगपदनुत्पत्त्या खयमनुमातव्यम् , तच ज्ञानमद्यापि असिद्धमिति कुतः तत्सिद्धिर्यन तल्लिङ्गमुद्घोप्यतेति । व्यक्तोऽर्थो बुद्धेर्लिङ्गं, न तु यः कश्चित् , तेनोक्तदोषाभाव इति चेत्, ननु केयं व्यक्तिरर्थस्य ?, किं ज्ञानमुत ज्ञाननिबन्धनस्तद्वतः प्राकट्यलक्षणः खरूपविशेषः । तत्र यदि ज्ञानं ततस्तस्यासिद्धत्वात्तद्विशेषणस्यार्थस्थाप्यसिद्धिः। अथ ज्ञाननिबन्धनस्तद्गतखभावविशेषः, ननु ज्ञानासिद्धौ सोऽप्यसिद्ध इति कथं तद्विशिष्टोऽप्यर्थी बुद्धेर्लिङ्गं भवेदसिद्धत्वात् । अपिच-तस्यार्थगतखरूपविशेषस्य सर्वान्पुरुषान्प्रति साधारणत्वात् सर्वपुरुषेष्वपि Jain Education in For Private & Personel Use Only Page #62 -------------------------------------------------------------------------- ________________ धर्म- संग्रहणि. ॥२९॥ RECORRORECAUCHHORAGARCAMONDA तद्विषयबुद्धीनामनुमानप्रसङ्गः । अन्यच्च-सत्यपि लिङ्गे सर्वदा बुद्धेः परोक्षत्वेनाभ्युपगमात् असिद्धया तया सह न कथञ्चिदपि लिङ्गस्य सम्बन्धावगमः, ततः कथं तद्विषयानुमानप्रवृत्तिः ?, तन्न बुद्धिः परोक्षा, किन्तु खसंविदितरूपैवेति । तथा यदप्युच्यते नैयायिकैः-ज्ञानं ज्ञानान्तरवेद्यं, प्रमेयत्वात् , घटवदिति,तदप्ययुक्तम् , ईश्वरज्ञानेन हेतोरनैकान्तिकत्वात् । अथोच्येत-अस्मदादिज्ञानापेक्षयैव ज्ञानस्य ज्ञानान्तरवेद्यत्वमभ्युपगम्यते, नेश्वरज्ञानापेक्षया, तद्धि अस्मदादिज्ञानात् विशिष्टम् , न च विशिष्टे दृष्टं धर्ममविशिष्टेऽपि योजयन् प्रेक्षावत्तां लभते, अशेषार्थग्राहित्वस्यापि निःशेषज्ञानानां तद्बासङ्गादिति । तदयुक्तम् , ज्ञानत्वस्यार्थग्रहणात्मक (त्मकत्व ) स्य चेश्वरज्ञाने विशिष्टे दृष्टस्य धर्मास्यास्मदादिज्ञाने खसंविदितत्वस्येव प्रतिषेधप्रसङ्गात् । स्यादेतत् , ज्ञानत्वस्यार्थग्रहणात्मकत्वस्य चाभावे तत् ज्ञानमेव न स्यात् तस्मानास्मदादिज्ञाने तत्प्रतिषेध इति । तदेतदन्यत्रापि समानम् , नहि खसंविदितत्वमपि विना ज्ञानस्य ज्ञानरूपता घटते, प्रदीपस्येव खप्रकाशकत्वमन्तरेण प्रदीपरूपता, ज्ञानस्य प्रदीपस्येव तत्स्वभावात्मकत्वात् । यदप्युक्तम्-अस्मदादिज्ञानस्य खसंविदितत्वाभ्युपगमे ईश्वरज्ञानवत् अशेषार्थग्राहित्वप्रसङ्ग इति, तदप्यसमीचीनम्, योग्यतया अवभासकत्वात् , प्रदीपवत् । नहि प्रदीपस्यादित्यवत् खपरप्रकाशकत्वाभ्युपगमेऽपि तद्वन्निखिलेष्वर्थेषु प्रकाशकत्वप्रसङ्गः, तथा अत्रापि । योग्यता च ज्ञानानां खावरणक्षयोपशमतारतम्यलक्षणा प्रतिपत्तव्या, तदभावे विषयग्रहणतारतम्याभावात् , निःशेषखावरणक्षयोत्थकेवलज्ञानवत् । तस्मादीश्वरज्ञानेन हेतोरनैकान्तिकत्वात् न Jain Education Inter For Private & Personel Use Only Kuw.jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ Jain Education 1 | पूर्वोक्तं साधनं साध्यं साधयितुं साधीय इति स्थितम् । अन्यच - ज्ञानं ज्ञानान्तरवेद्यं किं सहभूतज्ञानसंवेद्यम् | उत उत्तरकालभाविज्ञानसंवेद्यम् ? । तत्राद्यः पक्षोऽनुपपन्नः, युगपज्ज्ञानानामसंभवात् “युगपद्धि ज्ञानानुत्पत्तिर्मनसो | लिङ्गमिति वचनात्, द्वितीयोऽपि पक्षोऽनुपपन्नः, प्रागर्थज्ञानं पश्चात् ज्ञानज्ञानमिति सान्तरप्रतीतेरभावात् । किं च| ज्ञानज्ञानकाले तत्प्राक्तनमर्थज्ञानमनुवर्त्तते न वा ?, यद्यनुवर्त्तते ततः स एव ज्ञानयोगपद्यप्रसङ्गः अक्षणिकत्वानुषङ्गच, अथ नानुवर्त्तते, तर्हि कस्यैतत् ग्राहकं, ग्राह्यस्य प्रागेव विलीनत्वादिति कृतं प्रसङ्गेन || ४५ || तदेवमवग्रहादिज्ञानानां तद्विषयस्मृत्यन्यथानुपपत्त्या स्वसंवेदन प्रसिद्धत्वमभिधाय साम्प्रतं प्रस्तुतमभिसंधातुमाहधम्मा अवग्गहादी धम्मी एतेसि जो स जीवो तु। तप्पच्चक्खत्तणतो पञ्चक्खो चेव तो अस्थि ॥४६॥ न केवलमेते अवग्रहादयः स्वसंवेदनप्रसिद्धाः, किं तु धर्म्माश्च सदा परतन्त्रतयोपलभ्यमानत्वात् । यश्चैतेषामवग्रहादिधर्माणां धर्मी स एव जीवः । अन्यस्य वक्ष्यमाणयुक्त्या तद्धमित्वायोगात् । तुरेव कारार्थः । 'तो' तस्मादेतेषामवग्रहा|दिधर्माणां प्रत्यक्षत्वतोऽसौ जीवः 'प्रत्यक्ष एव' प्रत्यक्षप्रमाणेनोपलभ्यमानखभाव एव । नहि घटादीनामपि तद्गतरूपा| दिधर्म्म प्रत्यक्षीकारात् अन्यत् प्रत्यक्षेण उपलम्भनमस्ति ततो घटादिवत् तद्गतधर्म्म प्रत्यक्षीकारादसावपि जीवः प्रत्यक्ष एव । अपिच — लिङ्गलिङ्गिसंबन्धस्मरणादिनिरपेक्ष महमितिज्ञानं नीलादिज्ञानवत् प्रतिप्रमातृ संवेद्यमान Page #64 -------------------------------------------------------------------------- ________________ धर्म त्वादप्रत्याख्येयम्, खसंविदितरूपत्वात् स्पष्टप्रतिभासत्वाच, तदन्यप्रत्यक्षतुल्यमात्मग्राहकमुदयते, तत्कथमुच्यते लासंग्रहणिः -प्रत्यक्षमात्मा नोपलभ्यत इति ?, अत्र व्याडिराह-" असति प्रत्यक्षाभिमान इति " असति-अविद्यमाने प्रत्यक्षगोचरतामतिक्रान्ते आत्मशब्दाभिधेये प्रत्यक्षग्रहणाभिमान एष आत्मवादिनां, यथा निमीलिताक्षस्यान्धकारग्रहणाभिमानः, यस्मात्तत् ज्ञानमेव तथोत्पद्यते भूतचतुष्टयावलम्बनं नात्मालम्बनमिति । " रूपा-| दिवत्खभावानवधारणादितीन्द्रदत्तः" यथा रूपादिषु तन्निर्भासं ज्ञानमुदयमानं खभावमवगमयति, नैवमहमितिज्ञानमात्मखरूपमसाधारणमवगमयति, न च प्रत्यक्षग्राह्ये वस्तुनि विप्रतिपत्तिरुपलभ्यते, तस्मादप्रत्यक्ष एवात्मेति व्याडीन्द्रदत्तौ । अत्रोच्यते-सम्यग्यायानभिज्ञताख्यापनमेतदनयोरिति पुरुषचन्द्रः। नहि तस्य सम्यग्यायाभिज्ञः कण्ठगतप्राणोऽप्येवमसमञ्जसत्वेन विद्वज्जनोपहास्यमभिधत्ते इति पात्रखामी। असमञ्जसता चाहमितिप्रत्यक्षस्यानात्मग्राहित्वानुपपत्तेः, अन्तर्मुखावभासित्वात् । यत् पुनर्भूतचतुष्टयालम्बनं तद्वहिर्मुखावभास्येव, तथा प्रतीयमानत्वात् । यदप्युच्यते "यथा निमीलिताक्षस्यान्धकारग्रहणाभिमान इति" तदपि न नो वाधकम् , प्रागू गृहीतान्धकारस्यैव निमीलिताक्षस्य प्राग्गृहीतस्यान्धकारस्योपस्थापनेनान्धकारग्रहणोपपत्तेः, जात्यन्धस्य तहणाभिमानाभावात् ,न चैवं प्राग्गृहीतस्यात्मन उपस्थापनेनाहंप्रत्ययादात्मग्रहणाभिमानः,तथाऽनभ्युपगमात् ,अभ्युप ॥३०॥ मश्चेदात्मसिद्धिप्रसङ्गः, एवं च "तत् ज्ञानमेव तथोत्पद्यते भूतचतुष्टयालम्बनं, नात्मालम्बनमिति" यदुक्तं तदप्य Jain Education in For Private & Personel Use Only Page #65 -------------------------------------------------------------------------- ________________ समीचीनम् । अहमितिज्ञानस्य भूतचतुष्टयालम्बनत्वानुपपत्तेः, अरूपादिप्रतिभासात्मकत्वात्, अन्तर्मुखावभासितया प्रवृत्तेश्च । न चास्येत्थं प्रतिभासमानस्यापि अहंप्रत्ययस्य विषयान्तरकल्पना न्याय्या, अतिप्रसङ्गात् । अवादिप्रतिभासिनोऽपि ज्ञानस्य पृथिवीविषयत्वकल्पनया तदभावप्रसक्तेः। एतेन "रूपादिवत्स्वभावानवधारणादिति" यदुक्तं, तदपि प्रत्युक्तमवगन्तव्यम् , यतो यथा रूपादिषु तन्निर्भासं ज्ञानमुत्पद्यमानं रूपादीनां स्वभावमवगमयति, तथा अहमितिप्रत्ययोऽप्यात्मखरूपमवगमयत्येव, शरीरगुणग्रहणवैमुख्येनान्तर्मुखावभासित्वात् । यद्येवं तर्हि विषयनस्यात्मखरूपलक्षणस्य सदा सन्निधानात् आत्मनश्च सदा ग्रहणखभावत्वात् सदैवाहंप्रत्ययभावप्रसङ्गतो नित्यमात्म-2/ ग्रहणप्रसङ्ग इति चेत्, एतदपि यत्किंचिद् , आत्मनः सदा ग्रहणखभावत्वानभ्युपगमात् । तस्य हि सकर्मणः सतस्तत्कर्मक्षयोपशमसामर्थत एव तत्र तत्र विषयग्राहकत्वेन प्रवृत्तिः, तत्तत्कर्मप्रतिबन्धादेव च तदैवापरस्मिन् । विषये प्रवृत्त्यभाव इति न सदैवात्मग्रहणप्रसङ्गः। यदाह-“आत्मनाऽऽत्मग्रहेऽप्यत्र, तत्स्वभाव(स्य)योगतः। सदैवानहणं चास्य, विज्ञेयं कर्मदोषतः॥१॥” इति। यदप्युक्तं "न प्रत्यक्षग्राह्ये वस्तुनि विप्रतिपत्तिरुपलभ्यत" इति, तदप्ययुक्तम् ,भूतेष्वपि विप्रतिपत्तिदर्शनात् , तथाहि-"प्रकृतिविकाररूपाण्येवेति" केचित् , “अणुधणुकादिक्रमारब्धकार्यरूपाणी" त्यपरे "विज्ञानमात्र" मित्यन्ये । ननु चेयं न वास्तवी विप्रतिपत्तिः, प्रसिद्धव्यवहारनियमात् , तथाहिसर्वेऽपि सांख्यादयः शौचाद्यर्थ मृदायेव गृह्णन्ति, विज्ञानवादिभिरपि चैत्यकाद्यर्थ मृदायेव गृह्यत इति, अत्रो in Educanin धर्म. For Private & Personel Use Only * Page #66 -------------------------------------------------------------------------- ________________ धर्म- च्यते, यत्किंचिदेतत् , आत्मन्यपि समानत्वात् , तथाहि-सर्व एव वादिनो नास्तिका अपि यावत् देहस्य जड-2 संग्रहणिः. है त्वात् तदतिरिक्तेनैव चैतन्यधर्मयुक्तेन दर्शनस्मरणप्रत्यभिज्ञानालोचनादि कुर्वन्ति, तस्मादत्रापि प्रसिद्धव्यव॥३१॥ हारनियमात् नेयं वास्तवी विप्रतिपत्तिः, ततोऽहंप्रत्ययलक्षणगम्यत्वादात्मा प्रत्यक्ष एवेति स्थितम् । ननु चाहं गुरुरहं गौरोऽहं कृश इत्यादयोऽप्यहमितिप्रत्यया अनुभूयन्ते, न चैतेषामात्मालम्बनत्वमात्मनो गौरत्वाद्यभावात् , तत्कथमहंप्रत्ययस्य यथार्थता व्यभिचारित्वादिति चेत्, न, एवं सति इन्द्रियजप्रत्यक्षस्याप्ययथार्थताप्रसक्तेः, तस्यापि द्विचन्द्रादिविषये भ्रान्तत्वेनोपलब्धत्वात् , अथ तत्प्रत्यक्षाभासं, न प्रत्यक्षमिति न तेन व्यभिचारः, यद्येवं तर्हि अत्रापि अहं गुरुरित्यादिकोऽहंप्रत्ययोऽहंप्रत्ययाभासो, न सम्यगहंप्रत्ययः, गुरु मे शरीरमित्यादिभेदप्रत्ययदर्शनादिति समानमेतदिति स्थितम् ॥४६॥ यदुक्तं-"अवग्रहादिधर्माणां धी जीव एव, स च तत्प्रत्यक्षत्वतः प्रत्यक्ष एवेति" तत्र पर आह भूतेहिं चेतन्नं कायागारादिपरिणतेहितो। तब्भावे भावातो मजंगेहिं व मदसत्ती ॥ ४७ ॥ कायः-शरीरं स एवाकारः कायाकारः आदिशब्दात्प्राणापानपरिग्रहः, तदुक्तम्-"कायाकारप्राणापानपरि Jain Education Intern For Private & Personel Use Only Page #67 -------------------------------------------------------------------------- ________________ ACCORRESEARCCESSOC ग्रहवद्भ्यो भूतेभ्यस्तदुत्पद्यते, नाविशिष्टेभ्य" इति, तेन कायाकारादिना रूपेण परिणतानि यानि भूतानि तेभ्यः। समुत्पद्यते चैतन्यमिति साध्यम् , हेतुमाह-'तद्भावे' कायाकारादिपरिणतभूतसद्भावे, 'भावाद' उत्पादात्।सावधारणश्चायं निर्देशः, वाक्यस्य व्यवच्छेदफलत्वात् , द्विधा चेहावधारणम् , तद्भावे भावादेव, एतेन कारणान्तरापेक्षा-13 व्युदासः, तथा तद्भाव एव भावात् , तेन व्यतिरेकाभावे प्रतिक्षेपः। दृष्टान्तमाह-मद्याङ्गेभ्यो मदशक्तिरिवेति, यथा मद्याङ्गभावे भावात् मदशक्तिर्मद्याङ्गेभ्य उत्पद्यत इति मन्यते, तथा कायाकारादिपरिणतभूतसद्भावे चैतन्य-8 भावात्तथाभूतेभ्यो भूतेभ्यश्चैतन्यमुत्पद्यत इत्यपि मन्तव्यमिति भावः ॥४७॥ ततश्व सति तम्मि ससंवेदणरूवे किन्नोववज्जती एत्थ ? । धम्मीवि भूयसमुदयमित्तो जं तो कहं अत्थि ? ॥४८॥ सति तस्मिन् भूतेभ्यो जायमाने चैतन्ये वसंवेदनरूपे किमत्र व्यवहारोपयोगि नोपपद्यते ?, सर्वमुपपद्यते इति । भावः, न च वाच्यं-चैतन्यस्य जीवमन्तरेणान्यो धमी नोपपद्यत इति तदभ्युपगच्छता सोऽप्यभ्युपगन्तव्य इति । यस्माद्धर्म्यपि चैतन्यस्य भूतसमुदायमात्रमुपपद्यत एव, तथोपलम्भात् । 'तो' तस्मात्कथमुच्यते अवग्रहादिधर्माणां प्रत्यक्षत्वतः प्रत्यक्ष एव जीवोऽस्तीति ॥४८॥ अत्र प्रतिविधानमाह Jain Education Inten! For Private & Personel Use Only Www.jainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ धर्म ॥ ३२ ॥ जति ताव मतं धम्मो चेतन्नं कह ण अत्थि तो आता ! । अन्नेऽणुरुवेणं इमस्स जं धम्मिणा कज्जं ॥ ४९ ॥ यदि तावचैतन्यं 'धर्म्मा मतं' धर्मत्वेन प्रतिपन्नं, 'तो' ततः कथं नास्त्येवात्मेत्युच्यते, कथं नोच्यत ? इत्याह'यत्' यस्मादस्य चैतन्यस्य धर्मिणा भूतसमुदायमात्रादन्येन वोधादिखभावापेक्षया अनुरूपिणा कार्य, अनुरूपित्वा| भावे काठिन्यजलयोरिव धर्म्मधमिभावानुपपत्तेः ॥ ४९ ॥ न च चैतन्यं प्रति भूतसमुदायस्यानुरूपत्वमस्ति, यस्मात् - वोहसहावममुत्तं विसयपरिच्छेदगं च चेतन्नं । विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥ ५० ॥ वोधखभावं स्वयंविदितात्मरूपत्वात्, अमूर्त रूपाद्याकारविशेषविकलत्वात् विषयपरिच्छेदकं तद्ग्रहणपरिणामस्वभावत्वात्, 'चः' समुच्चये, चेतनस्य भावः कर्म वा चैतन्यम् । भूतानि पुनश्चैतन्यापेक्षया विपरीतस्वभावानि ॥ २ ॥ ३२ ॥ तथाहि न तानि बोधरूपाणि स्वसंवेदितात्मरूपत्वाभावात्, नामूर्त्तानि रूपाद्याकारविशेषत्वात् न विषय| परिच्छेदकानि बोधरूपत्वाभावे तद्ब्रहणपरिणामाभावात् । अस्मिंश्चार्थे सकललोकप्रसिद्धिरेव प्रमाणं नान्यत् । यो संग्रहणिः. Page #69 -------------------------------------------------------------------------- ________________ SAMSADGURASAALCRECAUSAKAL हि प्रत्यक्षसिद्धमप्यर्थमपहते तस्य लोकप्रतीतिरेव प्रायो बाधकप्रमाणं,यथा-अचन्द्रः शशीत्याद्यभिधातुः,अत आहजगतोऽपि प्रसिद्धानि जगत्प्रसिद्धानि यथोक्तचैतन्यविपरीतखभावत्वेन ॥५०॥ ता धम्मधम्मिभावो कहमेतेसिं ? तहब्भुवगमे य। अणुरूवत्ताभावे काठिण्णजलाण किन्न भवे ? ॥ ५१ ॥ 'ता' तस्मात्कथम् 'अनयोः' चैतन्यभूतसमुदाययोधर्मधम्मिभावो?, नैव कथंचनेति भावः, अत्यन्तवैलक्षण्येनानुरूपत्वाभावात् । तथापि तदभ्युपगमे दोषमाह-'तहेत्यादि' । अनुरूपत्वाभावेऽपि च 'तथा' धर्मधम्मिभावेनाभ्युपगमे क्रियमाणे काठिन्यजलयोरपि धर्मधमिभावः किन्न भवति ?, भवेदेवेति भावः, अनुरूपत्वाभावाविशेषात् , न च भवति, तस्मान्न चैतन्यस्य भूतसमुदायो धर्मी । तथा च प्रयोगः-न यस्य येन सह अनुरूपत्वं, न तस्य तं प्रति धमिभावः, यथा जलस्य काठिन्यं प्रति । नास्ति च भूतसमुदायस्य चैतन्यं प्रत्यनुरूपत्वमिति व्यापकानुपल|ब्धिः। न चासिद्धता हेतोः, 'विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणी' त्यनेन तस्याः प्रागेवापास्तत्वात् ॥५१॥ उपसंहरति तम्हा ण भूयधम्मो चेतन्नं णो य तस्समुदयस्स । Jain Education Inter For Private & Personel Use Only kiww.jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ ३३॥ पत्तेयमभावातो आया परलोयगामि व ॥ ५२ ॥ संग्रहणिः तस्मान्न भूतधर्मचैतन्यम् । मा भूत् प्रत्येकं भूतानां धर्मश्चैतन्यं, तत्समुदायस्य भविष्यतीति चेत् ? अत आह-2 है न च तत्समुदायस्य धर्मश्चैतन्यम् । कुत इत्याह-प्रत्येकमभावात् । अत्रैव दृष्टान्तमाह-'आया परलोयगामिबत्ति' यथा हि प्रत्येकं भूतानामात्मा स्वभावः परलोकगामी न विद्यते इति तत्समुदायस्यापिस न भवति, तद्वचैतन्यमपीति॥ तदेवं चैतन्यस्य भूतधर्मत्वं निराकृत्य सांप्रतं तन्निबन्धनमभिव्यक्तिवादं निराकुर्षन्नुपसंहरति ता वंजिज्जति तेहिं कह तेणं वा तयं ति ? चिंतमिदं। धम्मंतरवित्तीए तु सिद्धं जीवस्स अत्थित्तं ॥ ५३॥ यस्मादुक्तप्रकारेण चैतन्यभूतसमुदाययोर्द्धर्मधम्मिभावो न घटते, 'ता' तस्मात् , कथं 'तत्' चैतन्यं, 'तैः भूतैर्व्यज्यते तेन वा भूतसमुदायेनेति ?, चिन्त्यमिदमयुक्तमिदमित्यर्थः । अथैतदोषभयाच्चैतन्यस्य धर्म्यन्तरमुपकल्प्यते, तत्राह-धर्म्यन्तरे भूतसमुदायादन्यस्मिन् धम्मिणि चैतन्यस्य वृत्तौ पुनरिष्यमाणायां सिद्धं जीवस्यास्तित्वं, धर्म्यन्तरस्यैव चैतन्यानुरूपस्य जीवशब्दवाच्यत्वादिति ॥५३॥ अभ्युपगम्यापि चैतन्यस्य भूतधर्मत्वं दोपमभिधित्सुराह तद्धम्मत्तेवि सयाऽविसेसभावेण कह ण अभिवत्ती?। Jain Education Inter Page #71 -------------------------------------------------------------------------- ________________ % % A RE ण हि काठिण्णादीया केसिंचि कयाइ वञ्जति ॥ ५४ ॥ न घटते तावद्भतधर्मत्वं चैतन्यस्य, भवतु वा तदपि, कथं सदा तस्य चैतन्यस्याविशेषभावेन-अविशेषेण अभि६व्यक्तिः-आविर्भावो न भवति? भवेदेवेति भावः, विशेषभाव निबन्धनहेत्वभावात् , भावे च तत्त्वान्तरापत्तिप्रसङ्गात् । इष्यते च कदाचिदेवाभिव्यक्तिः, मृतकाये तदनभ्युपगमात् । अमुमेवार्थ दृष्टान्तेन द्रढयति-'न हीत्यादि' न हि काठिन्यादयो धर्माः केषांचित् पृथिव्यादीनां तन्मात्रनिमित्ताभिव्यक्तिकाः सन्तस्तैः कदाचिद्यज्यन्ते, किंतु सदा अविशेषभावेन । एवं चैतन्यमपि यदि भूतधर्मः स्यात् ततस्तैः सदाऽभिव्यज्यतेति । अपिच-अभिव्यक्तिर्नाम न पूर्वमनावृतस्य भवति, तथाऽनुपलम्भादिति, तस्यावरणं च वाच्यं, तथाविधपरिणामाभाव एवावरणमिति चेत् , न, तस्य सकलशक्तिविकलतया आवरणादिक्रियाकारित्वायोगात् , तदकारकस्य चावरणत्वानुपपत्तेः, अतिप्रसङ्गात् । तद्रूपमेव तथाविधपरिणामाभावस्तेनादोष इति चेत्, न, तथाविधपरिणामस्थापि तन्मात्रनिमित्ततया तद्रूपस्य तच्छून्यतानुपपत्तेः ॥ ५४॥ किं च-इदं चैतन्यं भूतेभ्यो व्यतिरिक्तं वा स्यादव्यतिरिक्तं वा ?, किं चातः, यदि व्यतिरिक्तं ततोऽस्माकमिष्टसिद्धिः, संज्ञामात्रविपर्ययेणात्मनोऽभ्युपगमात् । अथाव्यतिरिक्तं तदयुक्तं, यत आह ण य तस्स तहा गमणं दिट्टेसुवि संसओ य केसिंचि। Jan Education Inter For Private Personel Use Only M ww.jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ धर्म ॥ ३४ ॥ Jain Education Inte णीलादितुल्लतावि हु पत्तेयमदिट्ठितोऽजुत्ता ॥ ५५ ॥ चो हेतौ, यस्मात् दृष्टेष्वपि भूतेषु न 'तस्य' चैतन्यस्य ' तथा ' भूतानामिव गमनम् - अवबोधो निश्चयो भवति । कुत इति चेत् अत आह— “ संसओ य केसिंचि' अत्रापि चशब्दों हेत्वर्थे, यस्मात्केषांचिदवग्दृशां प्रतिपत्तॄणां चैतन्यविषयो निश्चयप्रतिपक्षभूतः संशय उपलभ्यते, ततो ज्ञायते भूतदर्शनेऽपि न चैतन्यस्य हर्षविषादादिरूपस्य नि| श्वयः, ततो विरुद्धधर्म्मसंग्रहान्न भूतसमुदायादव्यतिरिक्तं चैतन्यम् । प्रयोगश्चात्र - यस्मिन्निश्चीयमाने यन्न निश्चीयते न तयोरैक्यमेव, यथोष्णत्व कठिनत्वयोः, न निश्चीयते च शरीरे निश्चीयमाने चैतन्यमिति । द्विरूपं हि विश्व, विरुदूधर्म्मसंसर्गयुक्तं, तद्रहितं च । तत्र तद्रहितेषु दृष्ट एकत्वव्यवहारः, स तद्युक्तेऽपि यदि वर्त्तेत तर्ह्यनियतविषयः स्यात्, नियतविषयतया चासौ व्याप्तस्ततो व्यापकानुपलब्ध्या विरुद्धधर्म्मसंसर्गिणो रूपाद्यावर्तमानस्तद्रहितरूप|विषयतया व्याप्यत इति व्याप्तिसिद्धिः । यस्मिंश्च निश्चीयमाने यन्न निश्चीयते, तत्र विरुद्धधर्म्मसंसर्गभावात्तद्रहितरूपविषयत्वस्य व्यापकस्याभाव इति व्यापकानुपलब्धिरियम् । न चेयमसिद्धा, यस्माच्चैतन्यस्य हर्षविषादाद्यनेकाकारं रूपं निर्विवादमनुभवसिद्धं भूतानां काठिन्यादिवत्, तच्च शरीरे निश्चीयमाने न निश्चीयते, तत्प्रतिपक्षस्य | संशयस्य दर्शनादिति । स्यादेतत्- चार्वाकं प्रत्यनुमानप्रयोगोऽनुपपन्नः, तन्मतेनास्याप्रमाणत्वात्, तदयुक्तम्, यतश्चा %%%%% संग्रहणिः. ॥ ३४ ॥ Page #73 -------------------------------------------------------------------------- ________________ C कस्यापि भूतेषु पृथिव्यादिषु नानात्वव्यवहारो विरुद्धधर्मसंसर्गनिमित्तक एव सिद्धः, स चेहाप्येकस्मिन् । निश्चीयमाने अपरस्यानिश्चीयमानत्वमित्येवंरूपो विरुद्धधर्मसंसर्गोऽस्ति, ततो निमित्तसंभवे प्रवर्तनीयोऽयं व्यवहारो नो चेदन्यत्रापि न प्रवर्त्तयितव्य इत्येवमनेनानुमानेन नानात्वव्यवहारः प्रवर्त्तते इत्यदोषः। व्यतिरेकाव्यतिरेकपक्षे त्वविप्रतिपत्तिरेव,अस्माभिरप्यात्मना सह शरीरस्य कथंचिदभेदाभ्युपगमात् । यदपि क्वचिदुच्यते यथा-नीलता प्रत्येकमनुपलब्धाऽपि भूतसमुदाये उपलभ्यते, तथा चैतन्यमपीति, तदप्ययुक्तम् , नीलतायाः पटादिषूपलभ्यमानादयाः प्रत्येकमपि तन्तुपक्ष्मादौ दर्शनात्, न चैवं चैतन्यं प्रत्येकमप्युपलभ्यते इति कथं नीलतादितुल्यं तद्भवेत् । तथा *चाह-नीलादितुल्यतापि च प्रत्येकमदृष्टितोऽयुक्तेति ॥५५॥ अभ्युपगम्यापि प्रत्येकं भूतेषु चैतन्यं दूषणमाह तब्भावम्मि वि कह भिन्नवत्थुधम्मत्तणेण एगत्तं ? । चेयन्नस्सियरेसिं एगत्ते कह व णाणत्तं ? ॥ ५६ ॥ तद्भावेऽपि' प्रत्येकं भूतेषु तस्य चैतन्यस्य भावेऽपि, कथं प्रभूतभिन्नवस्तुधर्मत्वाचैतन्यस्यैकत्वं भवेत् ?, नैव कथंचन भवतीति भावः, भिन्नाभिप्रायपुरुषसमुदायचैतन्यवत् । एकत्वे वा चैतन्यस्य तदव्यतिरिक्तत्वात् भूतानां नानात्वं न भवेत् ॥ ५६ ॥ OCOCROSAROSAGARLOGGC Jain Educaton Intern For Private & Personel Use Only w ww.jainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः , अथ न चैतन्यस्यैकत्वमिष्यते, किंतु भिन्नवस्तुधर्मत्वात् नानात्वं, तेनादोप इत्यत्राह भिन्नाभिप्पायाण य देहम्मि तहा कहं अवत्थाणं ?। सयलिंदिओवलंभो जओ सती तेस सोय कह॥ ५७॥ 'भिन्नाभिप्रायाणां च' भिन्नभिन्नाभिप्रायेण युक्तानां च चैतन्यानां 'देहे' शरीरे, 'तथा' अहं ददामि अहं करोमीत्यादिरूपविशिष्टैकमानसिकानुभवनिवन्धनत्वेनावस्थानं कथं भवेत् ?, नैव कथंचनेति भावः । भिन्नाभिप्रायतया है तथाऽवस्थानभावे युक्त्ययोगात् । तथा यः प्रतिप्राणि प्रसिद्धः प्रत्येकं सकलैरपीन्द्रियैरुपलम्भो 'रूपं पश्यामी'त्याद्या-2 कारः सकलशरीराधिष्ठात्रेकरूपो 'यतः' पश्चात्तादृशार्थदर्शनादिकारणात् संस्कारस्य प्रबोधे सति 'स्मृतिः' तदेवेदं यत् प्राग्मयोपलब्धमित्याद्याकारा उपजायते, सोऽपि सकलेन्द्रियोपलम्भः कथं स्यात् ?, नैव स्यादिति भावः ॥५७॥ | स्यादेतत्, भिन्नाभिप्रायत्वेनापि चैतन्यानां परस्परं प्रत्यासत्तिविशेषतो यथोक्तखरूपैकज्ञाननिबन्धनता भविष्यति, ततः को दोष इत्यत आह न हि भिन्ने चेतन्ने आसन्नाणवि मिहो विभिन्नाणं । भावेसु णाणमेगं लोगम्मि सती य तप्पभवा ॥ ५८ ॥ Jan Education Intema Page #75 -------------------------------------------------------------------------- ________________ न यस्मादिह लोके 'मिथः' परस्परं विभिन्नानामासन्नानामपि पुंसां भिन्ने चैतन्ये सति 'भावेषु' पदार्थेषु विषयभूतेषु ज्ञानमेकं पूर्वोक्तस्वरूपं प्रवर्त्तते, नापि तत्प्रभवा' तथाविधैकज्ञानप्रभवा स्मृतिः, तथानुपलम्भात् । तस्माहद्भिन्नाभिप्रायत्वाचैतन्यानां न तथा देहेऽवस्थानं युज्यते, नापि प्रदर्शितखरूपः प्रवर्त्तते सकलेन्द्रियोपलम्भः । अथा |च खसंवेदनप्रत्यक्षेणोभयमपि देहे तथा प्रवर्तमानमनुभूयते, न चास्येत्थमनुभूयमानस्यापि प्रतिषेधः कर्तुं शक्यते, मा प्रापत् भूतानामपि प्रतिषेधप्रसङ्गः । ततो न प्रत्येकं भूतधर्मश्चैतन्यमिति स्थितम् ॥ ५॥ यचोक्तं प्राक 'नो य तस्समुदयस्स । पत्तेयमभावाओत्ति', तत्र पराभिप्रायमाशङ्कमान आह सिय संधाणं व तयं समुदयधम्मो ण तंपि पत्तेयं । एगंतेणासंतं तदन्नभावप्पसंगातो ॥ ५९॥ स्यादेतत् , न प्रत्येकं भूतधर्मश्चैतन्यं, किंतु समुदायधर्मो, यथा 'संधानं' मद्यं, न च प्रत्येकमभावात्समुदायेऽप्यभाव इति वाच्यं, दृष्टत्वात् , तथाहि-संधानं प्रत्येकं मद्याङ्गेष्वदृष्टमपि समुदाये दृश्यते, तथा चैतन्यमपि भविप्यति, न हि दृष्टे अनुपपन्नं नाम । अत्रोत्तरमाह-नेत्यादि, 'न' नैव तदपि संधानं प्रत्येकमेकान्तेनासत्, अत्यन्तासत उत्पादायोगात्, अन्यथा असत्त्वाविशेषतः पञ्चमभूतस्यापि तेभ्यः संधानस्येवोत्पत्तिप्रसङ्गात् ॥५९॥ अत्र पर आह ASARASWA5%ॐॐॐ Jain Education Intel For Private & Personel Use Only Page #76 -------------------------------------------------------------------------- ________________ धर्म | संग्रहणिः. CONOROS 4SECRECCARROCESSOCICIASCIROGICS जइ संतं उवलद्धी किन्नो पुर्वपि ? ओघतो अस्थि । ण य एवं उवलब्भइ पत्तेयं तेसु चेयण्णं ॥ ६॥ यदि मद्याङ्गेषु प्रत्येकावस्थायामपि सत् विद्यमानं संधानमिष्यते तर्हि किन्न समुदितावस्थायामिव प्रत्येकावस्थायामपि तदुपलभ्यते, तस्मात्तस्य दृश्यस्य सतोऽनुपलम्भादभाव एव तस्यामवस्थायामिति । अत्रोत्तरमाह-ओघतो|ऽस्तीति, एतदुक्तं भवति-ये मद्याङ्गेषु समुदितावस्थायां भ्रम्यादयो गुणा उपलभ्यन्ते, ते प्रत्येकावस्थायामपि धातक्यादिषु पृथक् पृथक् सन्तस्तथाविधविशेषविकलाः सामान्यत उपलभ्यन्ते एव, ततः संधानस्य प्रत्येकावस्थायामपि मद्याङ्गेवोघतः-सामान्येनोपलब्धिरस्तीति दृश्यस्य सतस्तस्यानुपलम्भादित्यसिद्धम् । तद्येवं चैतन्यमपि प्रत्येकं भविष्यतीत्यारेकानिराकरणार्थमाह-'न येत्यादि', न च 'एवमपि ओघतोऽपि, आस्तां विशेषाकारणेत्यपिशब्दार्थः, उपलभ्यते प्रत्येकं 'तेषु' भूतेषु चैतन्यम् , अतःप्रत्येकावस्थायां तस्य दृश्यस्य सतोऽनुपलम्भादभाव एव युक्त इति ॥ ६० ॥ अत्र परस्याभिप्रायमाह-- अह तस्सेस सहावो समुदयधम्मो तदा य होइत्ति । पत्तेयं च असंते न जीवभावोत्ति वामोहो ॥ ६१ ॥ ॥३६॥ Jain Educaton in For Private & Personel Use Only | Page #77 -------------------------------------------------------------------------- ________________ Jain धर्म. ७ अथ मन्येथाः -- तस्य चैतन्यस्य एष एव खभावो, यदुत समुदायस्य धम्मों, न प्रत्येकं भूतानां तथा तदैव च विशिष्टायामेव समुदितावस्थायां तद्भवतीति । अत्राचार्य आह - 'पत्तेयमित्यादि, न तावत्प्रत्येकं भूतेषु चैतन्यं विद्यते, दृश्यस्य सतोऽनुपलम्भात् । प्रत्येकं चासति चैतन्ये अनन्तरोक्ता कूटखभावकल्पना क्रियते, न पुनः 'जीवभावो' जीवसत्ताऽङ्गीक्रियते इत्यहो वलवान् व्यामोहः । कूटरूपता चानन्तरोक्तख भावकल्पनाया अत्यन्तासतश्चैतन्यस्य तथारूपस्वभावायोगात्, अन्यथा असत्त्वमेव तस्य न स्यात् । नाप्यत्यन्तासत उत्पादो घटते, असत्त्वाविशेषेण तद्वत्तदन्यभावापत्तिप्रसक्तेः । भूतानां तज्जननखभावत्वात्तस्यैवोत्पत्तिर्नान्यस्येतिचेत्, न तेषां तज्जननखभावत्वकल्पनाया अयोगात्, अवध्यभावात्, अनुत्पन्नं हि चैतन्यं खरविषाणादितुल्यमित्यवध्यभावतो विशेषेणासज्जननखभावत्वं तत्त्वतो भूतानां भवेत्, ततस्तेभ्यश्चैतन्यस्येव खरविषाणादेरप्युत्पत्तिप्रसङ्गः ॥ ६१ ॥ अह धम्मी, तत्तंतरसिद्धी. अब्भुवगमम्मि य पदोसो । धणिमित्तेण तु भेया. ण य भूतेहिं तदुप्पत्ती ॥ ६२ ॥ अथ न प्रत्येकं भूतानि नापि भूतसमुदायश्चैतन्यस्य धर्मी, किन्तु स्वयमेव तद्धम्मिरूपं तच घटादिवत् भूतेभ्य उत्पद्यते, ततो न कश्चिद्दोष इति । अत्राह - ' तत्त्वान्तरसिद्धि:', यद्येवमिष्यते तर्हि तत्त्वान्तरसिद्धिप्रसङ्गः । तथा Page #78 -------------------------------------------------------------------------- ________________ धर्म ॥ ३७ ॥ Jain Education Inter च सति चत्वार्येव पृथिव्यादीनि तत्त्वानीति' तत्त्वसंख्या नियमव्याघातप्रसङ्गः । सूत्रोक्ततत्त्वानामुपलक्षणत्वाददोष इति चेत्, न, तथा सत्यात्मप्रतिषेधानुपपत्तेः । एतदेवाह - - अभ्युपगमे च तत्त्वान्तरस्य क्रियमाणे प्रद्वेषः | स्वकृतान्तस्य-भूतव्यतिरिक्त आत्मा नास्तीत्यादिकस्य भवत आपद्यते । कुत इत्याह-- ध्वनिमात्रेणैव भेदात्, तथा हि-त्वया भूतव्यतिरिक्तं धम्मिरूपं चैतन्यमस्तीत्यभ्युपगम्यते, अस्माभिस्तु तदेव भूतातिरिक्तं जीव इति । यदप्युक्तं 'तच्च घटादिवत् भूतेभ्य उत्पद्यत' इति, तदप्ययुक्तं, कुत इत्याह-- 'न येत्यादि' न च भूतेभ्यस्तस्य चैतन्यस्योत्पत्तिर्युज्यते, तत्साधकप्रमाणाभावात् न हि चैतन्यस्य भूतकार्यत्वे किमपि प्रमाणमुपलभामहे, तथा हि-न तावत्प्रत्यक्षम्, अतीन्द्रियविषये तस्याभावात् न हि उत्पन्नमनुत्पन्नं वा चैतन्यं भूतानां कार्यमिति प्रत्यक्षव्यापारमुपैति तस्य स्वयोग्यसन्निहितार्थग्रहणरूपत्वात्, चैतन्यस्य चामूर्त्तत्वेन तदयोग्यत्वात् न च भृतानामहं कार्यमित्येवमात्मविषयं भूतकार्यत्वं प्रत्यक्षमवगन्तुमलं, कार्यकारणभावस्यान्वयव्यतिरेक निश्चयसमधिगम्यत्वात्, व्यतिरेकनिश्चयनिबन्धनस्य चानुपलम्भस्य तत्राभावात् न च तदुभयातिरिक्तः कश्चिदन्वयी तदुभयान्वयव्यतिरेकज्ञाताऽभ्युपगम्यते, आत्मसिद्धिप्रसङ्गात्, नाप्यन्यत्प्रमाणं, तस्यानभ्युपगमात्, 'प्रत्यक्षमेवैकं प्रमाणं, नान्यदितिवचनात् ' अभ्युपगमेऽपि ततो विवक्षितार्थप्रतीत्यसिद्धिः, अधिकृत चैतन्य वस्तुनोऽतथारूपत्वात् । तथाहिन चैतन्यं पृथिव्यादिभूतमात्रकारणं, तथा सति चैतन्यस्य भूतमात्रजन्यस्वभावत्वात्, , तेषामपि तज्जननखभावत्वात्, संग्रहणिः, ॥ ३७ ॥ Page #79 -------------------------------------------------------------------------- ________________ सदा सर्वत्र च घटादौ पुरुषादिष्विव व्यक्तचैतन्योत्पादो भवेत् , निमित्ताविशेषात् , एवं च सति घटादीनां पुरुषादीनां |चाविशेषः स्यात् , स च प्रत्यक्षवाधित इति यत्किंचिदेतत् । स्यादेतत् , 'कायाकारप्राणापानपरिग्रहवयो भूतेभ्यस्तदुत्पद्यते नाविशेष्टेभ्य' इति वचनान्न नः पूर्वोक्तातिप्रसङ्गदोषावकाश इति, तदयुक्तम् , त्वन्मतेन कायाकारपरिणामस्यैव युक्त्यनुपपत्तेः, तथाहि-स कायाकारपरिणामः किं पृथिव्यादिमात्रनिवन्धनः, किं वा वस्त्वन्तरनिमित्तः उताहेतुक इति, यद्याद्यः पक्षस्ततस्तस्याः पृथिव्यादिसत्तायाः सर्वत्राविशेषात् सर्वत्रापि कायाकारपरिणामप्रसङ्गः, तथाविधसाम्यादिभावसहकारिकारणवैकल्यान्न सर्वत्र तत्परिणामप्रसङ्ग इति चेत्, तन्न, यस्मात्सोऽपि साम्यादिभावो न वस्त्वन्तरनिवन्धनः, तत्त्वान्तरापत्तिप्रसङ्गात्, किंतु पृथिव्यादिसत्तामात्रनिवन्धनः, अतस्तस्यापि सर्वत्राविशेषेण भावप्रसङ्गात् कुतः सहकारिकारणवैकल्यमिति । अथ वस्त्वन्तरनिमित्त इति पक्षः, तदप्ययुक्तं, तथाभ्युपगमे सत्यात्मसिद्धिप्रसङ्गात् , तथाभूतवस्त्वन्तरयोगादेव हि विशिष्टकायाकारण]परिणामभाव उपपद्यते नान्यतः, तथा च सति न कश्चिद्दोष इति । अथाहेतुकस्तर्हि सदाभावादिप्रसङ्गः, 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणादितिन्यायात्', तन्न वन्मतेन कायाकारपरिणामो घटते, तदभावे तु दूरोत्सारितमेव प्राणापानपरिग्रहवत्त्वममीषां भूतानामिति ॥ ६२॥ इतश्च न भूतेभ्यश्चैतन्यस्योत्पत्तियुज्यते यत आह जं कारणाणुरूवं कजं भूयाणमणणुरूवं च । SAMOCRK*** Jain Education a l For Private & Personel Use Only | Page #80 -------------------------------------------------------------------------- ________________ धमे. चेतन्नं भणियमिणं सिय संगसरेहि वहिचारो ॥ ६३ ॥ संग्रहणिः . ॥३८॥ ACCAKACANCE 'यत्' यस्मात्कारणानुरूपं कार्य भवत् दृष्टं, यथा मृत्पिण्डस्य घटः, चैतन्यं च भूतानामननुरूपं, एतच्चाननुरूपत्वं प्रागेव 'बोहसहावममुत्तमित्यादिना भणितं, तस्मान्न चैतन्यं भूतानां कार्यम् । स्यादेतत् , शृङ्गशराभ्यामिह व्यभिचारः, तथाहि-शृङ्गस्य कार्य शरो भवति, न च स तदनुरूप इति, अपि च-सुप्तप्रबुद्धस्य दृश्यते तावचैतन्यं, न च तत्तदन्यचैतन्यपूर्वकं, सुपुप्ता(त्य)वस्थायां चैतन्यस्याभावात् , उपलभ्यस्य सतस्तदानीमनुपलम्भात् , तथापि चेत्तदा तत्कल्पना, तीतिप्रसङ्गः, न चाहेतुकं तत् , सदाभावादिप्रसङ्गात् , नाप्यन्यनिमित्तं, तस्याप्रतीयमानत्वात् , किन्तु कायनिमित्तम् । न चेदमपि वक्तुं युक्तं-भूतानां चैतन्यापेक्षया अत्यन्तलक्षण्यात्कथं तेभ्यस्तदुत्पत्तिरिति, लोके भिन्नजातीयादपि कारणाद्भिन्नजातीयकार्योत्पत्तिदर्शनात्, तथाहि-सूक्ष्माप्रदेशपरमाणुभ्यः स्थूरसप्रदेशघटादिकार्यभावो दृश्यत एवेति, नापि प्रत्येकावस्थायामेकान्तेनासतश्चैतन्यस्य समुदितावस्थायां कथं तेभ्य उत्पादोऽन्यथा पञ्चमभूतस्याप्युत्पत्तिर्भवेदित्यभिधातव्यं, पर्यायेण व्यभिचारात्, स हि प्रागवस्थायामसन्नपि प्रादुर्भवन् दृष्टो, न चासत्त्वाविशेषेण तत्रान्यभावप्रसङ्गः, कारणशक्तिनियमात् , तद्वदत्रापि भविष्यतीति भूतकार्यता चैतन्यमास्येति ॥ ६३ ॥ अत्रोच्यते-तत्र यत्तावदुक्तं 'शृङ्गशराभ्यां व्यभिचार' इति, तत्राह -SAMROCALCCAMGAR ॥३८ Jain Education Intel For Private & Personel Use Only (Huw.jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ Jain Education Inte संगपि भूयसमुदयरूवं हंदि उ सरोऽवि तह चेव । इ अरूवत्तं चि भेदे तत्तंतरावती ॥ ६४ ॥ यस्मात् शृङ्गमपि भूतसमुदायमात्रं, 'हंदी' त्युपप्रदर्शने, यदुक्तमनयोरानुरूप्यं नास्तीति तदेतदानुरूप्यमिदानीं प्रदर्श्यत इत्यर्थः । शरोऽपि तथा चैव भूतसमुदायमात्रं शृङ्गैकदेशवर्तिभूतसमुदायस्यैव शरतया परिणममानत्वात् इति । तस्मादुभयोरपि शृङ्गशरयोरनुरूपत्वमेव, शरस्य शृङ्गलक्षणस्वकारणधर्म्मानुगम संभवात्, अन्यथा कारणधर्माननुगमेन शरस्य भेदेऽत्यन्तवैलक्षण्येऽङ्गीकृते सति अत्यन्तासत एव तस्योत्पादोऽभ्युपगतः स्यात्, तथा च सति असत्त्वाविशेषात् शरस्येव तत्त्वान्तरस्यापि पञ्चमभूतादेरापत्तिः प्रसज्येतेति ॥ ६४ ॥ अत्र परस्याभिप्रायमाह - सिय चित्तं दिनं सहावभेदेण भूतकज्जाणं । चेतन्नस्सवि एवं तकज्जत्तम्मि किमत्तं ॥ ६५ ॥ स्यादेतत् भूतकार्याणां घटपटादीनां स्वभावभेदेन वैचित्र्यं दृष्टम्, 'एवम्' अमुना प्रकारेण चैतन्यस्यापि 'तत्कार्यत्वेऽपि ' भूतकार्यत्वेऽपि यदि तदन्यकार्येभ्योऽत्यन्तवैलक्षण्यं भवेत् किमयुक्तं भवेत् ? नैव किंचिदिति भावः ॥ ६५ ॥ अत्रोत्तरमाह Page #82 -------------------------------------------------------------------------- ________________ धर्म ॥ ३९ ॥ Jain Education Intak जमखिलतक्कज्जाणं, विलक्खणं सबहा अमुत्तादि । तस्साह मि (asa) किमिह कोसपाणं विणा माणं ॥ ६६ ॥ रूपादिसंस्थानविशेषो मूर्त्तिस्तदभावोऽमूर्तिरादिशब्दाद्बोधरूपतादिपरिग्रहः । ततो यदमूर्त्त्यादि अखिलतत्कार्याणां निःशेषभूतकार्याणां सर्वथा एकान्तेन विलक्षणं, तत्खाभाव्येपि च अमूर्त्यादिखभावत्वेऽपि भूतकार्यस्य सतश्चैतन्यस्येष्यमाणे, किमिह कोशपानं विना अन्यत् मानं प्रमाणं भवेत्, नैव किंचिदिति भावः । ततो यदि भूतकार्य चैतन्यं ततस्तस्य घटादेरिवामूर्त्यादि सर्वथा नोपलभ्येत, अथ च तत्तस्यानुभूयते, तस्मान्न भूतकार्य चैतन्यम् । यदप्युक्तं, 'सुषुप्तप्रबुद्धस्य दृश्यते तावचैतन्यमित्यादि । तदप्यसमीचीनम्, कायमात्राचैतन्यानुत्पत्तेः, अन्यथा सर्वेपाममरणप्रसङ्गात्, मृतावस्थायामपि कायाकारपरिणामापरित्यागतः सुपुप्तप्रबुद्धावस्थायामिव चैतन्योत्पादप्रसक्तेः । न तत्र वाय्वादिसहकारिकारणं, तेनादोष इति चेत्, एतदुत्तरत्र निषेत्स्यामः । स्यादेतत्कायजमेव चैतन्यं, जरादिना तद्विकारे सति चैतन्यस्यापि विकारसिद्धेः । तदप्ययुक्तम्, कायविकाराभावेऽपि भावनाविशेषतोऽप्रीत्यादिभावेन चैतन्यविकारोपलब्धेः । यदि च देहविकारनिबन्धन एव चैतन्यविकारः स्यात्तर्हि नान्यतो भवेत्, तद्भावनिबन्ध संग्रहणिः. ॥ ३९ ॥ Page #83 -------------------------------------------------------------------------- ________________ नस्य सकृदपि तमन्तरेणान्यतो भवनविरोधात्, अन्यथा निर्हेतुकत्वप्रसङ्गात् , तथाहि-यत् यदन्वयव्यतिरेकानुविधायि, तत्तद्धेतुकं, नान्यत्, न च देहविकारान्वयव्यतिरेकानुविधायी चैतन्यविकारस्तमन्तरेणापि भावनाविशेपवशेनाप्रीत्यादिभावतस्तद्विकारदर्शनात् । नाप्यप्रीत्यादिभेदभावान्वयव्यतिरेक(कानु)विधायी चैतन्यविकारस्तमन्तरेणापि भवता देहविकारतस्तद्विकाराभ्युपगमात्, तदेवमुभयोरपि हेतुत्वाभावाचैतन्यविकारस्य निर्हेतुकत्वप्रसङ्गः।। तन्न देहविकारपूर्वकश्चैतन्यविकारः, किंत्वप्रीत्यादिभावपूर्वक एव, तथादर्शनात् । अन्यथोक्तनीत्या निर्हेतुकत्वप्रसङ्गात् । अप्रीत्यादिभावेऽपि देहविकारपूर्वक एव, जराद्यवस्थासु तथोपलम्भात् , तथाहि-जरादिना देहविकारस्तस्माचाप्रीत्याखास्थ्यादिभावस्तस्माच चैतन्यविकार इति चेत्, न, देहविकाराभावेऽपि तथाविधसंकल्पवश तोऽप्रीत्यादिभावदर्शनात् । किञ्च-देहविकारमात्रे सति चैतन्यविकारदर्शनात्तस्य तत्कार्यत्वाभ्युपगमे विपर्ययापत्तिहारप्यनिवारितप्रसरा, शोकहर्षाद्यवस्थासु चैतन्यविकारतो देहविकारदर्शनात् , देहस्य चैतन्यकार्यत्वप्रसक्तेः । अपि चव्याघ्रश्चौरो रक्ष आगच्छतीत्यादिशब्दाकर्णनात् केषाञ्चिच रुधिरादिदर्शनाच चैतन्यविक्रियोपलभ्यते, न च तत्कार्य चैतन्यमिष्यत इति यत्किंचिदेतत् । यदप्युक्तं, 'सुषुप्ता(त्य)वस्थायां चैतन्यस्याभावादुपलभ्यस्य सतस्तदानीमनुपलम्भादिति, तदप्ययुक्तम् , स्वसंवेदनमात्रस्याव्यक्तस्य तदानीमप्यनुभूयमानत्वात् , अविगानेन तथा सकललोकप्रसिद्धेः । अन्यच-स्मरणकार्यान्यथानुपपत्त्या सुपुत्त्यवस्थायां चैतन्यमस्तीति नियमात् प्रतिपत्तव्यम्, तथाहि Jain Education in For Private & Personel Use Only PHww.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ धर्म ॥ ४० ॥ Jain Education सुषुप्तावस्थाभा विस्वप्नादिचैतन्यविषयं स्मरणमविगानेनानुभूयते, न चाननुभूते तत् स्मरणमुपपद्यते, अतिप्रसङ्गात् । न च कायान्वयनिबन्धनमेव तत्स्मरणं, तथाप्रतीत्यभावात्, तत्खरूप संस्पर्शिस्मृत्यननुभूतेस्तथापि चेदेवं कल्पना तर्ह्यतिप्रसङ्गः । न च तथा स्वभावत्वसामर्थ्यात् कायादेव तथा तत्स्मरणमिति वाच्यं तस्य तथास्वभावत्वासिद्धेः, तत्साधकप्रमाणाभावात् । तस्मादनुभूतसुषुप्तावस्थाभाविचैतन्य विशेष निबन्धनमेव तत्स्मरणम् । तथा च सिद्धंसुषुप्तावस्थायामपि चैतन्यमिति । एतेन यदपि प्रागुक्तं ' तथापि चेत्तत्कल्पना' इत्यादि तदपि निर्वि षयमापादितं द्रष्टव्यं प्रबुद्धावस्थाभाविचैतन्यस्य सुषुप्तावस्थाभावि चैतन्यपूर्वकत्वेनैव व्यवस्थापितत्वात् । यदप्यभ्यधायि न चेदमपि वक्तुं युक्तं, भूतानां चैतन्यापेक्षया अत्यन्तवैलक्षण्यादि त्यादि तदपि न मनोरमम् । सूक्ष्माप्रदेशपरमाणूनां स्थूलप्रदेशघटादिकार्यापेक्षया अत्यन्तवैलक्षण्यासिद्धेर्मूर्त्तत्वादिधर्म्मसमन्ययात्, तथाहि - सूक्ष्मा अप्यणवो मूर्त्ता रूपाद्यात्मकत्वात् न च अप्रदेशा एव ते परमाणवः, सतः क्वचिदवस्थानेन नियमत एव दिग्विभागभेदसंभवात्, अन्यथा अवस्थानायोगात् । दिग्भागभेदवतश्च नियमतः कथंचित्सप्रदेशत्वात् । न च वाच्यमेवं सति परमाणोः परमाणुत्वं विरुध्यत इति ? तस्य तदन्याल्पतराभावनिबन्धनत्वात्, एतच्चोत्तरत्र विस्तरतरकेणाचार्यः स्वयमेव दर्शयिष्यति । ततश्चैवंभूतेभ्यः परमाणुभ्यस्तत्समुदायात्मकं स्थूलस प्रदेशघटादिकार्यमुपपद्यत एव कारणविशेषधर्मानुगमेन तस्य तदनुरूपत्वात् । अपर संग्रहणिः ॥ ४० ॥ Page #85 -------------------------------------------------------------------------- ________________ Jain Education Int | स्त्वाह-- स्यादेतद् यदि परमाणुसमुदायात्मकं घटादिकार्य तर्हि तेषां परमाणूनां प्रत्येकमिन्द्रियग्राह्यत्वाभावात् । समुदितानां सतां कथं तेषामिन्द्रियग्राह्यता भवतीति, उच्यते, तथापरिणमनखभावतया तदा तेषां तत्खभावताभावात्, तथाहि - परमाणूनामेवायं स्वभावो येन तत्तत्कालाद्यपेक्षया तत्र तत्र तथाविर्भूतैकत्वपरिणामनैरन्तर्येण विशिष्टसंस्थानवन्तोऽवतिष्ठन्ते वादराश्च भवन्तीति । अथ किमिदं बादरत्वं नाम, उच्यते, समुदितानामिन्द्रियग्राह्यखभावता, स्थूरत्वमितियावत् । नन्वियमेव इन्द्रियग्राह्यखभावता सूक्ष्माणां समुदितानामपि सतां सत्तानुपचये न न्याय्या, न, स्वभाववैचित्र्यभावतस्तन्याय्यत्वोपपत्तेः । दृष्टं च स्वभाववैचित्र्यं स्थूरसूक्ष्मत्वविषयं प्रत्यक्षत एव तुलानतिविशेषादिभावेनानुमीयमानतुल्य परमाणूनामपि भेंडवज्रादीनामिति न्याय्यैव तेषां तथावस्थि| तानामिन्द्रियग्राह्यखभावतेति । एतेन 'पर्यायेण व्यभिचार' इत्येतदपि प्रत्युक्तं द्रव्यस्यैवानेकशक्तिसमन्वितस्य तथा भवनेन तस्य सर्वथा असत्त्वासिद्धेः, मृत्पिण्डादेर्हि द्रव्यस्य तथारूपेण भवनाभावे घटादिलक्षणपर्यायस्यादलत्वेनाभवनमेव प्रसज्येत ततो द्रव्यस्य मृत्पिण्डादेरन्यथाभवनमात्रं घटादिपर्यायस्योत्पत्तिरित्यदोषः । न च वाच्यं यदपि किंचिद्रव्यस्यान्यथाभवनमात्रं तस्यासत एवोत्पादात्तेन व्यभिचार इति, तस्यापि कथंचिद् द्रव्येन सहाभेदतः सर्वथा असत्त्वासिद्धेरिति सूक्ष्म धिया भावनीयमेतत् प्रपञ्चयिष्यते चैतदाचार्येणाग्रे स्वयमेव । न चैवं भूतानां तथाभावेन चैतन्यमुपपद्यते, तद्धर्म्माननुविधानात्, न हि काठिन्यद्रवत्वचलत्वादिधर्म्मकतया अस्य चैतन्यस्यानुभवोऽस्ति, अमूर्त **** Page #86 -------------------------------------------------------------------------- ________________ ॥४१॥ त्ववोधरूपत्वादिरूपतया तस्य संवेद्यमानत्वात् , तथा खसंवेदनप्रत्यक्षसिद्धेरिति न भृतकार्यता चैतन्यस्य ॥६६॥ | संग्रहणिः दातदेवं 'भूएहिं चेयन्नं कायागाराइपरिणएहितो' इति प्रतिज्ञां सप्रपञ्चं दूपयित्वा हेतोर्दूषणमभिधित्सुराह तब्भावम्मि य भावो ण परासुरचेयणो जतो काओ। दीसइ ण तत्थ वाऊ सति सुसिरे सो कह ण होज्जा ? ॥ ६७ ॥ यदुक्तं तद्भावे' कायाकारादिपरिणतभूतसमुदायमात्रभावे चैतन्यस्य भाव एव, येन तदतिरिक्तात्मलक्षणकारणान्त-2 रापेक्षा तस्य न स्यात् । कुत इत्याह--'यतो' यस्मात् 'परासुः' अपगतप्राणः कायोऽचेतनो दृश्यते, स्यादेतत्पृथिव्यप्तेजोवायुलक्षणभूतसमुदयजन्यं चैतन्यं, न चात्र वायुरस्ति । तथाह-'न तत्थ वाऊ' इति न 'तत्र' परासौ काये वायुरस्ति, ततस्तदभावात्तत्र चैतन्याभाव इति । अत्राह-सुपिरे स वातः कथं न भवेत् ?, भवेदेवेति भावः, सुषिरे यवश्यंभावी वायुः संभाव्यत इति। किञ्च-यदि तत्र वायुवैकल्याच्चैतन्यस्याभावः, ततो वस्त्यादिभिः संपादिते वायौ तत्र चैतन्यमुपलभ्येत, न च तत्र संपादितेऽपि वायौ समुपलभ्यते ॥ ६७ ॥ यदाह ॥४१॥ ण य तं कएवि दीसइ पाणापाणूणभावतो णो चे । णो जीवाभावातो किमेत्थ माणंति वत्तवं ?॥ ६८॥ Jain Education Inter For Private & Personel Use Only OMw.jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ न च तत् चैतन्यं कृतेऽपि' संपादितेऽपि वायो 'दृश्यते' उपलभ्यते । अत्र दूपयितुं पराभिप्रायमाशङ्कते 'पाणापाहणूणऽभावओ नो चे' प्राण उच्छासः, अपानोऽधः श्वसनम् , यदाह गन्धहस्ती-प्राणापानौ उच्छासनिश्श्वासाविति, तदभावान्न तत्र चैतन्यमिति चेत् , चेत्शब्दो निपातो यद्यर्थे, एतद्यदीष्यत इत्यर्थः । अत्रोत्तरमाह--'नो जीवाभावाओ किमेत्थ माणंति वत्तवमिति न जीवाभावात्तत्र परासौ काये तचैतन्यमपि तु प्राणापानाभावादित्यत्र 'किं मानं' किं प्रमाणमिति वक्तव्यं ?, प्रमाणमन्तरेणाभिप्रेतासिद्धेरन्यथातिप्रसङ्गात् । तच प्रमाणं न किञ्चिदुपलभ्यत इति यत्किंचिदेतत् । स्यादेतत्-प्राणाद्यन्वयव्यतिरेकानुविधानं चैतन्यस्यात्र प्रमाणमस्त्येव । तथाहि-प्राणादिसद्भावे तचैतन्यमुपलभ्यते तदभावे तु नेति, तदप्ययुक्तम्, तत्रापि संदेहात्, तथाहि-किं प्राणादिभावाभावाभ्यां चैतन्यभावाभावी किंवा जीवभावाभावाभ्यामिति । अपि च-प्राणादिरपि कायाकारपरिणामनिमित्तक एव त्वयाऽभ्युपगम्यते, आत्मानभ्युपगमात् , स च कायाकारपरिणामो मृतकायेऽपि तदवस्थ उपलभ्यत इति, तदभावोऽप्यनुपपन्न एवेति कथमुच्यते प्राणापानाभावान्न तत्र चैतन्यमिति ॥ ६८॥ अधुना परोऽन्यथा कारणवैकल्यमापादयति तेयाभावातो ण तं उवणीते तम्मि पावती भावो । अह सो विसिटुगो चिय वइसिटुं किंकतं तस्स ? ॥ ६९ ॥ Jain Education For Private & Personel Use Only Page #88 -------------------------------------------------------------------------- ________________ ॥४२॥ तेजसोऽभावान्न परासौ तचैतन्यमिति, आह-'उवणीए इत्यादि' यद्येवं तर्हि तस्मिन् तेजसि उपनीते सति | | संग्रहणिः चैतन्यस्य भावः प्राप्नोति । अथ मन्येथास्तत्तेजो विशिष्टमेव सत् चैतन्यस्य कारणमिष्यते न तेजोमात्र, तेन तस्मिन्नपनीतेऽपि न चैतन्यस्य भावप्रसक्तिः। प्राकृतत्वाच्च सो इति पुंस्त्वनिर्देशः । अत्रोत्तरमाह--'वइसिटुं किंकयं तस्स' ॥ ६९ ॥ अत्र परस्याभिप्रायमाह ___ अह नु सभावकयं चिय ण पमाणमिहावि साहगं किंच ? । अप्पतरं दीसिजा तदभावे सेसभावातो ॥ ७॥ अथ स्वभावकृतमेव तस्य तेजसो वैशिष्ट्यमिति मन्येथाः ।अत्राह-न प्रमाणमिहापि साधकं, न हि तस्य वैशिष्ट्यं खभावकृतं न पुनरात्मनिर्मितमित्यत्र किंचित्प्रमाणमुपलभामहे, न चापश्यन्त आत्मानं विप्रलभेमहीति । किंचेसभ्युच्चये । अन्यच 'तदभावे' तस्य तेजसोऽभावे शेषपृथिव्यादिभूतसद्भावात् तन्निमित्तमल्पतरं कियदपि चैतन्यमुपलभ्येत । समुदायजन्यं चैतन्यमिति तदेकस्याप्यभावे कथं चैतन्यस्योत्पत्तिरिति चेत्, न, प्रत्येकमेकान्तेनाभावे सति समुदायेऽपि तद्भावानुपपत्तेः, रेणुसमुदाये तैलवत् । समुदाये चेत्तदभ्युपगम्यते ततः प्रत्येकमपि तदभ्युपग- ॥४२॥ न्तव्यम् , तथा च सति तेजसोऽभावेऽपि शेषपृथिव्यादिभूतसद्भावात् यत्कियदपि चैतन्यमुपलभ्येत, एतच दूषणं भूताव्यतिरिक्तचैतन्यपक्षमधिकृत्य वेदितव्यम् ॥ ७० ॥ RRC Jain Education ind a Khww.jainelibrary.org Page #89 -------------------------------------------------------------------------- ________________ SAMROSAROGRAMMARCH तह पुढवादिसमुदया किं कुसलकया ण होइ चेतन्नं । सवत्थ अविसेसेणं जत्तेण वि कीरमाणं तु ॥७१॥ 'तथेति' दूषणान्तरसमुच्चये। यदि पृथिव्यादिसमुदयमात्रनिमित्तं चैतन्यमिप्यते तर्हि पृथिव्यादिसमुदायात् कुशलेन पुंसा कृतात् सर्वत्र देशे काले वाऽविशेषेण यत्नेनापि क्रियमाणं तत्किं-कस्मान्न भवति ?, घटादिवत् । यथा हि घटादिः पृथिव्यादिमात्रोपादानस्तत्समुदायमात्रात् कुशलेन पुंसा यत्नेन क्रियमाणः सर्वत्राविशेषेण भवति तथा चैतन्यमपि यदि पृथिव्यादिमात्रोपादानं स्यात् तर्हि यत्नेन क्रियमाणं ततः पृथिव्यादिसमुदयमात्रादविशेषेण | सर्वत्र भवेत् , न च भवति, तस्मान्न तत्तन्निमित्तमिति ॥ ७१ ॥ अत्र पर आह णत्थित्थीकुच्छिसमं तस्समदायस्त ठाणमग्गंति । एवुब्भियपमुहाणं पावइ णणु चेयणाभावो ॥ ७२ ॥ नास्ति स्त्रीकुक्षिसमं, 'तत्समुदायस्य कुशलपुरुषनिर्माप्यमाणपृथिव्यादिभृतसमुदायस्य, स्थानं चैतन्यं प्रति व अधिकरणभूतं, 'अग्र्यं' प्रधान, प्रधानता चान्येभ्यः सकाशात्तस्य चैतन्यं प्रत्यविकलकारणत्वात् इति । तस्मान्नावि १ देशे काले चाविशेषेण सर्वत्र भवेत् इति कपुस्तकपाठः । *CROCOCCCOCOCALCANCदर दाल धर्म.८ Jain Education in For Private & Personel Use Only ww.jainelibrary.org Page #90 -------------------------------------------------------------------------- ________________ धर्म ॥ ४३ ॥ शेषेण सर्वत्र चैतन्यस्य भावप्रसङ्गः । एतदुक्तं भवति - न केवल पृथिव्यादिभूत समुदयमात्रनिमित्तं चैतन्यमिष्यते, किंतु विशिष्टस्थानसापेक्षं तच विशिष्टं स्थानं स्त्रीकुक्षिकल्पम्, न चैतत्सर्वत्र विद्यत इति तदभावात्सर्वत्र चैतन्याभाव इति । अत्र दूषणमाह - 'एवोब्भियेत्यादि' नन्वेवं परिकल्प्यमाने सति उद्भिजप्रमुखाणां उद्भेदनमुद्भित् ततो जाता उद्भिज्जाः - खञ्जरीटादयः, पृषोदरादित्वाहकारस्य लोपः, तत्प्रमुखाणां जन्तूनां चैतन्याभावः प्राप्नोति, तदुत्पत्तिदेशे स्त्रीकुक्षिलक्षणस्थानाभावात् ॥ ७२ ॥ ae afaeपरिणाम णत्थि ण जीवोत्ति णिच्छओ केणं ! । चेतन्नाभावेणं जीवाभावेऽवि सो तुल्हो ॥ ७३ ॥ अत्रोच्येत ? - न ब्रूमः कुशलपुरुषनिर्माप्यमाणपृथिव्यादिभूतसमुदायस्य स्त्रीकुक्षिसमं स्थानं नास्तीति तत्र चैतन्याभावः, किंतु तथाविधः परिणामविशेषो नास्तीति ततो नोद्भिज्जादीनां चैतन्याभावप्रसङ्ग इति । अत्राह - 'न जीवोत्ति निच्छओ केणंति' नन्वत्र केन प्रमाणेन भवतो निश्चयो यथा - तथाविधः परिणामो नास्तीति तत्र चैतन्या - भावो, न पुनर्जीवो नास्तीति । पर आह- 'चेयन्नाभावेणंति' यदि तथाविधः परिणामस्तत्र भवेत् तर्हि तद्भवेदेव तत्रापि चैतन्यं, न च भवति, ततश्चैतन्याभावेन तत्र तथाविधपरिणामाभावो निश्चीयते इति । अत्राह - 'जीवाभावेऽवि संग्रहणि: ॥ ४३ ॥ Page #91 -------------------------------------------------------------------------- ________________ सो तुल्लो' स चैतन्याभावो जीवाभावेऽपि तुल्यः, तथाहि-एतदपि शक्यते वक्तुं यदि जीवः सर्वविशेषणः (०त्रावि-- | शेषेण) स्यात् स्यादेव चैतन्यमतश्चैतन्याभावात्तत्र जीवो नास्तीति निश्चीयत इति ॥७३॥ आह-यदुक्तं-"पृथिव्यादिसमुदायात्कुशलपुरुषकृतादविशेषेण चैतन्यं कस्मान्न भवतीति", तदयुक्तमुक्तम् , यतो मद्याङ्गसमुदायमात्रनिमित्तापि सती मदशक्तिर्न तत्समुदायमात्रादविशेषेण भवति, क्वचित्तथाविधपरिपाकाभावेन तदनुत्पत्तिदर्शनात् , तथा चैतन्यमपि पृथिव्यादिसमुदायमात्रात्कुशलपुरुषकृतादविशेषेण न भविष्यतीति न कश्चिद्दोष इत्यत आह ___ण य इह मजंगाणं न होइ अविसेसतो तु मदसत्ती। जं कुसलनिउत्ताणं नायाणुगयं न तेणेदं ॥७४ ॥ न च 'यद्' यस्माद् 'इह' जगति मद्याङ्गानाम् 'कुसलनिउत्ताणंति' कुशलेन पुंसा नियुक्तानाम् , अकुशलेन हि नियुक्तानां सतां तथाविधपरिपाकाभावेन न मदशक्तिर्भवेत् ततो मा भूतैर्व्यभिचारो यथोक्तं प्राक् परेणेति तद्यवच्छेदार्थ कुशलग्रहणम् , अत एव प्रागपि कुशलकृतादित्यत्र कुशलग्रहणमाचार्येणोपादायि, तदेवंरूपाणां मद्याङ्गानां न न भवति मदशक्तिः, किंतु भवत्येव । तेन कारणेन 'इदं' ज्ञातं मदशक्तिलक्षणं न न्यायानुगतमिति कथमुच्यते न | कश्चिद्दोष इति ॥ ७४॥ तदेवं तद्भावे भावं व्यभिचार्य सांप्रतं तदभावेऽभावं व्यभिचारयन्नाह Jain Education For Private & Personel Use Only Page #92 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः ॥४४॥ तदभावम्मि य भावो सिद्धो मोत्तेसु मोक्खवातीणं । आगमपामण्णातो जह तह उवरिं फुडं वोच्छं ॥ ७५॥ 'तदभावेऽपि' पृथिव्यादिभूतसमुदायाभावेऽपि, भावश्चैतन्यस्य, 'मुक्तेषु' क्षीणसकलकर्मसु, मोक्षवादिनामागमप्रामाण्यात्सिद्ध एव ।यथा चासौ सिद्धस्तथा उपरि सर्वज्ञसिद्धौ, स्फुटम्' अतीव व्यक्तं, वक्ष्य इति ॥७५॥ अत्र पर आह सत्वेसि तओऽसिद्धो अतो असिद्धोत्ति तुल्लमेवेदं । भूतेहिं चेतन्नं जायइ विबुहाण जमसिद्धं ॥ ७६ ॥ सर्वेषां वादिनां 'तओत्ति' सको मोक्षोऽसिद्धोऽतोऽसिद्ध एव तदभावेऽपि चैतन्यस्य भाव इति । अत्रोत्तरमाह'तुल्लमेवेदमिति' इदमनन्तरोक्तं भवत्पक्षेऽपि तुल्यम् । तामेव तुल्यतां दर्शयति-भूएहिं इत्यादि' 'यद्' यस्मादू 'भूतेभ्यः' पृथिव्यादिभ्यश्चैतन्यं जायत इत्यपि 'विबुधानां' यथावस्थितवस्तुतत्त्ववेदिनामसिद्धम् , तत एतदपि न तात्त्विकमिति ॥ ७६॥ तदेवमन्वयव्यतिरेकाभावोपदर्शनेन तद्भावे भावादिति हेतुरसिद्धः उद्भावितः, सांप्रतं प्रागुपन्यस्तं मद्याङ्गेभ्यो मदशक्तिरिवेति दृष्टान्तं दुदूपयिपुरिदमाह ण य मजंगेहिं इह मदसत्ती जुजती विणा जीवं । * SACROSAROSAROSAROSAROKAR ॥४४॥ Jain Education a l For Private Personel Use Only | Page #93 -------------------------------------------------------------------------- ________________ तम्हा पइन्नहेऊदिटुंता तिन्निवि अजुत्ता ॥ ७७॥ न च 'इह' जगति जीवं विना मद्याङ्गेभ्यो मदशक्तिः 'युज्यते' घटते तथाप्रतीत्यभावात् । ततो मद्याङ्गेभ्यो मदशतिरिवेति दृष्टान्तस्तद्भावे भावादिति साधनविकलः, केवलमद्याङ्गसमुदयमात्रान्मदशक्त्यनुपपत्तेः । उपसंहरतितस्मादेते त्रयोऽपि प्रतिज्ञाहेतुदृष्टान्ता अयुक्ता द्रष्टव्या इति ॥ ७७ ॥ दृष्टान्तमेवाश्रित्य दूषणान्तरं समुच्चेतुमाह किंचेयं मदसत्ती किं मजे पाणगे तदाधारे ?।। मजेज सयं मजं जइ तम्मि उढिगाधारे ॥७८॥ किंचेत्यभ्युच्चये । इयं दृष्टान्तत्वेनोपन्यस्ता मदशक्तिः किं 'मद्ये' सुरादिरूपे, उतश्चित् पानके आहोखित् तस्य मद्यस्य आधारे उष्ट्रिकादाविति विकल्पत्रयं, गत्यन्तराभावात् । तत्राद्यं विकल्पमधिकृत्याह-'मजेजेत्यादि' यदि तस्मिन् मद्ये मदशक्तिर्भवतीत्यभ्युपगम्यते तर्हि तदेव मद्यं स्वयं पानकादिनिरपेक्षं खरूपेण मायेत् मदशक्तियोगात्, न च माद्यति तथाऽनुपलम्भात् , तन्नायं पक्षः श्रेयान् । तदाधार इति विकल्पस्तत्राप्याह-'उष्ट्रिकाधार' इति आधारे यदीप्येत मदशक्तिस्तत उष्ट्रिका स्वयं मायेत, तस्या मद्यं प्रत्याधारत्वात्तत्र च मदशक्त्यभ्युपगमात् ॥७८॥ अथैतदोष|भयात्पानक इति पक्षकक्षीकारस्तदप्ययुक्तम् , दृष्टान्तस्य साधनविकलतापत्तेः, तथा चाह Jain Education For Private & Personel Use Only || Page #94 -------------------------------------------------------------------------- ________________ ********** | संग्रहणि. ॥४५॥ ** जीवस्स तु मयसत्ती पाणगपक्खम्मि मजसंजोगे। जायइ मजंगेहिंतो णातमसंगतं तेणं ॥७९॥ पानकपक्षे हि आश्रीयमाणे "मजंगेहिंतोत्ति" मद्याङ्गेभ्यो धातक्यादिभ्यो यत्समुत्पद्यते मद्यं सुरादि तेन सह संयोगे सति जीवस्यैव, तुरवधारणे, मदशक्तिर्भवतीत्यभ्युपगतं स्यात् । तेन कारणेन मद्याङ्गेभ्यो मदशक्तिरिवेति 'ज्ञातम्' उदाहरणमसंगतम् , साधनविकलत्वात् , पानकसापेक्षत्वेन केवलमद्याङ्गसमुदायमात्रात्मदशक्त्यभावादिति ॥७९॥ उक्खिवणपेरणादी सत्ती जह एत्थ देवदत्तस्स । कुंभादुक्खिवणगया दीसति तह मजसत्तीवि ॥ ८० ॥ उत्क्षेपणप्रेरणादिका शक्तिर्यथा देवदत्तस्य संवन्धिन्यपि सती कुम्भाधुत्क्षेपणगता दृश्यते तथा मदशक्तिरपि मद्याङ्गसमुदयविशेषात्मकमद्याश्रिता सती पानकगता दृश्यते, तेन यथा उत्क्षेपणादिका शक्तिः पुरुषस्य संबन्धिनी सती कुम्भाधुत्क्षेपणगतापि दृश्यमाना कुम्भादेरियं न पुरुषस्येति न शक्यते वक्तुं, तथा मदशक्तिरपि पानकगतापि दृश्यमाना पानकस्येयं न तु मद्यस्येति न शक्यं वक्तुं, ततो न ज्ञातमसंगतम् , साधनविकलत्वाभावादिति ॥ ८॥ अत्राह एवंपि भूतसमुदयवइरित्तगता तु चेयणा कजं । -SCRACCOUNCSC ॥४५॥ Jain Education intml For Private & Personel Use Only Haww.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ साहेति य वइरित्तो जो सो जीवोत्ति पावेति ॥ ८१ ॥ 'एवमपि' अस्यामपि कल्पनायां भूतसमुदायव्यतिरिक्तगतैव तुरेवकारार्थःचेतना कार्य साधयतीति प्राप्तम् । तथाहि-यथा मदशक्तिः खोपादानव्यतिरिक्तपानकगता सती खकार्य साधयति न खोपादान एव, तथादृष्टत्वात्। तथा चेतनापि तदृष्टान्तावष्टम्भेन खोपादानपृथिव्यादिभूतसमुदयव्यतिरिक्तपदार्थान्तरगता सती खकार्य साधयेत् , न खोपादान एव भूतसमुदायमात्रे इति । साधयति चेति चकारो भिन्नक्रमो यश्चेत्येवं द्रष्टव्यः । यश्च व्यतिरिक्तः सोऽन्यस्यासंभवाजीव एव प्राप्नोति । तथा चास्यामपि कल्पनायां सिद्धं नः समीहितमिति ॥८॥ अत्र पर आह ___णो मजसत्ति मजंगहेतुसमुदायभिन्नवत्थुगता। ___ साहइ इह णियकजं ण पाणगो जं ततो अण्णो ॥ ८॥ न मदशक्तिर्मद्याङ्गानि-धातक्यादीनि उपादानकारणानि, हेतवश्च पानको विशिष्टौ च देशकालौ, तेषां समुदायात् यद्भिन्नं वस्तु तद्गता सती 'इह' लोके साधयति निजं कार्य, खोपादानहेतुसमुदायान्तर्गत एव वस्तुनि । एतदेव समर्थयते-'यत्' यस्मान्न पानकः, 'ततः' 'तस्मात्खोपादानहेतुसमुदयाद् 'अन्यो' व्यतिरिक्तः । इदमत्र हृदयम्-यथा मदशक्तिर्न खनिमित्तकलापादन्यस्मिन् खकार्य साधयति, किंतु तदन्तर्गत एव वस्तुनि, तथा चेतनापि तदृष्टान्तावष्ट Jain Education in For Private & Personel Use Only X ww.jainelibrary.org Page #96 -------------------------------------------------------------------------- ________________ धर्म॥ ४६ ॥ | भेनस्खनिमित्तकलापान्तर्गत एव वस्तुनि खकार्य करिष्यति, न तद्यतिरिक्ते, ततः कथमुच्यते 'बइरित्तो जो सो जीवोत्ति पावेइ' इति ॥ ८२ ॥ उत्तरमाह एवं पिसासयाभिन्नवत्थुपगता तु चेयणा कज्जं । धारादौ सति कुणति त्ति ण मज्जसत्तेवं ॥ ८३ ॥ 'एवमपि' अस्यामपि कल्पनायां क्रियमाणायां, स्वाश्रयाद्भिन्ने वस्तुनि प्रगता सती चेतना कार्य कुर्यात् मदशक्ति| दृष्टान्तबलेन, मदशक्तिर्हि न स्वाश्रये कार्य करोति किंतु तस्मादन्यस्मिन् पानके, तथा चेतनापि तद्दृष्टान्तावष्टम्भेन स्वाश्रयाद्भूतसमुदायादन्यस्मिन् स्वकार्य कुर्यात् । एतदेवाह - ' आधारादौ सह कुणइ त्ति न मज्जसत्तेवमिति' न एवं यथा चेतना तथा इत्यर्थः, आधारादौ आधार उष्ट्रिका, आदिशब्दान्मद्यपरिग्रहः, तस्मिन् स्वाश्रयभूते मदशक्तिः करोति निजं कार्य, किंतु भिन्ने । ततश्चेतनापि दृष्टान्तावष्टम्भेन स्वाश्रयाद्भिन्ने स्वकार्य कुर्यात् । तथा च सति यो भिन्नः स जीव एवेति सिद्धं नः समीहितमिति ॥ ८३ ॥ पुनरपि परमाशङ्कमानमाह - Jain Educational सा खलु विसिट्टपाणगसंबंधगता तु चेतणा णेवं । कुणति सहावात मती ण जीवभावातों का जुत्ती ! ॥ ८४ ॥ संग्रहणिः ॥ ४६ ॥ Page #97 -------------------------------------------------------------------------- ________________ SSSSSSOCIRCLEARCH स्थादेवं मतिः परस्य-सा मदशक्तिः खलुशब्दो निश्चये, निश्चितमेतत् यदुत आश्रयाद्विशिष्टः पृथग्भूतो यः पानकस्तेन सह संबन्धं गता सती खकार्य करोति । तुशब्दो भिन्नक्रमः, चेतनाशब्दानन्तरं द्रष्टव्यः । चेतना तु न एवं-मदशक्तिरिव खाश्रयाद्भिन्ने वस्तुनि खकार्य करोति, किन्तु स्वाश्रय एव । एतच्चैवं कुत इति चेत् अत आह'खभावात्' तथाखभावत्वादित्यर्थः, न च खभावे पर्यनुयोगोऽस्ति । अत्रोत्तरमाह-'न जीवभावाओ का जुत्ति त्ति' तथाखभावत्वान्मदशक्तिः खाश्रयाद्भिन्ने वस्तुनि कार्य करोति, चेतना तु खाश्रय एवेति प्रतिपत्तव्यं, न पुनर्मदशक्तेश्चेतनायाश्च जीवभावः, तस्मान्मदशक्तिः पानके, चेतना तु जीवच्छरीरे खकार्य करोतीति प्रतिपत्तव्यम् , अत्र का युक्तिः?, नैव काचिदिति यत्किंचिदेतत् ॥ ८४ ॥ पराभिप्रायमाह अह तु सभावो जुत्ती ण स एव विवादगोयरावन्नो। अन्नत्थ संकमम्मि य पतीतिबाधा ण य पमाणं ॥ ८५॥ अथ मन्येथाः-खभाव एव तुशब्द एवकारार्थो भिन्नक्रमश्च युक्तिर्नान्या, न हि अग्निर्दहति नाकाशमित्यत्र स्वभावादन्या काचिद्युक्तिरस्तीति, अत्राह-यदुक्तं प्राक् तन्न, कुत इत्याह-यस्मात्स एव स्वभावो विवादगोचरापन्नोतः कथं स युक्तिर्भवेत् ?, यो हि खभाव उभयसंप्रतिपन्नः स एव युक्तिर्भवितुमर्हति, यस्तु कुतश्चित्कारणविशेषा-18 COCIENCEOCORICALCCALCALCIAL Jain Education in For Private & Personel Use Only ww.jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ संग्रहणिः दन्यथापि संदिह्यते स कथं युक्तिर्भवेदिति । तथा यदपि मद्ये उत्पन्ना मदशक्तिः पानकगता सती खकार्य करोतीति प्राक् शक्तेरन्यत्र संक्रमणमुक्तं, तत्रापि प्रतीतिवाधा, नह्येवं लोके प्रतीतिरस्ति, किंतु मद्याङ्गेभ्यो मद्यमुत्पद्यते, तत्संयोगाच्च जीवस्य मदशक्तिरिति प्रतीतिः। यदपि उत्क्षेपणादिका शक्तिर्देवदत्त स्योत्पन्नापि कुम्भाधुत्क्षेपणादिगता दृश्यत इत्युक्तं, तदप्यसमीचीनम् , तत्रापि हि देवदत्तहस्तादिसंबन्धविशेषभावतः कुम्भादेरेवोत्क्षेपणादिपरिणामशक्तिरुत्पद्यते, यतस्तस्योत्क्षेपणादिपरिणामो भवति, न च सा शक्तिरन्यत्र संक्रामति, देवदत्तस्यापि खपरिणामविशेपवशात् सा शक्तिरुदपादि, या कुम्भादेर्दूरतरोत्क्षेपणादिपरिणामशक्तिमुत्पादयितुमुत्सहते, न च साप्यन्यत्र संक्रामति। येन च यस्य यत्परिणामशक्तिराधीयते तेन तस्य स परिणामः कृत इत्युच्यते, तेन देवदत्तेन कुम्भादिरक्षिप्यत इत्यादिको लौकिकोऽपि व्यवहार उपपद्यते, यथा मद्येन माद्यत इति, तन्न शक्तेरन्यत्र कथंचनापि संक्रमः, सोऽपि चेदभ्युपगम्यते तर्हि प्रतीतिबाधाप्रसङ्गः। अत्रैव दृषणान्तरमाह-'न य पमाणमिति' न चैवंविधस्यार्थस्य शक्तेरन्यत्र संक्रमलक्षणस्य साधकं किंचित् प्रमाणमस्ति, न च प्रमाणमन्तरेणाभिप्रेतोऽर्थः सिद्धिमश्नुते, मा भूत्सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्तिः, तन्न मद्ये मदशक्तिरुत्पद्यते, किंतु मद्यसंयोगतो जीव इति स्थितम् ॥ ८५॥ अमुमेवार्थ उपसंहारेण दर्शयति ॥४७॥ -- Jain Education inte For Private Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ RESEARCA तम्हा मजंगेहिं जायति मजं ततो य जीवस्स । मदसत्तीपरिणामो दधिसंजोगे व णिदादी ॥ ८६ ॥ यत एवं न शक्तेरन्यत्र संक्रमस्तस्मान् 'मद्याङ्गेभ्यो' धातक्यादिभ्यो मद्यं जायते, तस्माच मद्यादुपभुज्यमानात् जीवस्य मदशक्तिपरिणामः, अत्र दृष्टान्तमाह-'दधिसंयोगे इव निद्रादि'रिति, यथा दधिसंयोगे-दनि उपभुक्ते, निद्रादिपरिणामशक्तिःतन्न मद्ये मदशक्तिः, अपि तु जीव एव, तथा च सति मदशक्तिदृष्टान्तोऽनुपपन्नः, साधनविकलत्वात् । | केवलमद्याङ्गसमुदयभावे मदशक्तेरभावात् ॥ ८६ ॥ सर्वोपसंहारमाह एवं ण भूतधम्मो ण य कजं चेतणत्ति सिद्धमिदं । जस्सेतं सो आता पसाहगं चेत्थ माणमिदं ॥ ८७ ॥ एवं यथोक्तं प्राक्-तथा न भूतधर्मश्चेतना नापि कार्य भूतानामिति शेषः, इति इदं सिद्धम् । ततश्च पारिशेष्यात् यस्येयं चेतना स आत्मेति प्रतिपत्तव्यम् । तदुक्तम्-"अचेतनानि भूतानि, न तद्धर्मो न तत्फलम् । |चेतनास्ति च यस्येयं, स एवाऽऽत्मेति चापरे ॥१॥" अस्मिंश्चार्थे भूतधर्मत्वभूतकार्यत्वप्रतिषेधरूपे प्रसाधक प्रमाणमिदं वक्ष्यमाणम् ॥ ८७ ॥ तदेवाह CACANCEOCOCOMCOLLECCASSA R Jain Education in For Private & Personel Use Only Di Page #100 -------------------------------------------------------------------------- ________________ धर्म SECONCREASE ॥४८॥ जीवंतदेवदत्तस्सरीरमिच्चादि चेयणासुन्नं । | संग्रहणिः भूतफलत्ता घड इव न य तम्मि तयं अणभिवत्तं ॥८॥ जीवद्देवदत्तशरीरमित्यादिकं च, चशब्दः समुच्चयार्थोऽनुक्तोऽपि द्रष्टव्यः, एवंभूतश्चायं निर्देशो गाथानुलोम्येन, चेतनाशून्यमिति साध्यनिर्देशः, भूतफलत्वादितिहेतुः । यस्य हि यत्कार्यं भवत् दृष्टमुपादानभूतस्य तत्तद्धानुगमसंभवसहितं दृष्टं, यथा घटस्य कपालं तन्मृत्त्वरूपाद्यनुगमसहितम् । अन्यथाऽतिप्रसङ्गापत्तितः कार्यकारणव्यवस्थानुपपत्तेः। ततः कार्यत्वमुपादानकारणधर्मानुगमसंभवेन व्याप्तम् । भूतानि च काठिन्याबोधखभावानि प्रत्यक्षत एव प्रती-18 यन्ते । यदाह-"काठिन्याऽबोधरूपाणि, भूतान्यध्यक्षसिद्धितः” इति । ततस्तदारब्धं यजीवद्देवदत्तादिशरीरं तचेत् । चेतनावत् स्यात् तर्हि तद्धर्मानुगमसंभवाभावात्तत्कायमेव न स्यात्, अतश्चेतनावत्त्वाद्विपक्षाद्यापकानुपलब्ध्या व्यावर्त्तमानं भूतकार्यत्वं चेतनाशून्यत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः । दृष्टान्तमाह-घट इवेति । नन्वयं दृष्टान्तः साध्यविकलस्तत्राप्यनभिव्यक्तचैतन्यस्याभ्युपगमात् । यदाह-चैतन्यानभिव्यक्तिर्घटादिषु कारणान्तराभावात् , पांखादिष्वनभिव्यक्तमदशक्तिवत् । चैतन्याभिव्यक्तेहि कारणं क्षित्यादेः कायाकारपरिणतत्वं मदशक्तौ पिष्टोदकगुड-18|॥४८॥ धातक्यादिपरिणतत्ववत् , तत्र (च) घटादौ नास्तीति तत्र तदनभिव्यक्तिभावः, पांखादौ पिष्टोदकादिपरिणामाभावात् मदशक्त्यनभिव्यक्तिभाववत् इत्यत्राह-'न य तम्मि तयं अणभिवत्तंति' न च वाच्यं तस्मिन् घटे तक है। RANCARREARCRA A COCOCOCOCC 646- 26 Jain Education Intel For Private Personel Use Only Haw.jainelibrary.org Page #101 -------------------------------------------------------------------------- ________________ धर्म. ९ Jain Education Int चैतन्यमनभिव्यक्तमस्तीति, अनभिव्यक्तेरेवानुपपद्यमानत्वात् । सा यावृतस्य भवति, न च चैतन्यस्य किंचिद्भूतव्य - तिरिक्तमावारकमस्ति " चत्वार्येव पृथिव्यादिलक्षणानि तत्त्वानीति" तत्त्वसंख्या नियमव्याघातप्रसङ्गात् । नाप्येतेपामेव भूतानामन्यतमेन केनचित् चैतन्यस्यावृतिरा ( रमि ) धीयते तेषां व्यञ्जकत्वप्रतिज्ञानात्, न च व्यञ्जक [त्व]मावारकं भवतीति । अत्रोच्येत - न भूतानामन्यतममावारकं किंत्वेषामेव विशिष्टपरिणामाभाव इति, तदप्ययुक्तम्, तस्य सकलशक्तिशून्यतया आवारकत्वानुपपत्तेः, अन्यथा आवरणक्रियानिष्पादनशक्तियुक्ततया कुड्यादिवत्तस्य भावता प्रसज्येत, तथा च सति तत्त्वान्तरस्यानभ्युपगमात्सामर्थ्यात्तस्य भूतानामन्यतमत्वात् व्यञ्जकत्वप्रसक्तिरिति । अपि च-यस्य परिणामस्याभाव आवारकः स तथाविधो विशिष्टः परिणामो भूतेभ्यो भिन्नो वा स्यात् अभिन्नो वा ?, यदि भिन्नस्ततस्तत्त्वसंख्यानियमव्याघातः, अथाभिन्नस्तर्हि भूतस्वरूपवत्तस्यापि सदाभावप्रसङ्गेन सर्वदा चैतन्या - भिव्यक्तिप्रसङ्गः । अथ परिणामत्वान्नासौ नित्यो भवितुमर्हति तेन तेनाऽऽकारेण परिणमनं हि परिणामः, किंतु यस्मिन् काले भवति तस्मिन् भूतस्वरूपाभेदेन भवति ततो न कश्चिद्दोष इति, तदयुक्तम्, कालानभ्युपगमे इत्थंभूतवचनप्रवृत्त्ययोगात्, लोकप्रसिद्धत्वादप्रतिक्षेपार्होऽसौ काल इति चेत्, तदेतदात्मन्यपि समानं, तस्यापि लोक - प्रसिद्धत्वात् पितृकर्म्माद्यन्यथाऽनुपपत्तेः । तदुक्तम् - "पितृकर्मादिसिद्धेश्च हन्त नात्माप्य लौकिकः” इति । तदेव|मावारकाभावादनभिव्यक्तचैतन्यानुपपत्तिरिति स्थितम् ॥ ८८ ॥ इतश्चानभिव्यक्त चैतन्यमनुपपन्नम्, यत आह Page #102 -------------------------------------------------------------------------- ________________ धमे पच्छावि अणुवलंभा देहावत्थाएँ अह उ उवलंभो। तेहिंतो सोऽसिद्धो कह ? भणियमिणं पबंधेण ॥ ८९ ॥ संग्रहणिः ॥४९॥ पश्चादप्यनुपलम्भात् तद्धि तत्रानभिव्यक्तमिति न शक्यं वक्तुं, यत् यत्र पश्चादप्युपलभ्यते यथा सन्तमसावृतेऽपवरके घटः, न च चैतन्यं घटे पश्चादप्युपलभ्यते तत्कथं तत्तत्रानभिव्यक्तमिति शक्यं वक्तुं, अन्यथा द सर्वत्रानभिव्यक्तमस्तीत्यपि स्यादिति । अत्र पराभिप्रायमाशङ्कमान आह–'देहावत्थाएँ अह उ उवलंभो त्ति', अथ मन्येथाः 'तुः' पूरणे, देहावस्थायां चैतन्यस्योपलम्भोऽस्तीति, इदमुक्तं भवति-त एव घटपरमाणवो यदा देहाकारेण परिणमन्ते तदा चैतन्यस्योपलम्भोऽस्तीति । अत्रोत्तरमाह-'तेहिंतो सोऽसिद्धो' 'तेभ्यो देहावस्थाभाविभ्यो भूतेभ्यः 'स' चैतनस्योपलम्भोऽसिद्धः । कथमिति चेत्, अत आह-भणितमिदं प्रबन्धेन, 'तम्हा न भूयधम्मो चेयन्नं नो य तस्समुदयस्से'त्यादिना ग्रन्थेन । तस्मान्न तत्रानभिव्यक्तं चैतन्यं न च तत्तत्रोपलभ्यत इति तत्र तद-18 भावान्न दृष्टान्तः साध्यविकलः ॥ ८९ ॥ इह 'भूतेभ्यः कायाकारादिपरिणतेभ्यश्चैतन्य मित्यत्र सूत्रे केचिदभिव्यज्यत Ix॥४९॥ इति क्रियाभिसंबन्ध प्रतिपद्यन्ते, अन्ये तु प्रादुर्भवतीति । अभिव्यक्तिवादिनश्च घटादिष्वनभिव्यक्तं चैतन्यमभिन्यन्ते, इतरे त्वनुत्पन्नं, तत्राभिव्यक्तिवादिनः प्रति दृष्टान्तस्य दोषमपहाय अनुत्पन्नवादिमतमाशङ्कमान आह Jain Education Intern For Private & Personel Use Only Page #103 -------------------------------------------------------------------------- ________________ R कायागारादिविसिटुपरिणतीविरहतो ण तं तण्णो । णातविरहातोऽमाणं किमेत्थ माणेण ? तदभावो ॥ ९ ॥ "कायागारादिविसिट्रपरिणतीविरहतो ण तं' तस्या विरहोऽभावस्तस्मान्न 'तत्' चैतन्यं घटेऽस्तीति शेषः। एतदक्तं भवति-न भूतफलमानं चैतन्यशून्यत्वस्य गमकं, किं तर्हि कायाकारादिरूपविशिष्टपरिणतिविशिष्टं, यथा घटे। अत्र तु केवलमुपादीयते तच न साध्ये प्रतिबद्धमित्यप्रयोजकोऽयं हेतुरिति, तदेतदसमीचीनम्, अस्य साध्येन सह प्रतिबन्धस्य चैतन्यस्य भूतधर्मत्वभूतकार्यत्वप्रतिषेधद्वारेण प्रागेव प्रसाधितत्वात् । तथाप्येतदुपेक्ष्य परस्य | वावदकतामपनेतुकाम आचार्य इदमाह-"तन्नो इति" यदेतदुक्तं प्राक् तन्न । कुत इत्याह-यस्मात् 'न्यायविरहाद्' युक्तिविरहादू 'अमानम्' अप्रमाणमेतत् अनन्तरोक्तम् । न हि कायाकारादिरूपविशिष्टपरिणतिविरहनिबन्धनो घटे चैतन्याभावो, यदि पुनस्तत्रापि कायाकारादिपरिणतिः स्यात् स्यादेव तत्र चैतन्यमित्यस्मिन्नर्थे (न)। किंचित् प्रमाणमस्ति । अत्र पर आह-"किमेत्थ माणेण तदभावो" किमत्रान्येन प्रमाणेन ? ननु चैतन्याभाव एव प्रमाणम् । तथाहि-यदि कायाकारादिपरिणतिमन्तरेणापि भवेच्चैतन्यं ततः सर्वत्र घटादावप्यविशेषेण भवेत् , न च भवति, तस्मात् कायाकारादिपरिणतिनिवन्धनं चैतन्यं, तद्विरहनिवन्धनश्व घटे चैतन्याभाव इति ॥९०॥ आचार्य आह C HCRACHECRECR5500-0COLOCRACKS Jain Education Inter For Private & Personel Use Only Mew.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ धर्म ॥ ५० ॥ Jain Education In सो सज्झो ण उ सिद्धो भणियमिणं तह य उवरिमो वोच्छं । पडिभणियं जं भणियं पवक्खमाणे भणिस्सामो ॥ ९१ ॥ स घंटे चैतन्याभावः कायाकारादिरूपपरिणतिविरहनिबन्धनोऽद्यापि साध्यो न तु सिद्धः, न चासिद्धेन बाधास्ति । कथमसिद्ध इति चेत् ? भणितमिदम्- 'अह तहिपरिणामो नत्थि न जीवोत्ति' इत्यादिना ग्रन्थेन, उपरि च 'संतंपि किन्न साहइ' इत्यादिना वक्ष्यामः । तस्मान्न भूतफलत्वादित्यप्रयोजको हेतुः । स्यादेतत्-चित्रो भूतानां स्वभावः, ततो जीवद्देवदत्तशरीरादौ भूतफलवच्चैतन्यं भविष्यति न घटादौ न च खभावे पर्यनुयोगोऽस्ति, “अग्निर्दहति नाकाशं, कोऽत्र पर्यनुयुज्यते" इति । एतच प्रागेवोक्तं 'चित्तो भूयसहावो' इति । अत एवाह - 'पडिभणितं ' प्रतिभणितं प्रतिभणनं - निराकरणं यद्भणितं, तत् 'प्रवक्ष्यमाणे' अनन्तरमभिधास्यमाने 'भणिष्यामः' प्रतिविधास्यामः, वक्ष्यमाणग्रन्थेन निराकरिष्याम इत्यर्थः ॥ ९१ ॥ तन्निराकरणमेवाह भूताणं अविसेसे अण्णंमि य चेतणे असंतम्मि | तकज्जे चेयन्नं विसमगतीए कहं जुत्तं ? ॥ ९२ ॥ 'भूतानां' पृथिव्यादिलक्षणानाम् 'अविशेषे' विशेषाभावे सति, विशेषाभावश्च विशेषकमन्तरेण विशेषस्यानुपपत्तेः,' संग्रहणिः ।। ५० ।। Page #105 -------------------------------------------------------------------------- ________________ Jain Education In 'विशेषणं विना यस्मान्न तुल्यानां विशिष्टते' ति वचनात् । न च विशेषकोऽभ्युपगम्यते, तत्त्वसंख्यानियमव्याघातप्रसज्ञात् । अत एवाह -- 'अन्नम्मि य चेयणे असंतम्मि' अन्यस्मिंश्च 'चेतने' जीवलक्षणे विशेषके, 'असति' अविद्यमाने, 'तत्कार्ये' भूतकार्ये, चैतन्यं 'विषमगत्या' जीवद्देवदत्तशरीरादौ भावेन घटादौ चाभावेनेत्यर्थः, कथं युक्तं ?, नैव कथंचन, विशेषकमन्तरेण हि सर्वत्राविशेषेण स्यान्नवा कचिदपीति भावः ॥ ९२ ॥ अत्र पर आह जह संठाणविसेसो ओहेणं कारणाण तं अस्थि । तो जुत्तो तभेदो ण य चेतन्नं कहंचिदवि ॥ ९३ ॥ यथा संस्थानविशेषः, इदमुक्तं भवति - यथा भूतानां चित्रस्वभावतया घटपटादीनां भूतकार्यत्वाविशेषेऽपि संस्थानविशेषः प्रतिव्यक्ति भिन्नो भवति, तथा चैतन्यमपि विषमगत्या भविष्यतीति । अत्रोत्तरमाह - 'ओहेणं कारणाण तं अस्थि' 'कारणानां' मृत्पिण्डतन्त्यादीनाम् 'ओघेन' सामान्येन, प्रतिव्यक्ति भिन्नं 'तत्' संस्थानमस्ति, तथा - विधाविशिष्टशेर्ध्वाद्याकारोपलम्भात् । ततः कार्याणामपि घटपटादीनां तथाविशिष्टदेशकालकर्त्रादिसामग्री भावेन, तद्भेदः संस्थानभेदः, प्रतिव्यक्ति भिन्नो युक्त एव । न च वाच्यं - चैतन्यमप्येवं भविष्यतीति । यत आह- 'न य चेयन्नं कहंचिदवि' न च चैतन्यं 'कथंचिदपि' केनापि प्रकारेण संस्थानवद्विपमगतिकं युक्तं, प्रत्येकं पृथिव्यादिभूतेषु सामा Page #106 -------------------------------------------------------------------------- ________________ संग्रहणिः धर्म- I/न्येन तस्य विषमगत्याऽनुपलम्भनात् । तस्मात् सर्वत्राप्यविशेषेण तस्य भावोऽभावो वा युक्तो, न चैतदस्तीति यत्-ि चिदेतत् ॥ ९३ ॥ अपि च-जीवदेवदत्तशरीरादौ धम्मिणि चैतन्यशून्यत्वं साध्यं, ततस्तस्य प्रतिषेधे कृते सति ॥५१॥ हेतुर्विपक्षगमनेन दुष्टः स्यात् , स च तत्प्रतिषेधो दुस्साधः, तथा चाह भूतफलत्तं चेयण्णसुण्णया नेति एत्थ किं माणं ? । णो पञ्चक्खं जम्हा सदस्थविसयं तयं सिद्धं ॥ ९४ ॥ भूतफलत्वेऽपि जीवद्देवदत्तशरीरादेर्न चेतनाशून्यतेत्यत्र 'किं मानं' ? किं प्रमाणं, प्रत्यक्षमनुमानं वा ?, न खलु प्रमाणमन्तरेणाभिप्रेतार्थसिद्धिर्भवति । तत्र न तावत्प्रत्यक्षं, तस्य सन्निहितसद्भतयोग्यार्थविषयत्वेन प्रतिषेधे प्रवृत्त्ययोगात्। एतदेवाह-"नो पञ्चक्खमित्यादि" न च प्रत्यक्षमनन्तरोक्त प्रतिषेधे प्रमाणं, कुत इत्याह-यस्मात् 'तकत्' प्रत्यक्षं 'सदर्थविषयं विद्यमानार्थगोचरमविगानेन सर्वेषां सिद्धम् ॥१४॥ मा भूत्प्रत्यक्षम् , अनुमानं भविष्यतीति चेदत आह अणुमाणंपि ण जुत्तं विसिट्टलिंगादिविरहतो लोए। चे आगारोत्ति तयं ण कारणं कजवं णियमा ॥ ९५ ॥ अनुमानमपि प्रमाणं न युक्तम् , कुत इत्याह-'विसिलिंगाइविरहतो लोए' विशिष्टं लिङ्गं विवक्षितसाध्यार्था ANDROORKERS CMCROCRACROCOCACOCALCRESCRACHNA ॥५१॥ Jain Education in For Private Personel Use Only Page #107 -------------------------------------------------------------------------- ________________ न्यथानुपपन्नं, आदिशब्दादन्यथानुपपन्नत्वनिवन्धनसंबन्धविशेषपरिग्रहः, तस्य विरहाद्-अभावात् 'लोके' जगति, लोक इत्यनेन च एतदाख्यायते-नास्माकं प्रतिभाविरहमात्रेण विशिष्टलिङ्गादिविरहः, किंतु वास्तव एव, भूतफलत्वस्य विपक्षाद् व्यापकानुपलब्ध्या व्यावर्तमानस्य चेतनाशून्यत्वेन प्रतिबद्धत्वात् । अत्र परस्याभिप्रायमाह-'चे आगारोत्ति। तयं 'तकदू' अनुमानमाकारो भविष्यतीति चेत् तथाहि-यत्र यत्राकारः कायरूपस्तत्र तत्र चैतन्यं, यथा खस्मिन् , तथाऽऽकारो जीवद्देवदत्तशरीरेऽस्तीति आकारो हि चैतन्यस्य कारणं, ततो युक्तस्तद्भावे चैतन्यस्य भावः, अनुमानहेतुत्वाचाकारोऽनुमानमित्युक्तः । अत्राह-'न कारणं कज्जवं नियमा' आकारो हि चैतन्यस्य कारणमिष्यते, कारणं च नावश्यं कार्यवद्भवति, प्रतिबन्धवैकल्यसंभवात् । तदुक्तम्-"नावश्यं कारणानि तद्वन्ति भवन्तीति", तथा च कथ-17 माकाराचैतन्यस्यानुमानम् । अपि च-नैवासावाकारः कारणमपि चैतन्यस्य, तत्कारणत्वे मृतावस्थायामपि तत्सद्भावतश्चैतन्यस्य भावप्रसङ्गात् ॥ ९५ ॥ तथा चाह संतंपि किं ण साहइ ? विगलत्तातो त्ति किं कयं तमिह ? । पाणापाणाभावा ण जीवऽभावेण को हेऊ ? ॥ ९६ ॥ यद्यसावाकारश्चैतन्यस्य कारणमिप्यते, तर्हि तत्कारणं सदपि मृतशरीरे 'किं' कस्माद् न 'साधयति' निवर्तयति Jain Education in For Private & Personel Use Only EMw.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ धर्म-1 चैतन्यलक्षणं कार्यम् , कारणे हि कार्यजननं प्रति कारणान्तरनिरपेक्षे सति अवश्यं कार्येण भवितव्यं, अन्यथा तत्तस्य संग्रहणिः. कारणमेव न स्यात् , न च भवति आकारसद्भावेऽपि मृतशरीरे चैतन्यं, ततो नैवासौ कारणम् , अकारणत्वाच न चैत-12 ॥५२॥ न्यस्य गमक इति । स्यादेतत् , न कारणान्तरनिरपेक्षः केवल एवाकारश्चैतन्यस्य कारणमिष्यते, येन मृतशरीरे तदकुर्वनसावकारणं स्यात् , किंतु कारणान्तरसापेक्षो, मृतशरीरे चासौ कारणान्तरविकलस्ततो न साधयति तत्र चैतन्यरूपं निजकार्यमिति । एतदेवाह-वियलत्ताओति' विकलत्वात्-कारणान्तरहीनत्वात् असावाकारो मृतशरीरे चैतन्यरूपं निजकार्य न करोति, न तु निर्मूलत एवाकारणत्वात् । आचार्यः पृच्छति-किंकृतं तत् वैकल्यम् 'इह' व्यभिचाराश्रये मृतशरीरे कस्य कारणान्तरस्यापेक्षणीयस्याभावात् आकारस्य तत्र विकलतेतियावत् । पर आह-प्राणापानयोरभावात् । आचार्य आह-न जीवाभावनेत्यत्र को हेतुरिति, प्राणापानाभावात्तत्र विकलत्वं न जीवाभावादित्यत्र 'को हेतुः' ? किन्नियामकं? नैव किंचिनियामकमस्तीत्यर्थः। तस्मात् जीवेनैव सहान्वयव्यतिरेकदर्शनात् जीवस्यैव कार्य चैतन्यपरिणामविवर्ती नाकारस्य, ततो नैवासौ कारणम् , अकारणत्वाच न ततश्चैतन्यानुमानं, नापि तदभा ॥५२॥ वनिवन्धनो घटादिषु चैतन्याभावः । एवं च सति यत् प्राक् प्रतिज्ञातं 'तह य उवरिमो वोच्छमिति' तदिदानी समर्थितं द्रष्टव्यमिति ॥ ९६ ॥ किंच ROCKS 1962 Jain Education For Private & Personel Use Only w.jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ CC तम्मत्ताऽसिद्धीए परिणामादीणमन्भुवगमे य । जीवम्मि को पदेसो ? जेण मुहा खिज्जसे मतिमं ! ॥ ९७ ॥ 'तन्मात्रात्' भूतमात्रादसिद्धौ चैतन्यस्येति शेषः, असिद्धिश्च प्राक् दर्शिता, परिणामः-कायाकारलक्षण आदिशब्दात प्राणापानवत्त्वपरिग्रहः, तेषामभ्युपगमे च क्रियमाणे सति ननु जीवेऽङ्गीक्रियमाणे कः प्रद्वेपो ?. येन प्रद्वेपेण 'मुधा' नियुक्तिकं त्वमपि मतिमानेवं खिद्यसे?, न हि प्रेक्षावतोऽभिनिवेशमात्रेण खेदः कर्तुमुचित इति भावः ॥९७॥ पर आह कह णु मुहा ? तब्भावो ण पमाणबलेण ठाविओ जम्हा। जस्सेतं सो आता परिसेसो वेस जमजुत्तो ॥ ९८ ॥ 'कथं नु' इत्याक्षेपे, मुधा खिोऽहमिति शेषः । यस्मान्न तद्भाव' आत्मभावः प्रमाणवलेन स्थापितः । स्यादेतत्कथमुच्यते-'न प्रमाणवलेन तद्भावः स्थापितो' यावता प्रागुपन्यस्तेन-जीवद्देवदत्तशरीरादि चेतनाशून्यं भूतफलत्वात् घटवदिति प्रमाणेन चैतन्यस्य भूतधर्मत्वे प्रतिपिद्धे पारिशेष्यात् यस्येदं चैतन्यं सोऽर्थादात्मेति तद्भावः प्रमाणबलेन CESGROCCOLOGROLOGROCCAbe Jain Education a l For Private & Personel Use Only | Page #110 -------------------------------------------------------------------------- ________________ धर्म- संग्रहणिः , 555 स्थापित एवेति अत आह-यस्येदं चैतन्यं स आत्मेति परिशेषोऽपि एप यस्मादयुक्तः॥९८॥ यथा चास्यायुक्तता तथा भावयन्नाह ण हि अपसिद्धे धम्मिणि परिसेसो नात (य) विरहतो एत्थं । ण चउबिहणदिपूरे अपसिद्धे तग्गतेसुं च ॥ ९९ ॥ धम्मेसं दुतभरणच्छसिसिरकलसोदगादिएसं ति। कलुसोदगत्तणेणं जुत्तमयं बुद्विजण्णो त्ति ॥ १० ॥ किंतु पसिद्धेसुं चिय न एस विधिरत्थि आयमाणम्मि । तन्नो पमाणवलओ तस्सिद्धी एस वामोहो ॥ १०१ ॥ al न ह्यत्र लोके अप्रसिद्ध धर्मिणि परिशेपो भवति, न्यायविरहात् तथाऽनुपलब्धेरित्यर्थः । अमुमेवार्थ दृष्टान्तेन समर्थयते-'न चउबिहेत्यादि' न खलु चतुर्विधे सामुद्रादिके नदीपूरके धम्मिणि 'अप्रसिद्ध अप्रतीते तद्गतेषु च भावप्रधानोऽयं निर्देशः द्रुतभरणाच्छशिशिरकलुपोदकत्वादिपु, तत्र द्रुतभरणत्वं सामुद्रस्य नदीपूरस्य, अच्छशिशि - 5-0-0 ॥५३॥ G Jain Education Internal For Private & Personel Use Only Page #111 -------------------------------------------------------------------------- ________________ Jain Education In रोदकत्वं हिमविलयजन्यस्य, कलुषोदकत्वं वृष्टिजन्यस्य, आदिशब्दात्स्वभावस्थत्वं सहजस्येति परिगृह्यते, तेष्वेवंभूतेष्वप्रसिद्धेषु तद्वतेषु धर्मेषु, इतिशब्द हेत्वर्थे भिन्नक्रमश्च युक्तशब्दानन्तरं द्रष्टव्यः, ततश्च यस्मादयं नदीपूरः कलुषोदकत्वेन युक्तो दृश्यते, न चैवंविधकलुषोदकत्वं सामुद्रस्य हिमविलयजन्यस्य सहजस्य वा नदीपूरस्य भवति, तस्मादयं नदीपूर: पारिशेष्यात् वृष्टिजन्य इति प्रत्ययो भवति, किंतु प्रसिद्धेष्वेव धर्म्मधर्मिषु न च एष प्रसिद्धधर्मम्मिलक्षणो 'विधिः' प्रकारोऽस्ति आत्मसाधके माने - प्रमाणे, आत्मन एवाप्रसिद्धत्वात् तस्मान्न प्रमाणबलतस्तस्यात्मनः सिद्धिः । ततः कथमुच्यते ? त्वमपि मतिमान् मुधा खिद्यसे इति । आचार्य आह - 'एस वामोहो' 'एप' अनन्तरोक्तो व्यामोहो- व्यामोहवशात् यदुक्तं तदपि व्यामोह इत्युक्तं, कार्ये कारणोपचारात्, यथेदं मे पौराणं कर्मेति ॥ ९९-१००-१०१ ॥ कथमेष व्यामोह इत्यत आह जम्हाण तस्स धम्मो चेतण्णं एतसाहणे जतिमो । किंतु अणुहवसिद्धमिदं धम्माइ य जं ततो णियमा ॥ १०२ ॥ अणुरूवेणं कजं इगस्स धम्मादिणत्ति सोय बला । भूतादत्थंतरमो तो आता तस्सभावो वा ॥ १०३ ॥ Page #112 -------------------------------------------------------------------------- ________________ संग्रहणिः ॥५४॥ BOSSASSALMCITY यस्मान 'तस्य' आत्मनो धर्मश्चैतन्यमिति 'एतत्साधने' एतत्साधननिमित्तं यतामहे, किं त्वेतावदेव ब्रूमो यदुत'यत्' यस्माद् 'इदं' चैतन्यमनुभवसिद्धम्-अविगानेन प्रतिप्राणिखसंवेदनप्रमाणसिद्धं, 'धादि च' धादिखरूपं च । तत्र धर्मः सदा परतत्रतयोपलभ्यमानत्वात् , आदिशब्दात्कार्य च तत्तव्यक्षेत्रादिसामग्रीसापेक्षेण जीवद्रव्येण तस्य चैतन्यपरिणामस्य जन्यमानत्वात् । ततस्तस्मानियमादवश्यतया अनुरूपेण धादिना धम्मिंणा, आदिशब्दात कारणेन चानुरूपेण, 'अस्य' चैतन्यस्य 'कार्य' प्रयोजनम् । अनुरूपत्वाभावे धर्मधर्मिभावस्य कार्यकारणभावस्य च सर्वथाऽनुपपद्यमानत्वात् । स चानुरूपो धादिश्चैतन्यस्य 'बलात्' सामर्थ्येन तदन्यथानुपपत्तिलक्षणेन, भूतादर्थान्तरभूतो, भूतानां अत्यन्तवैलक्षण्येन तद्धमित्वाद्यनुपपत्तेः । 'तोत्ति' तस्मात्पारिशेष्यादस्त्यात्मेति प्रतिपत्तव्यम् ।। अथवा 'तस्सभावो वेति' तस्य-चैतन्यस्याभावो वा प्रतिपद्यतां, धर्मस्य कार्यस्य च यथाक्रममनुरूपं धमिणं कारणं चान्तरेणानुपपद्यमानत्वात् । न चैतद्युक्तं, चैतन्यस्य प्रतिप्राण्यविगानेन स्वसंवेदनसिद्धस्यापह्रोतुमशक्यत्वात् ॥ १०२-१०३ ॥ अत्र पर आह कोऽयमणुरूवगाहो ? अणुमादीहिं जतो घडादीणं । दिट्ठो भावोऽह मती तओऽवि अणुरूव एवत्ति ॥ १०४ ॥ CARRORERALAG ॥५४॥ Jain Education in For Private & Personel Use Only S ww.jainelibrary.org Page #113 -------------------------------------------------------------------------- ________________ Jain E धर्म. १० ननु कोऽयमनन्तरोक्तोऽनुरूपग्रहः ?, नैवासावनुरूपग्रहो युक्त इत्यभिप्रायः । किमित्यत आह- 'यतो' यस्मादत्यन्तविलक्षणेभ्योऽप्यणुद्यणुकादिभ्यो घटादीनां भावो दृष्टः, तस्मात् यत् यतो भवत् दृश्यते तत्तस्य कार्यमितरच कारणम वसेयम्, तच्चानुरूपमननुरूपं वा भवतु, न कश्चिद्दोष इति । आचार्य आह- 'तओवि अणुरुव एवत्ति, सकोऽपि घटादीनां भावः स्वारम्भकाणुव्यणुकादीनामनुरूप एव । इतिशब्दो वाक्यपरिसमाप्तौ । एवकारः परपरिकल्पितैकान्तानुरूप्याभावव्यवच्छेदपरो न तु सर्वथा वैरूप्यव्यवच्छेदकः, तस्यापि कथंचिदभ्युपगमात् एवकारस्यापि च सर्वत्र मूढमत्याशङ्कितव्यवच्छेदफलत्वात् ॥ १०४ ॥ कथं पुनः सकोऽपि घटादीनां भावोऽणुद्यणुकादीनामनुरूप इत्यतो हेतुमाह मुत्तत्तादिअणुगमा अणुरूवावगमतो य इतरोऽवि । अणुमवावित्तीहि य सति सत्ते तम्मि किमजुत्तं ? ॥ १०५ ॥ मूर्त्तत्वस्यादिशब्दात् पार्थिवत्वादेश्चानुगमात् । तथाहि - दृश्यन्त एवाणुकाद्यनुगता मूर्त्तत्वादयो धर्म्मा घटादिष्वप्यनुवर्त्तमाना इति । मा भूत्केपांचित् प्रागुक्तैवकारश्रवणात् विपर्यासवुद्धिर्यथा - सर्वथा घटादीनां भावोऽणु - णुकादीनामनुरूप एवेत्यत आह- 'अणुरूवावगमओ य इयरोऽवित्ति' अनुरूपापगमतश्च उपलक्षणत्वात् द्यणुका - Page #114 -------------------------------------------------------------------------- ________________ धर्म ॥ ५५ ॥ दिरूपापगमतश्च 'इतरोऽपि' अनुगमोऽपि, घटादिषु द्रष्टव्यः । एतदुक्तं भवति - मूर्त्तत्वपार्थिवत्वादिधर्म्मापेक्षया घटादिषु स्वकारणस्यानुगमोऽस्ति, अणुव्यणुकादिरूपापगमतश्च इतरोऽपि ततो न केवलमेवानुरूप्यं घटादिषु द्रष्टव्यमिति । अत्र पर: खावकाशमाशङ्कमान आह- 'अणुगमेत्यादि' नन्वेवमिहापि अनुगमव्यावृत्तिभ्यां विशिष्ट सत्त्वे सति चैतन्यस्य तस्मिंश्चैतन्ये भूतकार्यतयेष्यमाणे किमयुक्तं स्यात् ?, नैव किंचिदिति भावः । तथाहि - यथा घटादिषु मूर्त्तत्वपार्थिवत्वादिधर्म्मापेक्षया अनुगमोऽस्ति अणुव्यणुकादिरूपता परित्यागतश्चाननुगमोऽपीति कथंचिदानुरूप्यं, तथा चैतन्येऽपि सत्त्वस्यान्वयादनुगमो जडरूपतापरित्यागाच्चाननुगमोऽपीति कथंचिदानुरूप्यमस्त्येवेति कथं चैतन्यं भूतानामकार्यमिति ॥ १०५ ॥ अत्रोत्तरमाह - सवेसिं सामन्नं जं संतं ता ण नियमहेउत्ति । घड पड-रहमादीणं मुत्तत्तादिव लोगमि ॥ १०६ ॥ इह नाम तदपेक्षया आनुरूप्यमनानुरूप्यं चानुसर्त्तव्यं यत् हेतुफलभावनियमहेतुर्भवति, न च सत्त्वं भूतका - यतः चैतन्यस्य नियमहेतुः । कुत इत्याह-यत् यस्माल्लोके सर्वेषां भावानां सामान्यं साधारणं सत्त्वम्, अन्यथा तदभावे भावानामभावत्वप्रसङ्गात् । 'ता' तस्मान्न तत् हेतुफलभावस्य नियमहेतुर्भवति । अत्र दृष्टान्तमाह - घटपटरथादीनां मूर्तत्वं न पार्थिवपरमाण्वादिकार्यत्वे नियमहेतः, तस्यावादिष्वपि साधारणत्वात्, तद्वत्सत्त्वमपि साधा संग्रहणिः ।। ५५ ।। Page #115 -------------------------------------------------------------------------- ________________ रणत्वान्न चैतन्यस्य भूतकार्यत्वे नियमहेतुरितिभावः ॥ १०६॥ स्यादेतत् यदि मूर्तत्वादिकं घटादीनां पार्थिवपर-1 माण्वादिकार्यत्वे न नियमहेतुस्तर्हि किमन्यत्स्यादित्यत आह पुढवीतत्ताणुगमो घेडमादीणमिह णियमणे हेतू । इय अणुरूवाणुगमे चतण्णस्सापसिद्धी उ ॥ १०७॥ पृथिवीतत्त्वं पृथिवीत्वं तस्यानुगमोऽन्वयो घटादीनां इह लोके नियमहेतुः, पार्थिवपरमाण्वादिकार्यत्वस्येति | |शेषः, पृथिवीत्वस्यान्यत्रासंभवात् । इतिरेवमर्थे । एवं पृथिवीत्वेनेव घटादीनां पृथिव्यादित्वेन भूतकार्यस्य चैतन्यस्यापि यदा 'अणुरूवत्ति' भावप्रधानत्वान्निर्देशस्य आनुरूप्यस्यानुगमपरिग्रहः क्रियते तर्हि तस्मिन् सति घटादिष्विव जीवदेवदत्तशरीरेऽपि चैतन्यस्य अप्रसिद्धिरेव, अभाव एव भवेत् । तुशब्द एवकारार्थः। पृथिव्यादित्वस्य काठिन्याबोधादिखभावाविनाभावित्वात् ॥ १०७॥ पाणापाणनिमित्तं सिय तं णो तस्स मुत्तभावातो। तवुड्डीऍ खयातो विवज्जतातो य मरणम्मि ॥ १०८ ॥ स्यादेतत्, न पार्थिवपरमाण्वादिजन्यं चैतन्यं येन पार्थिवत्वाद्यनुगमनेन घटादिष्विव जीवद्देवदत्तशरीरादावपि Jain Education inte For Private & Personel Use Only T ww.jainelibrary.org Page #116 -------------------------------------------------------------------------- ________________ + धर्म संग्रहणिः, ॥५६॥ चैतन्यस्याभावः प्रसज्येत, किंतु प्राणापाननिमित्तं, ततो न कश्चिद्घोष इति । तदेतत्प्रतिषेधति-नोत्ति' यदेतदुक्तं तन्न । कुत इत्याह-तस्य प्राणापानस्योष्णस्पर्शादिमत्तया मूर्तत्वात् । न च मूर्तस्य कार्यममूर्त भवति यथा घटादि, अन्यथा विवक्षितकारणधर्माननुगमने तस्य तत्कार्यत्वाभावप्रसङ्गात् , अमूर्त च चैतन्यम् , तन्न प्राणापानोपादाननिमित्तं युक्तम् । इतश्च न चैतन्यं तदुपादाननिमित्तं युक्तं, यत आह-'तब्बुडीए' इत्यादि । इह तत्तदुपादाननिमित्तं शक्यं वक्तुं, यत् यन्महत्त्वे महत् यदल्पत्वे चाल्पं, यथा मृत्पिण्डोपादानो घटः तन्महत्त्वे महान् तदल्पत्वे चाल्पः, न चैवं प्राणापानापेक्षया चैतन्यम् । कुत इत्याह-मरणे मरणसमये विपर्ययात् । चशब्दः पूर्वोक्तमूर्तभावादित्यपेक्षया समुच्चयार्थः । विपर्ययमेवाह-तद्वृद्धौ क्षयात्, मरणसमये तस्य प्राणापानस्य प्राणश्चापानश्च प्राणापानं तस्य वृद्धौ सत्यां क्षयात् विषयेण विषयिणो लक्षणात् क्षयदर्शनात् चैतन्यस्य, तन्न प्राणापानोपादाननिमित्तं चैतन्यम् ॥१०८॥ तदेवं सप्रपञ्चं चैतन्यस्य भूतकार्यत्वादि प्रतिषिध्य पारिशेष्यादात्मानं च प्रसाध्य सांप्रतं संक्षिप्तरुचिसत्त्वानाम् | अनुग्रहाय सकलमेवामुं प्रकरणा) संजिघृक्षरिदमाह ण य पुढवादिसहावो(व) कजं वा सति अभावतो तंति । अचंताणुवलद्धी कह माणदुगप्पसंगम्मि ? ॥ १०९ ॥ ॥५६॥ Jain Education in For Private Personal Use Only R w.jainelibrary.org Page #117 -------------------------------------------------------------------------- ________________ 'न च' नैव पृथिव्यादिखभावं तत् चैतन्यं, नापि कार्य प्रत्यासन्नत्वात् पृथिव्यादीनामित्यपेक्षते । अत्र हेतुमाह'सदा सर्वदा मृतावस्थायामपि उपलक्षणत्वादेतस्य सर्वत्र घटादिष्वपि अभावात् । यदि हि पृथिव्यादिखभावं तत्कार्य वा चैतन्यं भवेत् ततः सर्वदा सर्वत्र चाविशेषेण भवेत् , न च भवति, तन्न चैतन्यं पृथिव्यादिखभावं नापि तत्कार्यमिति । स्यादेतत् , यत्पृथिव्यादिखभावं न भवति नापि तत्कार्य तन्नास्त्येव, यथा खरविषाणम् , चैतन्यमपि यदि पृथिव्यादिखभावं तत्कार्य वा न भवति तर्हि तत्त्वतो नास्त्येवेत्यत आह-'अचंतेत्यादि' कथं प्रत्यक्षानुमानलक्षणप्रमाणद्विकप्रसङ्गे सति चैतन्यस्यात्यन्तानुपलब्धिराख्यायते ?, नैवासावाख्यातुमुचितेति भावः। तथाहि-खशरी| रगतं तावचैतन्यं खसंवेदनप्रत्यक्षेण प्रतीयते, परशरीरगतं तु विशिष्टचेष्टान्यथानुपपत्त्याऽनुमानतः, न चेत्थं प्रतीयमानस्य चैतन्यस्याभावः शक्यते वक्तुं, मा प्रापत् पृथिव्यादीनामपि भूतानामत्यन्ताभावप्रसङ्ग इति ॥१०९॥ यदपि । प्रागुक्तं-'मद्याङ्गेभ्यो मदशक्तिरिवे'ति, तदप्यसमीचीनम् , मदशक्तिदृष्टान्तस्य साधनविकलत्वात् । तथा चाह णहि मधुणो मदसत्ती भणितमिणं हेतुफलविभागे य। जं णियमणंति तम्हा वभिचारो वयणमेत्तं तु ॥ ११०॥ न हि यस्मात् मद्याङ्गेभ्यो जायमानस्य 'मधुनो' मद्यस्य मदशक्तिरुपजायते किं तु जीवस्य, इदं च प्राक् विस्त For Private Personel Use Only Join Education A 6-056 w .jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ धर्म | संग्रहणिः . ॥५७॥ **********TRASS रतरकेण भणितम् , ततो मद्याङ्गेभ्यो मदशक्तिवदिति दृष्टान्तः साधनविकलः। केवलमद्याङ्गसमुदायमात्रान्मदशक्तेरभावात् । तस्मादिदं चैतन्यलक्षणं कार्यमनुभवसिद्धत्वादप्रतिक्षेपार्हमन्यथानुपपत्त्या खानुरूपं कारणमात्मन उपस्थापयति, तच्च खानुरूपं कारणं भूतभ्योऽर्थान्तरभूतं न तु भूतान्येव, अत्यन्तवैलक्षण्यात् , चैतन्यस्य सर्वदा सर्वत्र च भावप्रसङ्गाच, ततः पारिशेष्यादात्मैव कारणमिति स्थितम् । न च वाच्यमण्वादिभ्यो घटादेर्भावदर्शनात् नावश्यं कार्यानुरूपं कारणमन्वेषणीयमिति । यत आह–'हेउफलविभागे य जं नियमणंति' हेतुः-कारणं फलं-कार्य तयोविभागो-विभजनम् अयमेवास्य हेतुरिदमेव चास्य फलमित्येवंरूपं तस्मिन् यन्नियम्यतेऽनेनेति नियमनं-नियमहेतुः मूर्तत्वपार्थिवत्वादिधर्मानुगमलक्षणस्तदपि प्रागेव भणितम् । इतिशब्दः पूरणार्थः, तस्मादण्वादिजन्यघटादिना व्यभिचारो वचनमात्रम्, तत्रापि मूर्तत्वादिधर्मानुगमभावत आनुरूप्यस्य भावात् । अन्यथा नियमहेत्वभावेन कार्यकारणव्यवस्थानुपपत्तेः । अतः स्थितमेतत्-खानुरूपनिमित्तं चैतन्यं, तच खानुरूपं निमित्तमात्मेति । प्रयोगश्चात्र-खानुरूपान्वयिनिमित्तं चैतन्यं, कार्यत्वात् , घटवत्, इह नात्यन्तासत उत्पादोऽसत्त्वाविशेषेण खरविषाणस्याप्युत्पत्तिप्रसङ्गात् । तस्य विवक्षितकारणस्य विवक्षितकार्यजननखभावत्वात्तस्यैवोत्पत्तिर्नान्यस्य ततो न कश्चिद्दोष इति चेत्, न, तदा तस्यात्यन्तासत्त्वेनावधिभावायोगस्तस्य तजननखभा|वतेति कल्पनानुपपत्तेः(श्च)। न हि अत्यन्तासतः अवधिर्भवति, असतो विशेषणत्वायोगात् । अतः कथंचित्सत एवो S S ॥ ५७ ॥ Jain Education Interne For Private Personal use only Khw.jainelibrary.org Page #119 -------------------------------------------------------------------------- ________________ Jain Education Int त्पादः । तथा च सति कार्यत्वं हेतोस्तथाभावित्वेन व्याप्यते । तदुक्तम्- "न तथाभाविनं हेतुमन्तरेणोपजायत” इति । खानुरूपान्वयिनिमित्तानभ्युपगमे चात्यन्तासत उत्पादाभ्युपगमप्रसङ्गः । ततो विपक्षाद्यापक विरुद्धोपलब्ध्या व्यावर्त्तमानं कार्यत्वं खानुरूपान्वयिनिमित्तत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ॥ ११० ॥ स्यादेतत् साध्यधर्म| विशेषविपर्ययसाधनादयं हेतुर्विरुद्धः, तथाहि - मूर्त्तखानुरूपान्वयिनिमित्तं चैतन्यं कार्यत्वात् घटवदित्यत आहविसेसविरुद्धोऽवि अप्पडिबंधातो वाहणातो य । मुत्तत्तादीण तहा संसारिणि अब्भुवगमा य ॥ १११ ॥ न विशेषस्य - साध्यधर्म्मसंबन्धिनोऽमूर्त्तत्वलक्षणस्य विपर्ययसाधनादयं कार्यत्वादिति हेतुर्विरुद्धः । अपि च न केवलमसिद्धोऽनैकान्तिको वा नेत्यपिशब्दार्थः । हेतुमाह - 'अप्रतिबन्धात् ' कार्यत्वलक्षणहेतोर्मूर्त्तत्वेन सहाप्रतिबन्धात् । न च प्रतिबन्धमन्तरेण हेतुः सम्यग्धेतुर्विरुद्धो वा भवति, कार्यादीनां हि हेतूनां खसाध्ये प्रतिवन्धात्, यद्गमकत्वं तत्सम्यग्धेतुत्वमुच्यते, साध्यधर्म्मविशेषादिविपर्यये च स्वभावप्रतिवन्धाद्विपर्यासनं विरुद्धत्वम् । तदुक्तमन्यैरपि - 'प्रतिबन्धपूर्वकं हि गमकत्वं तच्च हेतुविरुद्धयोरविशिष्टं, तथा साध्यविपरीतस्वभावप्रति Page #120 -------------------------------------------------------------------------- ________________ संग्रहणिः, धर्म- बन्धाद्विपर्यासनं विरुद्धत्वमिति' । अत्रैव हेत्वन्तरं समुचिचीषुराह-बाधनातश्च आत्मनो मूर्त्तत्वस्यामूर्त्तत्वप्रतीत्या बाधनात् । चः समुच्चये । तथा हि-यद्यात्मा मूतः स्यात्ततस्तत्कार्य चैतन्यममूर्त न भवेत् ?, न हि मूर्तकार्यममूर्त ॥५८॥ भवत् दृष्टम् , अमूर्त च चैतन्यं रूपादिविरहात्, तथाप्रतीतेः, ततश्चैतन्यलक्षणकार्यामूर्तत्वान्यथानुपपत्त्या ke आत्मनोऽमूर्त्तत्वमङ्गीकर्तव्यं न मूर्त्तत्वम् , तथा च मूर्त्तत्वस्य बाधनान हेतोविशेषविरुद्धता, तल्लक्षणायोगात् । 'विरुद्धोऽसति बाधने' इति हि तल्लक्षणमाहुस्तज्ज्ञाः, अन्यथाऽतिप्रसङ्गात्, पाक्यः शब्दः कृतकत्वात् घटवदित्यादेरपि वक्तुं शक्यत्वात् । अपि च, नैवास्माकमनेकान्तवादिनामयं हेतुर्विरुद्धोऽपि सन् क्षितिमावहति, कर्मणा सह लोलीभावेनावस्थानतः कथंचिदात्मनो मूर्तत्वस्याप्यभ्युपगमात् । यद्वक्ष्यति-"अहवाऽणेगंतोऽयं संसारी सबहा अमुत्तत्ति । जमणाइकम्मसंतइपरिणामावन्नरूवो सो" इति । एतदेवाह-'मुत्तत्तेत्यादि । तथेति समाधानान्तरसमुच्चये । मूर्तत्वादीनामादिशब्दाचक्षुरिन्द्रियग्राह्यत्वादिपरिग्रहः, औदारिकादिशरीरेणापि सह कथंचिदभेदाभ्युपगमात् संसारिणि आत्मनि अभ्युपगमान्न विशेषविरुद्धो हेतुः, इष्टत्वादिति भावः॥११॥ इह ये चैतन्याभिव्यक्तिवादिनस्ते चैतन्यं धर्मत्वेन प्रतिपद्यन्ते चैतन्यमभिव्यज्यते न तूत्पाद्यत इति, भूतानि च धीति । तत्रायमर्थः प्रागे वापास्तो-'जइ ताव मयं धम्मो चेयन्नं कह न अस्थि तो आया । अनेणऽणुरूवेणं इमस्स जं धम्मिणा कज' मित्यादादिना ग्रन्थेन । तत्र पुनरपि तन्मतमाशङ्कमान आह भावस्थानतः कामावन्नरूवा दिपरिग्रह, CAMERCASSMS ROCTORSCIENCECAUSACARROCCC Jain Education in For Private & Personel Use Only oww.jainelibrary.org Page #121 -------------------------------------------------------------------------- ________________ Jain Education अह अणुरुवो धम्म सुतचेतण्णस्स माइबुद्धी तु । णो तवतिरेगेणं तस्स सुते पावइ अभावो ॥ ११२ ॥ अथ स्यान्मतं परस्य-यदि चैतन्यस्यानुरूपेण धर्मिणा कार्य तर्हि सुतचैतन्यस्य 'मातृवुद्धिरेव' मातृचैतन्यमेव तुशब्द एवकारार्थः, अनुरूपो धम्म भविष्यति न त्वन्यः, ततश्च नैवमपि तवात्मसिद्धिरुपपद्यत इति भावः । अत्रोत्तरमाह - 'नो तवइ' इत्यादि यदेतदुक्तं तन्न, असंगतत्वात् । कथमित्याह - यस्मादेवं परिकल्प्यमाने 'तव्यतिरेकेण ' मातृचैतन्यव्यतिरेकेण तस्याभावः प्राप्नोति, धर्मिणमन्तरेण धर्माणामसंभवात्, अन्यथा स्वतन्त्रतया तेषामपि धर्मित्व प्राप्तेः ॥ ११२ ॥ अत्रैव दूषणान्तरमुपादित्सुराह ण हि धम्मंतरवत्ती दिट्ठा धम्माणमेत्थ लोगम्मि । तदभावपसंगातो न धम्मरहितो जतो धम्मी ॥ ११३ ॥ यदि मातृचैतन्यं सुतलक्षणे धर्मिणि नोपपद्यते किंतु मातृचैतन्यलक्षण एव 'हि' यस्मात्, न खलु खधम्मिणमन्तरेणान्यस्मिन् धर्म्यन्तरे धर्माणां वृत्तिरत्र लोके दृष्टा, तथाप्रतीत्यभावात् । विपक्षे वाघामाह - तदभावप्रसङ्गादिति, Page #122 -------------------------------------------------------------------------- ________________ धर्म- यदि हि धर्माणां धर्म्यन्तरे वृत्तिरभ्युपगम्येत तर्हि तस्य धमिणोऽभावप्रसङ्गो भवेत् , खभावस्थापि धर्मत्वात् , संग्रहणिः. तस्य च धर्म्यन्तरे वर्तमानत्वाभ्युपगमेन धम्मिणो निःखभावतापत्तेः। एतदेव भावयति-'न धम्मरहिओजओ धम्मी' 'यतो' यस्मान्न धम्मैः-सत्त्वज्ञेयत्वप्रमेयत्वादिभिः रहितो-वर्जितस्तादात्म्यसंबन्धप्रच्युतो धर्मी खरूपेणास्ति, ततो धर्म्यभावप्रसङ्गात् न धर्माणां धर्म्यन्तरे वृत्तिरभ्युपगन्तव्या । ततश्च सुतचैतन्यं चेन्मातृचैतन्यस्य धर्मस्तर्हि तस्य तत्र वृत्तिः स्यात् न सुते, तथा च सति प्रतीतिविरोधः, तन्न सुतचैतन्यस्य मातृचैतन्यमनुरूपो धर्मी किं त्वात्मैवेति स्थितम् ॥११३॥ अत्र चैतन्योत्पत्तिवादिनः प्राहुः-ये चैतन्याभिव्यक्तिवादिनस्तेषामेवायमनन्तरोक्तो दोषो, नास्माकं, कार्यकारणभावाभ्युपगमात् । तथाहि-सुतचैतन्यं कार्य मातृचैतन्यं च कारणं, तथा च को दोष इत्यत आह ण य तक्कजं पि इमं तस्सकाराणुवित्तभावातो। तनावम्मिऽवि कज्जे सति न य हेतूऽवि तदवत्थो ॥ ११४ ॥ न च 'इदं' सुतचैतन्यं तत्काय-मातृचैतन्यकार्यम् । कुत इत्याह-तत्संस्कारानुवृत्त्यभावात् तस्य-मातृचैतन्यस्य ॥ ५९॥ यः संस्कारो-वासना कालान्तरमाविस्मरणादिहेतुस्तस्यानुवृत्तिः-अनुगमनं तस्याभावात् , तत्संस्कारानुवृत्त्यभावेऽपि च तत्कार्यत्वाभ्युपगमेऽतिप्रसङ्गो, देवदत्तचैतन्यस्यापि यज्ञदत्तचैतन्यस्य कार्यतापत्तिप्रसक्तेरिति । दूषणान्तरमभिधित्सुरे ENGINCREGAONGS in Education and al For Private & Personel Use Only Page #123 -------------------------------------------------------------------------- ________________ Jain Education तदप्यभ्युपगम्याह - 'तब्भावम्मीत्यादि तद्भावेऽपि तत्कार्यत्वेऽपि इष्यमाणे, शब्दो यस्मादर्थे, यस्मान्न कार्ये सति घटादिलक्षणे हेतुरुपादानभूतो मृत्पिण्डादिलक्षणः, अपिचशब्द एवकारार्थी भिन्नक्रमश्च तदवस्थ एव भवति, किन्तु नियमतो विनाशमाविशति । मृत्पिण्डादिहेतूपमर्देनैव घटादिकार्यभावदर्शनात् । ततो यदि सुत| चैतन्यं मातृचैतन्यस्य कार्य भवेत् तर्हि सुतचैतन्ये सति मातृचैतन्यं न भवेत्, न च न भवति, तस्मान्न सुतचैतन्यं मातृचैतन्यस्य कार्यमिति ॥ ११४ ॥ अत्र परस्य मतमपाकर्तुमाशङ्कते - दीवा दीप्पत्ती ण य उभयं तत्थ दिट्टमह बुद्धी । जुतमिदमुवादाणं न हि दीवो अन्नदीवस्स ॥ ११५ ॥ स्यादियं बुद्धिः परस्य- दीपाद्दीपान्तरस्योत्पत्तिर्भवति, न च 'तत्र' दीपान्तरोत्पत्तौ 'उभयं' कार्यकारणभूतदीपयलक्षणमदृष्टम् उभयोरपि तत्र खरूपेणोपलभ्यमानत्वात् तद्वदिहापि मातृचैतन्यात्सुतचैतन्य स्योत्पत्तावपि न मातृचैतन्यस्याभावो भविष्यतीति । अत्राह - 'जुत्तमित्यादि' युक्तमिदं दीपाद्दीपान्तरस्य भवनं, न च तत्र कारण - भूतस्याभावो, यस्मान्न दीपोऽन्यदीपस्य - दीपान्तरस्योपादानं किं तु सहकारिकारणम्, उपादानकारणं हि दीपस्य वयदिपरमाणय एव, उपादानकारणोपमर्देन च कार्यं भवति न सहकारिकारणोपमर्देन, यथा मृत्पिण्डोपमर्देन घटो न 3 Page #124 -------------------------------------------------------------------------- ________________ धर्म ॥ ६० ॥ Jain Education चक्राद्युपमर्देन, न च सुतचैतन्यस्य मातृचैतन्यं सहकारिकारणमिष्यते किंतुपादानकारणम्, अतस्तदुपमर्द्देनैव तद्भवेत् ॥११५॥ यदि पुनस्तत्सहकारिकारणमिष्येत तत्मसिद्धिप्रसङ्गो यत आह माती चेतणं अणुवादाणं तयन्भुवगमे य । जदुवादाणं एयं तत्तो परलोगसिद्धि ति ॥ ११६ ॥ चशब्दों हेत्वर्थे । मकारस्त्वलाक्षणिकः । यस्मान्नैवादि - प्रथमं चैतन्यं सुतस्योपजायमानस्येति शेषः, 'अनुपादानम्' उपादानकारणविकलं युज्यते अतिप्रसङ्गात्, पञ्चमभूतस्यापि तद्वदुत्पत्तिप्रसक्तेः, 'तदभ्युपगमे च' तस्य - उपादानस्याभ्युपगमे च क्रियमाणे यदुपादानमेतत्सुतस्यापि चैतन्यम् 'तत' उपादानात् सुतप्रथम चैतन्यान्यथानुपपत्त्या सिद्धात् | परलोकस्य -सुरनारकत्वाद्यवस्थालक्षणस्य सिद्धि: - प्रसिद्धिः । तथाहि तदेवोपादानमुपादेयरूपतया परिणमते, तदप्युत्तरोत्तरभावेन, तथा च सततमनुच्छित्त्या एकोऽन्वयी सिद्धस्तत्सिद्धौ च तदवस्था देवनारकत्वादिलक्षणा परलो - कसंज्ञा सुतरां सिद्वैवेति । अपिच, यदि सुतचैतन्यं मातृचैतन्योपादानमिष्यते ततः सम्मूर्च्छितेषु यूकादिषु कृम्या - दिषु च मृतदेहे समुत्पद्यमानेषु न चैतन्यं भवेत्, तेषां मातुरभावात्, अथ तेषु चैतन्यमन्योपादानमिष्यते तर्हि सुतेऽपि चैतन्यमन्योपादानमस्तु ?, विशेषाभावात् । तच्चान्यदुपादानमर्थादात्मैव भूतानां तत्कारणतया प्रागेव संग्रहणिः. ॥६०॥ Page #125 -------------------------------------------------------------------------- ________________ ARRORSCOOK प्रतिपिद्धत्वात् । तस्मान्न सुतचैतन्यं मातृचैतन्योपादानम् ॥ ११६ ॥ एतदेवाह संमुच्छिमसब्भावा मतदेहेऽणेगसंभवातो य। अन्नत्थनिमित्तत्ते ण पमाणं लोकवाधा य ॥ ११७ ॥ सम्मृच्छिमेषु यूकादिपु चैतन्यस्य सद्भावात् , मृतदेहे अनेकेषां कृम्यादीनां चैतन्यवतां संभवाच न मातृचैतन्योपादानं सुतचैतन्यम् , अन्यथा तेषु मातुरभावेन चैतन्यस्याभावः प्रसज्येत । किंच, 'अन्नत्यनिमित्तत्ते' इत्यादि, अन्य-12 स्मिन् मातृलक्षणे धम्मिणि स्थितं चैतन्यमन्यस्थं तन्निमित्तमुपादानं यस्य तदन्यस्थनिमित्तं तद्भावोऽन्यस्थनिमित्तत्वं हतस्मिन् सुतचैतन्यस्येष्यमाणे न प्रमाणम् , न ह्येवंविधार्थसाधकं किंचित्प्रत्यक्षादिकं प्रमाणमुपलभामहे, न चापश्यन्त आत्मानं विप्रलभेमहि इति। अन्यञ्च-एवं परिकल्पयतो भवतो लोकबाधाप्यापद्यते, न ह्येवं लोके प्रतीछातिरस्ति यत्सुतचैतन्यं मातृचैतन्योपादानमिति यत्किंचिदेतत् ॥ ११७ ॥ तदेवं चैतन्यस्य धर्मादित्वान्यथानुपपत्त्या आत्मनोऽस्तित्वं प्रसाध्य सांप्रतं तत्प्रतिषेधायोगतः प्रतिपादयन्नाह किंच पडिसेहगं किं पमाणमेयस्स? अह तु पच्चक्खं । लोगम्मि विजमाणत्थगाहगत्तेण तं सिद्धं ॥ ११८॥ AMARCBCC41- धर्म. 19 Jain Education Inter Kiww.jainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ ॥६१॥ किंचेति दूषणान्तरसमुच्चयद्योतने । एतस्यात्मनः प्रतिषेधकं प्रमाणं किं?-प्रत्यक्षमनुमानं वा?, न खलु प्रमाणम संग्रहणिः , न्तरेण कस्यापि प्रतिषेधः कत्तुं शक्यते, मा भूतु भूतानामपि प्रतिषेधप्रसङ्गः। अथ ब्रूयात्-किमन्येन प्रमाणेन ?, प्रत्यक्षमेवात्र प्रमाणं भविष्यतीति, तदयुक्तम् , यस्मात् 'तत्' प्रत्यक्षं लोके विद्यमानार्थग्राहकत्वेन 'सिद्धं' व्यवस्थितम् , तद्विषयसन्निपातविशेषाभिव्यक्तक्षयोपशमविशेषसामर्थ्यादुपजायमानव्यवहितविद्यमानार्थग्रहण एव प्रवर्त्तते, न पुनः पदार्थान्तरप्रतिषेधे इति ॥११८ ॥ यादेतत्, यद्यपि प्रत्यक्षं पदार्थान्तरप्रतिषेधे न प्रवर्तते तथापि तं व्यवहातारयितुमीशमित्याशङ्कामपनेतुमाह तस्सेव णिवित्तीए अह गम्मइ एत्थ वत्थुऽभावोऽवि । सा तं चिय तुच्छा वा हवेज्ज जति तं चिय विरोहो ॥ ११९ ॥ अथेति परप्रश्नाभिव्यक्तौ। 'तस्यैव' प्रत्यक्षस्य 'निवृत्तेः'निवृत्तत्वादिह जगति गम्यते वस्तु(स्त्व)भावोऽपि, इदमुक्तं भ-ता बति-प्रत्यक्ष ज्ञानं कचित्प्रवृत्तं सत् प्रवृत्तिविषये सद्व्यवहारं निवृत्तिविषये च प्रतिषेधव्यवहारं प्रवर्तयति, तेन प्रत्यक्षमेव वति-प्रत्यक्ष ज्ञान कचित्प्रवृत्त सत् प्रात्तविषय सद्व्यवहारानाAMRITISTI प्रवृत्तिनिवृत्तिमुखाभ्यामशेषां लोकयात्रां प्रवर्त्तवति । अत्राह-सा निवृत्तिः किं तदेव प्रत्यक्षं?, परो हि कदाचित्तदेव वाह दप्रत्यक्षं विषयान्तरविषयमात्मनो ग्राहकत्वेन निवृत्तं निवृत्तिशब्देनाभिदध्यादितीत्वमुच्यते, 'तुच्छा वा हवेजत्ति' तुच्छा Jan Education in For Private Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Jain Education In वा प्रसज्यप्रतिषेधरूपा निवृत्तिर्भवेत् । वाशब्दः पक्षान्तरसूचनार्थः । तत्राद्यं पक्षमधिकृत्याह – यदि तदेव प्रत्यक्षमात्मनो ग्राहकत्वेन निवर्त्तमानं निवृत्तिशब्देनाभिधीयते तर्हि विरोधः, तथाहि - प्रत्यक्षनिवृत्त्या गम्यते वस्त्वभाव इत्युक्तं, सा च निवृत्तिः प्रत्यक्षमेव निवर्त्तमानमनिवर्त्तमानं च प्रतिषेधविषये प्रत्यक्षम विद्यमानम्, अविद्यमानेन च प्रत्यक्षेण वस्त्वभावो गम्यत इति व्याहतम्, अविद्यमानस्य खरविषाणस्येवावगम निबन्धनत्वाभावात् । तदुक्तं - "प्रत्यक्षस्य निवृत्तेरभावनिश्चयः इति चेत् तच नास्ति तेन च प्रतिपत्तिरिति व्याहत मेतदिति ॥ ११९ ॥ स्यादेतत्, न तत् प्रत्यक्षं विषयान्तरविषयमात्मनो ग्राहकत्वेन निवर्त्तमानमपि सर्वथा अविद्यमानमेव, तस्य भावात्, स्वरूपेण च विद्यमानं प्रवृत्तिविषये सद्व्यवहारं निवृत्तिविषये चासव्यवहारं प्रवर्त्तयिष्यति ततो न कश्चिद्दोष इत्येतदेवाह - अह तु तदंतरमेसा णो तसिएण तस्स संबंधो । सिद्ध कहं ततो णु तदभावविणिच्छओ एत्थ ? ॥ १२० ॥ अथ स्यादियं मतिः परस्य - तुशब्द एवकारार्थी भिन्नक्रमश्च । 'तदन्तरमेव' प्रत्यक्षान्तरमेव वस्त्वन्तरविषयमेषानिवृत्तिः, ततो न कश्चिद्दोषः, तथाहि — वस्त्वन्तरविषयं प्रत्यक्षमात्मनो ग्राहकत्वेन निवृत्तमतो निवृत्तिशब्देनाभिधीयते, तच्च विद्यमानं, ततः प्रवृत्तिविषये सद्यवहारं निवृत्तिविषये चासव्यवहारं प्रवर्त्तयिष्यति, यथा केवल भूतलविषयं घटा Page #128 -------------------------------------------------------------------------- ________________ ९८९ CCORNCOCOCRACTICALCOCOCK DRINEER सद्यवहारमिति कुतः पूर्वोक्तदोषावकाश इति, तदप्ययुक्तम् , यस्मान्न तद्विषयेण' प्रत्यक्षान्तरविषयेण वस्त्वन्तरेण द्व संग्रहणिः, सह 'तस्य'आत्मनः 'संबन्ध' एकज्ञानसंसर्गित्वलक्षणः 'सिद्धः' प्रतीतः,तस्यातीन्द्रियत्वेनोपलब्धिलक्षणप्राप्तत्वाभावात् , ततस्तस्मात्कथं प्रत्यक्षान्तरान्ननु 'तदभावविनिश्चयः' आत्माभावविनिश्चयः 'अत्र'जगति?, नैव कथंचनेतिभावः। एक-12 ज्ञानसंसर्गित्वे हि सत्येकस्मिन् दृश्यमाने अपरस्साभावनिश्चयः कर्तुं शक्यते, यथा-विविक्तभूतलावलोकने घटस्य, तथाहि-यद्यत्र सन् घटो भवेत् सोऽपि भूतलवत् उपलभ्येत, न चोपलभ्यते, तस्मानास्तीति । न चैवमिहात्मन एकज्ञानसंसर्गित्वमस्ति, तस्यातीन्द्रियत्वेनोपलब्धिलक्षणप्राप्तत्वाभावात् , भावे वा घटादिवत् देशकालनिषेध एव तस्य स्यात्, नात्यन्ताभाव इति ॥ १२० ॥ पक्षान्तरं दूपयितुमाशङ्कमान आह अह तुच्छा तीए कहं तवगमो सवहा असत्तातो? । सिद्धो य विणाभावो तेण समं तीऍ किं भवतो? ॥ १२१ ॥ अथ सा निवृत्तिः प्रत्यक्षस्य 'तुच्छा' प्रसज्यप्रतिषेधात्मिका मन्यते तर्हि तया' तुच्छया निवृत्त्या कथं तदवगमः। आत्माभावावगमः?, नैव कथंचन । कुत इत्याह-तस्याः सर्वथाऽसत्त्वातू-तुच्छरूपत्वात् , तुच्छरूपत्वेनावगमकारित्वा ॥६२॥ भावात् , अवगमकारित्वं हि बोधस्य खभावः, स कथमेकान्ततुच्छायां निवृत्ती भवेदिति भावः । अपिच, किमा XXCCCCCC-RKAR Jain Education Ma na For Private Personel Use Only al Page #129 -------------------------------------------------------------------------- ________________ त्मिप्रतिषेधकं प्रमाणमिति पृष्टेन त्वया निवृत्तिरभिहिता, सा च न प्रत्यक्षं, तनिषेधात्मकत्वात् , किंतु प्रमाणान्तरं तत् स्यात् , ततश्च "प्रत्यक्षमेवैकं प्रमाणं नान्यदिति" संगरव्याघातः । सा न किंचित् तुच्छरूपत्वात्ततो न संगरव्याघात इति चेत्, कथं तर्हि तया आत्माभावनिश्चय इत्यनन्तरमेवोक्तम् । ननु स आत्माभावविनिश्चयस्तद्वाहकप्र माणाभाव एव, नान्यः, ततः क उक्तदोषावकाश इति चेत् , तदेतदसमीचीनम् , अभावो निश्चयश्चेति परस्पर-18 है विरुद्धत्वात्। नन्वभाव एव निश्चयो मा भूत् , ततः पुनः स भविष्यति, लोके तथा दर्शनात् , न च दृष्टेऽप्यनुपपन्नं नामेति चेत् कथं लोके तथा दर्शनमिति वाच्यम् , यन्न दृश्यते तन्नूनं नास्तीति व्यवहारदर्शनादितिचेत् ?, न, परचैतन्यादिना व्यभिचारात् । चेष्टादिदर्शनान्न तस्यादर्शन मिति चेत्, न, मूर्च्छितादौ तदर्शनासिद्धेः । तत्र तत्त्वतस्तन्नास्त्ये-18 वेति चेत्, न, क्वचिन्मूच्छांद्यपगमे तदुपलब्धः। तत् अन्यदेव कायादुत्पन्नमिति चेत्, न अतीन्द्रियत्वेनात्र प्रमाणाभा-14 वात् , प्रतिषिद्धश्चायमर्थः प्रागेव सुप्तोत्थितप्रवुद्धस्येत्यादौ प्रदेशे । तदेवेदं चैतन्यं मूछाद्यपगमेऽपीत्यत्रापि किं प्रमा-IN णमिति चेत् ? पूर्वानुभूतस्मरणदर्शन मिति ब्रूमः। नहि अननुभूते अन्यानुभूते वा स्मरणमुपपद्यते तथानुपलम्भात् , उपलभ्यते च लोके मूछाद्यपगमेऽपि पूर्वानुभूतस्मरणम् , अविगानेन सर्वेषां तथानुभवात् । नचेदं भ्रान्तमिति शक्यते ४ वक्तुम् , विवक्षितमर्थ स्मृत्वा प्रवृत्तस्य संवादोपलब्धेः । अन्यञ्च-कथमुक्तं प्राक् चेष्टादर्शनान्न तस्यादर्शनमिति, नहि चेष्टा चैतन्याव्यभिचारिणी, पवनादिना मृतकायेऽपि तस्या दर्शनात् । नचेयं न चेष्टा तथात्वेनाध्यवसायात्। अथ - Jain Education irail For Private & Personel Use Only C w w.jainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ धर्म ॥६॥ विशिष्टा काचनापि चेष्टा तदव्यभिचारिणी संगीर्यते, न या काचन, तेनायमदोष इति चेत्, ननु तस्याः केन प्रमा संग्रहणिः णेनाव्यभिचारः सिद्ध इति वाच्यम् ?, खसंवेदनप्रत्यक्षत एव तस्याः खशरीरे चैतन्येन सहाव्यभिचारग्रहणमिति चेत् ? हन्त तर्हि हतोऽसि अव्यभिचरितार्थान्तरदर्शनात्साध्यार्थप्रतिपत्तिमिच्छतोऽनुमानप्रामाण्यप्रसङ्गेन "प्रत्यक्ष-18 | मेवैकं प्रमाणं नान्यदिति” प्रतिज्ञाब्याहतिप्रसङ्गादिति यत्किंचिदेतत् , तन्न निवृत्तिमात्रात्तुच्छरूपादात्माभावनिश्चय | इति स्थितम्। किंच 'सिद्धो य इत्यादि' चशब्दो दूषणान्तरसमुचये, 'तस्याः' निवृत्तेः तेन आत्माभावेन सहाविनाभावः| किं भवतः सिद्धो? येन तत आत्माभावो निश्चीयते, नैव सिद्ध इति भावः । वस्तुनि सत्यपि प्रत्यक्षनिवृत्तिमात्रस्य सद्भावात् ॥१२॥ यदि न सिद्धस्ततः किमित्याह तदभावे णावगमो तब्भावे कह ण होति अणुमाणं? ॥ तब्भावम्मि अ (वे य अ) जुत्तं अणुमाणं अप्पमाणंति ॥ १२२ ॥ 'तदभावे' अविनाभावाभावे नावगमो निवृत्तेः सकाशात् आत्माभावस्य, संदिग्धविपक्षव्यतिरेकत्वात् । अथाप्युच्येत-सिद्ध एवाविनाभावः, तेन नोक्तदोपप्रसङ्ग इति । तत आह-तद्भावे' अविनाभावभावे कथं न भवत्यनुमान प्रमाणं ?, भवत्येव प्रमाणमितिभावः। अविनाभावसंबन्धस्मरणसापेक्षं हि लिङ्गात् लिङ्गिनि ज्ञानमनुमानमित्याहुरनुमा-11 Jain Education in For Private & Personel Use Only W w w.jainelibrary.org - Page #131 -------------------------------------------------------------------------- ________________ Jain Education Int नलक्षणं प्रमाणलक्षणज्ञाः, तच्चेहास्त्येवेति कथं न तत् प्रमाणं भवेत् ? । 'तभावम्मि य इत्यादि' 'तद्भावे च' अनुमानप्रमाणभावे च यदुक्तं प्राकू "अनुमानमप्रमाणमिति" तदयुक्तं द्रष्टव्यम्, स्ववाचैवेदानीं तस्य प्रामाण्याभ्युपगमात् । अ (आ) तश्चानुमानमप्रमाणमित्युक्तं, तदप्रामाण्ये प्रत्यक्षतदाभासयोरपि प्रामाण्याप्रामाण्यव्यवस्थानुपपत्तेः (त्तिः) । तथाहिस भौतिकपुरुषवादी काश्चित् प्रत्यक्षज्ञानव्यक्तीर्विवक्षितार्थक्रियासमर्थार्थप्रापकत्वेनाविसंवादिनीरन्याश्च तद्विपरीततया विसंवादिनीरुपलभ्य तलक्षणन्यात्या तादृशीनां प्रत्यक्षव्यक्तीनां प्रामाण्यमितरासां चाप्रामाण्यमुद्धोषयेत्, न च प्रत्यक्षमव्यवहितविद्यमानार्थग्रहणपर्यवसितसत्ताक तथा पूर्वापरपरामर्शशून्यं सत् सकलकालभाविनीनां प्रत्यक्षव्यक्तीनां प्रामाण्यनिबन्धनमविसंवादित्वसामान्यमव बोधयितुसीष्टे, तस्मादवश्यंतया परिदृष्टप्रत्यक्षज्ञानव्यक्त्यनुसारेण प्रामाण्यनिबन्धनस्याविसंवादित्वसामान्यस्य प्रत्यायकमनुमानं प्रमाणत्वेनाश्रयणीयम् । अपिच, परावबोधार्थ शास्त्रं प्रणयन् कथमनुमानस्य प्रामाण्यमेप प्रतिक्षिपति ?, तत्प्रतिक्षेपे शास्त्रकरणप्रवृत्ते वैफल्यप्रसङ्गात् । नहि प्रत्यक्षेण परचेतोवृत्तिः साक्षात्क्रियते, अगृहीते च परचैतन्ये तन्निवृत्त्या चासत्त्वेन शङ्किते परः शास्त्रार्थमवबुध्येतेति संशयेनापि न शास्त्रप्रणयने प्रवृत्तिरुपपद्येतेति । किंच, प्रत्यक्षस्य प्रामाण्यनिमित्तं गृह्यमाणपदार्थान्वयव्यतिरेकानुकरणं, तच्च साध्यप्रतिबद्ध लिङ्गज्ञानसामर्थ्यनोदीयमानस्याप्यविशिष्टमिति कथं न तत् प्रमाणमङ्गीक्रियते ? । स्थादेतत् कथमनुमानस्य Page #132 -------------------------------------------------------------------------- ________________ C धर्म- सग्रहणिः EMAILREAacaramirsOLOCRACOCOCIENCE-Co-OCOCACK प्रामाण्यमङ्गीकुर्मः?, अनुमानविरोधाद्यनेकदोपसंपातसंभवात् , तथापि चेत्तस्य प्रामाण्याभ्युपगमः,तर्हि स श्यामस्तत्पुत्रत्वात् , इत्यादेरपि प्रामाण्यप्रसङ्गः ॥१२२॥ एतदेवाह अह मणुमाणविरुद्धादिदोससब्भावतोऽपमाणं तं। णो वत्थुबलपवत्ते ते दोसा दंसियमिदं तु ॥ १२३ ॥ अथेति पराशङ्काभिव्यक्तौ । अनुमानविरोधादिदोपसद्भावात् अप्रमाणं तदनुमानमिति मन्येथाः, तदयुक्तम् , यस्मान्न 'वस्तुबलप्रवृत्ते' साध्यार्थान्यथानुपपन्नलिङ्गनिश्चयवलप्रवृत्तेऽनुमाने 'ते'अनुमानविरोधादयो दोपाः प्रादुःपन्ति ।। तथाहि-धूमवत्त्वेनाग्निमति पर्वते साध्ये न खलु नानिमान पर्वतः पर्वतत्वात्तदन्यपर्वतवत् इत्यनुमानविरोधस्य, तथा निस्तलनिवृक्षप्रदेशाग्निना अग्निमान् पर्वतो धूमवत्त्वात् महानसवदितीष्टविघातकृत्त्वस्य, नात्रत्येनाग्निना अग्निमान् ।। पर्वतो धूमवत्त्वात् महानसवदिति विरुद्धाव्यभिचारित्वस्य वा दोपस्यावकाशोऽस्ति, तेषां प्रत्यक्षबाधितविषयतया अनु-15 मानाभासत्वतो विवक्षितानुमानवाधकत्वायोगात्, एतच प्रागेव दर्शितम् । तथा चाह-'दंसियमिदं तु त्ति' इदमनन्त-14 रोक्तम् तुशब्दः पुनरर्थे प्रागेव 'न विसेसविरुद्धो चिय अप्पडिबंधाओ वाहणाओ य' इत्यनेन ग्रन्थेन दर्शितमिति । ४ यदपि च प्रागभिहितम्-अनुमानविरोधो यथा घटस्य नित्यत्वे साध्ये, तद्युक्तमेव, यतो न खल्वेकान्तनित्यत्वं CIRCREECHOCOCCEOCOCCACCORDCROSNOR ॥६४॥ Jain Eduent an For Private & Personel Use Only J Page #133 -------------------------------------------------------------------------- ________________ Jain Education Inter , कस्यापि वस्तुनः समस्ति, सर्वस्यादीपमाव्योम च नित्यानित्यत्वस्वभावात् नच नित्यानित्यत्वे साध्यमानेऽनुमान| विरोधस्यावकाशोऽस्ति, यथावस्थितवस्तुविषयत्वाभावतस्तस्यानुमानाभासत्वात् । तथा यदपि प्रागवादि - किमनुमानस्य विषयः सामान्यं विशेष उभयं वेत्यादि, तत्र न सामान्यमग्निमात्रं साध्यं, विवादाभावात् नाप्येकान्तेन विशेष एव, तस्य व्यक्तयन्तराननुयायित्वेनान्वयाभावात्, किंतु विशेषवत् सामान्यम् अयोगव्यवच्छेदेन प्रदेशविशिष्टस्यैव | वह्नेः पुरुषस्य प्रवृत्त्यङ्गत्वात् । यदपि प्रागुक्तं, न देशविशिष्टोऽपि वह्निः साध्यो युक्तो, देशविशिष्टस्य वहेरन्वयाभावात्, न हि अस्मिन् पर्वते वह्निरस्ति धूमादित्यादौ विशिष्टेन साध्येन सह हेतोरन्योऽस्तीत्यादि, तदप्यसमीचीनम्, यत इह द्विविधो विषय:- प्रयोगकाले व्याप्तिकाले च । तत्र प्रयोगकाले देशविशिष्टो वह्निर्विषयः व्याप्तिकाले च केवलं वहिमात्रम् । प्रतिपाद्यं हि प्रतिपादयिता (त्रा) प्रेक्षावता धूमोऽग्निनान्तरीयको दर्शनीयः यथा यत्र धूमस्तत्रावश्यमनिरिति । स च धूमस्तथा व्याप्तिकाले वह्निमात्रेण व्याप्तः सिद्धः सन् यत्रैव पर्वतादौ स्वयं दृश्यते तत्रैवानिबुद्धिं जनयति, नो दध्यादौ, अन्यदेशस्थेन कारणेनान्यदेशस्थ कार्यस्याजननात् तेन प्रयोगकाले देशविशिष्टो वह्निर्विषयो निर्दिश्यते । यद्येवं तर्हि प्रयोगकाले न साध्यनिर्देशो युक्तः, सामर्थ्यनैवानन्तरोक्तेन तस्य गतार्थत्वात्, न, अनन्तरोक्तसामर्थ्यपरामर्शशून्य तथाविधपरव्यामोहनिवृत्त्यर्थत्वेन तस्यापि सफलत्वात्, अन्यथा हि तन्निर्देशाभावे व्याप्तिवचननान्तरं धर्मिणि पर्वतादौ धूमस्य सत्त्वे दर्शितेऽपि अनन्तरोक्तं सामर्थ्यमनुसर्तुमशक्तः सन् कश्चित् व्यामुह्येत् । अथ च wjainelibrary.org Page #134 -------------------------------------------------------------------------- ________________ धर्म ॥ ६५ ॥ Jain Education Inter परप्रतिपत्त्यर्थे परार्थानुमानप्रयोग इति युक्तस्तदपेक्षया प्रतिज्ञाप्रयोग इति कृतं प्रसङ्गेन प्रकृतमभिधीयते ॥ १२३ ॥ तत्र ननु मा भूत् प्रत्यक्षेण तन्निवृत्त्या वा आत्मप्रतिषेधः, अनुमानतो भविष्यतीति पराकूतमुद्घाटयन्नाह - अह अमाणेणं चिय पडिसेहो णो तयं तुह पमाणं । अप्पमाणम्मि य तम्मि का अत्था णाद (य) वादीनं ॥ १२४ ॥ अथ मन्येथाः - अनुमानेनैव चियशब्दः प्राकृते निपातोऽवधारणार्थः, प्रतिषेध आत्मन इति संबन्धः । अत्राह - 'नो इत्यादि' ननु तत् अनुमानं न 'तव' भवतः प्रमाणं “प्रत्यक्षमेवैकं प्रमाणमिति” वचनात् । अथोच्येत - यद्यपि न मे प्रमाणमनुमानं, तथापि तेनात्मनः प्रतिषेधः करिष्यते को दोष इत्याह- 'अप्पमाणम्मीत्यादि' अप्रमाणे च तस्मि ननुमाने का 'आस्था' न्यस्तभरता न्यायवादिनां युक्तिवादिनां ?, नैवेयं युक्तेत्यभिप्रायः, अप्रमाणस्यायथार्थत्वेन प्रतिषेधकारित्वायोगात् । ननु यदि वयमनुमानतो निश्चिनुमहे ततः स्यादेष उपालम्भो यथा - 'तस्मिन्नप्रमाणे का आस्था न्यायवादिनामिति', यावता परप्रतिपादनायात्मप्रतिषेधप्रयासः, परश्चाश्रयदेव स्वस्य प्रमाणत्वेनानुमानं, ततस्तेनात्मप्रतिषेधं कार्यते पर इति न कश्चिद्दोषः ॥ १२४ ॥ एतदेवाह - अह परसिद्धेणं चिय परपडिवत्तीऍ णत्थि दोसोत्ति । संग्रहणिः ॥ ६५ ॥ Page #135 -------------------------------------------------------------------------- ________________ Jain Education nek परखग्गेण विदिट्टो विणिवादो किं न लोगम्मि ? ॥ १२५ ॥ अथेदमाचक्षीथाः- परसिद्धेनानुमानेन परस्यात्मप्रतिपत्तौ क्रियमाणायां नास्ति कश्चिद्दोषः, परस्य तेनात्मप्रतिषेधप्रतिपत्त्युत्पत्तेः । अमुमेवार्थ प्रतिवस्तूपमया भावयति - 'परेत्यादि' किं लोके त्वया परखङ्गेनापि परकीयेनाप्यसिना परस्य विनिपातः क्रियमाणो न दृष्टः १, दृष्ट एवेति भावः सर्वेषामविगानेन तथाप्रसिद्धेः । इह विनिपाततुल्या परस्वात्मप्रतिषेधप्रतिपत्तिः खङ्गकल्पं चानुमानमिति । तदेतदयुक्तम् दृष्टान्तदार्शन्तिकयोर्वैपम्यात्, तथाहि - खङ्गस्य स्वपरविनिपात करणे शक्तिरप्रतिहता, ततस्तेन परकीयेनापि परस्य विनिपातो युज्यते त्वया पुनरनुमानमप्रमाणमिप्यते, ततस्तत्परस्यापि नात्मप्रतिषेधप्रतिपत्तिमाधातुमलम्, अप्रमाणस्य यथावस्थितार्थप्रतिपत्तिनिबन्धनत्वायोगात्, अन्यथा प्रमाणपर्येषणानर्थक्यप्रसङ्गात् ॥ १२५ ॥ एतदेवाह - विणिवायकरणसत्ती - सब्भावे जुज्जई तओ णियमा । इय पडिवत्तिनिमित्तं च होइ कहमप्पमाणं तं ?, ॥ १२६ ॥ विनिपातकरणशक्तिसद्भावे सति खगस्य सको विनिपातस्तेन परस्य क्रियमाणो नियमादवश्यंतया युज्यते, न पुनरनुमानादात्मप्रतिषेधप्रतिपत्तिः, तस्याप्रमाणत्वे तत्करणशक्त्तिविकलत्वात् । अथ तस्यात्मप्रतिषेधप्रतिपादनशक्ति Page #136 -------------------------------------------------------------------------- ________________ धर्म ॥ ६६ ॥ Jain Education |रिष्टा ते तर्हि प्रामाण्यप्रसङ्गः तथा चाह- 'इय इत्यादि' 'इतिः एवं खङ्गदृष्टान्तानुसारेण तथाविधशक्तिसद्भावाभ्युपगमेन यद्यनुमानमात्मप्रतिषेधप्रतिपत्तिनिमित्तमिष्यते, चशब्दो यद्यर्थः स च भावित एव ततः कथं तदनुमानमप्रमाणं भवति ?, नैव भवतीति भावः । यथावस्थितवस्तुविषयतया बलात्तस्य प्रामाण्योपपत्तेः । अत्रापरः पार्श्वस्थः प्रश्नयतिननु च कथमिदमुक्तं-यदि तदनुमानं प्रतिपत्तिनिमित्तं ततः कथमप्रमाणमिति, न हि प्रतिपत्तिनिमित्ततामात्रं प्रामाण्यलक्षणं, तस्य व्यभिचारित्वात्, तथाहि – रूपालोकचक्षुरादयोऽपि प्रतिपत्तिनिमित्तं भवन्ति, न च ते प्रमाण| मिति ॥ १२६ ॥ एतदेव दूषययितुमाशङ्कमान आह ज पडिवत्तिणिमित्तं सर्व माणंति हंत विसओवि । पाव पमाणमेव इच्छिजइ सोवयारेणं ॥ १२७ ॥ यदि प्रतिपत्तिनिमित्तं सर्वं मानमिष्यते, अत्र सर्वशब्दो नियमार्थः, यदि प्रतिपत्तिनिमित्तं मानमेवेत्यर्थः, यथा सर्व कृतक मनित्यमित्यत्र कृतकमनित्यमेवेति इतिशब्दस्तस्मादर्थे, ततो हन्त विषयोऽपि उपलक्षणत्वादालोकादयोऽपि प्राप्नोति प्रमाणं, 'एवं' प्रतिपत्तिनिमित्ततामात्रप्रामाण्याभ्युपगमे, आचार्य आह-' इच्छिजइ सोवयारेणति' 'सोऽपि' विषयोऽपि आस्तां तावत् ज्ञानमित्यपिशब्दार्थः । उपलक्षणमेतत्, आलोकादयोऽपि उपचारेण संग्रहणिः, ॥६६॥ Page #137 -------------------------------------------------------------------------- ________________ GANGACASSAMACHAR गोण्या वृत्त्या इष्यते प्रमाणम् । ततो नातिप्रसङ्गो दोषाय । न ह्यभ्युपगमा एवं बाधायै भवन्ति ॥ १२७ ॥ उपचारश्च मुख्यापेक्ष इति, मुख्यं प्रमाणमुपदिशन्नाह णिच्छयओ पुण एत्थं पडिवत्ती चेव होइ माणं तु ॥ तीए [य] दोण्हवि भावे ण तं पमाणंति वामोहो ॥ १२८ ॥ 'निश्चयतः' परमार्थेन मुख्यवृत्त्येतियावत् पुनःशब्दो वाक्यभेदे 'अत्र' प्रमाणविचारप्रक्रमे प्रतिपत्तिरेव अर्थग्रहणपरिणामलक्षणा भवति 'मानं' प्रमाणम्, प्रतिपद्यतेऽर्थोऽनयेति प्रतिपत्तिरितिकृत्वा । तुः पूरणे । 'इय पडिवत्तिनिमित्तं चे' त्यत्र तु प्रतिपत्तिशब्दो भावसाधनो विवक्षितः, तथाप्रकरणात्, तस्याश्च निमित्तमनुमानमर्थग्रहणपरिणामात्मकप्रतिपत्त्याश्रयत्वात् । कथं पुनरन्यत् प्रमाणं निश्चयतो न भवतीति चेत् ? उच्यते-इह तदेव प्रमाणं यत इयं प्रमेयाधिगतिरव्यवधानेन खतत्त्वं प्रतिलभते, प्रमीयतेऽनेनेति प्रमाणमिति करणे व्युत्पादनात् । करणं हि नाम कारकं तदुच्यते यक्रियाया अन्यं भेदकं, तचान्त्यं भेदकं यस्य कारकस्य भेदव्यापारः, सर्वेषामपि कादि कारकाणां भेदकत्वेऽपि तदन्यतमेन भेदकान्तरेणापेक्षणीयेन व्यवधीयते किन्तु तद्भेदेनैव क्रिया भिद्यते, प्रमेया-- दाधिगतिक्रियायाश्चान्यं भेदकं ज्ञानस्य प्रमेयार्थग्रहणपरिणामलक्षणम्, तद्वशादेव बोधरूपतया अविशिष्टस्यापि SACSCALCCACANCSCANCER-C Jain Fधर्म. For Private & Personel Use Only Plww.jainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ धर्म ॥ ६७ ॥ Jain Education ज्ञानस्य प्रतिकर्म विभागोपपत्तेः, यथा नीलस्येदमदः पीतस्येति । ततः स एवार्थग्रहणपरिणामः प्रमाणं न त्वन्यदिन्द्रियादिकम्, ततो ज्ञानस्य प्रतिकर्म्म व्यवस्थानुपपत्तेः । तथाहि – नेन्द्रियाणि प्रतिविषयं ज्ञानस्य भेदकानि, | अशेषनीलपीतादिविज्ञान साधारणत्वात्, तानि हि यथा पाटवादिगुणोपेतानि नीलविज्ञाने कारणत्वेन व्याप्रियन्ते तथा पीतविज्ञानेऽपीति, एतेनालोकोऽपि प्रमाणत्वेनाभ्युपगम्यमानः प्रतिक्षिप्तो द्रष्टव्यः, तस्याप्यशेषविज्ञानसाधारणतया विज्ञानस्य प्रतिविपयव्यवस्थाहेतुत्वायोगात्, अर्थस्तु यद्यपि खरूपेण भिन्नत्वाद्भेदकस्तथापि नैवासौ ज्ञानविशेषव्यवस्थानिमित्तं स हि अद्याप्यज्ञातः, अज्ञातेन च तेन विज्ञानमनुभूयमानं संसृष्टमित्येव न विज्ञातुं शक्यं, किं पुनस्तत्संसर्गितया विशिष्टं व्यवस्थापयितुमिति । एवमिन्द्रियार्थसन्निकर्षोऽपि प्रत्यर्थ भिद्यमानो ज्ञानस्य प्रतिविषयव्यवस्थाहेतुः परिकल्प्यमानो निराकृतो द्रष्टव्यः, अज्ञातत्वेन तस्यापि प्रतिविषयव्यवस्थाहेतुत्वायोगात्, इतश्च नासौ प्रमाणं, सर्वात्मना सन्निकर्षेऽपि कैश्चिदेव धम्मैः प्रतिपत्तेः, अर्थाधिगमनिमित्तं हि प्रमाणम् इष्यते, | सन्निकर्षश्चेदर्थाभिगमनिमित्तं ततः सर्वात्मना सन्निकृष्टे वस्तुनि सर्वैरेव खपरपर्यायैस्तद्विपया प्रतिपत्तिरुत्पद्येत, न चोत्पद्यते, तस्मान्नैवासौ प्रमाणम् । यदप्युच्यते मीमांसकै: - 'प्रथममालोचनाज्ञानं निर्विकल्पकं विकल्पविज्ञानस्य निमित्तं सत् प्रमाणम्, तेषां हि मतेनालोचनाज्ञानप्रभृतीनां प्राप्तिज्ञानपर्यन्तानां पूर्व पूर्व प्रमाणमुत्तरमुत्तरं तु फलमिति' । तदप्यसमीचीनम्, आलोचनाज्ञानस्य विवक्षितार्थग्रहण परिणामाभावे तस्य तदर्थालोचनत्वस्यैवासिद्धेः । संग्रहणिः ॥ ६७ ॥ . I Page #139 -------------------------------------------------------------------------- ________________ Jain Education यदि नीलस्यार्थस्यैतदालोचनं इति सिद्ध्येत् तदा तस्योत्तरकालभाविनं तद्विशेपविषयं विकल्पं प्रति प्रामाण्यं भवेत्, यावता विवक्षितार्थग्रहण परिणामाभावात् तस्य तदर्थालोचनमेवासिद्धमिति कुतस्तस्य प्रामाण्यमिति ? । तथा यदपि नैयायिकवैशेषिकैर्विशेषणज्ञानं प्रमाणं विशेष्यज्ञानं फलमिति प्रतिपन्नम्, तदपि न विचारक्षमम्, विशेपणज्ञानस्य विशेषणलक्षणार्थग्रहणपरिणामाभावे विशेष्यज्ञानात्खार्थग्रहण परिणाम विकला द्विशेषव्यवस्थाया एवानुपपत्तेः । यदि हि विशेष्यविशेषणज्ञानयोर्विभागः कर्तुं शक्येत - इदं विशेष्यज्ञानं इदं तु विशेषणज्ञानमिति तदा स्यादपि विशेष्यज्ञानं प्रति विशेषणज्ञानं प्रमाणम्, यदा तु खखार्थग्रहणपरिणामाभावादुभयोरपि विभाग एव कर्तुं न शक्यते तदा कथं विशेष्यज्ञानं प्रति विशेषणज्ञानं प्रमाणं भवितुमर्हति ? । अपि च- क्रियायाः साधनस्य च विषयनानात्वं न युज्यते, तथादर्शनाभावात्, न हि धवादावुत्पतननिपतनव्यापारवति परशौ ततोऽन्यत्र छिदिक्रिया भवन्ती दृश्यते, तत इहाप्यन्यत्रैव विशेषणज्ञानं प्रमाणभूतं व्यापृतमन्यत्रैव च विशेष्यज्ञानं तत्फलभूतमिति व्याहतमेतत् तन्न विशेषणज्ञानं विशेष्याधिगतिक्रियां प्रति प्रमाणम् । अथ मा प्रापदयं दोष इति विशेषणविशेष्यज्ञानयोरभिन्नविषयत्वमभ्युपगम्यते, तर्हि द्वयकल्पना व्यर्था, विशेषणज्ञानेनैव तस्यार्थस्याधिगतत्वेन विशेष्यज्ञानस्याकिंचित्करत्वात् । एतच्चालोचनाज्ञानोत्तरविकल्पज्ञानयोरपि दूषणं वाच्यम्, तत्रापि ह्येकविषयत्वे सति उत्तरविकल्पज्ञानस्य वैय्यर्थ्य, भिन्नविषयत्वे क्रियासाधनविषयनानात्वविरोध इति । तथा यदप्युच्यते- ज्ञानस्य प्रमे Page #140 -------------------------------------------------------------------------- ________________ R धर्म ॥६ ॥ यसारूप्यं प्रमाणं, तदन्तरेण प्रमेयाधिगतिव्यवस्थानुपपत्तेः। तदुक्तम्-"अर्थेन घटयत्येनां, न हि मुक्त्वार्थरूपताम् । संग्रहणिः. तस्मात्प्रमेयाधिगतेः, प्रमाणं मेयरूपता ॥१॥" इति । तदप्ययुक्तम् , विज्ञानस्य प्रमेयसारूप्यायोगात्, अमूर्तस्य प्रतिबिम्बाभावात् , तथाहि-यदमूर्त न तत् प्रतिविम्बवत् , यथाकाशम् , अमूर्तं च विज्ञानमिति । प्रतिबिम्ब हि प्रतिबिम्बवतो दर्पणादेः प्रतिबिम्ब्यजपाकुसुमादिवस्तुगतसन्निवेशविशेषानुकारी रूपसन्निवेशविशेषः, स च मूर्तानामेव धम्मो “रूप-रस-गन्ध-स्पर्शवन्तः पुदला" इति वचनप्रामाण्यात्, ततः प्रतिबिम्बं खाश्रयमूर्तत्वेन व्याप्यते, विज्ञानं चामूत, मूर्तिलक्षणायोगात्, रूपादिसंस्थानविशेषो मूर्तिरिति हि मूर्तिलक्षणम् , ततो विज्ञानादाश्रयात् मूर्तत्वेन व्यावर्तमानेन खव्याप्यमपि प्रतिविम्बं व्यावर्त्यत इति व्यापकानुपलब्धिरियम् । एतच्च दर्पणादय एव प्रतिबिम्ब्यजपाकुसुमादिसन्निधानविशेषतस्तथा तथा प्रतिबिम्बवत्तया परिणमन्ते इति प्रदेशान्तराभिव्यक्तमाचार्यस्यैवाभिप्रायमुपजीव्योच्यते । यदा तु न प्रतिबिम्ब्यवस्तुप्रतिबद्धच्छायाणुसंक्रमातिरेकेणादर्शके अन्यप्रतिबिम्बसंभव इति सूत्राभिप्रायोऽनुश्रीयते, तदानीमव्याप्तिदोषो द्रष्टव्यः अनुमानज्ञानानां, तद्विषयस्य देशकालादिविप्रकृष्टतया तत्प्रतिवद्धच्छायाणुसंक्रमाभावेन सारूप्यायोगतः प्रामाण्यानुपपत्तेः । अमुं च सूत्राभिप्रायमाचार्यः खयमेव सर्वज्ञ-15 सिद्धौ विस्तरतरकेणाभिधास्यत इति नेह प्रतायते । अस्तु वा यथा कथंचन ज्ञानेऽपि अनुमानज्ञानस्यापि च सारूप्यं, तथापि न तत्प्रमाणं, विकल्पाभ्यामयोगात् । तथाहि-स सर्वात्मना वा सारूप्यं स्यादेकदेशेन वा?, न तावत्स ECORRESSESE Jain Education For Private & Personel Use Only Pl Page #141 -------------------------------------------------------------------------- ________________ ESSAMROSA त्मिना, तथा सति ज्ञानस्याज्ञानत्वप्रसङ्गात् , सर्वात्मना हि (सामान्य) सारूप्यं, सकलभेदापगमे चार्थ एव स्वादपरार्थव्यक्तिवद्, न ज्ञानम् । अथैकदेशेन तर्हि सर्व सर्वस्य परिच्छेदकं स्यात् , सर्वस्यापि ज्ञानस्य सर्वैरपि वस्तुभिः सह केनचिदंशेनान्ततःप्रमेयत्वादिना समानत्वसंभवात् । तथा चैतदेव भवदाचार्योऽपि धर्मकीर्तिर्विज्ञाननयप्रस्थानेऽभिधत्ते-"सर्वात्मना हि सारूप्ये, ज्ञानमज्ञानतां व्रजेत् । साम्ये केनचिदंशेन, स्यात्सर्व सर्ववेदनम् ॥१॥"। अपि चसारूप्यप्रामाण्याभ्युपगमे अतिप्रसङ्गापत्तिः, तथाहि-प्रमितिक्रियानिमित्त प्रमाणं, सारूप्यं चेत् प्रमितिक्रियानि|मित्तमिष्यते ततः कदाचित् पूर्वविज्ञानस्यापि ग्रहणप्रसङ्गः, तस्यापि विषयेण सह तुल्ययोगक्षेमत्वात् । तथाहि-18 कस्यापि पुंसः कदाचित् प्रथमं तावदेकं पुरोवर्तिनीलखलक्षणग्रहणप्रवणं नीलप्रतिभासं विज्ञानमुदयते, तस्मादेव च समनन्तरप्रत्ययीभूतात् द्वितीयमपि नीलप्रतिभासं विज्ञानम् उपजायते, तत्र च यथोत्तरस्मिन् विज्ञाने विच्छिन्नो ग्राह्याकारो वाह्य इव प्रतिभासते तथा पूर्वस्मिन्नपि, ततो यथोत्तरविज्ञानस्य बाह्येन विषयेण सह सारूप्यमस्ति तथा पूर्वविज्ञानेनापि । अपि च-बाह्येन सह सारूप्यं नीलादित्वमात्रेण, पूर्वविज्ञानेन पुनः सर्वात्मना, ततश्च यथा सारूप्याबाह्यार्थस्याधिगतिस्तथा पूर्वविज्ञानस्यापि स्यात्, विशेषाभावात् । उक्तं च-"यथा नीलादिरूपत्वानीलाद्यनुभवो मतः । तथानुभवसारूप्यात्तस्याप्यनुभवो भवेत् ॥ १॥" न च भवति, तस्मान्नैव सारूप्यं प्रमाणं,8 किंतु यतो निमित्तविशेषात् सारूप्याविशेषेऽपि नियतविषया प्रतिपत्तिरुत्पद्यते स एव निमित्तविशेषोऽर्थग्रहणपरि ROGALAXMICO Jain Education For Private & Personel Use Only Plww.jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ धर्म Pणामलक्षणः प्रमाणम् । यदि त्वर्थग्रहणपरिणाम एव सारूप्यमित्युच्यते, तदा न काचिदावयोर्विप्रतिपत्तिः, नाम्नि || संग्रहणिः. विवादाभावात्। तदेवं निश्चयतःप्रमाणमभिधाय सांप्रतमुपचारनिवन्धनं प्रामाण्यमर्थज्ञानयोरविशेषेणोपपादयन्नाह'तीए य इत्यादि, 'तस्याश्च' अर्थग्रहणपरिणामलक्षणायाः प्रतिपचे योरप्यर्थज्ञानयोर्भावे सति भवन्त्या योऽसौ विषयो न स प्रमाणं, किंतु ज्ञानमेवेति व्यामोह एषः, तथाहि-यथा ज्ञानस्यार्थग्रहणपरिणामो ज्ञाने सत्येव भवति न तदभावे, तथा बाह्यार्थस्यापि भावे सति भवति न तदभावे, अन्यथा निर्विषयत्वेन तस्याप्रामाण्यप्रसङ्गात्, ततश्च यथा ज्ञानं तन्निबन्धनत्वादुपचारेण प्रमाणमिष्यते तथा विषयोऽपीप्यतामुपचारनिमित्ताविशेषात्, तथापि चेद्विषयस्य प्रामाण्योपचारप्रतिषेधस्तर्हि व्यामोह एषः, युक्तिवैकल्यादिति स्थितम् ॥ १२८ ॥ अधिकृत एवार्थे | परस्याशङ्काशेषमपनेतुकाम आह तुल्लाणं वभिचारा तमप्पमाणंति किन्न पञ्चक्खं ? । तेसिं विसेसभावा इतरेसुवि किं ण सो अत्थि ? ॥ १२९ ॥ ॥६९॥ | स्यादेतत् , क्वचित्संवाददर्शनादस्माभिरप्यनुमानस्य प्रामाण्यमभ्युपगन्तुमिष्यते, परं किं कुर्मो ?, यतः 'तुल्यानामपि' हेत्वाद्यवयवयुक्ततया प्रमाणाभिमतानुमानसदृशानामपि अनुमानानां व्यभिचारो दृश्यते, तस्मान्न तत्प्रमाणम **XXXS******** Page #143 -------------------------------------------------------------------------- ________________ गीकुर्मः । एतदुक्तं भवति-स श्यामस्तत्पुत्रत्वात् परिदृश्यमानपुत्रवदित्याद्यवयवोपेततया प्रमाणाभिमतानुमानतुल्यानामपि व्यभिचारो दृश्यते, ततस्तन्मात्रलक्षणकेऽनुमाने सर्वथाऽप्रामाण्याशङ्का न निवर्तते, यथा यस्मादेताशमेवान्यदनुमानं व्यभिचरत् दृष्टं तस्मान्नैतदपि प्रमाणाभिमतमनुमानं प्रमाणं युक्तम् , यस्तु संवादः स कुतश्चिन्निमितात्काकतालीय इति । अत्राचार्यः प्रतिबन्दिग्रहेणाह-'किन्न पचक्खमिति' यदि तत्तुल्यव्यभिचारदर्शनात्सर्वत्रानावासापत्त्या अनुमानमप्रमाणमुद्गीयते, ततः प्रत्यक्षमपि किं नाप्रमाणमुद्गीर्यते ?, तदपि हि मरुमरीचिकानिच-18 यविषये जलोल्लेखि प्रादुर्भवत् विसंवादि दृष्टमतः सर्वत्राप्यनाश्वासापत्त्या सर्वस्यापि प्रत्यक्षस्याप्रामाण्यप्रसङ्गो दुर्निवारः। पर आह-'तेसि विसेसभावा' तेषां प्रत्यक्षाणां विशेषभावात्-तत्प्रत्यक्षस्याप्रमाणभावान्न तस्य सर्वत्राप्यप्रामाण्यप्रसङ्गः। एतदुक्तं भवति-यदिन्द्रियसागुण्यादिसामग्रीविशेषसंपादितसत्ताकं तत् प्रमाणं, न च तस्य वापि विसंवादोऽस्ति । इतरस्तु (तु) तदाभासं, न च तद्बाधने प्रमाणाभिमतस्य प्रत्यक्षस्य कश्चिद्याघातो, भिन्नजातीयत्वादिति । आचार्य आह-"इतरेसुवि किन्न सो अथित्ति' इतरेष्वपि अनुमानेषु किं न 'स' प्रमाणतदाभासलक्षणो विशेषोऽस्ति ?, अस्त्येवेति भावः । तथाहि-न हेत्वाद्यवयवमात्रजनितत्वमनुमानलक्षणं, किंतु साध्यार्थान्यथानुपपनहेतुदर्शनतत्संबन्धस्मरणजनितत्वं, न चैतल्लक्षणोपेतमनुमानं वापि व्यभिचरति । यत्तु तत्पुत्रत्वादिहेत्वाद्यवयवमात्रजनितं तत्तदाभासं, तत्पुत्रत्वादिकस्य हेतोः साध्यार्थान्यथानुपपन्नत्वाभावात् , न च तद्वाधने प्रमाणाभिमत Jain Education For Private & Personel Use Only Page #144 -------------------------------------------------------------------------- ________________ संग्रमित ॥७०॥ स्यानुमानस्य कश्चिद्याघातो, भिन्नजातीयत्वात् । तस्मादनुमानमपि प्रत्यक्षवत् प्रमाणमेवेति स्थितम् ॥ १२९ ॥ अधि- कृत एवार्थे दूषणान्तरमप्यभिधित्सुराह किं च पडिसेहगं तं अणुमाणं?, अह भवे अणुवलद्धी। पञ्चक्खणुमाणेहिं भणियमिहं णणु पबंधेणं ॥ १३०॥ किमिति परप्रश्ने, चशब्दो दूषणान्तरसमुच्चये। येनानुमानेनात्मनः प्रतिषेधः कर्तुमिष्यते तदनुमानं प्रतिषेध किं स्यात् ?, नैव किंचिदित्यभिप्रायः । अपरस्याभिप्रायमाशङ्कते--'अथ भवेदनुपलब्धि'रिति अथ स्याद् इयं मतिः परस्य भवेदात्मप्रतिषेधकमनुमानं प्रमाणमनुपलब्धिः , अन्यस्य प्रतिषेधे व्यापारायोगात् । अत्राह-'पञ्चक्खेत्यादि 'इह' अस्यामनुपलब्धौ यद्वक्तव्यं तद्भणितं 'प्रबन्धेन' विस्तरेण प्रत्यक्षानुमानाभ्यामात्मप्रतिषेधकत्वेन विचार्यमाणाभ्यां, प्रत्यक्षप्रस्तावेऽनुमानप्रस्तावे चेत्यर्थः । तत्र प्रत्यक्षप्रस्तावे 'सिद्धो यऽविणाभावो तेण समं तीऍ किं भवतो' इत्यादिना, अनुमानप्रस्तावे च "नो तयं तुह पमाणमित्यादिनेति"। तस्मानानुमानमप्यात्मनः प्रतिषेधकम् ॥१३०॥ तदेवमात्मनोऽस्तित्वं चैतन्यस्य धर्मादित्वान्यथानुपपत्तितस्तत्प्रतिषेधकप्रत्यक्षानुमानप्रमाणाभावाच प्रसाध्य सांप्रतं आगमतस्तत्प्रसाधयन्नाह आगमतो चिय सिद्धो जं उवओगादिलक्खणो जीवो। Jain Education a l For Private & Personel Use Only Page #145 -------------------------------------------------------------------------- ________________ आहिंडइ संसारं सुच्चइ सवण्णुवयणम्मि ॥ १३१ ॥ ___ आगच्छति गुरुपारम्पर्येणेत्यागमः ततोऽपि च सिद्ध आत्मेति प्रकरणाद्गम्यते । कथमित्याह-'यद्' यस्मात् श्रूयते| 'सर्वज्ञवचने' सर्व जानातीति सर्वज्ञस्तस्य वचनं द्वादशाङ्गं गणिपिटकम् अर्थतस्तेन प्रणीतत्वात् सर्वज्ञवचनं तस्मिन् यदुत-उपयोगादिलक्षणो जीवः 'आहिण्डते' भ्रमति संसारमिति ॥१३१॥ इह कैश्चिदागमस्य बाह्यार्थ प्रति प्रामाण्यं नाभ्युपगम्यते, यत्र तु वक्तुरभिप्रायोऽभ्युपगम्यते यथा-"वक्तव्यापारविषयो, योऽर्थो बुद्धौ प्रकाशते ।प्रामाण्यं तत्र शब्दस्येति” तत्रानुमानेऽन्तर्भाव्यते, यदाहुः-“वक्तुरभिप्रेतं तु सूचयेयु"रिति, स एव वक्ता विशिष्टाभिप्रायसंबन्धिहतया प्रत्याय्यमानो धर्मी, अभिप्रायविशेषः साध्यः, शब्दः साधनमिति" । अतस्तन्मतविकुट्टनार्थमिदमाह अस्स य पमाणभावं माणंतरयं च उवरि वोच्छामि । ___णासंगतमेत्तेणं वादीणं वत्थुणोऽभावो ॥ १३२ ॥ 'अस्य च' आगमस्य प्रमाणभावं' प्रामाण्यं 'मानान्तरतांच' प्रमाणान्तरतांचानुमानादित्यपेक्षते, 'उपरि'सर्वज्ञसिद्धौ वक्ष्यामीति तत एवेहावधार्यम् । यत्पुनरुक्तं प्राक् 'आगमपमुहेसुं पुण सबेवि न संगया पायं । ता कहमागमपमुहा होति पमाणा उइति। तदतीवायुक्तम् । यत आह-'नासंगयेत्यादि' न परस्परं वादिनाम् 'असंगतत्वमात्रेण' असंगता MICROSORRECAUCRACK JainEducation: W ww.jainelibrary.org Page #146 -------------------------------------------------------------------------- ________________ 1964 धर्म॥७॥ "भवितुमर्हति, तदानणं इत्युक्ताबापू वादनकान्तिकत्वमु भिप्रायमात्रेण 'वस्तुनो' घटादेरभावः। न हि वस्तु प्रवाद्यभिप्रायनिमित्तं, येन तदसंगतत्वे वस्तुनोऽप्यभावः स्यात्, किंतु | संग्रहणिः खकारणकलापनिमित्तम् । ततश्चायमप्यागमो यथावस्थितपदार्थप्रकाशनस्वभावतया खयं प्रमाणं सन् परस्परं वादि-15 नामसंगताभिप्रायत्वमात्रेण नाप्रमाणं भवितुमर्हति, तदभिप्रायनिमित्तप्रामाण्यानभ्युपगमात् । इहाभिप्रायविशेपेणैव वादिनो वस्तु प्रति परस्परमसंगता न खरूपेणेति 'असंगयमेत्तेणं' इत्युक्तावपि असंगताभिप्रायत्वमात्रेणेति व्याख्यातम् ॥१३२॥ तदेवं वादिनामसंगताभिप्रायत्वमात्रस्य वस्तुतथाभावाभावे प्रतिबन्धाभावादनैकान्तिकत्वमुद्भाव्य सांप्रतं साधारणानकान्तिकत्वमुपदर्शयन्नाह ण य संगया पवादी भूतेसुवि अह य ताणि विजंति । णजंति य एवं चिय आगमपक्खेवि को दोसो ? ॥ १३३॥ चशब्दो संगताभिप्रायत्वस्य साधारणानैकान्तिकत्वदोषसमुच्चयार्थः । न परस्परं 'संगताः' संगताभिप्राया वादिनो भूतेष्वपि' पृथिव्यादिषु । तथा चाहुरेके-“न सन्त्येव पृथिव्यादीनि भूतानि किंतु विज्ञानमात्रमेवेदमिति" । अपरे पुनराहुः-"प्रधानपरिणामरूपं जगदित्यादि" । अथ च तानि विद्यन्ते न पुनर्वादिनामुक्तप्रकारेणासंगताभिप्रायत्वमात्रेऽपि तेषामभावः, न च तानि प्रतिज्ञामात्रेण विद्यन्ते, किंतु ज्ञायन्ते च प्रत्यक्षादिना प्रमाणेन, एवमेव चिय SSCRACROCALCREASEAX For Private & Personel Use Only X w w.jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ CAMPOO शब्द एवकारार्थः, आगमपक्षेऽपि को दोपो ?, नैव कश्चिदित्यभिप्रायः। परस्परं वादिनामसंगताभिप्रायत्वमात्रेऽपि भूतानामिवागमस्यापि खरूपभ्रंशाभावात् । तस्मादागमः प्रमाणं, प्रमाणत्वाचातः सिद्धो जीवः सुसिद्ध इति । यदप्युक्तं-"कथमिदं ज्ञायते 'जीवो अणाइनिहणो नाणावरणाइकम्मसंजुत्तो' इत्यादिकं जीवास्तित्वप्रतिपादकं वचः प्रमाणम् , इदं तु-पृथिव्यप्तेजोवायुरित्यादि न प्रमाणं, तस्मादत्र किंचिनियामकं वक्तव्यं, तच नास्तीति यत्किंचि| देतदिति" । तदप्ययुक्तम् , यत इह तदेव वचोऽतीन्द्रियविषये प्रमाणं यदविसंवादि, अविसंवादश्च तदभिधेयस्यार्थस्य प्रत्यक्षस्थानुमेयस्य वा यथाक्रमं प्रत्यक्षेणानुमानेन वा ग्रहणं परस्परमव्याघातश्च, एवंभूतश्चाविसंवादोऽस्मिन्नाहते वचसि तावदुपलभ्यत एव । तथाहि-तत्रास्ति प्रत्यक्षत्वेनाभिमतस्यार्थस्य प्रत्यक्षेण ग्रहणम् , यथा-"से जहानामए केइ पुरिसे अवत्तं सदं सुणेज्जा, तेणं सहोत्ति उग्गहिए, नो चेवणं जाणइ-के वेस सद्देत्ति, ततो ईहं पविसई" इत्यादिना सूत्रेण शब्दादीनां श्रावणावग्रहादिरूपप्रत्यक्षगोचरत्वेनाभिहितानां तथैव ग्रहणम् । अनुमेयत्वेनाभिमतस्यापि चास्त्यनुमानेन ग्रहणम् , यथा-"किं सासए असासए जीए ?, गोयमा ! सिय सासए सिय असासए, १ स यथानामकः कश्चित्पुरुषोऽव्यक्तं शब्दं शृणुयात् तेन शब्द इति अवगृहीतं नो चैव जानाति-को वा एष शब्द इति, तत ईहां। प्रविशति । २ किं शाश्वतोऽशाश्वतो जीवः ?, गौतम ! स्यात् शाश्वतः स्यादशाश्वतः, तत् केनार्थेन भगवन् ! एवमुच्यते ? गौतम ! द्रव्या-15 |र्थिकतया शाश्वतो भावार्थिकतयाऽशाश्वतः । SECRECORRESPECRE RNCOMSGARL Jain Education nal For Private & Personel Use Only | Page #148 -------------------------------------------------------------------------- ________________ G ॥ ७२ ॥ Jain Education से केणट्टे णं भंते! एवं वुच्चइ १, गोयमा ! दचट्टयाए सासए भावट्टयाए असासए" इत्यादिनाऽभिहितस्य नित्यानि - त्यत्वस्य स्मरणाद्यन्यथानुपपत्त्या अवस्थाभेदान्यथानुपपत्त्या च ज्ञायमानत्वेनानुमेयतयाभिमतस्य तथैव ग्रहणम् । परस्पराव्याघातोऽपीह स्फुटोऽस्त्येव, यथा- जीवस्य बन्धमोक्षावभिधाय नित्यानित्यत्वाभिधानम्, एकान्तनित्यपक्षे अनित्यपक्षे च तयोः सर्वथानुपपद्यमानत्वात्, यथा चानुपपद्यमानत्वं तथोत्तरत्र खयमेवाचार्येण दर्शयिष्यते । तदेवमविसंवाददर्शनादिदमार्हतं वचस्तावत्प्रमाणमेव । तथा च वक्ष्यति — "दिद्वेणं इट्टेण य जम्मि विरोहो न हुज्ज उ कहिंचि । सो आगमोत्ति” । यत्पुनरेतत् " पृथिव्यप्तेजोवायुरिति तत्त्वानि । तत्समुदाये शरीरेन्द्रियविषयसंज्ञा” इति, तदप्रमाणम्, जीवसत्त्वाभ्युपगममन्तरेण पृथिव्यादिष्वेव भूतेषु जीवद्देवदत्तादिशरीरघटादिलक्षणेषु दृष्टस्य सचेतनाचेतनत्वरूपस्य वैचित्र्यस्य सर्वथानुपपद्यमानत्वात् तथैव प्राक् सप्रपञ्चं दर्शितत्वात् । एवं च " विज्ञानघन एवै - तेभ्यो भूतेभ्य" इत्याद्यपि यथाभिप्रायमुपन्यस्तमप्रमाणमवगन्तव्यम्, यथा च पुनरेतदपि वचो विमलमतयो व्याख्यानयन्ति तथा प्रमाणमेव, तथा व्याख्याने दृष्टस्य सचेतनाचेतनत्वलक्षणस्य वैचित्र्यस्य जातिस्मरणादेश्चोपपद्यमानत्वात् । तच्च व्याख्यानमिदम् -- ज्ञानदर्शनोपयोगलक्षणविज्ञानानन्यत्वाद्विज्ञानघनः, यद्वा प्रतिप्रदेश मनन्ताअनन्तविज्ञानपर्यायघटितत्वात् विज्ञानघन आत्मा, एतेभ्यो भूतेभ्यो घटादिरूपेभ्यो ज्ञेयेभ्यः सहकारिभ्यः समुत्थाय | समुत्पद्य घटविज्ञानादिभावेन, पुनस्तान्येव भूतानि घटादीनि विज्ञेयभावेन विनश्यन्ति सन्ति अनु प्रतीत्य तद्वि संग्रहणिः, ।। ७२ ।। Page #149 -------------------------------------------------------------------------- ________________ ARMERCISCERAKAR ज्ञानभावेन विनश्यति, तस्यार्थान्तरे उपयुक्तत्वात् , 'न प्रेत्य संज्ञास्तीति' न प्रेत्य-न प्राक्तनी घटविज्ञानादिरूपासंज्ञा तदाऽवतिष्ठते इति । अपरोऽर्थः-विज्ञानघन आत्मा, एतेभ्यो भूतेभ्यः समुत्थाय-समुत्पद्य पुनस्तान्येव विनश्यन्ति । सन्ति अनु-प्रतीत्य विनश्यति, यथा भौतिकपुरुषवादिभिरुच्यते इति, एतन्न, यस्मात्प्रेत्यसंज्ञाऽस्ति-प्रेत्यभावोऽस्ति, य एवायं प्रेत्य-परलोके देवो नारको वाऽभवत् स एवाधुना मनुष्यः संवृत्त इति प्रेत्यव्यवहारोऽस्तीतियावत् । तस्मादागमतोऽपि जीवः सिद्ध इति स्थितम् ॥ १३३ ॥ तदेवं प्रमाणतो जीवस्य सिद्धिमुपपाद्य सांप्रतं यद्यदाशङ्कय परेण | प्रतिक्षिप्तं तत्तत्समर्थयन्नाह जो पडिसेहेइ तथा स एव जीवोत्ति जुत्तमेयंपि । भूतेहिं चेतन्नं अण्णनिमित्तं जओ ठवियं ॥ १३४ ॥ ___ यः प्रतिषेधति जीवं स एव जीव इति यत् प्राक् आशङ्कितं, तदपि युक्तमेव, जीवमन्तरेणान्यस्याचेतनत्वेन प्रतिषेधकत्वायोगात् । तदेवाचेतनत्वमन्यस्य समर्थयते-भूएहिं इत्यादि' यतो-यस्माद्भुतेभ्यः-पृथिव्यादिभ्योऽन्यो यो जीवस्तन्निमित्तं चैतन्यं प्राक् स्थापितं-व्यवस्थापितं तत्कथं भूतानामात्मप्रतिषेधकत्वं स्यात् ? अचेतनत्वात् , यदन्यनिमित्तं च चैतन्यं प्राकू व्यवस्थापितं स सामर्थ्यादात्मैव, एतस्यैवानुरूपतया चैतन्यं प्रति धर्मित्वाद्युपपत्तेः । Jain Education Inted For Private & Personel Use Only T ww.jainelibrary.org Page #150 -------------------------------------------------------------------------- ________________ धर्म सच परिणामित्वात् सुरनारकादिपरिणामरूपेण परिणमते, सुरनारकादिभावश्च परलोकशब्दवाच्यो, यद्वक्ष्यति- संग्रहणिः सुरभावो होइ परलोगों' इति । तत आत्मा परलोक्यपि सिद्धः, तथा च सति यदभिहितं प्राक् 'नत्थि परलोगगामी जं भणिमोत्ति' तन्महामोहविजृम्भितमित्युपेक्षणीयम् ॥१३४॥ अधुना यथा आत्मनः सुरनारकादिरूपेण परिणमनं रे भवति तथोपपादयन्नाह संतस्स णत्थि णासो एगंतेणं ण यावि उप्पातो। अत्थि असंतस्स तओ एसो परलोगगामि व ॥ १३५॥ इह सतो वस्तुन एकान्तेन सर्वथा नैवास्ति विनाशः तदनन्तरमेवाव्यवधानेनोत्पद्यमानकपालादिपदार्थान्तरद-17 र्शनात् । यदि घटकपालयोरन्तरे कोऽपि क्षणो भावरूपताशून्य उपलभ्येत तदा स्यादेवं, यथा घटस्य सर्वथा विनाशः कपालानां चात्यन्तासतामुत्पाद इति, न चैवमुपलभ्यते, तस्मात् घटः कपालरूपेणैव परिणमते नतु सर्वथा विनश्यतीति निश्चीयते । अथ कथमुच्यते नैव सतः कस्यापि सर्वथा विनाशो ? यावता दीपतडागोदकादीनामनइन्वयोऽपि विनाशो दृष्टः, तत्र तदन्यविकारोपलम्भाभावात् , तद्वदन्येषामपि भविष्यतीति, तदप्ययुक्तम् , तत्रापि निरन्वयविनाशासिद्धेः, ततः प्रभृति विकारोपलम्भात् । दीपाद्धि तमः प्रादुर्भवत् उपलभ्यते, तच तमः पौगलिकं, न तु दीपाभावमात्रं, चक्षुपा गृह्यमाणत्वात् "छायोयोतातपाश्च पौद्गलिका" इति वचनप्रामाण्याच । तथा ARCHCCCCCRICROCOCCT ॥ ७३ JainEducationire For Private Personel Use Only Page #151 -------------------------------------------------------------------------- ________________ CCCCCCCCARGACROCESCA15 तडागोदकात् शीतः पवनः, अतस्तत्रापि दीपादेर्भावान्तरभाव एवाभावो न तु सर्वथा विनाशः। प्रमाणबाधितश्चासौ सतः सर्वथाविनाशाभ्युपगमः, तथाहि-यत् यदुपादानं तत्तद्रूपात्मकं, यथा मृदात्मकपिण्डोपादानो घटो मृदात्मकः, भावरूपघटोपादानश्च तद्विनाश इति । उपादानोपादेयभावो हि कार्यस्य कारणधर्मानुगमसंभवेन व्याप्तः, अन्यथाऽतिप्रसङ्गेन तद्यवस्थाऽनुपपत्तेरित्युक्तं प्राक, घटविनाशश्चेत् भावरूपघटोपादान इष्यते ततोऽवश्यं तस्य भावरूपताऽङ्गीकर्तव्या, तथा च सति न तस्य घटस्य सर्वथा विनाश इति स्थितम् । 'न चावि उप्पाओ। अत्थि असंतस्सेति' न चाप्येकान्तेनासतः-अविद्यमानस्योत्पादः, एकान्तेनासतस्तुच्छरूपतया तद्भवनशक्त्ययोगात्, अन्यथैकान्तेनासत्त्वायोगात्, तथापि चेत्तस्य सत्त्वरूपतया भवनमिष्यते तर्हि अतिप्रसङ्गः, खरविषाणस्याप्युत्पत्तिप्रसक्तेः, तद्भवनशक्त्यभावाविशेषात् । अपि चैवमभ्युपगमे सति विवक्षितभावोत्पादोऽसदुपादानोऽभ्युपगतः स्यात् , तथा |च सति तस्यासत्त्वापत्तिरेव, कूर्मरोमभ्य इवोपजायमानाया रजोः, अन्यथा कार्यस्य कारणधर्मानुगमसंभवाभावप्रसङ्गेन कार्यकारणव्यवस्थाविलोपप्रसङ्गात् , अतः स्थितमेतत्-नात्यन्तासत उत्पाद इति । 'तओ एसो परलोगगामित्ति' 'ततः' तस्मात्सतः सर्वथा विनाशाभावादत्सन्तासत उत्पादाभावाच 'एष' आत्मा परलोकगामी परलोकसुरत्वादिपर्यायस्तं गामी परलोकगामी परिणामित्वात् ॥ १३५ ॥ एतदेव भावयति बालाइपजवातो जुवादि जह होइ पज्जवो इहयं । Jain Education For Private & Personel Use Only Www.jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ संग्रहणिः. ॥ ७४ ॥ एवं मणुस्सभावा सुरभावो होइ परलोगो ॥ १३६ ॥ 'इह' जगति यथाकथंचिदवस्थितस्य मनुष्यस्य बालादिपर्यायादूज़ युवादिलक्षणः पर्यायो भवति, एवं जीवस्यापि | मनुष्यभावान सुरभावो भवति, स च सुरभावः 'परलोक' इति परलोकसंज्ञः, लोक्यत इति लोकः-मनुष्यत्वादिपर्यायः परो-मनुष्यत्वापेक्षया लोकः सुरत्वादिपर्यायः परलोकः, ततस्तत्संबन्धादात्मा परलोकीति स्थितम् ॥१३६॥ सांप्रतं यदवादीत् प्राक् “अस्थि पडिसेहगो इय चेयन्नविसिटकायमेत्तो उ' इति, तत् दूषयितुमुपक्रमते ण य पडिसेहोऽवि इहं कप्पइ चेतण्णसंगते काए। तस्सेवाभावातो ण कायमेत्ते य सो दिवो ॥ १३७ ॥ इह प्रतिपेधशब्दः कर्तृस्थक्रियावचनो, यथा देवदत्तस्य पाक इत्यत्र पाकशब्दः । ततश्च' प्रतिषेधोऽपि प्रतिषेध-1 कत्वव्यापारोऽपि 'न कल्पते' न घटते 'चैतन्यसंगते' चैतन्ययुक्ते काये। कुत इत्याह-'तस्सेवाभावाओ तस्यैवचैतन्यसंगतस्यैव कायस्याभावात् । न हि भूतानां धर्मः कार्य वा चैतन्यं येन तत्संगतः काय उपपद्यतेत्युक्तं प्राक । अथ मा भूचैतन्यसंगतत्वं कायस्य केवल एव कायःप्रतिषेधको भविष्यतीत्यारेकानिराकरणार्थमाह-'न कायमेत्ते ॥७४॥ Jain Education in For Private & Personel Use Only Www.jainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ Jain Education Inte यसो दिट्ठोत्ति' न च 'स' प्रतिषेधः प्रतिषेधकत्वलक्षणो व्यापारः 'कायमात्रे' केवल एव काये दृष्टो, मृतकाये तथादर्शनाभावात्, ततः पारिशेष्यादात्मैव प्रतिषेधक इति युक्तमुक्तं - 'यः प्रतिषेधति स एव जीवः' इति ॥ १३७ ॥ इदानीं 'दाणाइफलाभावा सो नत्थित्ति' यत् आशङ्कय दूषितं, तत् बुभूषयिषुरिदमाह - एतो चि णाभावो दाणादिफलस्स मणप्पसादादी | इलोम्मिविदिट्ठा परलोगे किं न जुत्तत्ति ? ॥ १३८ ॥ 'अत एव ' परलोकयायिनो जीवस्य सिद्धेरेव न दानादिक्रियाफलस्याभावः, एतदुक्तं भवति परेण हि 'न संगयमिदं पीत्यादि ' प्रतिपादयता दानादिक्रियाफलस्याभाव आपादितः, स इदानीमात्मनि परलोकयायिनि सिद्धे नैव युक्तः । कुत इत्याह- यस्मान्मनः प्रसादादय इहलोकेऽपि दानादिक्रियाफलत्वेन दृष्टाः, ततः परलोके 'किं' कस्मादानादिक्रियायाः फलं न युक्तं ?, युक्तमेवेति भावः, तत्साधकप्रमाणसंभवात् । इतिशब्दो वाक्यपरिसमाप्तौ ॥१३८॥ तत्साधकमेव प्रमाणमुपदर्शयति किरियाफलभावातो दाणादीणं फलं किसी एव । तं दिट्टं चैव मती जसकित्तीलाभमादीयं ॥ १३९ ॥ %% % 150w.jainelibrary.org Page #154 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ॥ ७५॥ AACACASSACROSAL अस्ति दानादिक्रियाणा फलमिति साध्यं, क्रियाया अवश्यं फलभावादिति हेतुः, कृषिक्रियाया इवेति दृष्टान्तः। प्रयोगश्चैवम्-या चेतनावतः परिस्पन्दात्मिका क्रिया सा नियमेन फलवती, यथा कृषिक्रिया, तथा च चेतनावतः परिस्पन्दात्मिका दानादिक्रियेति । अत्र चेतनावत्त्वविशेषणेन परमाण्वादिक्रियाव्युदासः, परिस्पन्दग्रहणेन च मुक्तात्मनां या प्रतिक्षणं सकलपदार्थपरिच्छेदरूपा क्रिया तस्याः प्रतिक्षेपः, अन्यथैताभ्या व्यभिचारः स्यादनयो रभिप्रेतफलेन फलवत्त्वाभावात् । अत्र हेतोरभिप्रेतादृष्टफललक्षणेन साध्येन सह प्रतिबन्धं सिसाधयिपुराचार्यस्ता६ वत्परस्य सिद्धसाधनमाशङ्कते-'तं दिट्टमित्यादि,' अथ स्यादियं मतिः परस्य-इष्यत एव दानादिक्रियायाः फलं, परं तत्फलं दृष्टमेव वशःकीर्तिलाभादिकं द्रष्टव्यं, न त्वदृष्टं पुण्यादि, तत्र पराक्रमकृतः श्लोको यशः, दानपुण्यकृतस्तु कीर्तिः, उक्तं च-“दानपुण्यकृता कीर्तिः, पराक्रमकृतं यशः” इति, लाभो धनाद्यवाप्तिः, अवसरे हि पुरुषविशेषाय दीयमानमल्पमपि विपुलधनादिलाभनिमित्तं भवतीति, आदिशब्दादपायरक्षादिपरिग्रहः । ततश्च सिद्धसाधनमेवेदमिति ॥१३९॥ अथ मन्यसे यशःकीर्तिलाभादिके दृष्टे फलेन विवादोऽस्ति, यद्विषया च विप्रतिपत्तिस्तदेव साध्यं नेतरत् , यथा परार्थाश्चक्षुरादय इत्यत्र पर आत्मा, अदृष्टफलविषया चावयोविपत्तिपत्तिरतस्तदेव साध्यं, तथा च कुतः सिद्धसाधनमित्याशङ्कय पर आह ॥ ७५॥ Jain Education Intem For Private & Personel Use Only XBw.jainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ SALMANORAMA इहरा य किसीएवि हु पावेइ अदिट्ठमेव तं पत्थि । तस्स परिणामरूवं सुहदुक्खफलं जतो भुजो ॥ १४० ॥ _ 'इतरथा'(च) दृष्टफलव्यतिरेकेणादृष्टफलेन दानादिक्रियायाः फलवत्त्वसाधने 'कृषेरपि कृषिक्रियाया अपि, हुशब्दोऽपि शब्दाथै, उक्तं च-"हु अविसद्दत्थम्मि वत्ति" स च भिन्नक्रमोऽदृष्टशब्दानन्तरं द्रष्टव्यः, एवकारस्तु प्राप्नोतिक्रियया अभिसंबध्यते, ततश्च कृषेरपि क्रियाया अदृष्टमपि फलं प्राप्नोत्येव, विशेषाभावात् , तथा च सति लोकवाधा, न ह्यदृष्टफलार्था लोके कृषिः प्रसिद्धा, किंतु दृष्टफलैवेति । अत्र प्रतिविधानमाह-तंपीत्यादि' तदपि-अदृष्टमपि कृषिक्रियायाः फलमस्ति, न केवलं दृष्टमित्यपिशब्दार्थः। तस्य कृषिक्रियाकर्तुः 'परिणामरूपमम्' अध्यवसायानुरूपं, 'यतो' यस्माद् दृष्टात् 'भूयः' पुनरपि भवान्तरे सुखदुःखलक्षणं फलं 'तस्य' कृषिक्रियाकर्तुर्भवति ॥ १४०॥ तदभावम्मि य मुत्ती पावइ णियमेण सबसत्ताणं । एवं च भवसमुद्दो ण घडइ पञ्चक्खदिट्ठोवि ॥ १४१ ॥ यदि पुनः कृष्यादिक्रिया अदृष्टसंज्ञकपुण्यापुण्यलक्षणफलनिबन्धनं नेष्यते तर्हि तस्य अदृष्टस्याभाव एव स्थात्, Jain Education in For Private & Personel Use Only kww.jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ धर्म ॥ ७६ ॥ Jain Education कारणान्तराभावात् तदभावे च सति सर्वेषामपि सत्त्वाना नियमेन मुक्तिः प्राप्नोति, मुक्तिविबन्धकपुण्यपापवि निर्मुक्तत्वात् । ' एवं च भवसमुद्दोत्ति' भवन्ति कर्म्मवशवर्त्तिनः प्राणिनोऽस्मिन्निति भवस्तिर्यग्मनुष्यादिपर्याय संततिः स एवातिविस्तीर्णतया समुद्र इव भवसमुद्रः स 'प्रत्यक्ष दृष्टोऽपि प्रत्यक्षत उपलभ्यमानोऽपि 'न घटेत' न युज्येत, मुक्तात्मनामिव पुण्यपापाभावात् । तस्मात्प्रत्यक्षसिद्धभवसमुद्रान्यथानुपपत्त्या अवश्यमदृष्टमभ्युपगन्तव्यम् ॥ १४१ ॥ इतश्चाभ्युपगन्तव्यं यस्मात् - तुल्लफलसाधगाणं तुलारंभाण इविसयम्मि । दीसइ य फलविसेसोस कहं अट्टिभावम्मि ? ॥ १४२ ॥ 'तुल्यफलसाधकानां' तुल्य आरम्भः कृष्यादिलक्षणो येषां तेषां यः खलु इष्टविषये दृश्यते 'फलविशेषः' प्राध्यप्रामिलक्षणः, स कथमदृष्टस्याभावे स्याद् ?, नैव स्यादित्यभिप्रायः । तत एकस्मिन्नेव विषये प्रवृत्तानां तुल्योपायानां फलवि| शेषान्यथानुपपत्त्यापि नियमाददृष्टमभ्युपगन्तव्यम् । तत्कारणत्वेन कृष्यादिकापि क्रिया ॥ १४२ ॥ एतदेवोपसंहरतिअदिगंतफला तम्हा किरिया इहं मता सवा | तिफला सावि अदिट्ठाणुभावेणं ॥ १४३ ॥ संग्रहणिः, ॥ ७६ ॥ Page #157 -------------------------------------------------------------------------- ________________ -CALCHAMOSAM तस्मादिह-जगति चेतनावतां या परिस्पन्दात्मिका क्रिया सा सवाप्यदृष्टैकान्तफला मता, अदृष्टमेकान्तेन-नियमेन फलं यस्याः सा अदृष्टैकान्तफला । उक्तं चा-"जाव णं एस जीवे एयइ वेयइ चलइ फंदइ घट्टइ खुब्भइ8 उदीरइ तं तं भावं परिणमइ ताव णं एस जीवे सत्तविहवंधए वा अट्टविहबंधए वा छबिहवंधए वा एगविहवंधए वा, नो चेव णं अबंधए सियत्ति"। एतामेव क्रियां विशेषयति-'दृष्टानेकान्त फला' दृष्टं धनलाभादि अनेकान्तं-सव्यभिचारं फलं यस्याः सा दृष्टानेकान्तफला, दृष्टं फलं कदाचिदस्या भवति कदाचिन्न भवतीत्यर्थः । सा इत्थंभूता कुत ? इत्याह-साऽपि अदृष्टानुभावेन पूर्वोपार्जिततथाविधादृष्टानुभवसामर्थेन । इह सर्वस्याप्यनन्तरोक्तस्यायमभिप्रायःइह चेतनावतश्चेष्टारूपा क्रिया अवश्यम दृष्टनिबन्धनम् , अन्यथा कारणान्तरासंभवेन तस्याभावप्रसङ्गतस्तन्निबन्धन-18 भवसमुद्राद्यनुपपत्तेः, तत इयं चेतनावतश्चेष्टारूपा क्रिया अदृष्टजननं प्रति कारणान्तरनिरपेक्षत्वेन व्याप्ता, एवं च है सति यदि तस्याः क्रियायाः संभवेऽपि अदृष्टं न भवेत् तर्हि तज्जननं प्रति कारणान्तरापेक्षा स्यादिति सापेक्षत्वं स्वव्यापकविरुद्धं प्रसज्येत, ततो विपक्षायापकविरुद्धोपलब्ध्या निवर्तमाना चेतनावतश्चेष्टारूपा क्रिया अदृष्टफल १ यावदेष जीव एजति वेदयते-चलति-स्पन्दते-घट्टयति-क्षुभ्यति-उदीरयति तं तं भावं परिणमति तावदेष जीवः सप्तविधबन्धको वाऽष्टCI विधबन्धको वा पविधबन्धको वा एकविधबन्धको बा, न चैव खलु अबन्धकः स्यादिति । I CROGRA Join Education Intel For Private & Personel Use Only Kinaw.jainelibrary.org Page #158 -------------------------------------------------------------------------- ________________ धर्म ॥ ७७ ॥ Jain Education In जनकत्वेन व्याप्यते इति प्रतिबन्धसिद्धिः । तच्चादृष्टं द्विधा - पुण्यरूपं पापरूपं च । तत्र पुण्यरूपं दानहिंसाविरत्यादिक्रियाजन्यमितरच तद्विपरीतक्रियाजन्यम् ॥ १४३ ॥ न च वाच्यमत्र विपर्ययः कस्मान्न भवतीति, यत आहविवज्जयमिव फलं लोगविरोहा पतीतिबाधातो । वहिदंसणातो तह जिणचंदागमातो य ॥ १४४ ॥ अत्र प्राकृतत्वात् तृतीयार्थे सप्तमी, यदाह पाणिनिः खप्राकृतलक्षणे - " तृतीयार्थे सप्तमी" । यथा - "तिसु तेसु अलंकिया पुहई" । ततश्च न विपर्ययेणापि क्रियायाः फलं संभावनीयं, यथा हिंसादिक्रियाभ्यः शुभं तद्विपरीत| क्रियाभ्यश्चाशुभमिति । कुत इत्याह- लोकविरोधात् न ह्येवं लोके कस्यापि प्रतीतिरस्ति यथा भवता विपर्ययेणोच्यते । अथ कदाचित्परो लोकमप्यतिक्रामेत्, यथा- न खलु लोको यथा प्रत्येति तथैव वस्त्वपि, किंत्वन्यथापि, यथा गगने श्यामता, ततो हेत्वन्तरमाह - 'प्रतीतिबाधातश्च' प्रतीतिः - प्रतीतिविषयः, विषयिणो विषयस्योपलक्षणत्वात्, प्रतीयमानोऽर्थ इतियावत्, न हि ज्ञानं स्वरूपेणार्थेन सह विरुध्यते, किंतु विपरीतमर्थमुपस्थापयत्, अत इह प्रतीतिरिति प्रतीतिविषयो व्याख्यातः, तया प्रतीत्या प्रतीतिविषयेण विपरीतेनार्थेन बाधातः । १ त्रिभिस्तैरलंकृता पृथिवी । संग्रहणिः. ॥ ७७ ॥ w Page #159 -------------------------------------------------------------------------- ________________ Jain Education Inter इदमुक्तं भवति---अशुभरूपस्यादृष्टस्य हिंसादिक्रियाजन्यत्वेन प्रतीयमानेन शुभरूपस्य च दानहिंसाविरत्यादिक्रियाजन्यत्वेन तद्विपरीतस्य कल्प्यमानस्यार्थस्य बाधनान्न विपर्ययेण फलं संभावनीयम् । सा च प्रतीतिर्युक्तत्यागमाभ्याम् । तत्र तावद्युक्तिमुपन्यस्यति - 'थे वसु हिदंसणाओ' स्तोकसुखिदर्शनात्, यदि हि दानादिक्रियादिभिरशुभरूपमदृष्टं जन्येत हिंसादिक्रियाभिव शुभं ततः सुखिबाहुल्यमुपलभ्येत, बहवो हि प्राणिनो हिंसादिक्रियास्वनवरतं प्रवर्त्तमाना उपलभ्यन्ते क्वचिदेव च दानहिंसाविरत्यादिक्रियासु, तदुक्तम् - "बहवः पापकर्माणो, विरलाः शुभकारिणः” इति । ततश्च प्रभूतानां प्रभूततरशुभ कर्मोपचयसंभवेन सुखबहुलता स्यात्, कतिपयानामेव च दुःखबहुलता, अथ च स्तोकाः सुखिन उपलभ्यन्ते वहवश्च दुःखिताः, ततः स्तोकसुखिदर्शनात् हिंसादिक्रियाजन्यमदृष्टमशुभरूपमितरश्च तद्विपरीतक्रियाजन्यमवसेयम् । ननु चेदं स्तोकसुखिदर्शनमसाधनं, निश्चयाभावात्, न हि सक|लदेशकालभाविभावस्वभावावभासि भवतो दर्शनमस्ति यतो यद्यप्यस्मिन् भरतक्षेत्रे स्तोकाः सुखिन उपलभ्यन्ते तथाऽन्यत्र वहवो भविष्यन्तीति संदिग्धासिद्धोऽयं हेतुरित्यत आह- 'तह जिणचंदागमाओ य' चशब्दो वाक्यभेदेन स्तोकसुखदर्शन साधने जिनचन्द्रागमस्य हेतुत्वद्योतनाय, तथा स्तोकसुखिदर्शकत्वेन यो जिनचन्द्रागमस्तस्मात्पुनरिदं स्तोकसुखिदर्शनं सिद्धमिति न संदिग्धम् । एतदुक्तं भवति - यद्यपि देशकालखभावविप्रकृष्टेषु भावेषु नास्मदादिप्रत्यक्षमुदयते, प्रायस्तत्पूर्वकत्वाच्च नानुमानमिति, तथापि भगवतो जिनस्य क्षीणाशेपज्ञानावरणीय कपट Page #160 -------------------------------------------------------------------------- ________________ - E धर्म ॥७८॥ NGAGROCCOCCASCIENCE लत्वात् केवलज्ञानप्रत्यक्षं तद्विषयमुदयते स्म, ततस्तद्वचनात् स्तोका जगति सुखिनः सिद्धा इति न संदिग्धासिद्धो संग्रहणिः, हेतुः॥१४४॥ स्यादेतत् , अस्तु हिंसादिक्रियाजन्यमदृष्टमशुभं तद्विपरीतक्रियाजन्यं च शुभं, तथापि शुभात्सुखमितरस्माच दुःखमिति कथमवसीयत इत्याशङ्कापनोदार्थमियमेव गाथा पुनरावय॑ते ___ण विवजयम्मिवि फलं लोगविरोहा पतीतिबाधातो। थेवसुहिदंसणातो तह जिणचंदागमातो य ॥ १४५ ॥ न विपर्ययेणादृष्टयोः शुभाशुभरूपयोः फलं संभावनीयम् । कुत इत्याह-लोकविरोधात्, न ह्येवं लोके प्रतीतिरस्ति । यथा भवता विपर्ययेणोच्यते, किंत्वन्यथा, तथा च लोके वक्तारो भवन्ति-कृतशुभकर्मायं चैत्रो यदित्थमनन्यसाधारणान् भोगान् भुङ्क्ते इति'। अथ कदाचित्परो लोकमप्यतिक्रामेत् यथाभिहितं प्राक अतो हेत्वन्तरमाहप्रतीतिबाधातश्चेति, अक्षरार्थः प्राग्वत् । सा च प्रतीतिर्युक्त्यागमाभ्यामतस्तावत् युक्तिमाह-स्तोकसुखिदर्शनात् ।। यदि हि अशुभात्सुखमितरस्माचासुखं ततो बहवः प्राणिनोऽशुभकारिण इति बहवः सुखिन उपलभ्येरन् !, न चोप-15॥ ७८॥ लभ्यन्ते, तस्मान्नाशुभात्सुखं किंतु शुभादेव । अपि चातीन्द्रियेष्वेवंविधेष्वर्थेषु निर्णीयमानेषु छद्मस्थानामविसंवादि. प्रमाणतया जिनवचनमेव प्रायो विजृम्भते, नान्यत्प्रत्यक्षादि, अविषयत्वात्। तत आह-तह जिणचंदागमाओ य| CROCHECRENCOMEDCOCONORG Jain Education in For Private & Personel Use Only w.jainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ अत्र तथेति हेत्वन्तराभिधानोद्गारोपक्षेपे, चशब्दस्तु समुच्चय इति । तदेवं दानादिक्रिया अवश्यमदृष्टमविपर्ययेण जनयति, तदपि चादृष्टमविपर्ययेण सुखादीत्युपपादितम् ॥ १४४ ॥ सांप्रतमदृष्टनिवन्धनदानादिक्रियान्यथानुपपत्त्या प्रकृतमुपसंहरति किरिया ण कत्तिरहिता सिद्धो जीवोत्ति ता इहं कत्ता । एवं धम्मियणायं विन्नेयं वयणमेत्तं तु ॥ १४५ ॥ क्रिया न कर्तृरहिता भवति, तथा लोकेऽदर्शनात् , न भवान्तरभाविसुखादिफलादृष्टजनिताया दानादिक्रियाया जीवमन्तरेणान्यः कश्चित्कर्लोपपद्यते, शरीरस्याचेतनत्वेन घटादेखि तत्कर्तृत्वायोगात्, अभ्युपगमे वा तस्य इहैव विनाशादन्य एव कर्ता अन्यच्च भवान्तरे तत्फलभोक्तेत्यनिष्टापत्तिः, तत इह जगति अदृष्टनिबन्धनदानादिक्रियायाः तकर्ता जीवः सिद्ध इति स्थितम् । एवं च सति यदुपहासाय धामिकज्ञातमुदीरितं तद्वचनमात्रमेव, दानादिफलाभावादित्यस्य सम्यग्भावार्थापरिज्ञानात् ॥ १४५॥ सांप्रतं यदुक्तं 'जातिस्मरणमसिद्धमिति तदूषयितुमुपक्रमते जाईसरणं च इहं दीसइ केसिंचि अवितहं लोए। पुत्वभवठवियसेवियसंवादातो अणेगभवं ॥ १४६ ॥ CANCHAR---- Jain धर्म.१४NCH For Private & Personel Use Only H w w.jainelibrary.org Page #162 -------------------------------------------------------------------------- ________________ धर्म ॥७९॥ - चशब्दोऽपिशब्दार्थे इह लोके जातिस्मरणमपि अनेकभवम्-अनेकभवविषयं केषांचिदसुमतामवितथार्थ दृश्यते । संग्रहणिः अवितथार्थत्वे हेतुमाह-'पुत्वभवठवियसेवियसंवादाउ'त्ति पूर्वस्मिन्भवे यत्स्थापितं धनादि यच सेवितं ख्यादि तस्य संवादो-यथाऽवगमप्राप्तिस्तदुक्तचिह्नादिमीलनं च तस्मात् ॥ १४६ ॥ अत्र पराभिप्रायमाशङ्कते अह तम्मि किं पमाणं ? णणु सो चिय अप्पतारगे किंति ? । बालस्सवि भावातो संवादो भावतो तस्स ॥ १४७ ॥ अथ मन्येथाः-तस्मिन्नविसंवादिजातिस्मरणे अस्तित्वेन निश्चेतुमिष्यमाणे किं प्रमाणं?, नैव किंचिदित्यभिप्रायः । न च प्रमाणमन्तरेण प्रमेयव्यवस्था युक्ता, मा प्रापदतिप्रसङ्गः । आचार्य आह–'नणु सो चिय'त्ति ननु स एव जातिस्मरणवान् प्रमाणम् , स ह्येवमाह-जातिस्मरणमविसंवादि मे समुत्पन्नमिति' । इतर आह–'अप्पतारगेट किं ति' स एवं वक्ता न विप्रतारक एवेत्यत्र किं प्रमाणं?, नैव किंचिदिति भावः । दृश्यन्ते ते हि केचित्क्रीडाद्यर्थमन्यथापि संवाद्याभासमाभाषमाणा इति । आचार्य आह-'संवादो भावओ तस्स'त्ति तस्य-जातिस्मरणवतो यो जातिस्मरणविषयो भावतः-परमार्थेन संवादः सोऽप्रतारकत्वनिश्चये प्रमाणम् । अथोच्येत-स तस्य भावतः संवादो न तु संवादाभास इत्येतदपि कथमवसीयत इत्यत आह-बालस्यापि भावात् , जातिस्मरणस्येति शेषः । एतदुक्तं ndRRHOICROCURRER 06 Jan Education interna For Private 3 Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ भवति-वालस्यापि सतो जातिस्मरणमुत्पद्यते, न च तस्य संवादो विप्रतारणबुद्धिनिर्मापितो, बालत्वेन तस्य बुद्धिशाट्याभावात्। एवमन्यत्रापि संवादस्तद्गुणपरिशीलनादिना लिङ्गविशेषेण भावतो बोद्धव्यः॥१४७॥ अत्र पर आह-- __ अह उ जहिच्छाहेतू सो संवादोत्ति किं न इतरोवि ? । ण य जातिस्सरवयणे इहं पसिद्धो विसंवादो ॥ १४८॥ तुशब्द एवकारार्थो भिन्नक्रमश्च । अथ मन्यसे-बालस्यापि संवन्धिनो जातिस्मरणस्य यः संवादः स यदृच्छा-1 हेतुरेव, तत्कथं संवादो भावतस्तस्येत्युच्यते, एतदुक्तं भवति-भूतानां चित्रखभावतया स्वप्नज्ञानमिव केषांचिदर्थतथाभावविकलं जातिस्मरणमुत्पद्यते, यस्तु क्वचित्तस्य संवादः सः काकतालीयो, यथा क्वचित् बाष्पादेधूमत्वेन निश्चितादग्यनुमाने तथैवाग्निसंवाद इति । अत्रोत्तरमाह--'किन्न इयरोऽवि' किन्न इतरोऽपि विसंवादो?, यथा कापि बाष्पादेरेव धूमत्वेन निश्चितादम्यनुमानेऽग्निविसंवाद इति, भवत्येवेति केचित् , अत आह-'न येत्यादि' न च कदाचिदपि जातिस्मरवचने 'इह' जगति 'प्रसिद्धो निश्चितः कापि विसंवादः, तथाऽनुपलम्भात् । 'जातिस्परे'ति जातिं स्मरतीति जातिस्मरः, "वुलत्रज्लिहादिभ्यश्चेति" लिहादित्वादच् । खकृताभ्युक्तमिति समासो, यथा जारभर इति ॥ १४८ ॥ पराभिप्रायमाह CARTOONROCOCCIENCERNA Jain Education For Private & Personel Use Only | Page #164 -------------------------------------------------------------------------- ________________ धर्म ॥ ८० ॥ Jain Education Intert दि कोई जाइस्सरोति तो णत्थि । एवं पपियामहस्तवि अच्चतं पावइ अभावो ॥ १४९ ॥ अह अम् अथ मन्येथाः - अस्माभिः कोऽपि न दृष्टो जातिस्मर इति, तस्मान्नैवासौ जातिस्मरोऽस्ति खरविषाणवत् । यदि हि स्यादस्माभिरप्युपलभ्येतेति भावः । अत्र दूषणमाह - 'एवमित्यादि' नन्वेवमुक्तप्रकारेण प्रपितामहस्याप्यत्यन्तमभावः प्राप्नोति, तद्विषयेऽपि भवतो दर्शनाभावात् ॥ १४९ ॥ ततः किमित्याह -- तदभावम्मि अभावो पितामहस्सावि तहय पितुणोऽवि । तदभावे भवतोऽवि य पडिसेहोऽसंगतो तम्हा ॥ १५० ॥ ' तदभावे' प्रपितामहाभावे पितामहस्याप्यभावः प्राप्नोति, प्रपितामहो हि पितामहस्य कारणं, न च कारणाभावे कार्य भवति, निर्हेतुकत्वप्रसङ्गात् । ततः प्रपितामहाभावे पितामहस्याप्यभावः प्राप्नोति । 'तह य पिउणोऽवित्ति' 'तथा च ' तेनैवानन्तरोक्तेन प्रकारेण पितुरप्यभावः प्राप्नोति, पितामहाभावे पितुरयोगात्, 'तदभावे' तस्यापि - पितुरभावे भवतोऽपि चाभावः प्राप्नोति, न्यायस्य समानत्वात् । तथा च सति प्रतिषेधोऽसङ्गतः, प्रतिषेधकस्यैवाभावात् ॥ १५० ॥ अत्र पराभिप्रायमाशङ्कमान आह संग्रहणिः. ॥ ८० ॥ w.jainelibrary.org Page #165 -------------------------------------------------------------------------- ________________ अह कज्जातो भावो पितामहादीणमेवमेवेहं । किं जाइस्सरकजं ण पसिद्धं देवकुलमादी ? ॥ १५१ ॥ ___ अथ पितामहादीनामादिशब्दात् प्रपितामहादिपरिग्रहः 'कार्यतः पितृलक्षणादेर्भावः-सत्ता अनुगम्यत इति मन्येथाः। अत्राह-एवमेवेहति इहापि जातिस्मरविषये एवमेव कार्यान्यथानुपपत्तित एव भावो निश्चेष्यते, ततो न किंचिन्नः क्षुण्णमिति । न च वाच्यं-जातिस्मरकार्यमसिद्धं, यत आह-'किं जाईत्यादि' जातिस्मरकार्य 'देवकुलादि' देवकुलं भृगुकच्छे शकुनिकाविहारे, आदिशब्दात्तदन्यैवंविधकार्यपरिग्रहः, किं भवतो न प्रसिद्धं ?, प्रसिद्धमेव, सकललोकप्रसिद्धत्वात् , तन्न जातिस्मरणमसिद्धम् । इतश्च नासिद्धं, संभवानुमानतो निश्चीयमानत्वात ॥१५१॥ तदेव संभवानुमानं भावयन्नाह बालकताणुस्सरणं तिवखओवसमभावजुत्तस्स । जह कस्सइ वुड्ढस्सवि जाइस्सरणं तहा किं ण ? ॥ १५२ ॥ यथा कस्यापि पुंसो वृद्धस्यापि सतस्तीव्रक्षयोपशमयुक्तस्य बालावस्थायामपि यत्कृतं तस्यानुस्मरणं भवति तथा Jain Education in For Private Personal use only w.jainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ धर्म | संग्रहणिः ॥८१॥ 5A525ACCIDESOLARS जातिस्मरणं किं न संभवति ?, संभवत्येवेति भावः। तावत्कालविषयस्यापि तत्कारणक्षयोपशमविशेषस्य संभवात्॥१५२॥ उपसंहारमाह इय संभवाणुमाणा सिद्धमिणं जं च भूतवतिरित्तं । साहियमिह चेयण्णं भूयसभावं ति तोऽजुत्तं ॥ १५३ ॥ 'इतिः' एवमुक्तप्रकारेण संभवानुमानादिदं-जातिस्मरणं सिद्धम् । यदप्यवादीत्-'भूतानां चित्रवभावतया खानज्ञानमिवार्थतथाभावविकलं जातिस्मरणमुत्पद्यत इति, तदप्ययुक्तम् , यत आह–'जं चेत्यादि' यत्-यस्मात्कारणादिह-ग्रन्थे प्राक् भूतव्यतिरिक्तं चैतन्यं प्रपञ्चेन साधितं, 'तो' तस्मादिदं चैतन्यं भूतखभावमित्ययुक्तम् । एतेन यदपि प्राक् 'थणाभिलासाओ चेव' इत्यत्र प्रतिविधानमभिहितं यथा-'भूयसहावाउ इयरं पित्ति, तदपि प्रतिक्षिसम-| वगन्तव्यम् । ततश्च यदस्माभिः प्राक् प्रत्यपादि-'यथा बालकस्य प्रथमत एवोत्पन्नस्य स्तनदर्शनानन्तरं स्तनादानेऽभिलाषो जायते स चाभिलाषः पूर्वमित्यादि यावदस्ति देहातिरिक्तः परलोकानुयायी जीव इति' तत्समीची- नमेव । अपि च-आस्तां तावदभिलाषस्यानुभवपूर्वकत्वात्परलोकयायी जीवः सिद्धः, किंत्वभिलाषान्तरपूर्वकत्वानुमानतोऽपि सिद्धः॥ १५३॥ एतदेवोपदर्शयन्नाह १॥ Jain Education Int! For Private & Personel Use Only Page #167 -------------------------------------------------------------------------- ________________ Jain Education In जो बाल भिलासो पढमो अहिलासपुवगो सोऽवि । अहिलासत्ता जूणो जह विलयाहारअहिलासो ॥ १५४ ॥ यो वालस्य स्तनाभिलाषः प्रथमः सोऽभिलाषपूर्वक एव । अपिशब्द एवकारार्थो भिन्नक्रमश्च, अभिलापत्वात्, यूनो विलयाहाराभिलापवदिति । ननु च न वहिर्व्याप्तिमात्रेण वस्तुनस्तथाभावः साधयितुं शक्यते, स श्यामस्त्वत्पुत्रत्वादित्यादिष्वपि गमकत्वप्रसङ्गात्, किंतु अन्तर्व्याया, सा चेह न विद्यते, प्रतिबन्धाभावात् ततः कथं साध्यसिद्धिः? । उक्तं च —– “अन्तर्व्याप्तेरप्रसिद्धिर्बहिश्चेद्याप्तिस्तस्यां साध्यसिद्धिर्न जातु । अन्यव्यायाऽन्यस्य सिद्धियदि स्यात्, , सर्वस्य स्यात्सर्वसिद्धिप्रसङ्गः ॥ १ ॥ इति” । अपि च- एवं सति इदमपि शक्यं वक्तुं - योऽभिलाषः सोऽवश्यमभिलाषान्तरजन को, यथा बालस्य प्रथमः स्तनाभिलाषः, ततश्चैवमविच्छेदेनाभिलापसंततिप्राप्तौ मोक्षाभावप्रसङ्ग इति, तदयुक्तम्, प्रतिबन्धभावतोऽन्तर्व्याप्तिसद्भावात् तथाहि-- अभिलाषो नाम अभीष्टवस्तुप्रात्यभिष्वङ्गः, स च लोभकर्म्मविपाकोदयजन्य इति तेन व्याप्तः, तदपि च लोभकर्म अभिलापादिसामग्रीविशेषजन्यं, तदभावे क्षीणमोहानामिव तद्बन्धाभावात्, तद्यदि प्राग्भवे अभिलापो न स्यात् ततस्तदभावे लोभकर्म्मणोऽप्यभावापत्तितः कुतस Page #168 -------------------------------------------------------------------------- ________________ धर्म ॥ ८२ ॥ Jain Education In %% दुदयनिमित्तः प्रथमस्तनाभिलापो भवेत् ?, ततो विपक्षाद्यापकानुपलब्ध्या व्यावर्त्तमानोऽभिलापान्तरपूर्वकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ॥ १५४ ॥ अत्र परो विशेषविरुद्धतामुद्भावयति - विलयाहारभिलासो इहअणुभूयाभिलासपुवो तु । सोऽवि सिया एवं चिय णो पढमत्तप्पकोवाओ ॥ १५५ ॥ यूनो विलयाहाराभिलाष इहभवानुभूताभिलाषपूर्वक एव दृष्टः, तुशब्द एवकारार्थः, ततश्च तद्दृष्टान्तावष्टम्भेन | सोऽपि प्रथमः स्तनाभिलाष 'एवं चिय'त्ति एवमेव इहभवानुभूताभिलाषपूर्वक एव स्यात्, तथा च सति कुतोऽस्मादप्यनुमानात् परलोकयायिनो जीवस्य सिद्धिरिति । अत्रोत्तरमाह- 'नो पढमत्तप्पकोपाओ' नेति परोक्तं प्रतिषेधति, कुत इत्याह — एवं सति प्रथमत्वस्य प्रथमत्वविशेषणस्य प्रकोपात्- निरर्थकापत्तेः । एतदुक्तं भवति - प्रथमत्व विशेषणे| नैव बालाद्यस्तनाभिलाषस्येहभवानुभूताभिलाषपूर्वकत्वं वाध्यते, तस्मिन् सति प्रथमत्वस्यायोगात्, ततश्च कुतोऽत्र विशेषविरुद्धता १, तलक्षणायोगात्, अयोगश्च - " विरुद्धोऽसति बाधने " इति वचनात् ॥ १५५ ॥ अपि च- दृष्टान्तवलेनैष विशेषविरुद्ध उद्घुप्यते, न च दृष्टान्तोऽप्येकान्तेन तथाभूतो, यत आहसोऽवि ण एतेणं इह णुभूयाभिलासपुवो तु । संग्रहणिः, ॥ ८२ ॥ Page #169 -------------------------------------------------------------------------- ________________ MASSACREALNALODCASEX जमणादौ संसारे तं णत्थि जतं ण अणुभूतं ॥ १५६ ॥ 'सोऽपि' विलयाहाराभिलाषो दृष्टान्तत्वेनोपात्तो न एकान्तेन इहभवानुभूताभिलाषपूर्वक एव, तुरेवकारार्थः। कुत इत्याह-'यत्' यस्मादनादौ संसारे तन्नास्ति यकन्नानुभूतं, किंतु सर्वमनुभूतमेव, तत्कथं दृष्टान्तबलेनैष प्रथमस्तनाभिलाष इहभवानुभूताभिलाषपूर्वक एव प्रसज्यत इति ॥१५६॥ अथ कदाचित् परो मन्येत-नास्य स्तनाभिलाषः, अव्यक्तत्वाद्, अपि त्वेवमेव प्रवृत्तिमात्रमिति, अतोऽनुमानान्तरमप्याह इय पढमं विन्नाणं विन्नाणंतरसमुन्भवं णेयं । विन्नाणत्तातो चिय जुवविन्नाणं व बालस्स ॥ १५७ ॥ इतिरेवमर्थे, एवं यथा स्तनाभिलापोऽभिलाषान्तरपूर्वको ज्ञातस्तथा प्रथम विज्ञान विज्ञानान्तरसमुद्भवं ज्ञेयं, विज्ञानत्वादेव, यथा युवविज्ञानं 'बालस्येति' वालावस्थाविज्ञानसमुद्भवम् ॥१५७॥ इह वस्तुनो नात्यन्तासत उत्पादो, नापि सतो निरन्वय एव विनाशः, किंतु कथंचित्सत एव भावान्तररूपतया परिणमनम् , ततो विज्ञानादेर्वस्तुनः खरूपमन्वयेन व्याप्त, विज्ञानं चेन्न विज्ञानान्तरपूर्वकं स्यात् तर्हि अन्ययविरुद्धोऽसन्तासत उत्पादोऽभ्युपगतः स्यात्, CHECONGRESSUROORKOREGAON Jain Education in For Private & Personel Use Only W w w.jainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ ANSACROCCOSORSCIENCESCSCR ततश्च विपक्षाद्यापकविरुद्धोपलब्ध्या व्यावर्तमानं विज्ञानं विज्ञानान्तरपूर्वकत्वेन व्याप्यत इति प्रतिवन्धसिद्धिःसंग्रहणिः, यत्पुनः-'प्रतिनियतालब्धवित्तलाभलब्धवित्तापहारसुखदुःखादिवैचित्र्यस्य नियामकमन्तरेणानुपपद्यमानत्वादित्याद्याशंक्य प्रतिपादितं भूतानामेव तथाखभावत्वतो वैचित्र्योपपत्तेर्यदाह-“जलवुद्बुदवज्जीवा" इत्यादि' तन्न साधीयः, प्रत्युत तस्य जीवसिद्धिनिमित्तत्वात् । तथाहि-न जलमात्रात्तद्बुद्बुदवैचित्र्यमुपपद्यते, निमित्ताविशेषतः सदा सर्वत्र चाविशेषेण तद्भावप्रसङ्गात्, ततो यथा जलबुद्धदे वैचित्र्यमन्यथानुपपद्यमानं पवनविशेषादि सहकारिकारण-18 मात्मनो गमयति, तथा भूतमात्रत्वाविशेषेऽपि नरपश्वादिरूपेण सुखित्वदुःखित्वादिरूपेण वा यत् प्रत्यात्मवैचित्र्यमुपलभ्यते तदन्यथाऽनुपपद्यमानमवश्यमदृष्टं गमयति, तदपि च विचित्रकार्यदर्शनाद्विचित्रम् , तदुक्तम्-"आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तचित्रमदृष्टं कर्मसंज्ञक ॥१॥" मित्येतदेवाह चित्तो कम्मसहावो भणिओ तत्तो य लाभहरणादी। सिद्धत्ति अस्थि जीवो तम्हा परलोगगामी तु ॥ १५८ ॥ 'चित्रो' नानारूपः कर्मणां-सातादिवेदनीयादीनां स्वभावो भणितः प्राक् । तत्र ‘अदिटुंगंतफले'त्यादिना सामा-18 न्यतः काभिहितं, कर्मण एवादृष्टशब्दवाच्यत्वात् , 'न विवजयम्मी'त्यादिना तु तस्यैव शुभाशुभभेदेन स्वभा For Private & Personel Use Only Page #171 -------------------------------------------------------------------------- ________________ ववैचित्र्यमिति । 'तत्तो य लाभहरणादी सिद्धत्ति' तत एव तस्मादेव चित्ररूपात्कर्मणः सकाशात् लाभहरणादिः सिद्धो, न तु भूतानां तथाखभावत्वतः, भेदकमन्तरेण तथाखभावत्वविशेषस्यैवासंभवात् , भेदकाभ्युपगमे च पर्यायतः दि कर्मण एवाभ्युपगमात्, तस्य च कर्मणः कारमन्तरेणानुपपद्यमानत्वात्तत्कर्तुस्तदन्यथाऽनुपपत्त्याऽनुमीयमानस्य जीवस्य पूर्वभवेऽप्यस्तित्वं सिद्धं, तस्मादस्त्येव जीवः परलोकगामी। तुरवधारणे भिन्नक्रमश्च स चास्तीति क्रियया सह योजित एव । एवं च सति यदुक्तं-'परलोकिनोऽभावात्, देवनारकत्वादिलक्षणपरलोकाभाव इत्यादि, तत्सर्वनमसमीचीनमेवेति स्थितम् ॥ १५८ ॥ ॥ भौतिकपुरुषवादिमतपरीक्षा समाप्ता ॥ NI इह 'जीवो अणाइनिहणो' इत्यादिद्वारगाथायां यत् जीव इत्युपात्तं तत्समर्थितम् , सांप्रतमनुक्रमप्राप्तम् 'अणादिनिहणो' इत्येतत्समर्थयमान आह जम्हा ण कित्तिमो सो तम्हाऽणादीत्थ कित्तिमत्ते य (उ)। वत्तत्वं जेण कतो सो किं जीवो अजीवो त्ति ? ॥ १५९ ॥ यस्मादसौ जीवोऽकृत्रिमः करणेन निवृत्तः कृत्रिमः “ड्वितस्त्रिमा तत्कृते" इति त्रिमप्रत्ययः, न कृत्रियोऽक AKAMACHARACTERROCCC Jain Education in For Private & Personel Use Only Page #172 -------------------------------------------------------------------------- ________________ धर्म | संग्रहणि. त्रिमोऽकृतक इतियावत् , तस्मादकृत्रिमत्वादयमनादिरेव । तुशब्द एवकारार्थः । अथ नासावकृत्रिम इष्यते तर्हि विकृत्रिमत्वेऽभ्युपगम्यमाने सति अवश्यमस्य कत्तोऽभ्युपगन्तव्यः, तमन्तरेण कृत्रिमत्वायोगात् , ततश्च वक्तव्यं येनासौ ॥८४॥ जीवः कृतः स किं जीवोऽजीवो वेति, गत्यन्तराभावात् ॥ १५९ ॥ तत्रायं पक्षमधिकृत्य दूषणमाह जइ जीवो जेण कतो सो अन्नेणंति एवमणवत्था । चरमो अकित्तिमो अह सवेसु तु मच्छरो को णु ? ॥ १६० ॥ यदि येन कृतो जीवः स जीव इष्यते, ततः सोऽपि जीवत्वाविशेषादन्येन जीवेन कर्त्तव्यः सोऽप्यन्येनेत्येवमनवस्था स्यात् । अथानवस्थादोषभयाचरमः-अन्तिमोऽकृत्रिम इष्यते ननु तर्हि तमेकं मुक्त्वा सर्वेषु पुनरन्येषु जीवेषु भवतः कोनु मत्सरो? येन तेषां सर्वेपामप्यकृत्रिमत्वं नेष्यते, निष्कारणत्वाद्, अयमतीवायुक्त इति भावः॥१६०॥ अपि च जो सो अकित्तिमो सो रागादिजुतो हवेज रहितो वा ? । रहियस्स सेसकरणे पओयणं किंति वत्तवं ॥ १६१॥ योऽसावकृत्रिमः पुरुष इष्यते जगतः स्रष्टा स किं 'रागादियुतो' रागादिमान् भवेत् ?, रहितो वा रागादि ॥८४॥ Jain Education in For Private & Personel Use Only hiww.jainelibrary.org Page #173 -------------------------------------------------------------------------- ________________ विनिर्मुक्तो वेति विकल्पद्वयम् । तत्र चरमपक्षस्य पश्चादुक्तत्वेनातीव प्रत्यासन्नत्वात्तमेवाधिकृत्य तावद् दूषणमाह-14 'रहियस्सेत्यादि' रहितस्य रागादिभिरिति गम्यते, शेषाणां जीवानां 'करणे' निष्पादने 'किं प्रयोजनं?' किं फलमिति वक्तव्यं ?, न हि कश्वनापि सचेतनः प्रयोजनमन्तरेण प्रवृत्तिमातनोति, तदुक्तम्-"नासमीक्ष्य यतः कार्य, सन कोऽपि प्रवर्तते" इति ॥ १६१ ॥ इतर आह तेसिं चेवुप्पत्ती किं च सहावो य तस्स एसो उ । अपरायत्तत्तणओ कुणइ विचित्ते तओ सत्ते ॥ १६२ ॥ तेषामेव-जीवानामुत्पत्तिः-निष्पत्तिः प्रयोजनं, घटं हि कर्तुमारभमाणस्य कुम्भकारस्य घटकरणक्रियाया घट-18 8|निष्पत्तिरेव फलं, नान्यत् , तद्वदिहापि तेपामुत्पत्तिरेव तस्य प्रयोजनमिति । परिहारान्तरमाह-किं चेत्यभ्युच्चये ।। दातस्य' जगत्स्रष्टुः स्वभाव एवैष, तुशब्द एवकारार्थो भिन्नक्रमश्च स च यथास्थानं योजित एव, चः पूरणे, येन 'तओ-18 त्ति' सको-जगत्स्रष्टा अपरायत्ततया विचित्रान् सत्त्वान् करोति ततो न कश्चिद्दोष इति ॥१६२॥ अत्रोत्तरमाह तेसिं उप्पत्तीए को तस्सऽत्थोत्ति ? सेव उ ण जुत्ता। कुंभारादीण जओ ण घडादुप्पत्तिरेवत्थो ॥ १६३ ॥ ACCORRECONCCCCTOR-1-%% धर्म.१५ Jain Educatan Intemato For Private & Personel Use Only w.jainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः । तेषां जीवानामुत्पत्त्या कस्तस्य-जगत्स्रष्टुरर्थः-प्रयोजनम् ?, एतदुक्तं भवति-यद्यपि जीवनिष्पादनक्रियाया जीव-16 निष्पत्तिः फलं तथापि तस्या अपि जीवनिष्पत्तेः प्रयोजनमभिधानीयं, न च वाच्यं-किमत्र फलान्तरेण ?, तनिष्पत्तिरेव केवला फलं भविष्यतीति । अत आह–'सेव उ न जुत्ता' सैव पुनर्निष्पत्तिः केवला फलत्वेन कल्प्यमाना न युक्ता, कुत इत्याह-'कुंभेत्यादि' यतो-यस्मात्कुम्भकारादीनाम् , आदिशब्दात्तन्तुवायादिपरिग्रहः, न घटाधुत्पत्तिरेव, अत्रादिशब्दात्पटादिपरिग्रहः, अर्थः-प्रयोजनं, किंत्वन्यदपि तद्विक्रयाल्लभ्यं धनादि, न हि कुम्भकारादयो व्यसनितया घटादीन् कर्तुमारभन्ते, किंतु लभ्यमानधनादिफलार्थितया, ततश्चेहापि जीवनिष्पादनक्रियायास्तन्निपत्त्यतिरिक्तं फलान्तरमन्वेषणीयं, तच नास्तीति यत्किंचिदेतत् ॥ १६३॥ अत्र परस्याशङ्कामपनेतुमाह सिय कुंभारादीया अणिट्रियट्रिति णिट्रियट्रो य। ___ सो इय ण जुज्जई से उप्पर्ति काउ सत्ताणं ॥ १६४ ॥ स्थादेतत्-कुम्भकारादयोऽनिष्ठितार्थाः-अकृतकृत्यास्ततस्ते घटादिनिष्पादने तन्निष्पत्त्यतिरेकेण फलान्तरमप्यपेक्षन्ते, यस्तु जगतः स्रष्टा स निष्ठितार्थ इति नास्य फलान्तरापेक्षेति । अत्राह-'इय' इत्यादि, इतिरेवमथै, यद्यवमिष्यते तत एवं सति 'से' तस्य 'न युज्यते' न युक्तं भवति सत्त्वानामुत्पत्तिं कर्तुम् , एकान्तेन कृतकृत्यत्वात् ।। FREMARCHECCCCCRACCOR ॥८५॥ Jain Education Intent For Private & Personel Use Only Page #175 -------------------------------------------------------------------------- ________________ Jain Education Int | अथोच्येत - यद्यप्येष कृतकृत्यस्तथापि तस्य स्वभाव एवैष - येन तथाविधप्रयोजनमन्तरेणापि विचित्रान् सत्त्वान् करोति, ततो न कश्चिदिह पूर्वोक्तदोषप्रसङ्गः, एतच्च प्रागेव 'किं च सहावो य तस्स एसो उ' इत्यादिनाऽभिहितमिति ॥ १६४ ॥ अत आह— एसो य सहावो से किमेत्थ माणं ? न सुंदरो य जतो । तकरणकलेसस्स तु महतो अफलस्स हेउति ॥ १६५ ॥ 'एष च' जगन्निर्माणप्रवृत्तिहेतुः 'से' तस्य जगतः स्रष्टुः स्वभावोऽस्तीत्यत्र किं मानं प्रमाणं ?, नैव किंचित्प्रमाणमिति भावः, अतीन्द्रियत्वेनात्र प्रत्यक्षादेरनुपपत्तेः । अथवा कल्प्यतामेवंविधोऽपि तस्य स्वभावस्तथाप्येष न सुन्दरः चशब्दो दूषणान्तरसमुच्चये, कथं न सुन्दर इति ?, अत आह— यतो - यस्मान्महतोऽफलस्य तत्करणक्लेशस्य - जगज्जन्तुनिष्पादनप्रयासस्य हेतुः कारणमसौ स्वभाव इति, तस्मान्न सुन्दरः ॥ १६५ ॥ सांप्रतं यदवादि प्राक् 'अपरायत्तत्तणओत्ति' तत् दूषयितुमाह अपरायत्तो य कहं ? जो कुणइ किलेसमेत्तियं जम्हा । torisa परायो किलेसकारी तु लोगम्मि ॥ १६६ ॥ - Page #176 -------------------------------------------------------------------------- ________________ Số संग्रहणिः - अपरायत्तश्च कथं स जगत्स्रष्टा यः करोति क्लेशमात्मन एतावन्तं सकलजगजन्तुनिआपणलक्षणं १, नैवापरायत्त इत्यर्थः । कुत इत्याह-यस्मादन्योऽपि लोकेऽपरायत्तः स उच्यते यो नामात्मनो महाक्लेशकारी, तथा च जगत्त्रटाऽप्यात्मन एतावन्महाक्लेशकारी ततः कथमसावपरायत्त इति ॥ १६६ ॥ पराभिप्रायमाह अह न किलेसोत्ति मती सत्तामेत्तेण कारओ जम्हा । तब्भवणतुल्लकाला सत्ता सवेऽवि सिद्धमिणं ॥ १६७ ॥ अथ स्यादियं मतिः परस्य, यथा-नैव तस्य जगत्त्रष्टुः क्लेशो, यस्मात्सत्तामात्रेणैव-खरूपसद्भावमात्रेणैव कारक इति । अत्रोत्तरमाह-'तब्भवणेत्यादि' यदि सत्तामात्रेणैव जगतः कारक इष्यते, हन्त तर्हि सिद्धमिदं-यदुत सर्वेऽपि सत्त्वास्तद्भवनतुल्यकाला इति, स हि सत्तामात्रेणैव कारकः, ततश्च यदैव तस्य सत्ता तदैव तन्निष्पाद्याः शेषा अपि सत्त्वाः ॥ १६७ ॥ ततः किमित्याह एवं च अणादित्तं सव्वेसिं चेव हंदि सत्ताणं । तस्सत्ताणादिमती जंणो चे कित्तिमो सोऽवि ॥ १६८ ॥ एवं च सति तद्भवनतुल्यकालत्वे सति 'हंदीति' परामन्त्रणे सर्वेषामेव सत्त्वानामनादित्वं सिद्धम् । कुत - - - - - - - Cho CS6 Jain Education For Private & Personel Use Only w w.jainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ Jain Education Inte इत्याह-यत्-यस्मात् तत्सत्ता- तस्य जगत्स्रष्टुः सत्ता अनादिमती ततस्तन्निष्पाद्याः सत्त्वा अपि अनादय एव । 'णो चेत्ति' यदि पुनरेतद्दोषभयात्तस्य सत्ता अनादिमती नेप्यते तर्हि सोऽपि - जगत्स्रष्टा कादाचित्कत्वात्कृत्रिमः प्राप्नोति, | तथा च सति सोऽप्यन्येन कर्त्तव्य इति प्राप्तम्, अन्यथा कृत्रिमत्वानुपपत्तेः, सोऽपि चान्यः कर्त्ता पूर्वोक्तदोषप्रसभयात् कृतक इष्यमाणोऽन्येन कर्त्तव्यः, सोऽप्यन्येनेत्येवमनवस्थानुषङ्गः ॥ १६८ ॥ परस्याभिप्रायमाह - अह सत्तामेत्तेणेव कारओ किंतु ण समकालत्ति । पच्छावि परिमियद्धाए होइ तस्सादिमत्तं तु ॥ १६९ ॥ अथोsयेत-स जगद्धाता सत्तामात्रेणैव जगतः कारक इप्यते, परं किंतु न समकालं न - खसत्ताभवनकालम् अपि तु प्रभूतेन कालेनातीतेन, ततो न सत्त्वानामनादित्वापत्तिप्रसङ्ग इति । अत्राह - 'पच्छावी' त्यादि, पश्चादपि परिमिताद्धायां - नियताद्धायां तस्य जगत्स्रष्टुर्जगज्जन्तुकारित्वेऽभ्युपगम्यमाने सति 'भवति' प्राप्नोति आदित्वमेव, न | त्वनादित्वम् । तुशब्द एवकारार्थः ॥ १६९ ॥ एतदेव भावयति अपरिमिता व सहावभेदम्मि तस्स णिच्चत्तं । पुवं व अकरणं पच्छतोवि तेसिं अभेदम्मि ॥ १७० ॥ %%% w.jainelibrary.org Page #178 -------------------------------------------------------------------------- ________________ धर्म ॥ ८७ ॥ Jain Education In यस्मात्तस्य - जगत्स्रष्टुरपरिमिताद्धायामपि -अनियताद्धायामपि सत्यां स्वभावभेदे - पूर्व जगदकारकत्वं पश्चात्तत्कारकत्वमित्येवंरूपे सत्यनित्यत्वं प्राप्नोति, “अतादवस्थ्यमनित्यता ब्रूम" इति वचनात् तथा च सति तस्य जगत्स्र| टुर्जगत्करणाभ्युद्यतस्यादिमत्त्वमेव प्रसक्तमिति । अथ मा भूदेष दोष इति स्वभावभेदो नेष्यते, तत आह - 'पु वेत्यादि' जगत्करणकाले यः खभावो यश्च जगदकरणकाले तयोरभेदे सति उभय्यामप्यवस्थायामेकस्वभावत्वे सती|तियावत्, पूर्वमिव-खसत्ताभवनकाल इव पश्चादपि - परिमिताद्धायामपि अकरणं प्राप्नोति, विशेषाभावात् ॥ १७० ॥ इतर आह एसो चेव सहावो ऽणंतद्धाए कुणइऽतीयाए । एगसहावत्ते सइ करणं वाऽणिच्चया भेदे ॥ १७१ ॥ एष एव 'से' तस्य जगत्कर्तुः खभावो येनानन्ताद्धायामतीतायां सत्यां जगत्करोति, ततः कथं तस्यादिमत्त्वप्रसक्तिः ?, कथं वा प्रागिव पश्चादप्यकरणमिति । आचार्य आह- किमिह पुनः पुनः पुनर्निगदितेन, यदि तस्य सर्वदा एकस्वभावत्वमिष्यते ततस्तस्मिन्सति सर्वदा - सर्वकालं जगतः करणं प्राप्नोति, अथ स्वभावभेदस्तथा सत्यनित्यता, तस्याः स्वभावभेदलक्षणत्वात्, वाशब्दो भिन्नक्रमे, 'भेदे वाऽणिच्चये' त्येवं योजनीयः ॥ १७१ ॥ अत्र पर आह संग्रहणिः ॥ ८७ ॥ o ww.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ तेसिं चेव सहावो जं तस्सत्तामवेक्ख होन्ति तया । जायाण पुणोऽभवणा जुत्तोऽजायाण तु विरुद्धो॥ १७२ ॥ ननु च कस्तस्य जगद्धातुरपराधो ? यत्-यस्मात्तेषामेवोत्पद्यमानानां जीवानामेप स्वभावो येन तदा अनन्ताद्धायां प्रतीतायां सत्यां तत्सत्तां-तस्य जगत्स्रष्टुः सत्तामपेक्ष्य ते भवन्ति-उत्पद्यन्ते, नान्यदा, ततो न तस्य सदाकरणप्रस-| ङ्गः, क्रियमाणानां तथाखभावाभावात् , नाप्यनित्यता सर्वदैकखभावत्वादिति । अत्रोत्तरमाह-'जायाणेत्यादि' इह दातेषां जीवानामुत्पाद्यमानामेष खभावः कल्प्यते किमुत्पन्नानामनुत्पन्नानां वेति विकल्पद्वयं ?, गत्यन्तराभावात् , तत्र यद्याद्यः पक्षस्तदयुक्तम् , जातानामुत्पन्नानां सतां पुनरभवनात्, न ह्युत्पन्नस्य पुनरुत्पत्तिर्भवति येन स स्वभावः परिकल्प्यमानः फलवान् स्यात् , अनवस्थाप्रसङ्गात् , अथानुत्पन्नानामिति पक्षस्तदप्ययुक्तम् , विरुद्धत्वात् , अनुत्पना ह्येकान्तेन तुच्छरूपाः, तत्कथमेषामयं खभावः परिकल्प्यते ?, तस्य वस्तुधर्मत्वात् , तथा चाह-अजातानां तु विरुद्ध इति ॥ १७२ ॥ किंच मज्झत्थो य किमत्थं चित्ते इस्सरियमादिभेदेणं ? । सत्ते कुणतित्ति सिया कीडत्थमसंगया सावि॥ १७३॥ CONC3%ALSOURCORROCODChe Jain Education For Private Personel Use Only Tww.jainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ धर्म ॥ ८८ ॥ Jain Education In शब्दो दूषणान्तराभ्युचये, स जगद्धाता वीतरागत्वात् मध्यस्थः सन् किमर्थमीश्वरादिभेदेन, आदिशब्दात् दरिद्रादिभेदपरिग्रहः, चित्रान् सत्त्वान् करोति ?, तस्य हि मध्यस्थत्वेन सदाभ्युदययोगिन एव सत्त्वान् कर्तुमुचितमिति भावः । इह प्राकू 'रहियस्स सेसकरणे पयोयणं किंति वत्तव' मिति सामान्येन सत्त्वनिष्पादनविषयः प्रश्नः कृतः, इदानीं पुनरीश्वरादिभेदेन सत्त्ववैचित्र्यनिष्पादनविषय इति न पुनरुक्तता । 'सियेत्यादि' स्यादेतत्, क्रीडार्थम् ईश्वरादिभेदेन विचित्रान् करोति, ततो न कश्चिद्दोष इति, आचार्य आह - 'असंगया सावि' सापि - क्रीडा तस्य - मध्यस्थस्य जगद्धातुरसंगता - अयुक्ता ॥ १७३ ॥ कथमित्याह - जं रागादिविजुतो सानु सरागस्स दीसती सोऽवि । रागादिजुत्तोत्ति मती ण सेसकत्ता तदन्नोव ॥ १७४ ॥ यत्-यस्माज्जगद्धाता रागादिवियुक्त इष्यते, तदुक्तम् - " ज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्व, सहसिद्धं चतुष्टयम् ॥ १ ॥” इति सा पुनः क्रीडा सरागस्य-रागादिमतो दृश्यते, विचित्रक्रीडनोपायसाध्यक्रियादर्शनाभिष्वङ्गात्मकतया तस्या रागस्वभावत्वात् ततो न मध्यस्थस्य सतः सा क्रीडा संगतेति । अथ स्यादियं | मतिः परस्य - सोऽपि - जगद्धाता रागादियुतो - रागादिदोषसंकुल इष्यते, तत्कथमस्य क्रीडा न संगता स्यादिति ?, एतेन संग्रहणिः० ॥ ८८ ॥ Page #181 -------------------------------------------------------------------------- ________________ SORRCLEASECRET च 'रागाइजुत्तो हवेज इयरो त्युपन्यस्तपक्षद्वयमध्ये प्रथमः पक्ष आशङ्कितो द्रष्टव्यः, चरमस्तु प्रागेवाशय निरस्तः। अत्रोत्तरमाह-'न सेसकत्ता तदन्नो वत्ति" यद्यसौ जगद्धाता हन्त रागादिमानिष्यते तर्हि न शेषाणां-जीवानां कर्ता प्राप्नोति, किंवदित्याह--'तदन्यवत्' तस्माजगद्धातुरन्यो योऽस्मादृशस्तदन्यस्तद्वत् । प्रयोगश्चात्र-यो रागादिमान् न ६ स जगद्धाता, यथाऽस्मादृशः, रागादिमांश्च विवक्षितः पुरुष इति, यो हि यस्य कर्ता स तत्कार्य, तस्य च कार्यस्योपादानसहकारिभेदभिन्नानि कारणान्यवश्यं वेदयिता भवति, यथा घटस्य कर्ता कुम्भकारः, ततश्च बुद्धिपूर्वक कार्यकारित्वं कार्यकारणपरिज्ञानेन व्याप्तं, यश्च रागादिमान् सोऽवश्यमधिष्ठितौदारिकादिशरीरः करणग्रामावीनविज्ञानोदयश्च भवति, न तु सकलजगद्वेदयिता, यथाऽस्मादृशः, विवक्षितः पुरुषो रागादिमानिष्यते ततो व्यापकविरुद्धोपलब्ध्या तस्य जगत्कर्तृत्वप्रतिषेधः क्रियते, अबुद्धिपूर्वककार्यकारित्वाभ्युपगमे च खभाव एव तस्य तथाभूतो जगन्निर्मापणे वक्तव्यः, स च प्रागेवापास्त इति ॥ १७४ ॥ पर आह जमकित्तिमो ण अन्नो तेण ण कत्तत्ति तुल्ल एवेह । रागादिदोसभावे णेयंपि विसेसणं जुत्तं ॥ १७५ ॥ यत्-यस्मादन्यः-अस्मादृशोऽकृत्रिमो न भवति,तेन कारणेन न शेषाणां जीवानां कर्ता, इदमुक्तं भवति-न के Jain Education in For Private & Personel Use Only Huaw.jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ धर्म ॥ ८९ ॥ Jain Education In वलमेव रागादिमत्त्वं जगद्धातृत्वप्रतिषेधायालं, किंतु कृत्रिमत्वसहितं यथाऽस्मादृशस्य, अकृत्रिमश्च विवक्षितः पुरुष| स्तेनास्य रागादिमत्त्वेऽपि जगद्धातृत्वप्रतिषेधोऽयुक्तः, साध्यसाधनयोः संबन्धस्योपाध्यपेक्षित्वात् तस्य चेहाभावादिति । आचार्य आह-तुल्य एव समान एव 'इह' विचारप्रक्रमे, रागादिभावे सति नैतदपि अकृत्रिमत्वं विशेषणं | जगत्कर्तृत्वाभावप्रसङ्गरूपदोषव्यवच्छेदकं युक्तम्, कृत्रिमत्वोपाधिरहितस्यापि केवलस्य रागादिमत्त्वस्य जगत्कर्तृत्वप्रतिषेधकरणसामर्थ्यसंभवात्, यथोक्तं प्राक् ॥ १७५ ॥ एतदृष्टान्तेन समर्थयते हि तुम्मि दियत्ते वेदज्झयणगुणसंपउत्ताणं ॥ साहुतं दामि विसेसणं होति ॥ १७६ ॥ न हि वेदाध्ययन गुणसंप्रयुक्तयोर्द्विजयोस्तुल्ये - समाने द्विजत्वे - ब्राह्मणत्वे वेदाध्ययनादिके च गुणे सति ताभ्यां | दीयमाने दाने केशानामल्पत्वं बहुत्वं वा विशेषणं भवति, यथाऽस्याल्पे बहवो वा केशा इत्यस्मै दातव्यं नेतरस्मा - यिति, दानप्रवृत्तेः केशाल्पबहुत्वनिमित्तत्वाभावात् । एवमिहापि न जगत्कर्तृत्वम कृत्रिमत्वमात्रनिमित्तमाकाशादीनां तथानुपलम्भात्, किंतु कारणादिखरूपपरिज्ञानादिनिमित्तं तच्च कारणादिपरिज्ञानं रागादिमतोऽस्मादृशस्येवानुपपन्नम्, अतो न रागादिभावेऽविशिष्टे सति तस्याकृत्रिमत्वविशेषणं फलवदुपपद्यत इति ॥ १७६ ॥ इदानीं यथा संग्रहणिः. ॥ ८९ ॥ ww.jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ | तस्य रागादिमत्त्वाभ्युपगमेन जगत्कारित्वव्यापकस्याशेषवस्तुखरूपपरिज्ञानस्याभावो भवति तथा दर्शयति रागादिदोसवसगो बंधति कम्मं किलिट्ठमच्चत्थं । तप्पच्चयं तयं पुण वेदेंतो सेसतुल्लो उ ॥ १७७ ॥ 'रागादिदोषवशगो' रागद्वेषादिदोषायत्तो यस्मात् बध्नाति 'कर्म' ज्ञानावरणीयादिकं 'तत्प्रत्ययं रागादिदोषप्रसयम्, एतदेव विशेषयति-अत्यर्थम्-अतिशयेन क्लिष्टं-दारुणविपाकोदयम् । बवा च पुनस्तकत्-कर्म ज्ञानावरणीयादि वेदयमानः-अनुभवन् शेषैः-अस्मादृशैस्तुल्य एव-समान एव भवति, तुरेवकारार्थः, करणग्रामाधीनविज्ञानोदयतया समस्तवस्तुविस्तारपरिज्ञानविकलो भवतीति भावः। तथा च सति तस्य जगत्कारित्वाभाव इति ॥१७७॥ अत्र परस्य मतमाशङ्कमान आह __ अह णो बंधइ एवं ण संति रागादतोत्ति से पत्तं । संतेसुवि य अबंधे किं बंधो होति सेसाणं ? ॥ १७८ ॥ __ अथोच्येत-रागादिदोषवशगोऽपि नैवासौ जगद्धाता कर्म बनाति, तत्कथं शेषतुल्यः स्यादित्यत आह-‘एवं न संति रागादयोत्ति से पत्तंति' यद्येवमभ्युपगम्यते तत एवं 'से' तस्य जगद्धातुः रागादयो दोषा न सन्त्येवेति प्राप्तम् । SALAAAAAAAAAA Jain Education in For Private & Personel Use Only Www.jainelibrary.org Page #184 -------------------------------------------------------------------------- ________________ रागादिदोषसद्भावे सत्यवश्यं कर्मसंबन्धसद्भावात् । अत्रैव विपक्षे बाधामाह-'संतेसुवि य'इत्यादि, सत्खपि चासंग्रहणिः विद्यमानेष्वपि च रागादिदोषेषु, अबन्धे-ज्ञानावरणीयादिकर्मबन्धाभावेऽभ्युपगम्यमाने 'किं' कस्मात् भवति बन्धः। शेषाणां जीवानां ?, नैवासौ तेषामपि भवितुमर्हतीति भावः। रागादिमत्त्वाविशेषाद्धि सर्वेषामप्यविशेषेण बन्धः स्यान्न वा कस्यचिदपीति ॥ १७८ ॥ पर आह एसो चेव सहावो संतेसुऽवि तस्स जेण णो बंधो । होयन्नेसिं ण य इह पज्जणुओगो सहावस्त ॥ १७९ ॥ एष एव तस्य जगत्कर्तुः स्वभावो येन सत्स्वपि रागादिषु तस्य बन्धो न भवति,अन्येषां पुनः शेषजीवानामित्थंभूतो येनासौ भवत्येव । न च इह खभावस्य पर्यनुयोगोऽस्ति, लोके तथाऽदर्शनात् ॥१७९॥ एतदेव दृष्टान्तेन भावयति अविसिटे सब्भावे जलेण संजुअती जहा वत्थं । णेवं नलिणीपत्तं सहावतो एवमेयंपि ॥ १८ ॥ अविशिष्टे-परस्परं विशेपरहिते सद्भाये-खरूपे सत्यपि यथा अन्तःप्रवेशरूपतया जलेन संयुज्यते वस्त्रं, न एव ॥९ ॥ Jain Education For Private & Personel Use Only W ww.jainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ Jain E धर्म. १६ | मुक्तप्रकारेण नलिनीपत्रं संयुज्यते, कुत इत्याह- ' खभावतः ' तथास्खभावत्वादित्यर्थः । ' एवमेयंपित्ति एवं तथास्वभाववैचित्र्यत 'एतदपि ' पूर्वोक्तं रागादिमद्भावाविशेषेऽपि कर्म्मबन्धलक्षणं वैचित्र्यं द्रष्टव्यमिति । अत्रोत्तरमाहजलसंजोयणिमित्तं वत्थे परुसत्तमत्थि णो पत्ते । भावे अविसिद्वेवि जुज्जती तेसि जं भणितं ॥ १८१ ॥ यस्माद्वस्त्रे जलसंयोगनिमित्तं परुषत्वमस्ति (न) पद्मिनीपत्रे, एतदुक्तं भवति-न वस्तुत्वसद्भावमात्रं वस्तुनि जलसंयोगनिमित्तमपि तु संयुज्यमानवस्तुगतं तथाविधपरुषत्वमपि तच वस्त्र एव विद्यते न पद्मिनीपत्रे, तेनाविशिष्टेऽपि सद्भावे यद्भणितं वस्त्रपद्मिनीपत्रयोर्जलसंयोगासंयोगवैचित्र्यं तत् युज्यत एव, द्वयोरप्यविशेषेण जलसंयोगनिमित्तस्य तथाविधपरुषत्व विशेषस्याभावात् ॥ १८९ ॥ यद्येवमिहाप्येवं भविष्यतीत्यत आह इह उण बंधनिमित्तं जम्हा रागादिपरीणती चेव । तभावे अविसिट्टे बंधाबंधा ण जुजंति ॥ १८२ ॥ 'इ' प्रस्तुतविचारप्रक्रमे पुनर्वन्धनिमित्तं - ज्ञानावरणीयादिकर्मसंबन्धनिमित्तं यस्मात् रागादिपरिणतिरेव तद्भा Page #186 -------------------------------------------------------------------------- ________________ धर्म ॥ ९१ ॥ Jain Education Inte | वमात्रे सत्यवश्यं कर्मबन्धसंभवात्, तदभावे च मुक्तानामिव तदभावात् सा च रागादिपरिणतिः शेषजीवानां | जगद्धातुश्चाविशिष्टा, अविशिष्टे च ' तद्भावे' रागादिपरिणतिभावे यौ बन्धावन्धावुच्येते, यथा-जगद्धातुर्न बन्धः शेषजीवानां तु बन्ध इति, तौ न संगच्छेते, विशेषहेत्वभावात् ॥ १८२ ॥ एतेणं पडिसिद्धा विसजलणादीवि हंदि दिट्टंता । जं त्थविसेसेणं सवत्थ विसेसउत्ति ॥ १८३ ॥ सोवकमादिज्झादि चैव सवत्थ अतिपसंगातो । यसत्तामेत्तेणं इत्थपसाहगा तेवि ॥ १८४ ॥ 'एतेन' अनन्तरोक्तेन जलदृष्टान्तप्रतिषेधेन ये विषज्वलनादय आदिशब्दात्तदन्यैवंविधदृष्टान्तपरिग्रहः, दृष्टान्ताः परैरुपन्यस्यन्ते ते सर्वेऽपि 'हंदीति' परामन्त्रणे, प्रतिषिद्धा द्रष्टव्याः । कथमित्याह - 'जं नत्थेत्यादि' यत् - यस्मान्नास्ति सर्वत्राविशेषेण विशेषहेतुः - सोपक्रमादिदह्यादिश्चैव, भावप्रधानोऽयं निर्देशः, सोपक्रमत्वादिर्दाह्यत्वादिश्चैव, आदिशब्दादुभयत्रापि यथाक्रमं विषदृष्टान्तानुरूपदृष्टान्तान्तरज्वलन दृष्टान्तानुरूपदृष्टान्तान्तर योग्यविशेषहेतुपरिग्रहः तद संग्रहणिः ॥ ९१ ॥ w.jainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ Jain Education In न्यसामग्रीविशेषपरिग्रहश्च, विषं हि उपभुज्यमानं सोपक्रमायुष्कमगदादिना वाऽप्रतिहतशक्तिकत्वमन्यं च कालविशेपादिकं विशेषहेतुमपेक्ष्य मारणाय प्रभवति नान्यथा, ज्वलनोऽपि च स्वविषयस्य दालस्वभावत्वं शुष्कत्वं पवनादिकं च विशेषहेतुमवाप्य दाहनिमित्तं भवति न तद्भावे । तथा चाह-' न य सत्तामेत्तेणं इत्थपसाहगा तेऽवित्ति', चो हेतौ, यस्मान्न सत्तामात्रेण - स्वसन्निधानभावमात्रेण तेऽपि - विषादयो दृष्टान्तत्वेनोपात्ता 'इष्टार्थप्रसाधका' मारणादिखकार्यप्रसाधकाः, कुत इत्याह- 'सवत्थ अइप्पसंगाओ' सर्वत्र - निरुपक्रमायुष्कादिष्वपि अतिप्रसङ्गात्, तस्मात्सोपक्रमत्वादिकं विशेषमपेक्ष्यैव विषादयो मारणादिनिमित्तं भवन्ति नान्यथा, न चासौ सोपक्रमादिको विशेषहेतुः सर्वत्रास्ति, ततस्तेषु सन्निहितेष्वपि विषादिषु मरणामरणादिवैचित्र्यमुपपद्यते, न त्वेवमिह बन्धावन्धौ ॥ १८३ - १८४ ॥ यत आहरागादिपरिणती पुण फरुसत्तसमा विसेस उत्ति । अप्पाणगम्मि य जतो वेधम्मं तेण दोपहंपि ॥ १८५ ॥ रागादिपरिणतिः पुनर्यस्माज्जलसंयोगस्य तथाविधपरुपत्यमिव कर्म्मबन्धस्य विशेषहेतुरात्मन्यपि - जगद्धातर्यपि विद्यते, आस्तां शेषजीवेष्वित्यपिशब्दार्थः, तस्मादुभयोरप्यविशेषेण बन्धः प्राप्नोति, विशेषहेतोरुभयत्राप्यविशेषेण भावात् । तथा च सति यदुक्तम् — 'यथा सद्भावाविशेषेऽपि वस्त्रं जलेन संयुज्यते न तु पद्मिनीपत्रं, तथेहापि रागादि - Page #188 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः ॥१२॥ मत्वाविशेषेऽपि शेषजीवा एव कर्मणा संभन्स्यन्ते न तु परमात्मेति' तदयुक्तमवगन्तव्यम् , दृष्टान्तदान्तिकयोषम्यात् । एतदेवोपसंहरति-वेहम्मं तेण दोण्हंपित्ति' येन कारणेन संयोगस्य तथाविधपरुषत्वलक्षणो विशेषहेतुरुभयत्राप्यविशेषेण न विद्यते कर्मवन्धस्य च रागादिपरिणतिलक्षणो विशेषहेतुरुभयोरप्यस्ति तेन कारणेन द्वयोरपि-दृष्टान्तदान्तिकयोवैषम्य (धर्म्य)मिति स्थितम् । स्यादेतत्-याशा रागादयः शेषजीवानां न तादृशाः परमात्मनः, तत्कथमुच्यते ?-रागादिमत्त्वाविशेषादुभयोरप्यविशेपेण बन्धः प्राप्नोति,' रागादिमत्त्वाविशेषस्यैवाभावात् ॥१८५॥ अत आह तब्भावो अविसिट्टो जदि णो थेवतरदोससब्भावो। पावेति तस्स अहवा रागादीणं अभावो तु॥ १८६ ॥ | यदि तस्य परमात्मनस्तद्भायो-रागादिपरिणतिभावोऽविशिष्टो नाभ्युपगम्यते तर्हि सामर्थ्यात् स्तोकतररागादिसद्भावः प्राप्नोति,तथा च सति तदनुसारी कर्मबन्धोऽपि, ततश्चैवमपि शेषजीवस्तुल्य एव। 'अहवा रागाईणं अभावो उत्ति' अथवेति प्रकारान्तरेण दूपणान्तरसूचने, यदि पुनः कर्मवन्धप्रसङ्गात् स्तोकतरोऽपि रागादिदोषसद्भावो नेष्यते तर्हि सर्वथा तस्य रागादीनामभाव एवाभ्युपगतः स्यात् , तथा च सति तस्य वीतरागतया क्रीडाया अनु ॥९२॥ Jin Education For Private Personel Use Only w.jainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ पपत्तेजेश्वरादिभेदेन चित्रान् सत्त्वान् कर्तुमुचितमिति स्थितम् ॥ १८६ ॥ साम्प्रतं येन प्रकारेण एतद्देषितं तं । प्रकारमभिव्यक्तीकुर्वन्नाह तस्स अणादित्तं तह अन्नेसिं वाऽऽदिमत्तमहिकिञ्च । भणियमिणं ण तु सिद्धं तस्सेवाणादिमत्तं तु ॥ १८७॥ 'तस्य' परपरिकल्पितत्य परमात्मनोऽनादित्वमन्येषां च शेषजीवानामादिमत्त्वमधिकृत्य-अभ्युपगम्य 'इदम्'अनन्तरोक्तं जो सो अकित्तिमोरागाइजुत्तो हवेज इयरो वेत्यादिना' प्रपञ्चेन भणितं,यावता पुनस्तस्यैव परमात्मनोऽनादित्वमस्माकं 'न तु' नैव सिद्धं, तत्सत्ताया एवासिद्धत्वात् , तत्साधकप्रमाणाभावात् ॥१८७॥ दूषणान्तरमप्यभ्युच्चेतुमाह तह संतेऽसते वा कुणति तओ ते तु पढमपक्खम्मि। किं तस्स कारकत्तं? चरमे तु ण संगयं करणं ॥ १८८ ॥ 'तथेति दूषणान्तरसमुच्चये 'तओत्ति' सकः परपरिकल्पित आत्मा (परमात्मा) तान् जीवान् करोति किं सतोड४सतो वेति पक्षद्वयम् तत्र 'पढमपक्खे(क्खंमि)त्ति'प्रथमपक्षे किं 'तस्य' परमात्मनः कारकत्वं नैव किञ्चन,तेपामग्रेऽपि Jain Education a l For Private & Personel Use Only S ww.jainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ संग्रहणिः ॥९३॥ विद्यमानत्वात् , विद्यमानस्य च करणाभ्युपगमेऽनवस्थाप्रसङ्गात् , 'चरमे उ न संगयं करणंति' चरमे पुनः न संगतं तेषां जीवानां करणं-निष्पादनम् , अत्यन्तासत्त्वेन खरविषाणस्येव कर्तुमशक्यत्वात् ॥ तदेवं यदभिहितं प्राक् 'वत्तवं जेण कओ सो किं जीवो अजीवो वेति पक्षद्वयम् , तत्र जीवपक्षं सप्रपञ्च निराकृत्याजीवपक्षं निराचिकीर्षुरिदमाह अज्जीवो तु ण कत्ताऽभिप्पायाभावतो घडादिव । अन्नेसिं सत्ताणं दोसा एत्थंपि पुत्रुत्ता ॥ १८९ ॥ अजीवो 'न तु' नैव जीवानां कर्ता भवति, कुत इत्याह-अभिप्रायाभावात् , न हि अजीवस्याभिप्रायः संभवति, तस्य चेतनधर्मत्वात् , न चाभिप्रायमन्तरेण देवनारकादिभेदेन ईश्वरादिभेदेन च नियतव्यवस्था जीवा उत्पादयितुं शक्यन्ते इति, दृष्टान्तमाह-घटादिवत्, स्यादेतत्-शालिबीजादीन्यभिप्रायविकलान्यपि नियतशक्त्युपेततया नियतखखकार्यकारीण्युपलभ्यन्ते, तद्वदयमप्यजीवस्तथाविधनियतशक्त्युपेततया देवनारकादिभेदेन ईश्वरादिभेदेन च नियतव्यवस्थान सत्त्वान् उत्पादयिष्यतीति को दोष इत्यत आह–'दोसा एत्थंपि पुबुत्ता' अत्रापि अजीवपक्षेऽपि दोषाः पूर्वोक्ता द्रष्टव्याः, इदमुक्तं भवति-यद्यभिप्रायशून्यस्यापि तस्य नियतशक्त्युपेततया नियतकार्यकारि SASCACARAMACHCROCOCOM २३॥ Jain Education Intel Page #191 -------------------------------------------------------------------------- ________________ त्वाभ्युपगमस्तथाप्यत्र पूर्वोक्ता दोषा अपरिहार्या एव,तथाहि-सोऽजीवो जगन्निर्मापणसमर्थः कृत्रिमो वा स्यादकृत्रिमो वा?. यदि कृत्रिमस्ततः सोऽप्यन्येन कर्त्तव्यः,अन्यथा कृत्रिमत्वायोगात्, सोऽप्यन्येनेत्येवमनवस्था। अथाकृत्रिमस्तर्हि जीवैः किमपराद्धं ?, येनाकृत्रिमास्ते नेष्यन्ते। अपिच-यद्यसावकृत्रिमस्ततस्तन्निष्पाद्याः सत्त्वा अपि च य(तत्सत्ताभवनतुल्यकालत्वादनादय एव प्राप्ता इति सिद्धं नः समीहितम् , तस्य हि सत्ता अनादिमती ततस्तनिष्पाद्याः सत्त्वा अपि अनादय एव, अन्यथा सोऽपि कृत्रिमः स्यात् ,तथा च सति प्राग्वदनवस्थाऽनुपङ्गः,अथोच्येत-नैवासौ खसत्ताभवनकालं जीवानामुत्पादकः किंत्वनन्तायामद्धायामतीतायां सत्याम् , तथा च कुतो जीवानामनादितेति, तदयुक्तम् , एवं सति तस्यानित्यत्वप्रसक्तेः, अनुत्पादकत्वलक्षणपूर्वखभावप्रच्युत्योत्पादकत्वलक्षणखभावान्तरस्योत्पादात् , खभावस्य च खभाविनोऽनर्थान्तरत्वात् , अन्यथा खभावभेदाभावेन पूर्वकालमिव पश्चादपि तस्यानुत्पादकत्वप्रसङ्गः। स्यादेतत्-तस्य तथाविध एवैकः खभावो येनापरिमिताद्धायामतीतायां सत्यां जीवान् उत्पादयति नान्यदा, तथा च सति तस्य स्वभावभेदेनापि (न)जीवानामनादितेति,एतदप्ययुक्तम् ,विकल्पायोगात् , तथाहि-तस्यापरिमितायामद्धायामतीतायां सत्यां स खभावो निवर्तते न वेति विकल्पद्वयम् , तत्र यदि निवर्तत इति पक्षस्तर्हि तस्यानित्यत्वप्रसङ्गः, अतादवस्थ्यस्यानित्यत्वलक्षणात्, अथ न निवर्त्तत इति पक्षस्ततस्तदाऽपि तस्य खभावस्य तदवस्थत्वात् पुनरपि तेनापरिमिताद्धाऽतिक्रमणीया,तदापि च स एव तस्य खभाव इति सर्वदाप्यकरणप्रसङ्गः। किं च-असौ सतो Jain Education in For Private & Personel Use Only Wioww.jainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ धर्म ॥ ९४ ॥ Jain Education seतो वा जीवान्निष्पादयतीति वक्तव्यम्, तत्र सत्पक्षे तस्य वैफल्यं, अग्रत एव तेषां निष्पन्नत्वात्, असत्पक्षेऽपि च | खरविषाणस्येवाकरणमिति, तन्नाजीवोऽपि जीवानां कर्त्तोपपद्यते इति स्थितम् ॥ १८९ ॥ अथ मा भूत् जीवोऽजीवो वा कर्त्ता, जीवाजीवबिभिन्नं तु वस्त्वन्तरं जगन्निर्मापणसमर्थ भविष्यतीत्यारेका निराकरणार्थमाह जीवाजी विभिन्नं ण अस्थि वत्थंतरंति जप्पभवा । होज इमे खलु जीवा ण कत्तिवादो ततो जुत्तो ॥ १९० ॥ यतः प्रभवः- उत्पत्तिर्येषां ते यत्प्रभवाः, खल्विमे जीवा भवेयुस्तत् जीवाजीवविभिन्नं वस्त्वन्तरं नैवास्ति, सर्वस्यापि वस्तुनो जीवाजीवलक्षणद्वैराश्य एवान्तर्भावात् । इति वाक्यपरिसमाप्तौ । ततस्तस्मात् जीवानां 'कर्तृवादः' कर्त्ता कश्चिदस्तीत्येवं जल्पो न युक्तः ॥ १९०॥ कुतः ? इति हेतुमाह कारणविरहा परमरिसिवयणतो भणितदोससब्भावा । तम्हा अणादिणिहणा जीवा सवेऽवि सिद्धमिणं ॥ १९९ ॥ 'कारणविरहात्' आकाशस्येव कारणाभावात् सोऽपि कुतः सिद्ध इति चेत् उच्यते- 'परमर्षिवचनात् ' परममुनिवच संग्रहणिः, ॥ ९४ ॥ ww Page #193 -------------------------------------------------------------------------- ________________ नात् , तच्चेदं-अमओ य होइ जीवो कारणविरहा जहेव आगासं। समयं च होअणिचं मिम्मयघडतंतुपडमाई॥१॥ अस्यायमर्थः-अमयश्च भवति जीवः न किम्मयो भवतीत्यर्थः, न केनापि कृत इतियावत् । कुत इत्याह-कारणविरहात्-अकारणत्वात् , किंवदित्याह-यथैवाकाशम् , आकाशवदित्यर्थः । 'समयं च' सहेतुकं च हेतोर्मयविधानमधिकृत्योभयत्राप्येवं निर्देशः, भवति अनित्यम् । किमिवेत्यत आह-मृन्मयघटतन्तुमयेपटादि यथा मृन्मयो घटः, तन्तुमयः पटः । अधिकृत एव कारणविरहे हेत्वन्तरमाह-'भणितदोपसद्भावात्' जीवानां सकारणत्वाभ्युपगमे ये पूर्व दोषा भणितास्तेषां सद्भावात्-सद्भावप्रसङ्गात् कारणविरहः सिद्धः । उपसंहरति-'तम्हा' इत्यादि, तस्मात्सिद्धमिदं सर्वेऽपि जीवा अनादिनिधना इति । ननु च कारणविरहादनादित्वमेव सिध्यति न त्वनिधनत्वमपि, तत्कथमुच्यते -सिद्धमिदमनादिनिधना इति ?, तदयुक्तम् , अनादित्वसिद्धावनिधनत्वस्य खयमेव सिद्धत्वात् , सतः सर्वथा विनाशायोगात् , आकाशवदू, इति जीवानामनादिनिधनत्वसिद्धिः ॥१९॥ समर्थितं जीवानामनादिनिधनत्वम् ॥ साम्प्रतममूर्त्तत्वं सिसाधयिपुरिदमाह कम्मविमुक्कसरूवो अणिंदियत्ता अछेजभेजो उ। रूवादिविरहतो वा अणादिपरिणामभावातो ॥ १९२ ॥ RECORRECOSCAROORKSEXX Jain Education in For Private & Personel Use Only T Page #194 -------------------------------------------------------------------------- ________________ धर्म-18 ॥९५॥ कर्माणि-ज्ञानावरणीयादीनि वक्ष्यमाणखरूपाणि तैर्विनिर्मुक्तं-विशेषेण सर्वापगमरूपेण निर्मुक्तं परित्यक्तं रूपं- संग्रहणिः . स्वरूपं यस्य स जीवोऽमूर्तो ज्ञातव्य इति साध्यनिर्देशः,अत्र साधनमाह-'अणिदियत्ता' अतीन्द्रियत्वात् ,मूत हि यत् भवति तत्कदाचनाप्यवश्यमिन्द्रियग्राह्यमपि भवति, यथा घटपरमाणवो घटावस्थायाम् , न चासौ जीवः कर्मविनिमुक्तखरूपः कदाचनापि चक्षुरादीन्द्रियग्राह्यो भवति, तस्मादयमतीन्द्रियत्वात् अमूर्तः । एवं शेषहेतुष्वपि यथायोगं भावना कार्या। तथा 'अछेजभेजत्ति' खड्गशूलादिना अच्छेद्याभेद्यत्वात् , 'रूवादिविरहतो बेति' रूपाद्याकारविशेषो हि मूर्तिः, अयं च जीवो रूपादिगुणविकलस्तस्मादयममूर्तः, रूपादिगुणविरहोऽपि तस्य कुतः सिद्ध इति चेत् ,उच्यते 'अनादिपरिणामभावात' आकाशस्येवानादिरूपादिगुणविरहलक्षणपरिणामभावात्॥१९२॥अमूर्त्तत्व एव साध्ये हेतूनाह छउमत्थाणुवलंभा तहेव सवन्नुवयणओ पायं ।। लोगादिपसिद्धीतोऽमुत्तो जीवोत्ति णेयवो ॥ १९३ ॥ 'छद्मस्थानामनुपलम्भात्' न खवधिज्ञानिप्रभृतिभिरपि छमस्थैः स साक्षादुपलभ्यत इति । तहेव सवण्णुवयणओ पायं तथैव सर्वज्ञवचनतः-निर्मूलापगतसकलरागादिदोषजालभगवत्सर्ववेदिवचनतः प्रायः सोऽमूर्तोऽवगम्यते, प्रायो। MARACCORadio Jain Education Inte For Private & Personel Use Only Page #195 -------------------------------------------------------------------------- ________________ Jain Education In ग्रहणेन च एतद्दर्शयति- एवंविधेष्यतीन्द्रियेषु प्रायो जिनवचनमेव प्रमाणतया विजृम्भते नान्यदिति । तथा 'लोकादिप्रसिद्धितः' लोकादी अमूर्त्तत्वेन प्रसिद्धेः । आदिशब्दाद्वेदतच्छेषसमयपरिग्रहः, अत्र कर्मविनिर्मुक्तस्वरूपग्रहणं संसारिजीवप्रतिषेधार्थ, तस्य हि वययस्पिण्डवत् कर्म्मणा सह लोलीभूततया कथञ्चिन्मूर्त्तत्वेनाभ्युपगमात् वक्ष्यति - 'अहवा गतोऽयं संसारी सबहा अमुत्तोति । जमणाइकम्मसंतइपरिणामावन्नरूवो सो' इति । | यद्वा सामान्येन तत्खरूपविशेषनिर्द्धारणार्थमतो न कश्चिद्दोषः ॥ १९३ || (इति) अमूर्त्तत्वसिद्धिः । व्याख्यातं द्वारगाथोपन्यस्तममूर्त्त इति द्वारम् ॥ अधुना परिणामीति व्याख्यानयन्नाह परिणामी खलु जीवो सुहादिजोगातो होइ यो । गंतणिञ्चपक्खे अणिच्च पक्खे य सो जुत्तो ॥ १९४ ॥ खलुशब्द एवकारार्थः, परिणाम्येव जीवो भवति ज्ञातव्य इति साध्यनिर्देशः, सुखादियोगादिति हेतुः, अयं हि जीवः कदाचिदिष्टसंप्रयोगादिना सुखीभवति स एव पश्चादिष्ट वियोगानिष्टसंप्रयोगादिना दुःखीभवति, न चैकस्य तथातथापरिणमनमन्तरेणायं सुखादियोग उपपद्यते, ततः सुखादियोगान्यथाऽनुपपत्त्या परिणामी जीवो ज्ञातव्यः स्यादेतत्-सुखादियोगोऽपि स्यान्न च परिणामी, को यत्र प्रतिबन्धो ? येन परिणामित्व एव सुखादियोग Page #196 -------------------------------------------------------------------------- ________________ धर्म ॥ ९६ ॥ Jain Education Int इत्यत आह- 'गंतेत्यादि' न यस्मादेकान्तनित्यपक्षे अनित्यपक्षे च सुखादियोगो युक्तो, यथा च न युक्तस्तथोपरिष्टादाचार्येण खयमेव वक्ष्यते, ततो विपक्षादन्यथाऽनुपत्त्या व्यावर्त्तमानः परिणाम्यात्मधर्म्मत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ॥ १९४ ॥ तत्रैकान्तनित्यपक्षे सुखादियोगस्यायुक्ततां भावयन्नाह एगसहावो णिच्चो स जइ सुही णिच्चमेव तब्भावो । पावs तस्स अह दुही दुहभावो दिस्सए चुभयं ॥ १९५ ॥ मात्मा एकान्तनित्य इष्यते ततो हन्त सर्वदैवायमेकस्वभाव इष्टः स्यात्, अप्रच्युतानुत्पन्नस्थिरैकस्वभावलक्षणत्वादेकान्त नित्यत्वस्य, ततश्च स यदि सुखी स्यात् ततो नित्यमेव ' सर्वदैव तस्य - आत्मनस्तद्भावः- सुखिभावः प्राप्नोति, अथ दुःखी तर्हि नित्यमेव दुःखिभावः प्राप्नोति । भवत्वेतत् का नो हानिरिति चेदत आह- 'दिसते चुभयमिति' | दृश्यते चोभयं - सुखःदुखरूपमात्मनः तथाहि - स एव पुत्रजन्मादिना सुखी तद्वियोगादिना च दुःखी दृश्यत इति ॥ १९५॥ अत्र पराभिप्रायमाशङ्कमान आह-उभयसहावोत्ति मती जुगवं वेदेज दोऽवि सुहदुक्खे | कमवेदगरसभावोऽणिच्चत्तं पावती अवस्सं ॥ १९६ ॥ संग्रहणिः. ॥ ९६ ॥ Page #197 -------------------------------------------------------------------------- ________________ धर्म. १७ Jain Education I अथ स्यादियं मतिः परस्य यथा दृश्यते एवास्माभिरप्यात्मनः सुखदुःखानुभवो न च दृष्टस्यापह्नवः कर्तुं शक्यते, मा प्रापदतिप्रसङ्गः, तस्मात्सुखदुःखोभयस्वभाव आत्मेष्यत इति, अत्र दूषणमाह - 'जुगवमित्यादि' यद्येवमिष्यते ततो हन्त युगपदेककालं द्वे अपि सुखदुःखे वेदयेत, उभयस्वभावत्वात् न च वेदयते, तदनुभवस्य स्वसंवेदनप्रत्यक्षेण क्रमशो निश्चीयमानत्वात्, यश्च क्वचित् यौगपद्याभिमानो यथा नदीमुत्तरता यदैव पादयोः शीतलजलसंस्पर्शात्सुखमनुभूयते तदैव खल्वाटे शिरस्यातपसंपर्कतो दुःखमपीति, सा भ्रान्तिः कालस्यात्यन्तसूक्ष्मत्वेन मनसोऽतीवाशुसंचारित्वेन च क्रमानुभवस्य सतोऽप्यनुपलक्षणात् मनो यत्यन्तसूक्ष्मं ततो यदैकेन स्पर्शनेन्द्रियदेशेन सह संबध्यते न तदैवान्येन, यद्देशेनैव च सह संबद्धं तद्देश एव विज्ञानहेतुः नेतरत्र, ततो न युगपद्विज्ञानानुभवसंभव इति स यौगपद्येनानुभवाभिमानो भ्रान्तिमात्रमेव । तदुक्तम् - "मुंहुमाऽऽसुचरं चित्तं इंदियदेसेण जेण जं कालं । संबज्झइ तं तम्मत्तनाणहेउति नो तेण ॥१॥ उबलब्भइ किरियाओ जुगवं दो दूरदेसभिन्नाओ । पायसि - रोगयसीउण्हवेयणाणुभवरूवाओ ॥ २ ॥ इति । अपि च युगपज्ज्ञानानुत्पत्तिरेव मनसो लिङ्गम्, यौगपद्यं चेत् ज्ञानस्याभ्युपगम्येत ततस्तदन्यलिङ्गाभावान्मनः कल्पना निरालम्वना स्यादिति, स्यादेतत्-यदि नाम तस्योभयख १ सूक्ष्ममाशुचरं चित्तमिन्द्रियदेशेन येन यस्मिन् काले | संबध्यते तस्मिन् तन्मात्रज्ञानहेतुरिति नो तेन || १ || उपलभ्येते क्रिये युगपद् द्वे दूरदेशभिन्ने । पादशिरोगतशीतोष्णवेदनानुभवरूपे ॥ २ ॥ Page #198 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः, ॥९७॥ भावता तथापि कथं सदा यौगपद्यन सुखदुःखानुभवप्रसङ्ग आपद्यते, न हि तस्वेत्थंभूतः खभावों, यदत सदा योगपद्येन सुखदुःखे वेदयितव्ये, किंतु सामान्येनोभयवेदकत्वम्, तथा च सति कदाचित्सुखं वेदयिष्यते कदाचिहःखमपीति न कश्चिद्दोप इत्यत आह-'कमवेयगेत्यादि' क्रमेण सुखदुःखयोर्वेदके खभावे इष्यमाणेऽवश्यमनित्यत्वं तस्य प्राप्नोति ॥ १९६ ॥ कथमिति चेत् ? अत आह वेदेइ जया स सुहं न तदा दुहवेदगस्सभावो से। तन्निवित्तीऍ तओऽणिच्चो सो जं तओऽणपणो ॥ १९७ ॥ क्रमेण हि सुखदुःखयोर्वेदके खभावे इष्यमाणे वेदयते यदा आत्मा सुखं न तदा-सुखवेदनकाले 'से' तस्यात्मनो दुःखवेदकखभावो विद्यते, ततश्च तदा तस्य-दुःखवेदकखभावस्य निवृत्तौ सत्यां 'तउत्ति' सक आत्मा अनित्यः प्राप्नोति, स्वभावनिवृत्तौ कथञ्चित्वभाववतोऽपि निवृत्तेः, कथमित्यत आह-'सो जं तओऽणण्णो' सः-दुःखवेदकः खभावो यत्-यस्मात्ततः-तदात्मनः सकाशादनन्यः-अनान्तरभूतः, न हि खभावः स्वभाविनोऽर्थान्तरभूतो भवितुमर्हति, अन्यथा निःस्वभावत्वेन तस्य खरविषाणस्येवाभावप्रसङ्गात्, ततोऽनर्थान्तरभूतस्य दुःखवेदकखभावस्य निवृत्ती | तस्याप्यात्मनः कथञ्चिन्निवृत्तिरित्यनित्यत्वम् ॥ १९७ ॥ अत्र पराभिप्रायमाह |९७॥ C Jain Education Inter For Private Personel Use Only Page #199 -------------------------------------------------------------------------- ________________ अह णो तस्स निवित्ती कहं ण दुक्खी ? जहा सुही. को वा । उभयसहावत्ते सइ हंदि विसेसो स जेण सुही ? ॥ १९८॥ | अथ स्यादियं मतिः परस्य-न तस्य-दुःखवेदकखभावस्य निवृत्तिः, किंतु सोऽपि तदानीं विद्यत एव, ततो न कश्चिद्दोष इति,अत्राह-'कथमित्यादि' यदि स दुःखखभावस्तदानीं न निवर्तते तर्हि कथं स आत्मा दुःखी न भवति ?, यथा सुखी, स हि तदा सुखी सुखवेदकखभावत्वाद्भवति, स च वेदकखभावस्तदानीं दुःखस्याप्यविशिष्ट इति दुःख्यपि स्यादेव, अथ न सुखस्य दुःखस्य वा वेदकखभावसंभवमात्रेणात्मा सुखी दुःखी वा भवति, किंत्वन्यस्माद्विशेषहेतोरित्यत आह-'को वेत्यादि' उभयखभावत्वेऽविशिष्टेऽपि 'हंदीति' परामन्त्रणे को वाऽसौ विशेषो विद्यते ? येन विशेषेण संभवता सता आत्मा तदान सुखी भवति न तु दुःखी ?, नैव कश्चिद्विशेषोऽस्तीति भावः ॥१९८॥ परो विशेषमुपदर्शयितुमाह अस्थि विसेसो जम्हा स सुही सहकारिकारणं पप्प । होइ सयचंदणादी विससत्थादी य दुक्खित्ति ॥ १९९ ॥ Jain Education For Private & Personel Use Only w w w.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ धर्म ॥ ९८ ॥ Jain Education अस्ति विशेषो यद्वशादुभयस्वभावत्वेऽविशिष्टेऽपि कदाचित् सुखी कदाचिदुःखी, तमेव विशेषं सुखादिलक्षणकार्यान्वयव्यतिरेकाभ्यां दर्शयति-यस्मात्सः - आत्मा स्रक्चन्दनादिकं सहकारिकारणं प्राप्य सुखी भवति, विपशस्त्रादिकं च सहकारिकारणमासाद्य दुःखी, अस्माच्चान्वयाभिधानाय तिरेकोऽपि लभ्यते, अन्वयस्य व्यतिरेकाविना भूतत्वात्, ततश्च यतः स्रक्चन्दनाद्यभावे न सुखी भवति नापि विपशस्त्राद्यभावे दुःखी, तस्मादस्त्येव च स्रक्चन्दनादिविपशस्त्रादिलक्षणसहकारिकारणसन्निधानरूपो विशेष इति ॥ १९९ ॥ स्यादेतत् यद्येवं विशेषस्ततोऽस्यापि युगपत्संनिधानात्स एव यौगपद्येन सुखदुःखानुभवप्रसङ्गः प्राप्त इत्यत आह णय तेसि सण्णिहाणं जुगवं नो तेण होंति सुहदुक्खा । इय उभयसन्निहाणे पावइ नणु उभयभावोऽवि ॥ २०० ॥ न च 'ते' सक्चन्दनादीनां विपशस्त्रादीनां च युगपद् - एककालं सन्निधानं, किंतु कदा चित्, तेन कारणेन न सुखदुःखे युगपद्भवतः । अत्र दूषणमाह -' इय' इत्यादि, इतिरेवमर्थे, एवं सति कदाचिदुभयस्य - सक्चन्दनादिविषशस्त्रादिलक्षणस्य सन्निधाने सति, नन्विति पराक्षेपे, तस्यात्मन उभयभावोऽपि -सुखदुःखभावोऽपि प्राप्नोति, तथा कारणसंभवात् अन्यथा तत्तस्य कारणमेव न स्यात्, न चोभयसन्निधानं न भवति, कदाचित्तथोपलम्भात्, न च तथोभयसन्निधानेऽपि कदाचनापि सुखदुःखोभयभावो यथोक्तं प्रागिति यत्किञ्चिदेतत् ॥ २०० ॥ संग्रहणिः. ॥ ९८ ॥ Page #201 -------------------------------------------------------------------------- ________________ सहकारिकारणं से किं उबगारं करेइ किं वा णो ? । जं पप्प होइ स सुही दुहावि दोसा अणेगविहा ॥ २०१॥ यत् सहकारिकारणं स्रक्चन्दनादिकं विषशस्त्रादिकं वा प्राप्य स सुखी भवति, उपलक्षणमेतत् दुःखी वा भवति, तत् 'से' तस्यात्मनः किमुपकारं करोति किंवा नेति पक्षद्वयम्, किंचात इति चेदत आह 'दुहावि दोसा अणेगविहा' द्विविधापि द्वाभ्यामपि उपकारकरणाकरणलक्षणाभ्यां प्रकाराभ्यां दोपा वक्ष्यमाणा अनेकविधाः-18 दो अनेकप्रकाराः प्रामुवन्ति ॥२०१॥ तानेवाह जइ कुणइ हंत तत्तो भिन्नमभिन्नं व तं करेजत्ति ? । भिन्नण तेण जोगो होइ अणिच्चो अभिन्नम्मि ॥ २०२॥ यदि करोति तत्सहकारिकारणमुपकारमात्मन इत्यभ्युपगमस्ततो 'हन्तेति' विषादे, तदुक्तम्- "हन्त संप्रेषणप्रत्यवधारणविपादेविति" आत्मनः सकाशाद्भिन्नम्-अर्थान्तरभूतमभिन्नं वा-अनर्थान्तरभूतं उपकारं कुर्यात् । पक्षद्व६ येऽपि दोषमाह-भिन्ने इत्यादि' भिन्ने उपकारे क्रियमाणे न तेन-उपकारेणात्मनो योगः-संवन्धः कश्चित् घटते, घटप-18 AAAAAAAAAAAA*** Jain Education indin HTwiainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ धर्म SOCCASA संग्रहणिः. ॥९९॥ टवत् , तथा च सति तदापि तदवस्थत्वान्नात्मा सुखी दुःखी वा स्यात् । अथ मा भूदेष दोष इत्यभिन्न उपकारः क्रियत इत्यभ्युपगम्यते, तदयुक्तम् , विकल्पाभ्यामनुपपत्तेः, तथाहि-स उपकार आत्मनोऽनर्थान्तरभूतः क्रियते किं विद्यमानोऽविद्यमानो वा ?, यदि विद्यमानः कथं क्रियते ?, कृतस्य करणायोगात्, क्रियते चेत्तीनवस्थाप्रसङ्गः, विद्यमानस्यापि हि करणाभ्युपगमे विद्यमानत्वाविशेषात् भूयो भूयः करणप्रसङ्गः, अथाविद्यमानो, व्याहतमेतत् , सतोऽनर्थान्तरभूतोऽविद्यमानश्चेति, विद्यमानाव्यतिरिक्तो हि विद्यमान एव भवति, अन्यथा तदव्यतिरेकायोगात् । स्यादेतत्-किमनेन गजव्यापादनविकल्पेन (विकल्पकल्पेन) वाग्जालेन? सत एव हि वस्त्रस्य नील्या|दिरागद्रव्येणाविद्यमानस्तदव्यतिरिक्तो नीलतादिरूप उपकारः क्रियमाणो दृष्टः, न च दृष्टेऽनुपपन्नं नाम किंचि|दित्यतो दूपणान्तरमाह--'होइ अणिचो अभिन्नम्मित्ति' अभिन्ने-अनर्थान्तरभूते उपकारे क्रियमाणेऽभ्युपगम्यमाने सति आत्मा अनित्यो भवति-प्राप्नोति,उपकारे हि क्रियमाणे स एवात्मा तथाभूतः कृतः स्यात् ,तस्य तदव्यतिरि-| तत्वादिति ॥२०२॥ एतदेव भिन्नाभिन्नरूपं पक्षद्वयं सप्रपञ्चं भावयति जइ भिन्नो उवगारो जातो तत्तो किमागयं तस्स ? । तत्तो पुणोवि तम्मि भिन्ने दोसोऽणवत्था उ ॥ २०३ ॥ CCORRORSCOR For Private & Personel Use Only Page #203 -------------------------------------------------------------------------- ________________ यदि स्रक्वन्दनादिकाद्विषशस्त्रादिकाद्वा सहकारिणः सकाशादात्मन उपकारो भिन्नो जातस्ततस्तस्यात्मनः किमायातं?,नैव किञ्चनेति भावः,सहि तदवस्थ एव, ततःप्राग्वत् स सुखी दुःखी वा तदा न स्यात् , अथ तेन सहकारिजनितेनोपकारेणात्मनः पुनरुपकारः क्रियते ततः कथमुच्यते किमागतं तस्येत्यत आह-तत्तो इत्यादि' ततः-सहकारिकृताद्भिन्नादुपकारात्पुनरपि-भूयोऽपि तस्मिन्नुपकारे भिन्नेऽभ्युपगम्यमाने दोषो महान् प्राप्नोति,क इत्याहअनवस्था तु-अनवस्थाप्रसङ्गः, तुः पूरणे, तथाहि-उपकारेणापि कृत उपकारस्तस्मादात्मनो भिन्न एव स्थादभेदपक्षस्थानभ्युपगमात्, तथा च सति तस्य किमागतमित्यादि तदेवावर्त्तते इत्यनवस्था ॥२०३॥ द्वितीयपक्षे| दोषमुद्भावयन्नाह अन्भिन्नम्मि अणिच्चो पावइ जीवो तहा य तकरणे। पुवातो अन्नो च्चिय भिन्नसहावो कतो होति ? ॥ २०४ ॥ सहकारिणः सकाशादभिन्ने-अनर्थान्तरभूते उपकारे जाते सति सजीवः-आत्मा अनित्यः प्रामोति। कथमित्याह-| 'तहा येत्यादि' तथा चेति अनित्यत्वप्रसक्तिप्रकारोपदर्शने, तत्करणे-तस्य-अनर्थान्तरभूतस्योपकारस्य करणे पूर्वस्मात्-पूर्वकालभाविनो जीवादन्य एव-विभिन्नखभावो जीवः कृतो भवतीति ॥२०४॥ Jain Education inte For Private & Personel Use Only ww.jainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ संग्रहणि ॥१०॥ RECALCOACCOCAUSACCOCRAC-SCOCOC अह णो कुणतुवगारं तं. किं तेणं ?. तदन्नभावे य । किं ण तओ होइ सुही ?. णो अन्नं तस्सहावं चे ? ॥ २०५॥ अथ मा प्रापदयं दोप इति न तत् स्रक्चन्दनादिकं विषशस्त्रादिकं वा सहकारिकारणमात्मन उपकारं करोतीति पक्ष आश्रीयते, अत्राह-'किं तेणं ति' यद्येवं ततः किं तेन सहकारिणाऽपेक्षितेन कार्य ?, नैव किञ्चिदिति भावात तथा च सति तदन्यभावे च'तस्माद-विवक्षितात्सहकारिणः सकाशादन्यद्-वस्त्वन्तरं तद्भावेऽपि,चोऽपिशब्दार्थ,किन्न सक-आत्मा भवति सुखी, उपलक्षणमेतदुःखी वा ?, भवेदेवेति भावः, एतदुक्तं भवति-यदि सकचन्दनादिकं विषशस्त्रादिकं वाऽऽत्मनो नोपकारमाधत्ते तर्हि नैतत्तस्य सहकारि,अकिञ्चित्करत्वात् ,अन्यथा सर्वभावानामपि तत्सहका-18 रित्वप्रसङ्गः,तद्विशेषाकरणेनाविशेषात् ,तथा च सत्यकारित्वाविशेषात्तदन्यवस्त्वन्तरभावेऽपि स सुखी दुःखी वा स्यादि ति । अत्र पराभिप्रायमाशङ्कमान आह-'नो अन्नं तस्सहावं चेत्ति' न अन्यद्-वस्त्वन्तरं तत्स्वभावं-सुखजननवभावं दुःखजनस्वभावं वा, किंतु स्रक्चन्दनाद्येव, ततो नान्यभावेऽपि स सुखी दुःखी वा भवतीति चेत् ॥२०५॥ अत्राह-18 नणु जं कुणउवगारं सहावभेदोऽवि तग्गतो जुत्तो। भणिओ विवरीयस्स तु णिरत्थगो सो मुणेयवो ॥ २०६॥ CRECASCIRCCCUSAGAR ॥१० Jain Education For Private Personel Use Only Page #205 -------------------------------------------------------------------------- ________________ SRUSSSSSSSOCCAMES ननु यत्करोत्युपकारमात्मन इति गम्यते, 'स्वभावभेदोऽपि' खभावविशेषोऽपि तद्वत एव भणितुं 'युक्तः' संगतः। विपरीतस्य तु-अनुपकारकस्य पुनः 'स' खभावविशेपो व्यावय॑मानो निरर्थक एवं 'मुणितव्यो' ज्ञातव्यः, तथाहितदा तस्य स्वभावविशेषव्यावर्णनमुपयुज्यते यदा यद्वस्तु उपकारि भवति, यदा तु तद्वस्तु अनुपकारकमेव तदा तत उपकार्यस्य विशेषप्रतिलम्भाभावाविशेपात् तदन्यस्येव तस्यापि सकचन्दनादेः खभावविशेपव्यावर्णनमनर्थकमेवेति ॥ २०६ ॥ एतदेव दृष्टान्तेन समर्थयते जह खग्गसरिसवाणं अणुम्मि छेदं पडुच्च निच्चम्मि । तहवि तओ अस्थि मतो अत्थि फलं पति स तुल्लो उ ॥ २०७ ॥ यथा 'नित्से' शस्त्राविषये अणौ' परमाणौ 'छेदं' द्वैधीभावं प्रतीत्य खड्गसर्पपयोः स्वभावविशेषो व्यावय॑मानो | निरर्थकः, उभयोरपि तत्राकिञ्चित्करत्वेनाविशेषात् । अयोध्येत-तथापि-छेदकारित्याभावाविशेषेऽपि, 'तउत्ति' सकः15 स्वभावविशेषः खड्गसर्पपयोः खरूपेणास्ति-विद्यते, तथाऽत्रापि उपकारित्वाभावाविशेषो भविष्यतीति, अनाह'अत्थि फलं पइ स तुलो उ' इति, अस्ति खड्गसर्पपयोः स्वरूपेण खभावविशेषः, परं स स्वभावविशेषः फलम्-अणु-1 Jain Education in For Private & Personel Use Only hiww.jainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ धर्म ॥ १०१ ॥ च्छेदनलक्षणं प्रति तुल्य एवोभयोरपि, तत्राकिञ्चित्करत्वात् एवमत्रापि । ततो यथा तयोः स्वभावविशेषो व्यावर्ण्यमानो निरर्थकस्तथेहापीति स्थितम् ॥ २०७ ॥ पुनरप्यत्र पराभिप्रायमपाकर्तुमाशङ्कते - अह तस्सेव सहावो सोऽणुवगारिणंपि संपप्प | सहकारिकारणं जं होइ सुही अहव दुक्खित्ति ॥ २०८ ॥ अथ तस्यैवात्मनः एप स्वभावो यत्सहकारिकारणं स्रक्चन्दनादिकं विपशस्त्रादिकं वा अनुपकार्यपि संप्राप्य सुखी दुःखी वा स भवति, तदयुक्तम्, विकल्पानुपपत्तेः । तथाहि पत्तम्मि सो सहावो किमवेति णवत्ति ? चरमपक्खम्मि । पुवसहावत्ता सोण सुही पुबिंव पच्छावि ॥ २०९ ॥ तस्मिन् वित्रक्षिते सहकारिणि प्राप्ते सति आत्मनः स खभावः किमपैति नवेति पक्षद्वयम्, तत्र पश्चादुपन्यस्तत्वेन चरमपक्षस्यातीव प्रत्यासन्नत्वात्तमेवाधिकृत्य तावदाह - 'चरमपक्खम्मीत्यादि' चरमपक्षे आश्रीयमाणे पूर्वमिव पश्चादपि न सुखी स्यात् उपलक्षणमेतत्, दुःख्यपि न स्यात्, पूर्वस्वभावाविच्छेदात्, विवक्षितसहकारिसन्निधानाद्धि संग्रहणिः. ॥१०१॥ Page #207 -------------------------------------------------------------------------- ________________ Jain Education Inte प्राकू य एवात्मनः स्वभाव आसीत् स एव विवक्षितसहकारिसन्निधानेऽपि ततः प्रागिव तत्कालेऽपि न सुखी दुःखी वा भवेदिति ॥ २०९ ॥ पर आह णु तं पुत्रमपत्तं पच्छा पत्तंति तह य एसो तु । तस्स सहावो भणितो वियप्पणा निष्फला तेण ॥ २९० ॥ नन्विति पराक्षेपे, तदुक्तम् — “प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणवाक्यारम्भप्रत्युक्ताक्षेपे नन्विति", यस्मात् तत्विवक्षितं सहकारिकारणं पूर्वमप्राप्तं पश्चाच्च प्राप्तम्, तथा आत्मनोऽपि च एप एव स्वभावो भणितः प्रागस्माभिर्यदुतअनुपकार्यपि सहकारिकारणं संप्राप्य सुखी दुःखी वा भवति नान्यथेति, तस्मात् या एषा - किमपैति नवेति विकल्पना सा निष्फलैब, प्रस्तुतार्थव्याघातकारित्वाभावात् ॥ २१० ॥ अत्रोत्तरमाह - पत्तम्मि अपत्तम्मि य तम्मि सति सबहेगरूवस्स । गावस्थाभेदोऽवि ण जुज्जती तस्स ॥ २१९ ॥ किं पुण सुहादिभेदो मज्झत्थेनंतरपणा सम्मं । चिंतेहि ता सयं चिय ण एमवि संगतं णिच्चे ॥ २१२ ॥ Page #208 -------------------------------------------------------------------------- ________________ धर्म ॥१०२॥ ननु तस्यात्मनस्तस्मिन् सहकारिणि प्राप्ते अप्राप्ते वा सति सर्वथैकरूपस्य - अप्रच्युतानुत्पन्नैकस्थिरस्वभावस्य एतदेव पर्यायान्तरेण व्याचष्टे -- एकावस्थस्य - नित्यमेकस्वभावस्य सतोऽद्धाभेदोऽपि सहकारिप्राप्यप्राप्तिविशिष्टो न युज्यते, किं पुनः सुखादिभेदः, स पुनर्द्वरापास्त एवेति भावः । इत्येतत्तावत् मध्यस्थेनान्तरात्मना सम्यक् चिन्तय-पर्यालोचय । यद्वा किमत्र चिन्तनेन ?, निश्चितमेतत् एतदपि पूर्वोक्तं 'नणु तं पुत्रमपत्तमित्यादिकं नित्ये आत्मन्यभ्युपम्यमाने सर्वथा न संगतमेव, तथाहि - विवक्षितसहकारिसन्निधानेन सह सुखित्वभवनलक्षणः स्वभाव आत्मनो नित्य इष्यते, ततः सहकारिणोऽपि विवक्षितस्य नित्यं सन्निधानं प्राप्नोति, अन्यथाऽऽत्मनस्तत्स्वभावत्वहानिप्रसङ्गेनानित्यत्वप्राप्तेः तथा च सति कुतः सहकारिप्रात्यप्राप्तिविशिष्टस्याद्वाभेदस्य संभव इति ॥ २११ - २१२ ॥ द्वितीयपक्षमधिकृत्याह - ress सो सहावो तस्संपत्तीए जुज्जती एतं । किंतु अणिच्चो पावs ण यत्थि पक्खंतरं अण्णं ॥ २९३ ॥ अथ तस्य विवक्षितस्य सहकारिणः संप्राप्तौ सत्यां यः सहकार्य प्रात्यवस्थायां स्वभाव आसीत् सोऽपैतीत्यभ्युपगम्यते, अत्राह - 'तस्संपत्तीए इत्यादि,' नन्वेवमभ्युपगम्यमाने सति आत्मनस्तत्संप्राप्तौ तस्य - विवक्षितस्य संग्रहणि: ॥१०२॥ Page #209 -------------------------------------------------------------------------- ________________ धर्म. १८ सहकारिणः संप्राप्तौ सत्याम् एतत्' प्रतिनियतकालभावि सुखित्वं दुःखित्वं चोपलभ्यमानं युज्यत एव तदभव |नलक्षणस्वभावनिवृत्तौ तदा तद्भवनलक्षणस्य स्वभावान्तर स्योत्पादात्, किंत्वेवमभ्युपगमे सति स आत्मा अनित्यः प्राप्नोति, “अतादवस्थ्यमनित्यतां ब्रूम इति न्यायात्" । न च किमपैति नवेतिलक्षणपक्षद्वयव्यतिरिक्तं पक्षान्तरमस्ति, येन भवतामिष्टसिद्धिः स्यात्, आत्मनश्च क्रमेण सुखादित्वमुपपद्येत, तथा चाह - 'न अस्थि पक्खंतरं अन्नं' । अथोच्येत तस्यात्मन इत्थंभूत एवैकः खभावो येनाऽऽकालं ततस्ततः प्रतिनियतात् लक्चन्दनादेर्विषशस्त्रादेव सन्निधीयमानात् सहकारिकारणात् तदा तदा तस्य तस्य सुखित्वस्य दुःखित्वस्य वा भाव इति, तथा च सति सहकारिसन्निधौ पूर्वस्वभावाविनिवृत्तावपि न पूर्ववत् सुखित्वाद्यभावः, पूर्व तस्य सहकारिणोऽभावात् संप्रति च तस्य भावात्, न च सुखित्वभवनादूर्द्धमात्मनस्तस्य स्वभावस्य निवृत्तिः, सदा तथास्वभावत्वात् न चाऽऽकालं केवलसुखितादिप्रसङ्गः, तथास्वभावत्वादेव, न च वाच्यं कथमित्थमेतदिति, स्वभावस्यापर्यनुयोगार्हत्वादिति । तदेतन्निविडज डिमावष्टब्धान्तःकरणताविलसितं यदित्थमपि परो विरुद्धं भाषते, तथाहि - सुखित्वादिभावेऽपि सति न स स्वभावो निवर्त्तते यः प्रागासीत्, न च तत्स्वभावानिवृत्तावपि तस्याकालं केवलसुखादित्व (सुखित्वादि) प्रसङ्ग इति परस्परव्याहतमेतत् । यदि हि तस्य स्वभावस्यानिवृत्तिः कथमाकालं न सुखित्वादिप्रसङ्गः, तत्प्रसङ्गाभावश्चेत्कथं तत्खभावानिवृत्तिरिति यत्किंचिदेतत् ॥ २९३ ॥ सांप्रतं सांख्यमतमपाचिकीर्षुरिदमाह - Page #210 -------------------------------------------------------------------------- ________________ संग्रहणि ॥१०॥ अह अण्णे सुखदुक्खे अण्णे आतत्ति अणुहवो कस्स। आबाललोगसिद्धो ? तप्पडिबिंबातो तस्सेव ॥ २१४ ॥ अथ मन्येथाः-अन्ये एव सुखदुःखे अन्यश्चात्मा तत्कथं सुखादियोगान्यथानुपपत्त्या आत्मनः परिणामित्वमापद्यत इति ? । अत्राह-'अणुहवो इत्यादि,' यदि सुखदुःखाभ्यामेकान्तेनान्य एवात्मा स्यात्तर्हि योऽयमावाललोकसिद्धः सुखदुःखयोरनुभवः स कस्य स्यात् ?, नैव कस्यचिदिति भावः, आत्मनोऽनभ्युपगमात् , अन्यस्य चाचेतनत्वेन घटादेरिव तदभावात् । पर आह-'तप्पडिविवाओ तस्सेव' तयोः-सुखदुःखयोः प्रतिबिम्बात्तस्यैवात्मनः सुखाद्यनुभवो नान्यस्येति नानुभवविरोधः ॥ २१४ ॥ अत्रैव दृष्टान्तमाह फलिहमणिस्सालत्तग-जोगातो रत्तयत्व एयंपि। तस्सेव तहापरिणाम-विरहतो सवहा जुत्तं ॥ २१५॥ स्फटिकमणिः-उपलविशेषस्तस्य यथा अलक्तकयोगात् रक्तता भवति तथा आत्मनोऽपि सुखादीनां सन्निधानात् तत्प्रतिबिम्बेन तदनुभव इति। अत्र दूपणमाह-'एयंपीत्यादि' एतदपि-प्रतिविम्वं तस्यैव-आत्मनस्तथापरिणाम ॥१० ॥१०॥ For Private & Personel Use Only Www.jainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ Jain Education विरहतः तत्तत्प्रतिविम्वरूपतापत्तिलक्षणपरिणाममन्तरेण सर्वथा न युक्तम्, स्फटिकोपलस्य हि तत्तदुपधानभेदेन तत्तत्प्रतिविम्बं युक्तं, तस्यापरापररूपापत्तियोगतः परिणामित्वात्, आत्मा तु त्वया एकान्तनित्य इष्यते, ततस्तस्य तथापरिणामशून्यत्वेन सर्वथा प्रतिविम्वमयुक्तमेवेति ॥ २१५॥ अथ मा भूदेष दोष इति तस्य तथापरिणाम इष्यते, तत आहतस् य तहपरिणामे परिणामित्तं पसज्जती तह य । ल्हायादिसहावत्ता तद्धमत्तं सुहादीणं ॥ २१६ ॥ तस्य च-आत्मनः प्रतिविम्वान्यथानुपपत्त्या तथापरिणामे - अपरापरसुखादिप्रतिविम्वरूपतापत्तिलक्षणेऽभ्युपगम्यमाने परिणामित्वं प्रसज्यते, तथा च सति तस्यात्मनो ह्रादादिखभावत्वात् सुखादीनामात्मधर्मत्वं सज्यते, तथाहि - आत्मा सुखादिप्रतिविम्वरूपपरिणामभावात् हादादिखभावो जातो, ह्रादादयश्च सुखादय इति ॥ २१६ ॥ सुखादीनामात्मधर्म्मत्वमेव सर्वज्ञमुखेन द्रढयति onal सुहदुक्खे सातेतर कम्मोदयजे जिणेहि पण्णत्ते । आयपरिणामरूवे ऊहाविन्नाणगम्मेति ॥ २९७ ॥ Page #212 -------------------------------------------------------------------------- ________________ ॥१०४॥ सुखदुःखे सातेतरकर्मोदयजे-सातासातवेदनीयकर्मोदयसमुद्भवे आत्मपरिणामरूपे, 'जिनैः' सर्वज्ञैः प्रज्ञप्ते, न । संग्रहणि. केवलं जिनैः प्रज्ञप्ते ऊहाविज्ञानगम्ये च, दृष्टस्यान्यथानुपपत्त्या अदृष्टस्यानुस्मरणमूहा सा च तद्विज्ञानं च तेन गम्ये यथोक्तं प्राकू । तदेवं जिनैः प्रज्ञप्तत्वात् ऊहाविज्ञानगम्यत्वाच सुखादीनामात्मधर्मत्वम् , तथा च सति तेषां सुखादीनामन्यथानुपपत्तेरात्मनः परिणामित्वमिति स्थितम् ॥२१७॥ सांप्रतमतिदेशेनान्येषामपि दूषणमभिधित्सुराह एवं अणुहवसिद्धो घडपडसंवेदणादिभेदोऽवि । एगंतणिच्चपक्खे न संगतो बंधमोक्खो य ॥ २१८ ॥ 'एवम्'उपदर्शितप्रकारेण एकान्तनित्यपक्षे घटपटसंवेदनादिभेदोऽपि 'अनुभवसिद्धः' प्रतिप्राणिखसंवेदनप्रमाणसिद्धो| 'न संगतो' न युक्तः, तथाहि-न ज्ञानमात्मनोऽर्थान्तरभूतं, तथा सति खयमचेतनस्य सतःप्रतिप्राणिप्रसिद्धघटपटादिसंवित्त्यभावप्रसङ्गात् , न च ज्ञानमात्मनि समवेतमिति संवित्त्यभावप्रसङ्गोन युक्त इति वाच्यम् , समवायस्य निषेत्स्यमानत्वात् , किंत्वात्मनोऽनन्तरभूतम् , तथा च सति यद्येकान्तेनात्मा नित्य इष्यते ततः प्रतिप्राणिप्रसिद्धो घटपट-II ॥१०४॥ | संवेदनादिविवतः सर्वथा नोपपद्यते, तस्याप्रच्युतानुत्पन्नैकस्थिरखभावत्वात् , किंत्वाकालमेकमेव घटाद्यन्यतमसंवेदनं भवेत् , आस्तामेष संवेदनभेदो न संगतः, अपि तु बन्धमोक्षावपि, तथाहि-एकान्तनित्यस्य सतः सर्वदा बन्धो Jain Education inHello For Private & Personel Use Only Raw.jainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ वा स्यात्केवलो मोक्षो वा, न पुनर्द्वयम्, अनित्यत्वप्रसक्तेः, पूर्वतनवन्धलक्षणस्वभावोपमर्दैन मुक्तिलक्षणस्य स्वभावान्तरस्योत्पादात् , तस्मात् घटादिसंवेदनान्यथानुपपत्त्या बन्धमोक्षान्यथानुपपत्त्या चात्मा नियमात्परिणामी प्रतिपत्तव्यः ॥२१८॥ तत्र घटादिसंवेदनभेदासंगतत्वमेकान्तनित्यपक्षे विभावयिषुनिज्ञानिनोरकान्तभेदाभ्युपगमं निराकुर्वन्नाह ण य णाणं णाणिस्सा एगंतेणेव जुजते अण्णं । पडिवत्तादी ण तओ तस्स हवेजा जहऽन्नस्स ॥ २१९ ॥ चशब्दो हेत्वर्थे । यस्मान्न ज्ञानं ज्ञानिनः सकाशादेकान्तेनान्यद्-अर्थान्तरभूतं युज्यते, तथा सति हि तस्य-आत्मनस्ततो-ज्ञानान्नैव प्रतिपत्त्यादि भवेत् , आदिशब्दात्प्रवृत्त्यादिपरिग्रहः, दृष्टान्तमाह-यथा अन्यस्य, तथाहि-न देव-13 दत्तसंवन्धिनो ज्ञानात् जिनदत्तस्य प्रतिपत्त्यादि भवति, विभिन्नत्वात् , तथा आत्मनोऽपि भेदाविशेषात् न ततः प्रतिपत्त्यादि भवेत् , ततो ज्ञानमात्मनोऽनर्थान्तरभूतम् । ततश्च यद्ययमात्मा एकान्तनित्य इष्यते तर्हि तस्याप्रच्युतानु त्पन्नैकस्थिरखभावत्वात् घटपटसंवेदनादिभेदो न स्यात् , तस्मादयमात्मा परिणामीति ॥ २१९ ॥ बन्धमोक्षासंद्र गतत्वमेकान्त नित्यपक्षे भावयति Jain Education For Private & Personel Use Only W ww.jainelibrary.org Page #214 -------------------------------------------------------------------------- ________________ संग्रहणिः ॥१०५॥ हिंसादिपरिणती बंधकारणं सा य णिच्चपक्खम्मि। एगसहावत्ता सति ण जुज्जते णिच्चभावो वा ॥ २२० ॥ हिंसादिषु या आत्मनः खयंकरणादिरूपतया परिणतिः सा खलु बन्धस्य, प्रकरणात् कर्मणामिति गम्यते, कारणंनिमित्तम् । उक्तंच-"क्लिष्टाद्धिंसाधनुष्ठानात् ,प्राप्तिः क्लिष्टस्य कर्मणः। यथाऽपथ्यभुजो व्याधिरक्लिष्टस्य विपर्ययात्॥१॥ खभाव एष जीवस्य, यत्तथापरिणामभाक् । बध्यते पुण्यपापाभ्यां,माध्यस्थ्यात्तु विमुच्यते ॥२॥ इति"।सा च हिंसादिपरिणतिनित्यपक्षे न युज्यते, 'सदा' सर्वकालम् , एकखभावत्वात् । अथ मा भूत् दृष्टविरोध इति साऽभ्युपगम्यते, तर्हि हन्त पूर्वमहिंसादिपरिणतिलक्षणखभावोपमद्देन हिंसादिपरिणतिलक्षणखभावभावादात्मनोऽनित्यत्वापत्तिः, एतदेवाह-'अणिचभावो वा' ॥ २२०॥ उपसंहरन्नाह तम्हा ण जातु बंधो कारणविरहातो णिच्चबंधो वा। बंधऽद्धाभेदम्मि य अणिच्चया पावती तस्स ॥ २२१ ॥ यस्मादेवमेकान्तनित्यपक्षे हिंसादिपरिणतिः सर्वथा न युज्यते तस्मान्न जातु-न कदाचनाप्यात्मनो बन्धः प्राप्नोति, 'कारणविरहात्' हिंसादिपरिणतिलक्षणस्य तत्कारणस्याभावात् । अथैतदभ्युपगम्यते तर्हि तस्य सदैकखभावत्वेन AGROCCACAKACOCOCCALOCALCCAS ॥१०॥ Jain Educaton Inter For Private & Personel Use Only ww.jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ Jain Education Inte हिंसादिपरिणतिप्रच्युत्यभावात् सर्वदा बन्ध एव प्राप्नोति, न मुक्तिः, तथा चाह - 'निचबंधो वा' । अथोच्येत - कदाचि द्वन्धः कदाचित्पुनरबन्धः, तस्य तथाविधैकस्वभावत्वात्, ततश्च का नो हानिरित्यत आह- 'बंधेत्यादि' 'बन्धाद्धाभेदे च' बन्धावन्धकालभेदे चाभ्युपगम्यमाने तस्यात्मनोऽनित्यता प्राप्नोति, तथाहि--यदैवास्यात्मनो बन्धकारणहिंसादिपरिणतिस्वभावो जरसेव यौवनमबन्धकारणेन हिंसादिविरतिपरिणति स्वभावेनापनीयते (तदैव बन्धाभावः), अन्यथा तत्परिणतिखभावभावेन पूर्वकालवत् बन्धाद्वन्ध एव प्रसज्येत, न निरनपगते दहनस्वभावे न दहतीति, तत्परिणतिखभावापगमे च नियतमनित्यतेति ॥ २२९ ॥ मा भूत् बन्धावन्धकालभेदस्तथापि तस्यानित्यतैवेति प्रतिपादयन्नाहतदभेदम्मि य एगम्मि चेव समयम्मि सवबंधातो । विइए अबंधगतं सहावभेदाउ तोऽणिच्चो ॥ २२२ ॥ तस्याः-बन्धाद्धाया अभेदेऽपि बन्धकालभेदाभावेऽपीत्यर्थः, एकस्मिन्नेव समये सर्व कर्मबन्धात् यत्कर्म्म बद्धव्यं तस्य सर्वस्यापि बन्धभावात् द्वितीयसमये बन्धनीयकर्म्माभावादबन्धकत्वम्, तथाहि — येनैव खभावेन प्रथमसमये कर्म्म वनाति तेनैव द्वितीयादिष्वपि समयेषु, न स्वभावान्तरेण, तथाऽभ्युपगमात्, ततश्च यावान् कश्चित् द्वितीयादिसमयभावी बन्धः स सर्वोऽपि प्रथमसमय एव स्यात्, तत्कारणस्य स्वभावस्य विद्यमानत्वात् प्रथमसमयभावि 3 Page #216 -------------------------------------------------------------------------- ________________ धर्म ॥१०६॥ Jain Education वन्धवत्, अन्यथा द्वितीयादिष्वपि समयेषु मा भूत्, विशेषाभावात् तथा च सति द्वितीयसमये बद्धव्यकर्माभावादवन्धकत्वमायातमिति । ततः किमित्याह - 'सहावभेदाउ तोऽणिचोत्ति', यत एवं प्रथमसमये बन्धकत्वं द्वितीयसमये चाबन्धकत्वम्, 'तो' तस्मादयमात्मा स्वभावभेदात् बन्धकत्वाबन्धकत्व लक्षणस्वरूपभेदात् अनित्य एवेति स्थितम् ॥ २२२ ॥ मोक्षमधिकृत्य दूपणमाह - हिंसादिविरतिपरिणती मोक्खस्सवि कारणं तु जा सिद्धा । सा वि वियप्पियवा एवं जहसंभवं सम्मं ॥ २२३ ॥ मोक्षस्यापि कारणं या हिंसादिषु विरतिपरिणतिः सिद्धा - प्रतीता मोक्षवादिनामविगानेन यथोक्तम् - "मुक्तिः कर्मक्षयादिष्टा, ज्ञानयोगफलं स च । अहिंसादि च तद्धेतुरिति न्यायः सतां मतः । इति ॥ १॥ साप्येवं यथा हिंसादिपरिणतिस्तथा सम्यक् यथासंभवं विकल्पयितव्या, तथाहि न खल्वेकान्तनित्यपक्षे हिंसादिविरतिपरिणतिरुपपद्यते, तस्य सर्वकालमेकस्वभावत्वेन पूर्वस्वभावप्रच्युत्यभावात्, ततो न कदाचनापि कस्यापि मुक्तिर्भवेत्, तत्कारण| हिंसादिविरतिपरिणत्यभावात् । अथ मा भूदिष्टविरोध इति तत्कारणभूता हिंसादिविरतिपरिणतिरभ्युपगम्यते तर्हि | सर्वकालं तदेकखभावतया नित्यं मुक्तिरेव स्यात्, न संसारः । अथोच्येत - तस्येत्थंभूत एव स्वभावो येन कदाचिद्वन्धः संग्रहणिः, ॥१०६॥ Page #217 -------------------------------------------------------------------------- ________________ कदाचिच्च मुक्तिः, न च वाच्यं कथमेवंविधस्तस्य खभावः कल्प्यत इति, स्वभावस्यापर्यनुयोगार्हत्वादिति । तदेतदु-1 न्मत्तप्रलपितं, यतो बन्धस्य कारणं या हिंसादिपरिणतिर्या च तद्विरतिपरिणतिर्मुक्तिकारणं तयोः परस्परविरोधितया यदैव हिंसादिविरतिपरिणतिरुपजायते तदैव यौवनिकायां शिशुत्वमिव इतरा हिंसादिपरिणतिरपगच्छति, अन्यथा तत्परिणतिलक्षणस्वभावभावेन पूर्वकाल इव विवक्षितकालेऽपि बन्ध एव केवलो भवेन्न मुक्तिरिति नियतमनित्य एवात्मेति कृतं प्रसङ्गेन । स्यादेतत्, हिंसादिपरिणतिस्तद्विरतिर्वा आत्मनोऽवस्थाभूता, अवस्थाश्चावस्थातुरेकान्तेन भिन्नाः, धर्मधर्मिणोरेकान्तेन भेदाभ्युपगमात् , ततोऽवस्थानां परस्परं भेदेऽपि अवस्थातुरविचलितखरूपत्वात् न काचित् टू नो बाधेति ॥ २२३॥ एतदेवाशङ्कमान आह तत्तोऽह परिणतीओ भिन्ना एताओ होंति तो तस्स । पावइ उभयाभावो भावम्मि यातिप्पसंगो उ॥ २२४ ॥ अथ ततः-आत्मनः सकाशादेते परिणती भिन्ने एव भवत इत्यभ्युपगम्यते, अत्र 'भिन्ना एयाउत्ति' प्राकृतत्वात् द्वित्वेऽपि बहुवचनम् , यदाह पाणिनिः-"द्विवचन बहुवचनेनेति," एवमन्यत्रापि यथायोगं प्राकृतलक्षणमभ्यूह्यम् , अत्रोत्तरमाह-'तो तस्सेत्यादि', यद्येवमभ्युपगम्यते ततस्तस्य-आत्मनः 'उभयाभावो' वन्धमोक्षाभावःप्राप्नोति, भावे MOCRACANCHOREOGOOCOMCOACCOCAL Jain Education in For Private & Personel Use Only Kirwwjainelibrary.org Page #218 -------------------------------------------------------------------------- ________________ धर्म॥१०७॥ Jain Education चोभयस्यात्मनोऽभ्युपगम्यमानेऽतिप्रसङ्ग एव स्यात् । तुशब्दोऽवधारणे । अतिप्रसङ्गश्चायम् - यथा देवदत्तस्य हिंसादिपरिणतितद्विरतिपरिणतिभ्यां बन्धमोक्षौ भवतस्तथा जिनदत्तस्यापि स्यातां भेदाविशेषादिति ॥ २२४ ॥ सांप्रतं सांख्यमतमपाचिकीर्षुरिदमाह अण्णस्स बंधमोक्खा ण अप्पणो बालवयणसरिसमिणं । तस्सव य णिच्च पक्खे एमेव ण संगता ते उ ॥ २२५ ॥ 'अण्णस्सेत्यादि,' सांख्यो ह्येवमाह - नैवात्मा पुण्यपापे बनाति, तस्याकर्तृकत्वात्, नाप्यसौ मुक्तो भवति, बन्धाभावात् नाप्यसौ क्वचिदपि संसरति, निष्क्रियत्वात्, केवलं प्रकृतिरेव सत्त्वादिसाम्यावस्थालक्षणा संसरति बध्यते मुच्येतेति (मुच्यते चेति ) । तदुक्तम् - " तस्मान्न बध्यते नापि संसरति कंश्चित् संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरिति ” । तं प्रत्युच्यते - अन्यस्य - आत्मनो व्यतिरिक्तस्य प्रधानस्येति यावत्, बन्धमोक्षौ न त्वात्मन इति यदुच्यते तदिदं बालवचनसदृशम् - अज्ञभाषिततुल्यम् । तथाहि - यदि सततमप्रच्युतानुत्पन्नस्थिरैकस्वभाव एवायमात्मा प्रधानमेव च बन्धमोक्षादिका विचित्रा अवस्थाः प्रतिपद्यत इत्यभ्युपगम्यते, तर्हि भवापवर्गयोरात्मनोऽविशिष्टत्वात्किमित्ये १ कचित् इति खपुस्तके | संग्रहणि 1180611 Page #219 -------------------------------------------------------------------------- ________________ पोऽतिपरुषदःखभरभीषणभवभ्रमणभीरुतया निरतिशयानन्दमन्दिरमुक्तिपदाभिलाषुकतया च यमनियमादावनुष्ठाने प्रवर्तते, निष्फलत्वात् । स्यादेतत् , नैवात्मा मुक्त्यर्थमनुष्ठाने प्रवर्तते, किं तर्हि , देहेन्द्रियमनोविकारसहितं प्रधानमेव. ततो न कश्चिन्नो दोष इति, तदयुक्तम् , प्रधानस्याचेतनत्वेन घटादीनामिवालोचकत्यायोगात , मुक्त्यर्थ चेदमनष्ठानमालोचनापूर्वकं "क्रियासु सर्वोपरमो मोक्ष" इति नियमवता यथा(है) प्रवृत्तेः। अथ यद्यपि खयमचेतनं प्रधानं तथापि तन्मनोविकारावस्थमात्मा चिद्रूपः खसान्निध्यादुपाधिः स्फटिकमिव खनिर्भासं करोति, यदाह-"पुरुषोऽधि(वि)कृतात्मैव, खनिर्भासमचेतनम् । मनः करोति सान्निध्यादुपाधिः स्फटिकं यथा ॥१॥"इति । खनिर्भासितं च तत् आलोचनायां प्रवर्तते ततः कथं पुनः पूर्वोक्तदोषाभिष्वङ्गः?, तदुक्तम्-" स तस्येत्थमालोचनायां प्रयोजक इति", तदप्यसमीचीनम् , पुरुषस्यैकखभावत्वेनेत्थं सदा प्रयोजकत्वापत्तेः, तथा च सति सदैव तद्रूपत्वात् मुक्त्यभावप्रसङ्गः । एतेन यदुच्यते-“यथा चन्द्रः खभावेनाविकृतखभाव एव सन् चन्द्रोपलस्य पयःक्षरणे कदाचित्प्रयोजकः कदाचिन्न, तथा अयमप्यात्मा कदाचिदेव प्रयोजको भविष्यति न तु सदेति" तदपाकृतमवसेयम्, चन्द्रस्यापि नित्यानित्यात्मकतया सर्वदेवाविकृतखभावत्वानभ्युपगमात् , अन्यथा तस्यापि सदा प्रयोजकत्वापत्तेरिति यत्किंचिदेतत् । तस्मादात्मन एव बन्धमोक्षावभ्युपगन्तव्यो, तथा च सति तस्य तदन्यथानुपपत्त्या परिणामित्वमिति । अन्यस्याभ्युपगतयोर्वन्धमोक्षयोरेकान्तनित्यपक्षेऽनुपपत्तिमाह-तस्यापि च-आत्मनः सकाशादन्यस्य प्रधानस्य 'नित्यपक्षे एकान्तनित्यत्वा Jain Education in For Private & Personel Use Only Page #220 -------------------------------------------------------------------------- ________________ धर्म ॥१०८॥ Jain Education भ्युपगमे न संगतावेव 'तो' बन्धमोक्षौ । तुशब्द एवकारार्थो भिन्नक्रमश्च । तदपि प्रधानं युष्माभिरेकान्तनित्यमेकरूपमक्रियमिष्यते, ततः कथं तस्यापि बन्धमोक्षौ स्यातामिति ॥ २२५ ॥ अथ माभूदेष दोष इति तस्य परिणाममभिमन्यसे तत आह परिणामम्मि य णणु तस्स चेव जुज्जति किं ततोऽपणेण । अपमाणेणं परिकप्पितेण अण्णाणपिसुणेणं ? ॥ २२६ ॥ परिणामे च प्रधानस्येष्यमाणे ननु तस्याप्यात्मनस्तथापरिणामाभ्युपगमे बन्धमोक्षौ युज्येते एव । एवशब्दो भिन्नक्रमः स च यथासंबन्धं योजित एव । ततः किमन्येनाप्रमाणेन तद्भाहकप्रमाणविकलेनाज्ञानपिशुनेन - विपर्याससूचकेन प्रधानेन परिकल्पितेनेति । अपिच, प्रधानस्य मोक्षाभ्युपगमे तस्य स्वरूपहा निरेवाभ्युपगता स्यात्, यदाह भवदाचार्य:- "प्रकृतिवियोगो मोक्ष इति" । ततः प्रकृतेः प्रकृतित्ववियोगे खरूपभ्रंशप्रसङ्गः तथा च कुतोऽस्य नित्यतेति । खसिद्धान्तप्रकोपश्चैवं भवत आपद्यते, सिद्धान्ते हि भवतः - " पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥१॥" ॥ इत्यादिना ग्रन्थेन पुरुषस्य मुक्तिरभिहिता, भवता चाधुना | प्रधानस्येष्यत इति ॥ उपसंहारमाह संग्रहणिः. ॥१०८॥ Page #221 -------------------------------------------------------------------------- ________________ धर्म. १९ Jain Education Inte इय दिट्ठादिट्ठविरोह- भावतो सववत्थुविसओ उ ॥ एतणिच्च पक्खो मिच्छत्तं होइ तवो ॥ २२७ ॥ 'इतिः' एवमुक्तप्रकारेण दृष्टस्य-सुखादियोगस्य घटपटसंवेदनादिभेदस्य चादृष्टस्य - बन्धमोक्षस्य विरोधभावादेकान्तनित्यपक्षः सर्ववस्तुविषयो मिध्यात्वं भवति ज्ञातव्यः । नित्यत्वपरीक्षा ॥ २२७ ॥ सांप्रतं यदुक्तम् 'अणिचपक्खे ण सो जुत्तोत्ति' तत्समर्थयमान आह खणिगो वेगसहावोस कहं वेदेइ दोऽवि सुहदुक्खे ? | वेदभेदम्मिय सबलोगववहारवोच्छेदो ॥ २२८ ॥ क्षणिकोऽपि पदार्थः परैः परिकल्प्यमान एकस्वभाव एकान्तक्षणिकश्च परिकल्प्यते, ततश्च यद्ययमात्मा क्षणिकस्ततः कथं द्वे अपि सुखदुःखे वेदयते ?, तावत्कालमवस्थानाभावात् दृश्यते च क्रमेणोभयमपि वेदयमानः, तथानुभवात् । तथाऽन्य एव दुःखवेदकः क्षण आसीत् अन्य एव चाधुना सुखवेदकः क्षण उत्पद्यते, तत्कथमुच्यते-दृश्यते क्रमेणोभयमपि वेदयमान इति ?, अत्राह - "वेदगेत्यादि" सुखदुःखयोर्वेदकस्य भेदे - अन्य एव दुःखवेदकः क्षणोऽन्य एव च सुखवेदक इत्येवंरूपे इष्यमाणे सकललोकव्यवहारव्यवच्छेदः प्राप्नोति ॥ २२८ ॥ यत इत्थं लोकव्यवहारस्तथाहि Page #222 -------------------------------------------------------------------------- ________________ | संग्रहणिः ॥१०९॥ - SARLASSMSACSSR सुहितो स एव दुहितो पुणोऽवि तस्साहणत्थमुज्जमइ । पावेइ किल स एव तु सुमरइ य मए कयं एतं ॥ २२९ ॥ य एव प्राक् सुखित आसीत् स एवेदानी दुःखितो जातः, पुनरपि च य एव तत्साधनार्थ-सुखसाधनार्थमुद्यच्छति-उद्यमं करोति, स एव किल सुखमाप्नोति, किलेत्यनेन च लोकबाधया पराभ्युपगमस्यातीव पापीयस्तां दर्शयति । तथा येनैव च प्राक् अनुभूतं किंचित् स एवाधुना तत्स्मरति नान्यः, तत्र तथाभूतानुसन्धानानुपपत्तेः ।। स्मरणस्यैवोल्लेखं दर्शयति-मया कृतमेतदिति ॥ २२९ ॥ तथा वेदेइ य पुवकयं कम्म इह अज्जियं च अण्णत्थ । परमपदसाहणत्थं कुणइ पयासं च उवउत्तो ॥ २३०॥ मेत्तादिसुगुणपगरिसमभासातो य पावए कोइ । एमादिलोगसिद्धो णणु ववहारो कहं तत्थ ? ॥ २३१ ॥ येनैव पूर्वस्मिन् भवे कृतं कर्म-ज्ञानावरणीयादि स एव इह भवे वेदयति, येनैव च इह भवे कर्म अय॑ते स ॥१०॥ Jain Education Inter For Private & Personel Use Only Page #223 -------------------------------------------------------------------------- ________________ एवान्यत्र-भवान्तरे वेदयिष्यते । य एव च शारीरमानसानेकदुःखभरापूरितशरीरः स एवापरिमितानन्दमन्दिरपरमपदयियासया तत्प्राप्त्यर्थमुपयुक्तः सन् मैत्र्यादिषु प्रयासमादधाति । य एव मैत्र्यादिषु प्रयासमाहितवान् स एवाभ्यासविशेषात् गुणप्रकर्ष-रागादिप्रहाणलक्षणं प्राप्नोति, मैत्र्यादिष्वित्यत्रादिशब्दात् करुणामुदितोपेक्षापरिग्रहः । तत्र प्रत्युपकारनिरपेक्षा प्रीतिमैत्री, दुःखात् दुःखहेतोर्वा या समुद्धरणकामना सा करुणा, अभिलषितहितवस्तुप्रात्या तुष्टिर्मुदिता प्रमोदाऽपरपर्याया, अशक्योपकारविशेषाधाने पुरुषे उपकाराधानं प्रत्युपेक्षणमुपेक्षा । एताश्च सत्वादिविषयतयाऽभ्यस्यमाना रागादिप्रहाणहेतवो भवन्तीति तद्विषयाः कर्तुमध्यवसेयाः, तदुक्तम्-"मैत्रीप्रमोदकारुण्यमाध्यस्थ्यपरिचिन्तनं सत्त्वगुणाधिकक्लिश्यमानाप्रज्ञाप्यगोचर"मित्यादि । तत एवमादिकः, आदिशब्दात् प्रत्यभिज्ञादृष्टविषयकौतुकतदसंप्राप्त्युद्वेगतदर्थप्रवृत्तितत्प्रात्यादिरूपश्च व्यवहारो लोकसिद्धः सकललोकप्रसिद्धो ननु कथं तत्र क्षणिकपक्षे स्यात् ?, नैव कथंचिदपीत्यर्थः ॥२३०-२३१ ॥ यस्मात् क्षणिकत्वे सतीदं प्राप्नोति अन्नो वेदेड सह अपणो दक्खं पवत्तए अण्णो। पावेति वेदती सुमरती य पत्तेयमन्नो तु ॥२३२ ॥ अन्यो वेदयते सुखम् अन्यश्च दुःखम् । प्रवर्तते चान्यः प्राप्नोति चान्य एव । वेदयते चान्यः स्मरति चान्यः । CLASAHESAGARLSHRESEARS Jain Education in For Private & Personel Use Only ww.jainelibrary.org Page #224 -------------------------------------------------------------------------- ________________ धर्म ॥११०॥ Jain Education कथमन्यत्वमित्याह- प्रत्येकम् एकमेकं वेदनादि ( प्रति ) प्रत्येकम् इदं च प्रत्येकमन्यत्वप्रसञ्जनमेकसन्तानापेक्षया द्रष्टव्यम्, भिन्नसन्तानविषयस्येत्थमन्यत्वव्यवहारस्य विवादानास्पदत्वात् ॥ २३२ ॥ अन्नो करेइ कम्मं फलमन्नो भुंजती तु मोक्खत्थं । कुपया अन्नो पावेति य तंपि अण्णो तु ॥ २३३ ॥ अन्यः करोति कर्म्म - शुभाशुभम्, अन्यश्च तत्फलं - स्वर्गसुकुलप्रत्यायात्यादि भुङ्क्ते । मोक्षार्थं च प्रयासमन्य एव विदधाति प्राप्नोति चान्य एव तं मोक्षम् । तुरवधारणे ॥ २३३॥ कस्मादेवमिदमेकान्तक्षणिकपक्षे इति चेदत आहअचंतभेदतो इय सवोऽवि ण संगतो ततो सम्मं । मोण दिट्टरागं आलोजा बुहो ऐतं ॥ २३४ ॥ 'अत्यन्तभेदात् ' अन्यथा अन्वयापत्त्या सर्वथा क्षणिकत्वाभावप्रसङ्गात् । उपसंहारमाह-' इय इत्यादि' इति : - एवमु पदर्शितप्रकारेण सर्वोऽपि पूर्वोक्तो व्यवहार एकाधिकरणसुखदुःखानुभवादिलक्षणो न संगतः क्षणिकपक्षे । तस्मात् १ एवमिति पुस्तके | संग्रहणिः. ॥११०॥ Page #225 -------------------------------------------------------------------------- ________________ दृष्टिरागं मुक्त्वा 'बुधः' पण्डितः सम्यगेवमालोचयेत् 'एतं' क्षणिकपक्षं, किमयमसंगतो नवेति ?, सकलव्यवहारविलोपप्रसङ्गादतीवासंगत एवेतिभावः ॥ २३४ ॥ पराभिप्रायमाशङ्कते संताणातो अह सो ववहारो सव्व एव जुत्तो तु। सो संताणीहिंतो अन्नोऽणन्नोत्ति वत्तवं ॥ २३५ ॥ जइ अन्नो किं णिच्चो किंवा खणियोत्ति?. णिचपक्खम्मि। होइ पतिन्नाहाणी इतरम्मि उ पुवदोसा तु ॥ २३६ ॥ अथ 'सः' अनन्तरोक्त ऐहिकामुष्मिकरूपो व्यवहारः सर्वोऽपि 'संतानात्' भूतभवद्भविष्यत्क्षणप्रवाहरूपात् युक्त एव । तुशब्द एवकारार्थः । तथा चामुष्मिकं व्यवहारमाश्रियोक्तम्- "यस्मिन्नेव हि संताने, आहिता कर्मवासना। फलं तत्रैव संताने, कपासे रक्तता यथे ॥१॥ति" ॥ तदयुक्तम् , विकल्पानुपपत्तेः, तथाहि-'सो' इत्यादि सार्द्धगाथा, 'स' संतानः संतानिभ्यः सकाशादन्यो वा स्यादनन्यो वेति वक्तव्यम् । तत्र यद्यन्यस्तर्हि तत्रापि विकल्पयुगलमुपढौकते, स किं नित्यो वा स्यात् किंवा क्षणिक इति ? । तत्र यद्याद्यः पक्षस्तदयुक्तम् , "क्षणिकाः सर्वसंस्कारा" इति प्रतिज्ञाव्याघातप्रसङ्गात्। अथोत्तरः पक्षस्तदप्ययुक्तम् ,यत आह-'इतरस्मिन् क्षणिकपक्षेऽङ्गीक्रियमाणे ये पूर्वमभिहिता मोड पतिन्नाहाणी इतरानाsपि संतानात्' भूतमान, आहिता कर्मवासना HASASARAOKGACASSASSAUR Jain Education Internal For Private & Personel Use Only PR w w.jainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः ॥११॥ दोषास्ते सर्वेऽपि प्रसज्यन्ते । अथ संतानिभ्यः संतानो नान्य इष्यते, तर्हि संतानिन एव संतानस्तदव्यतिरिक्तत्वात्तत्वरूपवत्, तथा च सति तदवस्थ एव पूर्ववत् व्यवहारविलोपप्रसङ्गः ॥२३५-२३६॥ अत्र पराभिप्रायमाशङ्कमान आह अह संताणो णेओ ज इह विसिट्रो उ हेउफलभावो। तत्तो सो ववहारो णो णाणत्ताविसेसातो ॥ २३७ ॥ अथ मन्येथाः-न पूर्वापरक्षणप्रवाहमात्रं संतानो नापि तद्यतिरिक्तः कश्चिद्वस्त्वन्तरभूतः, किंतु य एवेह पूर्वोत्तरक्षणानां विशिष्ट उपादानोपादेयभावेन हेतुफलभावः स एव संतानो ज्ञेयः, तस्माच सोऽनन्तरोदितः सर्वोऽपि व्यवहार इत्यदोषः। एतत्प्रतिषेधयति-यदेतदुक्तं तन्न, कुत इत्याह-नानात्वाविशेषात् ॥ २३७ ॥ एनमेव व्याचष्टे ___ अवहिखणातो संताणंतरवत्ती जहा खणो भिन्नो। कजक्खणोऽवि एवं तत्तो को वा विसेसो तु ? ॥ २३८ ॥ ___'अवधिक्षणात्' विवक्षितैकतमकारणक्षणात् यथा संतानान्तरवर्ती क्षणो भिन्न एव, तथा कार्यक्षणोऽपि भिन्न एव, सर्वथा कार्ये कारणधर्मानुगमाभावात् , ततो यथा देवदत्तजिनदत्तयोरत्यन्तभिन्नत्वादेककर्तकस्मरणादिको व्यवहारो न संगतिमश्नुते, तथा विवक्षितेष्वपि पूर्वोत्तरक्षणेषु । अत्र परं निरुत्तरीकत्तु पृच्छति-तत्तो को वा विसेसो उ?' ॥१११॥ Jain Education Interational For Private & Personel Use Only W w w.jainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ ततो-भिन्नसंतानान्तरवर्तिनः क्षणादस्य कार्यक्षणस्य को वा विशेषो ? यन्निवन्धन इह पूर्वोक्तो व्यवहारः सर्वोऽपि प्रवर्तते, नेतरत्र, नैव कश्चिद्विशेष इति भावः ॥ २३८ ॥ परो विशेषमुघट्टयति अस्थि विसेसो हेतुफलभावतो विरहओ य तस्सेव । एगंतखणियपक्खे णियमेण ततोऽवि हु ण जुत्तो ॥ २३९ ॥ अस्ति विशेषो भिन्नसंतानान्तरवर्तिनःक्षणादस्य कार्यक्षणस्य, कुत इत्याह-हेतुफलभावतः' उपादानोपादेयभावे. नावधिक्षणेन सह विवक्षितकार्यकारणभावतः, तथा 'तस्यैव' हेतुफलभावस्य विरहतश्च-अभावतश्च, अवधिक्षणेन सह भिन्नसंतानान्तरवर्तिनः क्षणस्य । अत्र दूषणमाह-एगते'त्यादि, एकान्तक्षणिकपक्षे 'सकोऽपि' कार्यकारणभावो नियमेन न युक्तः॥ २३९ ॥ कथं न युक्त इति तामेवायुक्ततां दर्शयति कह कारणं निरन्नयण; कज्जस्स साहगं होति ?। ___णाभावातो भावो जायति पुत्विंव होजा तु ॥ २४० ॥ एकान्तक्षणिकपक्षे हि कारणं सर्वथा विनिवर्तते, तञ्च निरन्वयनष्टं कथं कार्यस्य साधकं भवति ?, नैव भवतीति | भावः । यस्मानाभावतः सकाशाद्भावो जायते, यदि जायेत ततः पूर्वमपि भवेत् ?, तदभावस्य प्रागपि विद्यमानत्वात् । Jain Education For Private Personel Use Only Page #228 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ॥११२॥ अथोच्येत-न यतः कुतश्चिदभावादयं भाव उपजायते, किंतु विशिष्टात् , स च विशिष्टः कारणस्य प्रध्वंसाभावो न प्रागभाव इति न पूर्वमपि भावस्य भावप्रसङ्गः ॥ २४० ॥ अत्राह निरुवक्खत्ता ण य इह वइसिटुं जुज्जते अभावस्स । कारणपुव्वत्तम्मि य कज्जस्स उ अन्नयपसिद्धी ॥ २४१॥ 'इह' विचारप्रक्रमे 'सर्वथा निरुपाख्यत्वात' सर्वोपाख्याविकलत्वात् अभावस्य वैशिष्ट्यं न युज्यते, सकलशक्तिशन्यतया कर्मत्वशत्ययोगेन केनचिदपि विशेषयितुमशक्यत्वात् , विशेषणेन च विशिष्यमाणो विशिष्टो भवति, ततोऽभावस्य वैशिष्टयाभावात् यदि ततो भावो जायेत ततः पूर्वमपि जायेत । अथैतद्दोपभयान्नाभावाद्भावस्योत्पत्तिरिष्यते, किं तर्हि ?, कारणादेव । तत आह-कारणपूर्वकत्वे च कार्यस्येष्यमाणेऽन्वयप्रसिद्धिः-अन्वयस्य प्रसङ्गः, कारणभावाविच्छेदेन कार्यस्य भावाभ्युपगमात् ,भावाविच्छेदश्चान्वयः। नन्वन्य एव कारणभावोऽन्यश्च कार्यभावस्तत्कथमिह भावाविच्छेदेऽपि अन्वयापत्तिरिति चेत्, न, तत्त्वतो भेदकाभावत एकान्तेनान्यत्वाभावात् । क्षणी हि पूर्वापरौ तद्विशेष-10 णतया भेदको स्यातां, तौ च विवक्षितपूर्वापरभावव्यतिरेकेण नान्यावभ्युपगम्येते, तयोरक्षणिकत्वप्रसङ्गात् , तदपरक्षणाभावात् , भावे चानवस्थाप्रसङ्गात् , मा भूद्वा अनवस्थाप्रसङ्गस्तथापि न तयोः क्षणयोर्भेदकत्वमेव, उभयोरपि ॥११२।। For Private & Personel Use Only Page #229 -------------------------------------------------------------------------- ________________ -ल. भावयोर्भावरूपताया अविशेषात् । आकारादिभेदात् विशेषसिद्धिरिति चेत्, न, आकारादिभेदवत् अविशेषेण भावरूपताया अपि प्रतीयमानत्वात् । ननु चाधिकृतघटजन्यकपालवत् घटान्तरजन्यकपालेऽपि मृत्त्वादिलक्षणा भाव-13॥ रूपता अविशेषेण प्रतीयते, न च तत्रान्वयः, तथानभ्युपगमात् , तद्वदधिकृतघटजन्यकपालेऽपि न भविष्यतीति, उच्यते, न भावरूपता केवलैवान्वयसिद्धिनिबन्धनं किंतु तद्पशक्तिगन्धपरिमाणादिसंगता तत्तथाभावाध्यवसायहेतुः, न चासावेवंविधा भावरूपता घटान्तरजन्यकपालेऽपि प्रतीयते, न च तद्वदधिकृतघटजन्यकपालेऽपि नानुभूयते, ४ इत्यन्वयसिद्धिरव्याहतैव ॥ २४१॥ अत्र पराभिप्रायमाशङ्कते कारणविणासकजुप्पादा जुगवं तु होति णातवा । तो णत्थि भणियदोसा तुलाएँ णामावणामव ॥ २४२ ॥ तुलाया नामोन्नामाविव युगपत्कारणविनाशकार्योत्पादौ ज्ञातव्यो, 'तो' तस्मात्पूर्वक्षण एव कारणस्य निरन्वयविनाशाद अभावात् कार्यस्याभावप्रसङ्ग इत्यादयोऽभिहिता दोषास्ते सर्वेऽपीह न सन्ति, निरवकाशत्वात्, तथाहि-यस्मिन्नेव साक्षणे कारणं विनश्यति तस्मिन्नेव क्षणे कार्योत्पादश्च, ततो नाभावात् भावप्रसङ्गः, कारणात् कार्यस्य भावात् । ना प्यन्वयापत्तिः, कारणस्य निरन्वयविनाशादिति ॥ २४२ ॥ अत्राह Jain Education Intel For Private & Personel Use Only BMw.jainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ धर्म ॥११३॥ कारणकज्जाणं णणु णासुष्पादा पुढोऽपुढो वावि । पढमेण तस्स णासो ण य उप्पादो तु इयरस्स ॥ २४३ ॥ tant नाशोत्पादौ यथाक्रमं कारणकार्य संबन्धिनौ हि ताभ्यां पृथग्-भिन्नौ वा स्यातामपृथक् - अभिन्नौ वेति विकल्पद्वयम् । तत्र प्रथमपक्षे पार्थक्यलक्षणे न तस्य-कारणस्य संबन्धी विनाशो नापीतरस्य कार्यस्योत्पादो, भिन्नत्वाद् अर्थान्तरगतनाशोत्पादवत् ॥ २४३ ॥ द्वितीयपक्षमधिकृत्याह चरमम्मिय तब्भावो तेसिं तत्तो ण हेतुफलभावो । जुगवभावाओ चिय सवेतरगोविसाव ॥ २४४ ॥ चरमे च पक्षे आश्रीयमाणे 'तेसिंति' तयोर्नाशोत्पादयोस्तद्भावो - यथाक्रमं कार्यकारणभावः स्यात्, कारणकार्याव्यतिरिक्तत्वात्तत्खरूपवत् । । ' तत्तोत्ति' ततश्च न तयोर्विवक्षितयोः कारणकार्ययोर्हेतुफलभावः - कारणकार्य भावो युगप|द्भावात् सव्येतरगोविषाणवत् । युगपद्भावश्चाभिन्नकालनाशोत्पादाभिन्नत्वाभ्युपगमात् ॥ २४४ ॥ पर आहउवचरियथा किरियासद्दा इतरेसि तुल्लकालत्ता । संग्रहणिः, ॥११३॥ Page #231 -------------------------------------------------------------------------- ________________ Jain Education Int किं न वियप्पेवं भेदाभेदुब्भवा दोसा ? ॥ २४५ ॥ एते क्रियाशब्दा उत्पादनाशादय 'उपचरितार्थाः' कल्पितार्थाः, न खलु वस्तूनां तदतिरिक्ता काचिक्रियास्ति यन्निवन्धना एते क्रियाशब्दाः पारमार्थिका भवेयुः, ततो न कश्चिदिह पूर्वोक्तदोषावकाश इति । अत्रोत्तरमाह - 'इयरेसिं' इत्यादि, यद्यप्येते क्रियाशब्दा उपचरितार्थाः - कल्पितास्तथापि इतरयोः - नाशोत्पादयोः प्रतिप्राणिप्रत्यक्षप्रमाणसिद्धत्वेनाप्रतिक्षेपार्हयोस्तुल्यकालत्वेनाभ्युपगतयोर्वस्तुस्थित्या कारणकार्याभ्यां सह भेदाभेदोद्भवान् दोषान् किन्नैवमुपदर्शितप्रकारेण विकल्पयसि ? - खदर्शनकल्पितकुविकल्पतामपहाय सूक्ष्मबुद्ध्या पर्यालोचयसि । एतदुक्तं भवति - यद्यपि कयाचिदपि स्वमतिकल्पनया क्रियाशब्दानामुपचरितार्थत्वाभ्युपगमः, तथापि नाशोत्पादौ तावत्प्रतिपाणि प्रत्यक्षेणोपलभ्येते, तौ च तुल्यकालावभ्युपगतावतस्तद्विषया भेदाभेदोद्भवा दोषाः कथं परिहर्तुं शक्यन्त इति ? सूक्ष्मधिया | निभालनीयमेतत् ॥ २४५ ॥ पुनरप्यत्र परमाशङ्कते - अह उ खट्टितिधम्मा भावो णासोत्ति णणु तदद्वाए । कादम्मि पुणो स एव पुवोदितो दोसो ॥ २४६ ॥ तुशब्दोऽवधारणार्थे भिन्नक्रमश्च । अथ मन्येथाः - क्षणस्थितिधर्म्मा भाव एव नाशो न तु तदन्यः कश्चित् Page #232 -------------------------------------------------------------------------- ________________ धर्म ॥११४॥ Jain Education In तदुक्तम् - "क्षणस्थितिधर्म्मा भाव एव विनाश"इति, तत्कथमिह भेदाभेदकल्पना युक्तिसंगतेतिभावः । अत्राह - 'णणु इत्यादि' नन्वेवमपि तदद्धाय-नाशाद्धायां कार्योत्पादे तुलानामोन्नामवदिति दृष्टान्तवलेनेष्यमाणे पुनरपि स एव पूर्वोदितो हेतुफलयौगपद्यप्रसङ्गलक्षणो दोपः प्राप्नोति । तथाहि - कारणनाशाद्धायां कार्योत्पादाभ्युपगमः, कारणनाशश्च कारणभाव एव तथा चानयोयौगपद्यप्रसङ्ग इति, तस्मान्नैतदपि कल्पनं समीचीनम् ॥ २४६ ॥ पुनरपि |परमतमाशङ्कय दूषयति अह धम्मधम्मभावो एसो परिकप्पितो तु णातवो । उभयाभावाओ णु एवंपि ण हेतुफलभावो ॥ २४७ ॥ अथ एष धर्मिधर्म्मभावः कारणतन्नाशादिलक्षणः परिकल्पित एव - अपारमार्थिक एव ज्ञातव्य इति ब्रूषे । तुरवधारणार्थः । नन्वेवमपि न तत्त्वतो हेतुफलभावः, कुत इत्याह- 'उभयाभावात्' कल्पितस्य परमार्थतोऽसत्त्वेनोभयस्यापि धमिधर्म्मलक्षणस्याभावात् न च धमिधर्म्मव्यतिरिक्तं किंचिद्वत्वस्ति यत् हेतुः फलं वा भवेदिति ॥२४७॥ अह धमधम्मभावो एत्थं परिकपितो ण पुण धम्मी । ण हि सो सहावविकलो सति धम्मे तस्स कह भावो ! ॥ २४८ ॥ संग्रहणिः ॥११४॥ Page #233 -------------------------------------------------------------------------- ________________ अथोच्येत-अत्र धमिधर्मभावः कारणं तद्विनाशः कार्य तदुत्पाद इत्येवंरूपः परिकल्पितो न पुनर्धर्म्यपि कारणलक्षणः, तस्मान्न पूर्वोक्तो हेतुफलभावाभावरूपो नो दोषः प्रसज्यते इति। अत्राह-'नहीत्यादि' न हि धर्मी कारणलक्षणः कार्यलक्षणो वा स्वभावविकलो भवति,तथानुपलम्भात् , यदि पुनः खभावविकलत्वं भवेत् ततः सति तस्मिन् खभावविकलत्वे तस्य-कारणस्य कार्यस्य च भावः-खरूपं कथं भवेदितिभावः । खभावविकलत्वे सति खरविषाणस्येव तस्य तदनुपपत्तेः । खभावाभ्युपगमे च खभावस्य धर्मत्वात् दुःशकः पारमार्थिको धमिधर्मभावोऽपाकर्तुमिति । स्यादेतत् , सकलसजातीयविजातीयव्यावृत्तं निरंशमेवैकं स्खलक्षणं पारमार्थिकम् , व्यावृत्तयश्च परिकल्पिताः, ताश्च भेदान्तरप्रतिक्षेपविवक्षायां भिन्ना इव परतन्त्रतया निहिश्यमाना धर्मा इति व्यपदिश्यन्ते, तस्माद्धर्मधमिभाव एव कल्पितो न तु धम्मी, तन्न कारणस्य कार्यस्य वाऽभावप्रसङ्गः, तथा च सति यदि पूर्व खलक्षणं विशिष्टं प्रतीत्योत्तरं खलक्षणमुत्पत्स्यते ततः को नो दोष इति ॥ २४८॥ एतदेवाशङ्कमान आह सिय कारणं विसिट्टे पडुच्च उप्पज्जते य कजंपि । एस पडुच्चुप्पादो सहावसिद्धो मुणेयवो ॥ २४९ ॥ तं णाम पडुच्चिज्जइ जं उवगारिं तयं तु किं कुणइ ? । धर्म.२० in Education For Private Personel Use Only prary.org Page #234 -------------------------------------------------------------------------- ________________ धर्म ॥११५॥ Jain Education Int किं तदभावविणासं किं तं उभयं अणुभयं वा ? ॥ २५० ॥ स्यादेतत्-इह विशिष्टं प्रतीत्य कार्यमुत्पद्यते, एष च प्रतीत्योत्पादः स्वभावसिद्धो ज्ञातव्यः, तथाहि स हेतुफलयोः स्वभावो येन तदेव तस्यैव हेतुः फलमपि च तदेव तस्यैव भवतीति । अत्र दूषणमाह - ' तन्नामेत्यादि' तन्नाम प्रतीयतेआश्रीयते अपेक्ष्यते यदुपकारि भवति । यदाह भवदाचार्य :- " उपकारीत्यपेक्ष्यः स्यादिति" । 'तत्' पुनर्निरंशं स्खलक्षणं किं करोति ?, किं ' तदभावविनाश' कार्याभावविनाशं, किंवा 'तत्' कार्य, किंवा 'उभयं' कार्य कार्याभावविनाशं च 'अनुभयं वा' उभयाभावमिति, विकल्पचतुष्टयं गत्यन्तराभावात् ॥ २४९-२५० ॥ तत्राद्यं विकल्पमधिकृत्याहभावविणा अगो उस तुम्ह इट्ठोत्ति । करणेऽवि य अविरोहो जेणऽन्नो तस्स णासोति ॥ २५९ ॥ नो 'तदभावविनाश' कार्याभावविनाशं प्राक्तनं निरंशं खलक्षणं करोति । तुर्यस्मादर्थे । यस्मादहेतुकः 'स' विनाशो युष्माकमिष्टः "अहेतुत्वाद्विनाशस्येति” वचनात्, तत्कथमेष तेन खलक्षणेन क्रियते इत्यभ्युपगम्यते ?, 'करणेऽपि च' निर्वर्तनेऽपि च कार्या भावविनाशस्याभ्युपगम्यमाने 'अविरोधो' नैव कश्चिद्विरोधः कार्याभावेन सहेति गम्यते । कथमविरोध इत्याह-येन कारणेनान्यः - अर्थान्तरभूतस्तस्य - कार्याभावस्य नाशः, अनर्थान्तरभूते हि तस्मिन् क्रियमाणे स एव कार्याभावः कृतः स्यात् स च प्रागेवास्तीति किं तेन कृतमिति ॥ २५९ ॥ यद्यविरोधस्ततः किमित्याह संग्रहणिः ॥११५॥ Page #235 -------------------------------------------------------------------------- ________________ NROESSESEX तदभावे य अणढे कह तब्भावो ? सयं च किं न भवे ? । अ(ण)त्थित्तम्मि य (जं) तस्स अत्थित्तं होइ इतरस्स ॥ २५२ ॥ 'तदभावे च' कार्याभावे चानटे भिन्नत्वेनाविरोधे सति नाशेन कार्याभावस्य नाशयितुमशक्यत्वात्कथं तद्भावः कार्यः १. नैवेत्यर्थः, अभावेन क्रोडीकृतत्वात् , पूर्वकालवत् । अभ्युपगम्यापि विरोधदोपमाह-'सयं चेत्यादि' खयं चकारणव्यापारनिरपेक्षं च तत्कार्य किन्न भवेत् ?, भवेदेवेति भावः । यस्मात्तस्य-कार्याभावस्याकारणकृतेन नाशेन सह | विरोधान्नास्तित्वे सति इतरस्य-कार्यस्य सामर्थ्यादस्तित्वं भवत्येव, भावाभावयोरेकतरप्रतिषेधस्यापरविधिनान्तरीयकत्वात् , तथा च सति तत्कार्य निर्हेतुकमेव स्यात्, कारणस्य तदभावनाशे व्यापृतत्वान्न तदुत्पादे, निर्हेतुकत्वे च सदा भावाभावप्रसङ्गो "नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणादिति" न्यायात, न चैतदिष्टमिति यत्किंचिदेतत ॥ २५२ ॥ अत्र परस्य मतमाशङ्ककमान आह __ अह कारणं चिय तउ ण तु अण्णो कोइ माणविरहातो। तं पुण कुणइ तयं चिय तहासहावातो भणियमिणं ॥ २५३ ॥ अथ मन्येथाः-नैवान्यः कश्चित्कार्याभावस्तत्साधकप्रमाणाभावात् , किंतु कारणमेव, तच पुनः कारणं करोति तदेव Jain Education Inter For Private & Personel Use Only A Mw.jainelibrary.org Page #236 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः . ॥११६॥ विवक्षितं कार्य, नान्यत् । एतेन द्वितीयपक्ष आशङ्कितः, कस्मात्पुनस्तत्कारणं तदेव विवक्षितं कार्य करोतीत्यत आहतथाखभावात् , खहेतुभ्यो हि तत्तथाखभावमेवोत्पद्यते येन तदेव विवक्षितं कार्य करोति, नान्यदिति । एतच्च प्रागेव भणितम्-'एस पडुचुप्पादो सहावसिद्धो मुणेयवोत्ति' ॥ २५३ ॥ एतद्पयितुमाह तं सत्ताऽसत्तोभयविवजयसहावजणणसीलं तु । होजा ? न सवपक्खेसु संगतो अब्भुवगमो ते ॥ २५४ ॥ __'तं सत्ते'त्यादि तत्-कारणं सत्वभावकार्यजननशीलं वा भवेत् असत्खभावजननशीलं वा आहोश्चित् उभयजननशीलमुताहो अनुभयजननशीलमिति विकल्पचतुष्टयं गत्यन्तराभावात् । तत्र न सर्वेष्वपि पक्षेषु तवाभ्युपगमः सर्वथा संगतः ॥२५४ ॥ कुत इत्यसंगतत्वे हेतूनाह वेफल्लादिपसंगा तदभावपसंगमादिदोसातो । अब्भुवगमबाहातो असंभवातो य णातवो ॥ २५५॥ वैफल्यादिप्रसङ्गात्, यदि हि तत्कार्य सत्स्वभावं तर्हि तस्याग्रेऽपि विद्यमानत्वात् किं तेन कार्यमिति वैफल्यम् , आदिशब्दादनवस्थापरिग्रहः, विद्यमानस्यापि हि करणाभ्युपगमे विद्यमानत्वाविशेषात् भूयो भूयः करणप्रसङ्ग इत्यन CAOCALGCROSSOMCOLLECTU AL ॥११६॥ For Private & Personel Use Only Page #237 -------------------------------------------------------------------------- ________________ S ECOLLECRECEMCAL वस्था । द्वितीयपक्षे दोषमाह-तदभावप्रसङ्गादिदोषात् , तथाहि-यदि असत्खभावं तत्कार्य तर्हि न केनापि खरविपाणवत् तत् उत्पादयितुं शक्यं, स्वभावस्थान्यथा कर्तुमशक्यत्वादिति तदभावप्रसङ्गः, अत्रादिशब्दात्तदन्य भावप्रसक्तिपरिग्रहः, तथाहि-यदि असत्वभावमपि जन्यते ततोऽसत्वभावत्वाविशेषात् खरविषाणमपि जन्यतेति। तृती-13 यपक्षे दोषमाह-अभ्युपगमवाधात इति, न हि सत्खभावासत्खभावं युष्मत्समयेऽभ्युपगम्यते, एकान्तवादहानिप्रसङ्गात् , जैना ह्येवमुपदिशन्तो विदितयथावस्थितवस्तुतत्त्वाः सदसि विराजन्ते, यदुत-कारणावस्थायां कार्य द्रव्यात्मकतया सत्स्वभावं पर्यायात्मकतया चासत्खभावमित्युभयखभावमिति । तुरीयपक्षे दोपमाह-असंभवतश्च, न ह्येवं संभवोऽस्ति यथा न सत्स्वभावं कार्य नाप्यसत्वभावमिति, एकतरखभावप्रतिषेधे सामर्थ्यादन्यतरखभावविधिप्रसक्तः |॥ २५५॥ आशङ्काशेष परिहरन्नाह ण य तं तदेव सत्तस्सभावजणणस्सहावगं जुत्तं । पुत्वमसत्तसहावं एवं पडिसिद्धमेयं तु ॥ २५६ ॥ नच तत्-कारणं यदा कार्यमुत्पद्यते तदैव सत्स्वभावजननखभावमिति कल्पयितुं युक्तम् , यस्मात्तत्कार्य पूर्वमसत्वभावमिदानीं त्वेवं सत्खभावमित्येतत्प्रतिषिद्धं-परस्परव्याहतम् । तथाहि-यदि प्राक् असत्वभावं कथमिदानीमकस्मात् सत्खभावं जातम् ?, गगनेन्दीवरादीनामपि तथाभावप्रसङ्गादिति ॥ २५६ ॥ SACSCROSCORRECTORS Jain Education intel e वा For Private & Personel Use Only Colww.jainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि: ॥११७॥ एतेणं चिय खित्ता मूलविगप्पाण पच्छिमा दोवि । जं तुल्लजोगखेमा भणियविगप्पेहिं ते पायं ॥ २५७ ॥ 'एतेनैव' सत्स्वभावजननशीलादिविकल्पचतुष्टयनिराकरणेन, 'मूलविकल्पानां' किं तदभावविनाशमित्यादीनां संवन्धिनौ द्वौ यो पाश्चात्य विकल्पी उभयानुभयलक्षणौ तौ प्रतिक्षिप्तौ द्रष्टव्यौ, यस्मात्तौ भणितविकल्पाभ्याम्-उभयानुभयलक्षणाभ्यां प्रायस्तुल्ययोगक्षेमौ, तुल्याभ्युपगमबाधादिदोषसद्भावात् ॥२५७॥ पुनरपि परपक्षमाशङ्कमान आह सिय उप्पण्णं भावो ततो य चिंताए होइ विसउत्ति। दीसइ य तं तउच्चिय णिरस्थिगा तेण एसत्ति ॥ २५८ ॥ स्यादेतत्-'उत्पन्नं लब्धात्मलाभं सद्वस्तु भावो भवति-भावशब्दवाच्यं भवति, 'तत एव च' भावत्वादेव च | 'चिन्तायाः'युक्तिरूपाया विषयो भवति नान्यथा, दृश्यते चाथ तद्वस्तु 'तत एवं' भावत्वादेव प्रत्यक्षेण प्रमाणेन, तेन कारणेन 'एषा' चिन्ता पूर्वोक्तयुक्तिरूपा निरर्थिका, दृष्टस्यापहोतुमशक्यत्वाददृष्टस्य चानुत्पन्नत्वेन चिन्तातीतत्वादिति ॥ २५८ ॥ अत्र आचार्य आह उप्पन्नं चिय भावो इदमेव कहति जुजती चिंता ? । CARRASAARCAUCRAKAR ॥११७॥ en Education For Private Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ तब्बाधियं ण सिद्धं तुह सामण्णादि दिटुं ता ॥ २५९ ॥ युक्तमेतदक्तम्-उत्पन्नमेव भावो भवति नान्यथेति, परं किंतु इदमेव-उत्पन्नत्वं दृश्यमानं कथं घटत इत्येवं चिन्ता युज्यते एव, यस्मात्तद्वाधितं-तया युक्तिरूपया चिन्तया वाधितं तव सामान्यादि, आदिशब्दात् गुणक्रियावयव्यादिपरिग्रहः 'दृष्टमपि' प्रत्यक्षेण विषयीकृतमपि न सिद्धं, तस्मान्न दृष्टमित्येव प्रत्येतव्यं, किंतु युक्त्येति तद्पा चिन्ता कर्त युज्यत एवेति ॥ २५९ ॥ उपसंहारमाह ___ ता इय जातिवियप्पा उज्झेयवाऽणुभूयमाणम्मि। सजम्मि हेउफलभावमोहठाणाय ते किंच ॥ २६० ॥ | 'ता' तस्मादितिरेवमर्थे, एवम्-अनेन प्रकारेणान्येऽपि ये खपक्षदोषाच्छादनाय 'जातिविकल्पा' जात्युत्तराणि 'कारणविणासकजुप्पाया जुगवं तु होति नायवा' इत्यादयोऽभिहितास्ते 'उज्झितव्याः' परित्यक्तव्याः, यस्मात्ते पूर्वोक्ता जातिविकल्पाः 'अनुभूयमाने' अवाधितप्रत्ययेन निश्चीयमाने सर्वस्मिन् वस्तुनि हेतुफलभावमोहस्थानाय जायन्ते, तेषु हि सम्यक्परिभाव्यमानेषु न कथंचिदपि हेतुफलभावो घटते, केवलं धान्ध्यमेवापद्यते, यथाभिहितं प्रागिति । किंचेति वक्ष्यमाणदूषणाभ्युचये ॥२६० ॥ तान्येवाह ESSASSAA5% Jain Education iral For Private & Personel Use Only w w.jainelibrary.org Page #240 -------------------------------------------------------------------------- ________________ धर्म ॥११८॥ Jain Education Int किं तस्सत्तामेत्तं किं तक्किरियं व किं व तदभावं । आसज्ज होति कज्जं ? ण संगयं सवपक्खेसु ॥ २६१ ॥ किं तत्सत्तामात्रं - कारणसत्तामात्रं, किं वा तक्रियां - कारणक्रियां, किंवा तदभावं - कारणाभावमाश्रित्य भवति कार्यम्, किंचात इत्याह-न संगतं सर्वपक्षेषु ॥ २६१ ॥ तदेवासंगतत्वं भावयन्नाह - जइ तस्सत्तामेतं आसज्ज हवेज्ज णणु तदद्धाए । उवरिं ण तस्स सत्ता जं णावेक्खा ततो जुत्ता ॥ २६२ ॥ यदि तत्सत्तामात्रं - कारणसत्तामात्रमाश्रित्य भवति कार्यमित्यभ्युपगमो, ननु तर्हि तदद्धायां तत्कार्यं भवेत्, यस्मादुपरि द्वितीये क्षणे न तस्य-कारणस्य सत्ता ततो न तत्र तदपेक्षा युक्ता ॥ २६२ ॥ स्यादेतत् कारणाद्धायामेव कार्यस्य सत्तामात्रापेक्षा, तदैव च तत् कार्यमुत्पद्यते, ततः को नो दोषो ?, न ह्यभ्युपगमा एव वाधायै प्रभवन्तीत्यत आह तक्कालम्मिय भावे सइ कह तस्सेगकालभावित्ता । उफलभावभावो ? भावे य अतिप्पसंगो उ ॥ २६३ ॥ संग्रहणिः, ॥११८॥ Page #241 -------------------------------------------------------------------------- ________________ Jain Education Int 'तत्काले च' कारणकाले च 'तस्य' कार्यस्य भावे इष्यमाणे सति कथं हेतुफलभावभावः स्यात् ? । कथं न स्यादित्यत आह-एककालभावित्वात् । भावे च एककालयोरपि हेतुफलभावस्येष्यमाणेऽतिप्रसङ्गः स्यात्, सव्येतर गोविषाणयो| रपि तद्भावप्रसक्तेः ॥ २६३ ॥ द्वितीयपक्षमधिकृत्याह तक्किरिया चुप्पत्तिं मोत्तुं तस्सेव णत्थि अण्णा तु । एत्थमभावम्मिय पुववण्णिया चेव दोसा उ ॥ २६४ ॥ 'तक्रिया च' कारणक्रिया च तस्य कारणस्योत्पत्तिं मुक्त्वा नैवान्या काचिदस्ति । "भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते " इति वचनात् " । एवशब्दो भिन्नक्रमः, स च यथास्थानं योजितः । तुः पादपूरणे । अत्र दोषमाह - 'एत्थेत्यादि' अत्र-तक्रियापक्षे, तृतीये चाभावपक्षे, पूर्ववणिता एव दोषा द्रष्टव्याः तथाहि यदा कारणक्रिया कारणोत्पत्तिमात्रमेव तदा तत्सत्तामात्रपक्षभावी यो दोषः सोऽत्रापि तदवस्थ एवावर्तते । अभावपक्षे च ' नाभावो उ भावो' इत्यादिरूप इति ॥ २६४ ॥ जत्तो च्चिय तरसत्ता - मेत्तं अत एवऽनंतरद्धाए । हो दाए पुणभावे कह णु तदद्वेक्खा ? ॥ २६५ ॥ Page #242 -------------------------------------------------------------------------- ________________ धर्म ॥११९॥ यत तत्सत्तामात्रं कारणसत्तामात्रमपेक्षते कार्यमुत्पद्यमानमत एव अनन्तराद्धायां द्वितीयक्षणे भवति । विपक्षे बाधामाह-तदद्धायां - कारणाद्धायां पुनस्तद्भावे - कार्यभावे सति कथं नु तदपेक्षा - कारणापेक्षा कार्यस्य १, नैवापेक्षेतिभावः, तदा तस्य सर्वात्मना परिनिष्पन्नत्वात् ॥ २६५ ॥ अत्राह — कतगत्तमेत्तसत्ता - णुबंधि अणिच्चत्तणं ण एवं तु । तदभेदातोत्तिमती भेदे अब्भुवगमो दुट्टो || २६६ ॥ नन्वेवं सति नैव, तुशब्द एवकारार्थः, उक्तं च- "तुः स्याद्भेदेऽवधारणे" इति कृतकत्वमात्रसत्तानुबन्धि अनित्यत्वं स्यात्, , द्वितीयेऽपि क्षणे कारणस्यानुवर्त्तमानत्वात् कथमन्यथा तस्मिन् क्षणे कार्यमुत्पद्यमानं तत्कारणमपेक्षेत ?, तस्य तदा सर्वथा विनाशात् । अथ स्यान्मतिः- तदभेदात्- तयोः कृतकत्वानित्यत्वयोरभेदात् कृतकत्वमात्रानुबन्धि अनित्यत्वमभ्युपगम्यत एव, तथाहि - यदि कृतकत्वमात्रानुबन्धि अनित्यत्वं न भवेत् तर्हि तत् पश्चाद्भवत् कारणान्तरसापेक्षं स्यात्, तथा च सति भिन्नहेतुकत्वात् कृतकत्वेन सह तादात्म्यं न भवेत् ?, इष्यते च तादात्म्यं तस्माद| नित्यत्वं कृतकत्वानुबन्ध्येवेति । अत आह-भेदे - क्षणभेदे द्वितीयक्षणे इतियावत्, कार्यस्य कारणं प्रत्यपेक्षाया योऽसावभ्युपगमः स दुष्टः, तदा तस्य विनष्टत्वेन कार्यस्य तदपेक्षाया अनुपपत्तेः ॥ २६६ ॥ अत्र पराभिप्रायं दूषयितुमाशङ्कमान आह संग्रहणिः ॥११९ ॥ Page #243 -------------------------------------------------------------------------- ________________ Jain Education Int अह तस्सेस सहावो अनंतरखणम्मि होइ जं कज्जं । रस्सवि एसोच्चि एतंपि न जुत्तिपडिबद्धं ॥ २६७ ॥ अथ तस्य-कारणस्य एष एव स्वभावो येन तस्यानन्तरक्षणे कार्य भवति न सदा, इतरस्यापि च - कार्यस्यायमेव स्वभावो यदुत कारणक्षणानन्तरं मयोत्पत्तव्यमिति, तथा च कुतः पूर्वोक्तदोषावकाश इति । तत्र दूषणमाह- 'एयं पीत्यादि एतदपि अनन्तरोक्तं न युक्तिप्रतिबद्धम् ॥ २६७ ॥ कथमित्याह जं तक्खणभवणमिव णिबंधणं तस्स तस्सहावो तु । तदभावम्मिय भावे अतिप्पसंगो बला होति ॥ २६८ ॥ 'यत्' यस्मात्तस्य- कार्यस्य तत्क्षणभवनेऽपि - कारणक्षणानन्तरक्षण भवनेऽपि 'तत्स्वभाव एव' कारणस्वभाव एव, तुशब्द एवकारार्थः, 'निबन्धनं' कारणं न त्वन्यत्, कुत इत्याह-'तदभावे च' हेतौ कारणस्वभावाभावे यस्मात् कार्यस्य भावे इष्यमाणे बलादतिप्रसङ्गः प्राप्नोति, पूर्वमपि तद्भावप्रसक्तेः ॥ २६८ ॥ - बितियक्खणे य कज्जं ण य सो तम्मि खणिगत्ततो सिद्धं । Page #244 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ॥१२०॥ ता कह णु तस्स भावो ? भावे वितरस्स खणभंगो ॥ २६९ ॥ 'द्वितीयक्षणे च' कारणक्षणानन्तरक्षणे च काय, न च तस्मिन् द्वितीये क्षणे 'स' कारणखभावो विद्यते, एतच सिद्धं क्षणिकत्वात्-क्षणिकत्वाभ्युपगमात् , तस्मात्कथं नु तस्य-कार्यस्य भावः-उत्पादः ?, भावे वा तस्य कार्यस्य सति इतरस्य-कारणस्य 'खणभंगोत्ति' पदैकदेशे पदसमुदायोपचारात् क्षण इत्युक्ते क्षणभङ्ग इति द्रष्टव्यं, ततश्च क्षणस्य-क्षणभङ्गस्य भङ्गो-विनाशः प्राप्नोति । तथाहि-न कारणखभावानुवर्तनाभावे कार्यस्योत्पादो युज्यते, तस्य तत्स्वभावापेक्षितत्वात्, तदनुवर्त्तने च कुतः क्षणभङ्गसंभव इति ॥ २६९ ॥ 'इयरस्सवि एसोचिय' इत्येतद्दूषयितुमाह __ अज्जायस्सियरस्सवि एस सहावोत्ति दुग्घडं जाए। किं तेण ? सोचिय तओ सोवि असिद्धो तु भणियमिणं ॥ २७० ॥ इतरस्यापि च-कार्यस्य अजातस्य सत एष खभाव इति कल्पयितुं दुर्घट,खभावस्याप्यभावात् , अथ मा प्रापदयं | |दोष इति जातस्य सत एप खभावः कल्प्यते, तत आह-जाते कार्य किं तेन खभावेन कल्पितेन?, प्रयोजनाभावात्।। अथोच्येत 'तउत्ति' सकः स्वभावः स एव योऽयमधुना भावो जायमानो न पुनर्जातस्य सतः पश्चादन्यः कश्चित् तेना-18 दोष इत्यत्राह-'सोऽवीत्यादी' योऽयमिदानीं भावो जायमानः सोऽपि यथा भवता खभावरूपः परिकल्पितस्तथा असि REFRAHISSAIRAASSSSS ॥१२०॥ Jain Education For Private & Personel Use Only HOLw.jainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ NAGARMACISCtest द्ध एव,तथाप्रतीत्यभावात् ,इदं तु प्रागनेकधा भणितमिति न भूयो भूयः प्रपश्यते । तदेवं 'सिय कारणं विसिट्टमित्यादिना' यः प्राक् प्रतीत्योत्पादोऽभिहितः स सप्रपञ्चमपाकीर्णः॥ २७० ॥ सांप्रतं पुनर्यत्तत्रैव वैशिष्टयमुक्तं तदूषयितुमुपक्रमते-- वेसिटुंपि न जुज्जति खणिगत्ते कारणस्स सहजाणं । णो इच्छिज्जइ जम्हा विसेसकरणं कहंचिदवि ॥ २७१ ॥ क्षणिकत्वेऽभ्युपगते सति यत्कारणस्य वैशिष्ट्यमभिहितं 'सिय कारणं विसिमिति' तदपि न युज्यते । कुत इत्याह-यस्मात्सहजानाम्-एककालजातानां 'कथञ्चिदपि' केनापि प्रकारेण विशेषणं नेष्यते,परिनिष्पन्नत्वेन तेषां परस्परxमनाधेयातिशयत्वात् । अथ मा भूत्सहजानां परिनिष्पन्नत्वेन परस्परमतिशयाधानं द्वाभ्यां पुनरुपादानसहकारिकारणाभ्यां प्राक्तनाभ्यामेकीभूय विशिष्टं तदुत्पादितं, ततः सिद्धं वैशिष्टयमिति ॥ २७१ ॥ अत्राह भिन्नद्धाणमुवादाणकारणस्साविसेसभावम्मि । कत्तो फले विसेसो ?, ण य सो तस्सावि इय जुत्तो ॥ २७२ ॥ उत्पाद्यविशिष्टकारणापेक्षया 'भिन्नाद्धानां' भिन्नकालानां सहकारिणां संवन्धी कुतः ‘फले उत्पाद्यविशिष्टकारणलक्ष धर्म, २१ Jan Educalan Intel Gil Page #246 -------------------------------------------------------------------------- ________________ धर्म ॥१२१॥ Jain Education णे विशेषः ?, नैवेत्यर्थः, क सतीत्याह - उपादानकारणस्य विवक्षितफलसंबन्धिनो विशेषभावाभावे सति, उपादानस्य | विशेषभावमन्तरेण विवक्षित सहकारिसन्निधानात् प्रागिव तत उपादानतो विशिष्टफलानुपपत्तेः । अथ मा प्रापदयं दोष इति विवक्षितफलसंबन्धिन उपादानस्य विशेषभावः सहकारिभिः क्रियमाण आश्रीयते, तत्राह - 'ण येत्यादि' न च 'तस्यापि ' उपादानकारणस्य सहकारिभ्यः सकाशात् 'स' विशेषभाव इतिः- एवं पूर्वोक्तेन प्रकारेण युक्तः, समानकालभा| वित्वादयुक्त इति भावः ॥ २७२ ॥ न हि समानकालभाविनोऽन्यतो भवतः सहकारिणः सकाशादन्यत एव भवतस्तस्यो - पादानस्य विवक्षितोपादानसह कार्युपादानैस्तदुपादानोपादानानामपि तदुपादानोपादानैर्विशेषभाव आधीयते, तथा च न कश्चिद्दोपः, अनादित्वाच्चो पकार्योपकारकपरम्पराया नानवस्थाऽपीष्टा बाधिका, आदौ हि परिकल्प्यमाने दोपः स्यादित्येतदेवाशङ्कमान आह अह सोऽणादी ण घडई एवं चिय सहा अणादीवि । तरभावित्तं विणा ण जमणादिपक्खोऽवि ॥ २७३ ॥ अथ 'स' विशेषभावोऽनादिरनादित्वाच्च न कश्चिद्दोष इति प्रतिपद्येथाः ?, अत्राह-न घटते 'एवमेव' पूर्वोक्तेनैव प्रका | रेण सर्वथा अनादिरपि विशेषभावः यस्मादनादिपक्षो हि विशेषभावस्येप्यमाण उपकार्योपकारकाणां युगपद्भावित्वमयु संग्रहणिः ॥१२१॥ 1. Page #247 -------------------------------------------------------------------------- ________________ Jain Education Inta गपद्भावित्वं वा विना न भवति, ततः सोऽपि न घटत एव । एतदुक्तं भवति - अनादिपरम्परायामपि समकालभाविनां वा परस्परविशेषकरणं भवेत् संभूय तदन्यविशिष्टकरणं वा?, तत्र चोक्तो दोष इति ॥ २७३॥ अत्र परस्य मतमाशङ्कते - अह तस्स सहेऊतो एस सहावोति जेण सहकारी । पप्पाकिंचिकरंपि हु फले विसेसं फुडं कुणइ ॥ २७४ ॥ अथ तस्य - उपादानक्षणस्य स्वहेतुतः सकाशादेष एव स्वभाव उत्पेदे येनाकिंचित्करमपि सहकारिणं प्राप्य 'फले' उपादेयक्षणे 'स्फुटं' विवक्षितविशिष्टकार्यजननसमर्थ विशेषं करोति, ततो न वैशिष्ट्यं घटते इति यदुक्तं तदसमीचीनमेवेति ॥ २७४ ॥ अत्राह माणं किमत्थ तीरति एव सहावंतरंपि कप्पेउं ॥ अत्थाणपक्खवातोय तस्सवेक्खाणियोगम्मि ॥ २७५ ॥ ‘मानं' प्रमाणं किमत्र? यद्बलेनैवं भवता स्वभावः परिकल्प्यते, नैव किंचिदिति भावः । न च प्रमाणमन्तरेण स्वभावः परिकल्प्यमानो वस्तुव्यवस्थानिबन्धनं, यत एवं भवत्परिकल्पितस्वभाववत् स्वभावान्तरमप्यनिष्टरूपं कल्पयितुं शक्यत एव । अपिच, विवक्षितफलोपादानोपादानस्यास्थानपक्षपातोऽयं यत् स्वकार्य विशिष्टख फलसाधनप्रवृत्तमत्यन्तानुप Page #248 -------------------------------------------------------------------------- ________________ धर्म- ॥१२२॥ कारिणः सहकारिणोऽपेक्षायां नियुङ्क्ते इति । उक्तं च-"अस्थानपक्षपातोऽयं, हेतोरनुपकारिणि (णः)। अपेक्षायां । नियुड़े यत्कार्यमन्यविशेषतः॥१॥” इति ॥२७५॥ उपसंहारमाह संग्रहणि. इय सहकारिकतो जं ण विसेसो कारणस्स उववजे । तम्हा विसिटुसद्दो णिरत्थगो एत्थ णातवो ॥ २७६ ॥ _ 'इति' एवं 'यत्' यस्मात्सहकारिकृतो विशेषः कारणस्य सर्वथा नोपपद्यते तस्मादत्र-हेतुफलभावे विचार्यमाणे विशिटशब्दः 'कारणं विसिटुं पडुचे' त्येवमुच्चार्यमाणो निरर्थको ज्ञातव्य इति ॥२७६॥ दूषणान्तरमभ्युचेतुं परं पृच्छन्नाह तदणंतरं च भावे बहूण अविसेसतो कुतो णियमो। इयमेव अस्स कजं ? तस्सेव उ तस्सहावत्ता ॥ २७७ ॥ 'तदनन्तरं च तस्मात्-विवक्षितघटक्षणादनन्तरं तदुत्तरक्षणवत् अविशेषतः-अविशेषेण बहूनां सकललोकभाविना पटादिक्षणानां 'भावे' उत्पादे सति कुतोऽयं नियमोऽवसीयते, यदुत-अस्य-विवक्षितघटक्षणस्येदमेव-विवक्षिततदुत्तर-6॥१२२॥ घटक्षणलक्षणं कार्य नत्वन्यदिति ?, नैव कुतश्चिदपीत्यर्थः। पर आह-तस्यैव-विवक्षितघटक्षणस्य 'तत्स्वभावत्वात्' विव-| SACRECESSACRE ASE Jain Education For Private Personel Use Only w.jainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ Jain Education |क्षिततदुत्तर घटक्षणजनन स्वभावत्वात्, तथा तस्यैव विवक्षिततदुत्तरघटक्षणलक्षणस्य कार्यस्य तत्स्वभावत्वाद् - विवक्षितघटक्षणलक्षणकारणजन्यखभावत्वात् ॥ २७७॥ एतदेव भावयन्नाह - तफलजणणसहावं जं तं चिय कारणं ण अण्णंति । कपि य तक्कारणजपणसहावं तयं चैव ॥ २७८ ॥ यत् — यस्मात्तदेव — विवक्षितं कारणं तत्फलजननस्वभावं, नान्यत् कार्यमपि च तदेव विवक्षितं तत्कारणजन्यखभावं, नेतरत् इति तत्स्वभावसामर्थ्यात् स पूर्वोक्तो नियमोऽवसीयते ॥ २७८ ॥ अत्राचार्य आहकतरेव अणुगमविसेससंपायणाऍ रहियस्स । तफलजणणसहावो ण थेवसद्धाऍ विसउत्ति ॥ २७९ ॥ विवक्षितस्य घटक्षणलक्षणस्य कारणस्य कार्यान्तर इव पटादिक्षणलक्षणे विवक्षितेऽपि कार्ये तदुत्तरघरक्षणलक्षणे अनुगमविशेषसंपादनया रहितस्य 'तत्फलजननखभावो' विवक्षितफलजननस्वभावो न स्तोकश्रद्धाया विषयः, सर्वथा कारणगत कर्मानुगम विशेषाभावाविशेषात् नैवासौ स्वभावः परिकल्प्यमानः कथंचिदप्युपपद्यते, केवलं स्वदर्शनानुरागणातीव तरलितमतित्वात् त्वमेवेत्थमवभास इति भावः ॥ २७९ ॥ कार्यविषयं स्वभावनियमं विघटयितुमाह Page #250 -------------------------------------------------------------------------- ________________ धर्म ॥१२३॥ Jain Education In असति य तहोवयारे कहंचिदवि कारणंतरकए व । कपि य तक्कारणजन्नसहावंति चिंतमिदं ॥ २८० ॥ तथा असति च - अविद्यमाने च कथंचिदपि - केनापि तद्रूपरसगन्धशक्तिपरिमाणानुगमादिलक्षणेन प्रकारेण उपकारे विवक्षिते कार्ये कस्मिन्निवेत्याह- कारणान्तरकृत इव कार्ये - पटादिके कार्यमपि विवक्षितं तत्कारणजन्यखभावमिति न कल्पयितुं युक्तमिति भावः ॥ २८० ॥ अत्र परोत्तरमाशङ्कते - तं चैव अहुवयारो किं नो अन्नं ? अतस्सहावत्ता । तस्सावं किंकय - मह हेतुसहावकतमेव ॥ २८९ ॥ अथ तदेव कार्य-विवक्षिततदुत्तरघटक्षणलक्षणमुपकारो विवक्षितघटक्षणस्य कारणस्य न त्वनुगमरूप इति ब्रूपे ?, अत्राह- किं नो ? अन्यत्पटादिकं तदुपकारो भवति, विशेषाभावात् । इतर आह- 'अतत्खभावत्वात्' विवक्षितकारणजन्यखभावत्वाभावात् पटादिकस्य । अत्राचार्यः पृच्छति - 'तत्वाभाव्यं' विवक्षितकारणजन्यखभावत्वं विवक्षितकार्यस्य किंकृतम् ?, इतर आह-किमत्र प्रष्टव्यं ? हेतुस्वभावकृतमेव तत्तत्वाभाव्यम् ॥ २८१ ॥ पुनः पृच्छति - को तस्स णु सहावो ? तदणंतरमेव जं तयं होइ । संग्रहणिः • ॥ १२३॥ Page #251 -------------------------------------------------------------------------- ________________ Jain Education Inte कि नो अन्नं ? किं तेण ? हंत वामोहहेतुति ॥ २८२ ॥ त्याक्षेपे । कस्तस्य हेतोर्ननु स्वभावो यद्वलात्कार्यस्य तत्स्वाभाव्यमुपजायते । पर आह-यत् तकतू - विवक्षितं कार्य तदनन्तरमेव - विवक्षितकारणानन्तरमेव भवति, स हेतोः स्वभावः । इह हेतुखभावनिबन्धनं कार्यभवनमपि हेतुखभाव इत्युक्तं, कार्ये कारणोपचारात्, अन्यथा विवक्षितहेतुस्वभावविशेषस्य निर्द्धारयितुमशक्यत्वाद् इदमुक्तं भवति - तस्य हेतोः खहेतुशक्तितस्तादृश एव स्वभावभाव उत्पेदे येन तदनन्तरमेव तद्विवक्षितं कार्यमुपजायते, तथा च तत्कृतं कार्यस्यापि तत्वाभाव्यमिति । आचार्य आह- किन्नो — नैवान्यत् - पटादिकं तदनन्तरमेव भवति १, येन विवक्षितहेतुस्वभाववलात् तस्यैव विवक्षितस्य घटक्षणलक्षणस्य तत्स्वाभाव्यं कल्प्यते नान्यस्य, अन्यदपि तदनन्तरं भवति तत्कथमेतत्तस्य कल्प्यत इति भावः । तस्मात् 'हन्तेति' परपक्षस्य विचारासहनत्वेन विपादसूचने । तदुक्तम् - " हन्त हर्पेऽनुकम्पायां, वाक्यारम्भविषादयोरिति । किं तेन तदनन्तरं सद्भाव इत्यनेनोद्घोषितेन ?, यस्मादयमित्थं विचार्यमाणो व्यामोह हेतुरिति ॥ २८२ ॥ पर आह तं चैव तदरू को वामोहोति ? किं न अण्णंपि ? | किंवा अणुरुवत्तं तद्धमाणुगमविरहम्मि ? ॥ २८३॥ Page #252 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः ॥१२४|| SSCLAC-TOCOCCCC 'तदेव' विवक्षितं तदुत्तरघटक्षणलक्षणं कार्य तदनुरूपं' विवक्षितघटलक्षणकारणानुकारं, नान्यत् पटक्षणादि,अत- स्तदेव तस्य कार्य, नेतरत् , तथा च को दोपः ? इत्यत्राह-किं न अन्नंपित्ति' काका नीयते किं नान्यदपि पटक्षणादि| तदनुरूपमस्ति?, येन तदेव तस्य कार्य स्यान्न तु पटादि, अस्त्येवेतिभावः, सर्वस्यापि कथंचिद्वस्तुत्वादिना परस्परमनुकारित्वात् । अपिच, तद्धर्मानुगमविरहे' विवक्षितकारणधर्माणां तद्रूपगन्धादीनामनुगमाभावे किमनुरूपत्वं स्यात् ?, नैव किंचिदितिभावः, पटादेरिव विवक्षितस्यापि कार्यस्य कारणधर्मानुगमाभावाविशेषात् ॥२८३॥ तत्खाभाव्यमेव कार्यस्य पूर्वोक्तमभ्युच्चयेन दूषयन्नाह ___ कजाणं अखिलाणं असेसकारणविसेसरहियाणं । जो तस्तभावभेओ वइमेत्तातोऽणियमहेतू ॥ २८४ ॥ योऽयमशेषकारण विशेषानुगमरहितानामखिलानां कार्याणां स्वस्वकारणापेक्षया तत्तत्वभावभेदः प्रतिकार्य व्यवस्थाया नियमहेतुरुद्धष्यते सोऽनियमहेतुरेव । कुत इत्याह-वइमित्ताउत्ति' भावप्रधानोऽयं निर्देशः, वाङ्मात्रत्वात् , वाङ्मात्रता च तत्साधकप्रमाणाभावात् , नच वामात्रेणेष्टसिद्धिर्भवति ॥२८४॥ अत आह जं अण्णहावि तीरइ वइमेत्तेणं भणिउं स मिच्छत्ति । ॥१२॥ 454545 Jain Education For Private & Personel Use Only Rileww.jainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ 50% SAMACHAR इय मोससम्मनाणं न कोसपाणं विणा एत्थ ॥ २८५ ॥ 'यत्' यस्मादन्यथापि सत्खभावभेदो वाङ्मात्रेण भणितुं शक्यते, तथाहि-मृत्पिण्ड एव पटजननवभावः, पट एवं तजन्यखभावः, तन्तव एव घटजननखभावाः, घट एव तजन्यखभाव इत्यपि वक्तुं शक्यत एव, उभयत्रापि कारण-15 धानुगमाभावाविशेषात् । अत्र पर आह-स तत्वभावभेदो भवता परिकल्प्यमानो मिथ्या, तथाप्रतीत्यभावादिति। अत्राह-'इय इत्यादि' इतिः-एवमुक्तप्रकारेण, अत्र-अभ्युपगमविचारप्रक्रमे यत् मृषासम्यग्ज्ञानम्-अनन्तरोक्तः स्वभावभेदः परिकल्प्यमानो मृपा पूर्वोक्तश्च भवत्परिकल्पितः सम्यगिति ज्ञानं तत् न विना कोशपानमुपपद्यते, तद्विपयप्रमाणाभावात् , उभयत्रापि कारणधर्मानुगमाभावाविशेषात् ॥ २८५॥ पुनरपि प्रतीयोत्पादविषये एव दूषणं समुचिचीपुरिदमाह किंच पडुच्चेदमिणं जायइ माणं किमेत्थ ? ण हि एगं । खणियत्ताओ भिन्नद्ध-भावदुगगाहिणो णाणं ॥ २८६ ॥ किंचेत्यभ्युच्चये । इदं-विवक्षितं कारणं प्रतीत्य इदं-विवक्षितं कार्य जायत इत्यत्र विषये 'मान' प्रमाणं किं ?, नैव |किंचिदित्यर्थः । कुत इत्याह-'क्षणिकत्वात्' क्षणिकत्वाभ्युपगमात् । तदुक्तम्-"क्षणादूर्द्धन तिष्ठन्ति, शरीरेन्द्रियबुद्धय | SARMERCENGLGADARASACH ९ Jain Education Inter For Private & Personel Use Only &Mjainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ KACC धर्म इति” ॥ किंत्वेकैकस्यार्थस्य एकैकं विज्ञानम् , ततश्च परस्परं विषयपरिच्छेदाभावात् न प्रतीत्योत्पादविषयप्रमा- संग्रहणिः, सणसंभवः ॥ २८६॥ ॥१२५॥ एसोय कजकारणभावो कहमवगमस्सऽभावातो। जो भणिओ पच्चक्खाणुवलंभिचादिगम्मोऽयं ॥ २८७ ॥ अतश्च योऽयं प्रत्यक्षानुपलम्भेत्यादिगम्यः कार्यकारणभावो भणितः स कथं तथा भवेत् ?, नैव कथंचिदपि | भवेदितिभावः । कुत इत्याह-अवगमस्स अभावाओ तद्विषयस्यावगमस्याभावात् , तदभावश्च कार्यकारणप्रत्यक्षादीनां परस्परवार्तानभिज्ञानात् । प्रत्यक्षानुपलम्भेत्यादीत्यत्र आदिशब्दादनुपलम्भपुरस्सरप्रत्यक्षपरिग्रहः, कार्यकारणभावो हि कदाचि दनुपलम्भपुरस्सरेण प्रत्यक्षेण गृह्यते । यदाह धर्मकीर्तिः-"येषामनुपलम्भे तलक्षणमनुपलब्धं सत् उपलभ्यते इति तल्लक्षणमिति उपलब्धिलक्षणप्राप्तम्" एतेन चोपलब्धिलक्षणप्राप्तानुपलम्भेन तस्मिन् | देशे तस्य धूमादिकार्यस्य खहेतोः सन्निधानात् प्रागपि सत्त्वं तथा तस्य कार्यस्य सत एवान्यतो देशादागमनं प्रागव-18॥१२५॥ स्थितकटकुड्यादिहेतुकत्वं चापाकृतमवसेयम् । तथा कदाचित्प्रत्यक्षपुरस्सरेणानुपलम्भेन गृह्यते । यत उक्तम्-"तत्रैकाभावेऽपि नोपलभ्यते तत्तस्य कार्यमिति” अस्थायमर्थः येषां सन्निधानेन प्रवर्तमानं यत्कार्य दृष्टं तेषां मध्ये E SCACACANCE JainEducation inth Page #255 -------------------------------------------------------------------------- ________________ Jain Education Inte यदा एकस्यापि अभावे सति नोपलभ्यते तदा तत्तस्य कार्यम्, यथा धूमो हुतभुज इति ॥ २८७॥ अत्र पर आहतष्फलजणणसहावं तु कारणं तं च घेप्पइ तहेव । कजं पुण तक्कारणजण्णसहावंति तंपि तहा ॥ २८८ ॥ कारणम् - अग्न्यादिकं तत्फलजनन स्वभावं - धूमादिलक्षणकार्यजननखभावं, तुः पूरणे, तच कारणमेवंस्वभावं सत् तथैव - तथा स्वभावतयैव प्रत्यक्षेण गृह्यते नान्यथा, अन्यथा तदग्रहणप्रसङ्गात्, कार्यमपि धूमादिकं पुनः शब्दोऽपि शब्दार्थः, तत्कारणजन्यखभावम् इति तस्मादर्थे, तस्मात्तदपि कार्य तथा तथास्वभावतयैव गृह्यते, अन्यथा तेन तस्याग्रहणप्रसङ्गात्, तत्सामर्थ्यप्रभवश्च विकल्पोऽपि तथैव प्रवर्त्तत इति युक्तः प्रत्यक्षानुपलम्भादिना कार्यकारणभावावसाय इति ॥ २८८ ॥ एतदेव भावयति - धूमजणणसभावो (वा) णलगाहगमो जमेत्थ विष्णाणं । जं तमणलजन्नसहाव - धूमविण्णाणउत्ति ॥ २८९ ॥ यत् - यस्मादत्र जगति यत् धूमजनन स्वभावानलग्राहकम् 'मो' इति पादपूरणे, विज्ञानं तदवश्यमनलजन्यस्वभा 144444 Page #256 -------------------------------------------------------------------------- ________________ ॥ १२६ ॥ Jain Education In वस्य धूमस्य विज्ञानं - परिच्छेदस्तस्य हेतुर्भवति, अन्यथा तेनानलग्राहकेन विज्ञानेनानलस्य धूमजननखभावतैव न गृहीता स्यात्, ततश्चेदं भवतीति प्रत्यक्षत एव सिद्धम् ॥ २८९ ॥ एतो इदंति सिद्धे नो अन्नाउत्ति अन्नया सिद्धी । कवि कारणा किंचि कज्जमिय किं न जुत्तमिह ? ॥ २९० ॥ प्रत्यक्षत एव च इतः - अश्यादेः कारणादिदं धूमादिकार्यमुपजायत इति सिद्धे सति न अन्यदा अन्यत्र अन्यस्मादपि - शक्रमूर्धादेर्धूमादिकार्य भविष्यत्येवमसिद्धिः कार्यकारणभावस्याशङ्कनीया । कुत इत्याह- यस्मात् कुतोऽपि प्रतिनिय - तादश्यादेः कारणात् सकाशात् किंचित् प्रतिनियतं धूमादिकं भवति, न यतः कुतश्चित् यत् किमपि । एतदुक्तं |भवति-यदि अन्यदा अन्यस्मादपि धूमादिकं कार्ये भवेत् तर्हि तत् अहेतुकं स्यात्, यद्धि यदन्वयव्यतिरेकानुविधायि तत्तद्धेतुकं, अन्यदा चेदन्यस्मादपि धूमादिकं कार्यं भवेत्तर्हि न तत् अभ्यादिव्यतिरेकानुविधायि स्यात्, तथा च सति न तस्याश्यादिहेतुर्भवेत्, अध्यादेश्च सकाशाद्भवतो धूमादिकार्यस्य न शक्रमूर्द्धादिव्यतिरेकानुविधायित्वं, ततस्तदपि न तस्य हेतुर्भवेत्, तथा च सति उभयस्यापि तद्धेतुत्वाभावात् धूमादिक महेतुकमेव प्राप्नोति, अहेतुकत्वाच्च सदाभावादिप्रसङ्गः । “नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणादितिन्यायात्” । तस्मात् यत् यस्मादेकदा भवत् संग्रहणिः. ॥१२६॥ Page #257 -------------------------------------------------------------------------- ________________ AGRICORICALCURRECRUCACANCE तत् सर्वदा तत एव नेतरस्मादिति,किन्नः क्षुण्णम्?। तथा चाह-इय किन्न जुत्तमिहेति' इतिः-एवमुपदर्शितेन न्यायेन 'इह' विचारप्रक्रमे किन्न युक्तं ?, युक्तमेव सर्वमिति भावः ॥ २९० ॥ अत्र दूपणमाह विहितुत्तरमेवेदं अतिप्पसंगादिदोसभावातो। सो चेव सहावातो णियमणिमित्तातो पडिसिद्धो ॥ २९१ ॥ 'इदं' पूर्वोक्तं 'विहितोत्तरमेव' दत्तोत्तरमेव । कुत इत्याह-अतिप्रसङ्गादिदोषभावात्' अतिप्रसङ्गादिदोपसद्भावाभिधानात् । तत्रातिप्रसङ्गदोपो 'जं अन्नहावि तीरइ वइमित्तेणं तु भणिउमि'त्यनेनोक्तः । आदिशब्दान्मिथ्यासम्यगज्ञानाभावदोषपरिग्रहः, सच प्रागुक्त एवेति । पर आह-'सो चेवेत्यादि' स च एवातिप्रसङ्गादिदोषो 'निय मनिमित्तात्' प्रतिनियतव्यवस्थाकारणात् खभावात् प्रतिषिद्धः । तथाहि-मृदेव घटजननसभावा न तन्तवः तन्तव दाएव च पटजननखभावा न मृदिति वस्तुव्यवस्थानियमे वस्तुस्वभाव एव तथा परिदृश्यमानः प्रमाणतया विजृम्भते| न त्वन्यत् किंचित् ॥ २९१ ॥ यत आह ण य मोत्तु तहसहावं तदभावे णियमणं तु भावाणं । णय वत्थुसहावोवि हु पजणुजोगस्स विसउत्ति ॥ २९२ ॥ Jain Education ona For Private & Personel Use Only Page #258 -------------------------------------------------------------------------- ________________ धर्म ॥१२७॥ चशब्दो यस्मादर्थे । यस्मान्न भावानां तथाभावे' नियतकार्यजननखभावतया भावे तथाखभावं परिदृश्य मानसिंह मुक्त्वा अन्यत्किंचिनियमहेतुरस्ति, किंतु तथाखभाव एव, तस्मानातिप्रसङ्गादिदोषभावप्रसक्तिः। स एव तथाखभावो वस्तूनां कथमिति चेत् ? अत्राह-'णयेत्यादि' न च-नैव वस्तुखभावः पर्यनुयोगस्य विषयो भवति ॥२९२॥ यस्मात् ___ अग्गी डहति ण तु णहं सहावतो कोऽणुजुज्जते एत्थं ?।। एसा ण विपडिवत्ती सत्तामेत्तेण कज्जेवि ॥ २९३ ॥ अग्निदहति 'खभावात्' तथाविधस्वभावविशेषभावात् , न तु नभः-आकाशं वस्तुत्वाविशेषेऽपि दहति खभावाभावात्-दाहकत्वस्वभावप्रतिपन्धिखभावविशेषभावात् , 'अत्र' एवं प्रतिनियतवस्तुरूपव्यवस्थानियमहेतु खभावविपये को। नामानुयुज्यते-पृश्यते ?, यथा-स एवामिनभसोः स्वभाव इत्थंभूतः कथमिति, नैव कश्चिदनुयुज्यत इति भावः।। एवमिहापीति । आचार्य आह-'एसेत्यादि, 'एपा' अनन्तरोक्ता न विप्रतिपत्तिर्भवेत् यदि सत्तामात्रेणैव कारणम्& अम्यादि कार्येऽपि दाहादिलक्षणे व्याप्रियेत, यावता न सत्तामात्रेणैव व्याप्रियते, किंतु तथापरिणामितया, तथैव प्रत्येकतो निश्चीयमानत्वात् , अतोऽन्यथा वस्तुस्खभावकल्पने विप्रतिपत्तिरास्थीयत एव ॥२९३॥ स्यादेतत् , सत्तामात्रे १२॥ | णैव कारणं कार्यस्य निष्पादकं, ततो मा विप्रतिपत्तिं कापीरित्यत आह CHADHAAMIRSANEvamuosin sin Education For Private & Personel Use Only Page #259 -------------------------------------------------------------------------- ________________ R A सत्तामेत्तेण य से दाहगभावम्मि किं न तेलोकं । डहति ? ण हि तस्सभावो तउत्ति माणं परं सद्धा ॥ २९४ ॥ सत्तामात्रेणैव, चोऽवधारणे, न तु तद्भावपरिणमनेन 'से' तस्य बढेहकभावे-दाहकत्वे सति स वह्निः 'कि' कस्मात् त्रैलोक्यमपि न दहति ?, दहेदेवेति भावः, त्रैलोक्यमपि प्रति तत्सत्तामात्रस्या विशिष्टत्वात् । पर आह-IN 'नहीत्यादि' न हि यस्मात् 'तउत्तिसको वह्निस्तत्खभावः-त्रैलोक्यदहनस्वभाव 'इति' तस्मान्न त्रैलोक्यं दहतीति । अत्राह-'माणं परं सद्धा' अस्खामेवंविधकल्पनायां यदि परं भवतो 'मान' प्रमाणं श्रद्धैव न पुनरन्यत् , सत्तामात्रेण | दाहकत्वाभ्युपगमे सति तस्य त्रैलोक्यमपि प्रत्यविशिष्टत्वेन दहनादहनखभावविवेकस्य कर्तुमशक्यत्वात् ॥ २९४ ॥ इतर आह दीसइ किंचि दहंतो ण तु सवं ता कहं भवे सद्धा ? । सत्तामेत्तविसेसा एयंपि विरुज्झई मूढ ! ॥ २९५॥ यस्मादयं वह्निः 'किंचित् शुष्ककाष्ठादिकं दहन दृश्यते न तु सर्व जगत् ,'ता' तस्मात् कथमियं-पूर्वोक्ता स्वभावकल्पना श्रद्धा भवेत् ?, नैव भवेदिति भावः। खभावो हि तथाविधकार्यजननसमर्थः शक्तिरुच्यते, शक्तिश्च कार्यलि ॐॐॐॐॐॐॐ SSC-CCASCAR Jain Education in For Private & Personel Use Only ww.jainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ संग्रहणिः ॥१२८॥ ङ्गगम्या, तदुक्तम्-"शक्तिः कार्यानुमेया स्यादिति, कार्यं च दाहलक्षणं शुष्कन्धनादावेव दृश्यते न तु सर्वस्मिन्नपि जगति, ततः कार्यभावाभावदर्शनान्यथाऽनुपपत्त्या व्यवस्थाप्यमाना पूर्वोक्तखभावकल्पना अनुमानप्रमाणनिवन्धना, नतु श्रद्धामात्रनिवन्धनेति । आचार्य आह-'सत्तेत्यादि' मूढ !-अतीवस्थूरबुद्धे ! 'एतदपि' दाहकार्यभावाभावदर्शनं सत्तामात्राविशेषात् 'विरुध्यते' सर्वथा नोपपद्यते, तथाहि-सत्तामात्रेण दाहकत्वाभ्युपगमः, सत्तामात्रं च सकलजगदपि प्रति अविशिष्टमिति कथं विवेकेन कार्यभावाभावदर्शनमुपपद्यत इति ॥ २९५ ॥ स्यादेतत् , प्रत्यक्षत एव किंचिदहन किंचिच्चादहन् दृश्यते, तत्कथमुच्यते भावाभावदर्शनं नोपपद्यते इत्यत आह डाहम्मि णो विगाणं कह घडई सोत्ति ? एत्थ सवेसि । एत्थवि पतिणियतो च्चिय तस्स सहावो णिमित्तं तु ॥ २९६ ॥ दाहे प्रतिनियतशुष्कन्धनादिवस्तुविषये न विगानं-न विप्रतिपत्तिस्तस्य प्रत्यक्षत उपलभ्यमानत्वात् , किंतु स दाहः प्रतिनियतवस्तुविषयतया प्रत्यक्षत उपलभ्यमानः कथं घटत इत्यत्र सर्वेषां वादिनां विगानम् , तत्र च यथा भवदभ्युपगमस्तथा नोपपद्यते, यथोक्तं प्राक् । ननु कथं नोपपद्यते यावता 'अत्रापि' दाहस्य प्रतिनियतवस्तुविषयत्वे 'तस्य' वः प्रतिनियत एव खभावो 'निमित्तं' नियामको विद्यत एव, तुरेवकारार्थः ॥ २९६ ॥ अत्राह SACROSCORCHASE ॥१२८॥ Jain Education a l For Private & Personel Use Only A w w.jainelibrary.org Page #261 -------------------------------------------------------------------------- ________________ Jain Education Inte होउ स सत्तामेत्तेण जुज्जती णो अतिप्पसंगातो । मोत्तृणमभिनिवेसं वत्थुसहावं ण चिंतेसि ॥ २९७ ॥ भवतु तस्य वहेः प्रतिनियत एव स्वभावः प्रतिनियतवस्तुविषयदाहनिमित्तं, किंतु 'स' प्रतिनियतः स्वभावो वहेः सत्तामात्रेण दाहकत्वाभ्युपगमे सति सर्वथा न युज्यते । कुत इत्याह- 'अतिप्रसङ्गात्' अतिप्रसङ्गदोषापत्तेः । आपत्तिश्च वक्ष्यमाणयुक्त्या । यतश्च निमित्तविशेषादित्थं युक्तिभिः प्रतिबोध्यमानोऽपि परो न प्रतिबुध्यते तं निमित्त विशेषमपाकर्त्तुं परं शिक्षयन्नाह - ' मोत्तूणेत्यादि' 'मुक्त्वा' परित्यज्य 'अभिनिवेशं' खपक्षविषयात्यन्तिकाग्रहरूपं किन्न अवहितेन मनसा चिन्तयसि वस्तुस्वभावम् ?, येनेत्थमसंबद्धं पुनः पुनर्भाषमाणोऽस्मान् खेदयसीति ॥ २९७ ॥ | अतिप्रसङ्गादित्युक्तमतस्तमेवेदानीं समर्थयते सत्तामेत्ते जलं दूत्थंप हु तहासहावातो । डहति जलणो य पहाणं कुणइ ण एवं नु का जुत्ती ? ॥ २९८ ॥ दूरस्थमपि ''रिति निश्रये हु निश्चितं जलं -सलिलं तथास्वभावात् सत्तामात्रेण काष्ठादिकं दहति 'ज्वलनो' हुतवही दूरस्थोऽपि सत्तामात्रेण तथास्वभावात् स्नानं करोतीत्येवं न भवतीत्यत्र का युक्तिः ?, नैव काचित् । कारणधर्म्मा Page #262 -------------------------------------------------------------------------- ________________ धर्म- नुगममन्तरेण सत्तामात्रेण तथास्वभावतः कार्यकारणभाषाभ्युपगमे अस्सामपि कल्पनायां वाधकानुपपत्तेः ॥२९॥ संग्रहणि;. | अत्र पर आह॥१२९॥ णो तस्सेस सहावो किं माणं एत्थ ? लोगसंवित्ती। सा अन्मएवि अब्भुवगमचिंताए य किं तीए ? ॥ २९९ ॥ स्यादेतत् , दूरस्थमपि जलं सत्तामात्रेण दहेत् ज्वलनो था स्वानं कुर्यात् यदि तयोस्तत्वभावता स्यात् , यावता स एव खभावो न विद्यते, तत्कथमयमतिप्रसङ्ग आपद्यत इति । अत्राह-किं मान-प्रमाणम् , अत्र वह्निरेव सत्तामा-11 हात्रेण दहति न जलं, जलमेव च स्वानं करोति न दहनः, तथाखभावत्वात् , न पुनर्विपर्ययस्तथाखभावाभावादि यस्मिन्नर्थे ?, नैव किंचिदिति भावः । कारणविशेषानुगमभावस्योभयत्राप्यनभ्युपगमात् । अत्र परः प्रमाणमाह 'लोकसंवित्तिरिति' प्रतीतिसिद्धमपि धर्थमपलपतो लोकसंवित्तिरेव बाधिका, सा चात्राप्यतीति न विपर्ययकल्पनादवकाशः । अत्राह-सा लोकसंवित्तिरन्वयेऽपि परिस्फुटा, तथा च लोके वक्तारो-'मृदेव घटीभवति तन्तव एव च ॥१२९॥ पटीभवन्तीत्यादि,' ततो न सत्तामात्रेण कारकत्वमभ्युपगन्तव्यं, किंतु तद्भावपरिणमनेन, तथा च सत्येकान्तिकक्ष-1 णभङ्गभङ्गप्रसङ्ग इति । अपि च, लोकसंवित्तिमिदानी प्रमाणीकुर्वतः परसातीवासंवद्धभाषितेत्येतदर्शयति-"अब्भुव For Private & Personel Use Only Page #263 -------------------------------------------------------------------------- ________________ Jain Education गमेत्यादि' अनादिप्रवाहनिपतितोऽयं लौकिको मार्गों यथावस्तु प्रवृत्तो नान्यथा कर्तुं शक्यते, किंत्वेतद्विचार्यतेयथा कार्य युज्यते किं सत्तामात्रेण कारकत्वे ?, यथा त्वयाभ्युपगमम्यते, किंवा तद्भावपरिणमनेन ?, यथाऽस्माभिरभ्युपगम्यते, इत्येवभ्युपगमचिन्तायां प्रखुतायां किमनया लोकसंवित्त्या प्रस्तुतासंवद्धयेति । तदेवं यथा पराभ्युपगमतथा कारणस्य तत्फलजनन स्वभावता फलस्य च तत्कारणजन्यखभावता सर्वथा नोपपद्यत इत्युपपादितम् ॥ २९९ ॥ सांप्रतं 'तं च घेप्पइ तहेत्रे' सेतद्भावनार्थं यत् 'धूमजणणस्सहावमित्यादि' प्रागुक्तं तद्दूषयितुमारभते किं चाणलविण्णाणं तज्जन्नसहावधूमणाणस्स । तुति तत्थ चिंतं तपणाणं णणु तहा किह णु ? ॥ ३०० ॥ किं दूषणान्तराभ्युच्चये । धूमजननखभावानलग्राहकं विज्ञानं तज्जन्यस्वभाव धूमज्ञान (स्य- वह्निज्ञान) जन्यस्वभावधूमविषयस्य हेतुरिति यदुक्तं तत्रेदं चिन्त्यं - तज्ज्ञानम् - अनलज्ञानं तथा - धूमपरिच्छेदहेतुतया कथं भवति ?, नैव कथंचनापीतिभावः । तथाहि - यदा धूमजननखभावतया अनलग्राहकं विज्ञानमुदीयेत तदा तजन्यधूम परिच्छेदकं तज्ज्ञानं स्यात् नान्यथा, न च धूमाग्रहे तद्ब्रहणावधिकं वह्नेतजननखभावतया ग्रहणमुपपद्यते, अवध्यग्रहे अवधिमतस्तथात्वेन ग्रहणायोगात्, तत्कथं तत् अनलज्ञानं धूमपरिच्छेदहेतुरिति ॥ ३०० ॥ अथ मा निपप्तदयं दोष इति Page #264 -------------------------------------------------------------------------- ________________ धर्म- | संग्रहणि ॥१३०॥ तदनलविज्ञानमनलमात्रखरूपपरिच्छेदकमिष्यते, तत्पुनरनन्तरं धूमज्ञानमुपजनयत् कार्यकारणभावावसायनिवन्धनं| भवतीत्येतद्पयितुमाशङ्कते एगपडिवत्तिरूवं तं चे एत्तो इदंति वइमेत्तं । तज्जपणसहावत्तावगमम्मि यतिप्पसंगोत्ति ॥ ३०१ ॥ तत्-अनलविज्ञानमुपलक्षणत्वात् धूमविज्ञानं वा एकप्रतिपत्तिरूपं-खखविषयखरूपमात्रपरिच्छेदकमिष्यते, नतु यथाक्रमं धूमजननखभावतया वह्निजन्यस्वभावतया वा परिच्छेदकमिति चेत् ? अत्राह-'एत्तो इदंति वइमेत्तं' एवं सति तर्हि 'इतो' वः सकाशादिदं-धूमलक्षणं कार्यमुत्पन्नमिति यदुच्यते तद्वाङ्मात्रं न तु प्रमाणम् । तथाहिअनलविज्ञानं धूमविज्ञानं वा खखविषयखरूपमात्रपरिच्छेदं। परिसमाप्तव्यापारत्वादितरेतरविषयवार्त्तानभिज्ञ, ततः कथमयमवगमो यदुतास्मादिदमुत्पन्नमिति ? । 'तं च घेप्पइ तहेवे'त्यत्रैव पुनरपि दूषणान्तरमभिधित्सुराह-'तजन्ने'त्यादि' तजन्यखभावतावगमे-अग्निजन्यखभावत्वावगमे धूमज्ञानस्येष्यमाणे अतिप्रसङ्गः प्राप्नोति, अविनाभावग्रहणमन्तरेणापि धूमग्रहणमात्रादेव नालिकेरद्वीपवासिनोऽपि अनलानुमानप्रवृत्तिप्रसक्तेः, धूमस्याग्निजन्यखभावतापरिच्छेदात् । स्यादेतत् , यादृशो विवक्षितस्य पुंसः समनन्तरप्रत्ययो विद्यते न तादृशो नालिकरद्वीपवासिनोऽपि, ततस्तस्य RECORRECORRECACChotu ॥१३०॥ Jain Education in For Private & Personel Use Only O ww.jainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ • CH तथारूपसमनन्तरप्रत्ययवैकल्येन तजन्यखभावताया अपरिच्छेदात् धूमावगममात्रादनलानुमितिर्न भवतीति, तद-10 युक्तम् , क्वचिदेकरूपसमनन्तरप्रत्ययभावेऽप्यनलानुमितेरदर्शनात् । तथाहि-यानपात्रमारूढानां समुद्रदर्शनानन्तरमेव धूममवलोकमानानां पुसां समुद्रदर्शनलक्षणसमनन्तरप्रत्ययावैशिष्ट्येऽपि कस्यचिदेव प्राग्गृहीताविनाभावस्यानलानुमितिरुदयते नतु नालिकेरद्वीपवासिन इति । अथेत्थमाचक्षीथाः-न वै तत्र समनन्तरप्रत्ययावैशिष्ट्यं, यतो विवक्षितस्य पुंसः समनन्तरप्रत्ययस्य पारंपर्येण कारणमग्निविषयमासीत् , न तु नालिकेरद्वीपवासिन इति । नन्वेवमपि यदा देवयोगादयोगुडाङ्गाराद्यग्निविषयं नालिकेरद्वीपवासिनोऽपि समनन्तरप्रत्ययस्य पारंपर्येण कारणं भवेत् तदा तस्यापि विवक्षितस्य गृहीताविनाभावस्य पुंस इव समनन्तरप्रत्ययावैशिष्ट्यात् धूमदर्शनादनलानुमितिर्भवेत्, न च भवति, तस्मान्नेदमपि साधीयः । अथोच्येत-तथापि कथमिह समनन्तरप्रत्ययावैशिष्ट्यं ? यतो नालिकेरद्वीपवासिनः केवलानलग्रहणप्रवणं विज्ञानं न तथा पारंपर्येण समनन्तरप्रत्ययकारणं यथा गृहीताविनाभावस्य पुंस इति । ननु तथेत्यस्य भापितस्य कोऽर्थः ? । केवलानलग्रहणानन्तरं धूमग्रहणभावेनेति चेत् किमिदमन्यत्तदानन्तर्य ?, केवलानलग्रहणानन्तरं हि अत्रापि उत्तरकालभावि धूमग्रहणमस्त्येव, केवलानलग्रहणानन्तरसमय एव धूमग्रहणभावस्तदानन्तर्यमिह विवक्षितं न तु प्रदीर्घकालेन धूमग्रहणभाव इति चेत् , नन्वनन्तरसमयधूमग्रहणभावोऽपि सर्वथा केवलानलग्रहणाभावे भवति, स च केवलानलग्रहणाभावे धूमग्रहणभाव इदानीमप्यविशिष्ट इत्युभयत्रापि न कश्चिद्विशेषः । यदि हि A N-NCRACROCCALCORDCROCate COUR Jain Education Inte1 For Private & Personel Use Only aw.jainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ धर्मः ॥१३॥ ALSAXCER-CALMAGARLS केवलानलसंवन्धिबोधरूपतान्वयस्तदनन्तरसमराभाविनो धूमग्रहण खेप्येत तदा इत इदमुत्पन्नमित्यविनाभावसंवन्धन- संग्रहणि, हणमुपपद्येत, तथा च सति कालान्तरे समुद्गदर्शनलक्षणसमनन्तरप्रत्ययाविशेषेऽपि तस्य गृहीताविनाभावस्य दर्शनमात्रेण धूमस्याधिजन्यसमागतारमरणतोऽझ्यनुमान प्रवर्तत, नेतरस्य नालिकेरदीपवासिनोऽपि, यावता सैव केवलानलग्रहणसंबन्धिवोधरूपता तदनन्तरसमयमादिनि धूमग्रहणे अनुपतिष्यते, ततोऽविनाभावसंवन्धग्रहणाभावविशेषतः समनन्तरप्रत्ययावैशिष्ट्यात् विवक्षितपुरुषवत् नालिकेरदीपचासिनोऽपि धूपदर्शनमानतोऽनलानुमितिः प्रसज्येत, धूमसानलजन्यस्वभावतापरिच्छेदादिति ॥ ३०१॥ पर आह अणलादिअणुभवातो तह होइ वियप्पवासणाबोधो । तत्तो तहा वियप्पो तत्तो एत्तो इदंति ठिई ॥ ३०२ ॥ अनलस्यादिशब्दात् धूमस बाजुभवात्-प्रत्यक्षेण ग्रहणात् तथाकार्यकारणभावग्राहकविकल्पहेतुतारूपेण प्रकारेणी भवति विकल्पवासनाप्रबोधः, तसाच विकल्पवासनानवोधात् 'तथा' कार्यकारणभावनाहकत्वलक्षणेन प्रकारेण विकल्प उपजायते, तस्माब विकल्पादितो-बहरिदं-धूमलक्षणं कार्यमुदपादीति स्थितिः-व्यवस्था भवति, ततोन कश्चिदोष इति ॥ ३०२ ॥ अत्राह TRIPANDEEDLES ॥१३॥ Jain Education in For Private & Personel Use Only Page #267 -------------------------------------------------------------------------- ________________ SUNDRANI ACCOCCAMSANCCCCCROSOR णणु सो विणस्लरोच्चिय जओ तओ कह णु जुजइ ठिई भे? । सा तहदीहाणुभवा अणुसंधाणादभावम्मि ॥ ३०३ ॥ ननु सोऽनुभवादिर्भवदभ्युपगमापेक्षया यतो-यस्मादेकान्तविनश्वर एव, ततः-तस्माद्भे-भवतां सा स्थितिः-कार्यकारणभायव्यवस्था तथादीर्यानुभवा-प्रदीर्घकानुभवात्मिका कथं युज्यते ?, नैव कथंचनापीति भावः। कुत इलाह'अनुसंधानाधभावात्' अनुसंधानं-पूर्वापरसंवेदनष्टनम् आदिशब्दासत्कारणभूतबासनातनबोधपरिग्रहस्तस्याभावात् । स्यादेतद्, नैवेयं कार्यकारणभावस्थितिस्तथादीर्घानुभवा अनुसूयते, तत्कथमुच्यते-'कह गु जुना ठिई मे सा तहदीहाणुभवा इति ॥ ३०३ ॥ अत आह दीहाणुहवत्तं से लक्खिज्जइ तविरोहिविरहाओ। सरिसावरावरुप्पत्तिविप्पलंभाओ ण ऊ तत्थं ॥ ३०४॥ 'से' तस्याः कार्यकारणभावस्थितेर्दीर्घानुभवत्वं-प्रदीधैंकानुभवरूपत्वं लक्ष्यते 'व्यवच्छेदफलं वाक्य'मितीदमवधारयितव्यं लक्ष्यत एव-स्वसंवेदनप्रमाणेनानुभूयत एव । कुत इत्याह-'तद्विरोधिविरहात्' तस्य-प्रदीधैकानुभवत्वसंवेदनस्य यद्विरोधि खसंवेदनप्रमाणेनादीधैकानुभवरूपत्वानुभवनं तस्य विरहात्-अभावात्, स्वसंवेदनप्रमाणेनादी CACANCECANCA-NCCCCSCONGRESC Jain Education in For Private & Personel Use Only w w.jainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ॥१३२॥ कानुभवत्वानुभवाभावादितियावत् । अत्र परस्थावकाशमाह-सरिसेत्यादि' अयंप्रत्ययाधिष्ठानतया सशस्यापरस्यापरस्य संवेदनलक्षणस्योत्पत्त्या विप्रलम्भाद्-विपर्यासाहीधैकरूपतयाऽनुभवनम् , तस्मान्नतु-नैव इदं स्थितेः प्रदीर्धेकानुभवरूपत्वं तथ्यं-सत्यमिति ॥ ३०४॥ अत्राह एवंऽपणुहववाहा अदिटुपरिगप्पणा य नियमेण । वितहत्ते य इमीए सवं चिय पावई वितहं ॥ ३०५ ॥ ___ 'एवमपि' अस्यामपि कल्पनायां क्रियमाणायामनुभवबाधाऽदृष्टपरिकल्पना च नियमेन-अवश्यंतया प्राप्नोति । तथाहि-प्रतिप्राणि संवेद्यते स्थितेः प्रदीर्घानुसंधानरूपोऽनुभव इति, तदपलापिनोऽनुभवबाधा, प्रतिक्षणमखिलसजातीयविजातीयव्यावृत्तोऽपरोऽपरो वोधक्षण उत्पद्यत इति अदृष्टपरिकल्पनेति । अत्रैव दूपणान्तरमाह-वितहत्ते य इत्यादि' अस्याः-प्रदीर्धकानुभवखरूपायाः स्थितेर्वितथात्वे, चेति दूषणान्तराभ्युच्चये, 'सर्वमेव प्रमाणप्रमेयरूपं ४. वस्तु वितथं प्राप्नोति ॥ ३०५ ॥ कुत इत्याह खणिगं वत्थु अविगप्पगं च णाणंति एवमादीयं । जम्हा इमीएँ सिद्धं विचारणा जं न अन्नेण ॥ ३०६ ॥ 10CROCOCONOCOCALCROSORROCOCROCESC ॥१३॥ Jain Education For Private & Personel Use Only Page #269 -------------------------------------------------------------------------- ________________ Jain Education Inte सर्व वस्तु क्षणिकम् - उत्पन्ना (य) नन्तरमेव विनाशि, क्षणो हि परैरुत्पत्त्यनन्तरमेव नाशो निरुक्तिवशादभिधीयते, तद्योगाच्च वस्तु क्षणिकम् । उक्तं च- "क्षणोऽवाचीह नैरुक्तैरुत्पत्त्यनन्तरं क्षयः । अहेतुः सोऽनपेक्षत्वात्, तद्योगात् क्षणिकं मतम् ॥ १ ॥” इति ॥ 'अविकल्पकं च' कल्पनापोढं च ज्ञानमिन्द्रियजादिप्रत्यक्षं न शेषमित्येवमादिकं सर्व यस्मात् 'इमी एत्ति' अनया प्रदीर्घ कथंचिदेकानुसंधान लक्षणया स्थित्या 'सिद्ध' व्यवस्थापितसत्ताकं नत्वन्येन । कुत इत्याह- 'विचारणा' किमिदं स्यात्किमिदमिति तत्त्वनिरूपणा 'यद्' यस्मान्नान्येन- प्रदीर्घेकानुभवरूपस्थितिव्यतिरिक्तेन ज्ञानेन, तस्मादस्याः स्थितेर्वितथात्वे सर्वमेव वितथं प्राप्नोतीति स्थितम् ॥ ३०६ ॥ यदुक्तं- 'विचारणा जण्ण अण्णेणेति' तद्भावयन्नाह णय णिaियपबुद्धी एवं एवंति अवगमसमत्था । अविभावs चिय पयप्पणेऽतिष्पसंगोत्ति ॥ ३०७ ॥ चो यस्मादर्थे । येन अन्येन ज्ञानेन विचारणा करिष्यते तत् किं निर्विकल्पकं सविकल्पकं वा स्यात् ? गत्यन्तराभावात् । तत्र न तावदाद्यः पक्षः, यस्मान्न निर्विकल्पबुद्धिरिन्द्रियजादिप्रत्यक्षरूपा - एतद्वाह्यवस्त्वादिकमेव क्षणिकं नान्यथेत्यवगमसमर्था, कुत इत्याह- 'अविकल्पभावात्' अविकल्पकत्वादविचारकत्वादितियावत् । विपक्षे बाधा Page #270 -------------------------------------------------------------------------- ________________ धर्म ॥१३३॥ माह - 'प्रकल्पने' विचारकत्वे अभ्युपगम्यमाने सति 'अतिप्रसङ्गो' मनोविज्ञानवदसन्निहितार्थग्राहिताद्यापत्तिलक्षणः प्राप्नोति । तथाहि विचारो नाम अयमेवंरूपो नान्यथेत्येवंलक्षणः, स च पूर्वकालदृष्टस्य इदानीं दृश्यमानस्य चैक्यपरामर्शे सति भवति नान्यथा, ततश्च मनोविज्ञानवत् अस्या अपि निर्विकल्पक बुद्धेर्विचारकत्वाभ्युपगमे सत्यसन्निहितार्थग्राहित्वं प्रसक्तमेव, तथा च सति इन्द्रियविज्ञानस्यापि मनोविज्ञानवत् अतीतानागतयोर्व्यावृत्तिनिमित्तखरूपाणामनित्यत्वादीनां च ग्रहणमूहरूपत्वमर्थ भावानपेक्षा - इच्छाप्रतिबद्धत्वमापद्येत, मनोविज्ञानस्य वा इन्द्रियविज्ञानवत् अतीतानागतयोर्व्यावृत्तिनिमित्तानित्यत्वादिस्वभावानां चाग्रहणमनूहरूपत्वमर्थ भावापेक्षा-अनिच्छाप्रतिबद्धत्वमापद्येत, असन्निहितार्थग्राहितया उभयोरपि विशेषाभावात् । यद्वा 'प्रकल्पने' इदमित्थमेव नान्यथेति निश्चयसमर्थ - त्वेऽभ्युपगम्यमाने सति अतिप्रसङ्गः प्राप्नोति, दानहिंसादिविरतिचेतनादीनामभ्युदयहेतुतादिनिश्चयापत्तेः, निर्वि कल्पक बुद्ध्या सर्वात्मना वस्तुग्रहणाभ्युपगमादिति ॥ ३०७ ॥ द्वितीयं पक्षमधिकृत्याह - तह णिच्छयबुद्धीए णत्थि तओ न खलु सावि तसिया । उपज य कस्सइ तदणंतरमण्णहावि तई ॥ ३०८ ॥ तथा 'निश्चयबुद्ध्या' विकल्पबुद्ध्या नास्ति 'तउ'त्ति सको विनिश्चय इदं वस्त्वित्थं नान्यथेत्येवंरूपो यस्मात्सापि - |संग्रहणि: = ॥१३३॥ Www.jainelibrary.org Page #271 -------------------------------------------------------------------------- ________________ FI निश्चयबद्धिन खल-नैव तद्विषया । “विकल्पोऽवस्तुनिर्भासाद्विसंवादादुपप्लवः । प्रत्यक्षाम" इतिवचनात् । तथा! उत्पद्यते च 'तईत्ति' सका निश्चयवुद्धिः कस्यापि-पुंसस्तदनन्तरं-निर्विकल्पकबुद्ध्यनन्तरम् 'अन्यथापि' यथास्थितपुरोवर्त्तिवस्त्वतिक्रमेणापि, मरुमरीचिकाजलनिश्चयादौ तथोपलब्धः, ततो वस्तुविषयत्वाभावात् अन्यथापि प्रवृत्तेचा नासौ निश्चयबुद्धिर्वस्तुयाथात्म्यनिश्चयनिवन्धनम् ॥ ३०८॥ अत्र परस्योत्तरमाशङ्कते जा वत्थुणुहवसहगारिवासणाबोधओ तहा होई । तत्थेव सा जओ तं वत्थु णियमा तहच्चेव ॥ ३०९ ॥ या निश्चयबुद्धिर्यथावस्थितवस्त्वनुभवेन सहकारिणा कृतात् वासनाविवोधात् तथा भवति-एवमिदं नान्यथेयेवं भवति सा तथ्यैव । कुत इत्याह-यतो-यस्मात्तद्वस्तु निश्चीयमानं नियमात्तथैव यथा तया निश्चयबुद्ध्या निश्ची-18 यत इति ॥ ३०९॥ जा पुण अणाइमिच्छावियप्पकयवासणाविबोधाओ। जायइ धुवादिविसया साऽतत्था तस्सऽजुत्तीओ ॥ ३१० ॥ VI या पुनर्निश्चयबुद्धिरनादिमिथ्याविकल्पकृतवासनाविवोधाद् 'ध्रुवादिविषया' ध्रुवम्-एकान्तनित्यमादिशब्दाद Jain Education in For Private Personal use only Howw.jainelibrary.org Page #272 -------------------------------------------------------------------------- ________________ धर्म ॥१३४॥ Jain Education Int वयवादिपरिग्रहः तद्विषया-तगोचरा जायते सा अतथ्या । कुत इत्याह- 'तस्य' ध्रुवादेरयुक्तितः - अघटमानत्वात् ॥ ३१० ॥ आचार्य आह तस्साऽजुती किं राय - सासणं आउ णिवियप्पेणं । अग्गहणं किं वाssलोयणाए तस्सेव तु अभावो ! ॥ ३११ ॥ तस्य-ध्रुवादेरयुक्तिः- अघटमानता किं राजशासनं - राज्ञामाज्ञा क्षणिकमित्येव वस्तु व्यवहर्त्तव्यं न ध्रुवादिकमित्येवंरूपा, उत निर्विकल्पेन - कल्पनापोढेन ज्ञानेन अग्रहणं, किंवा आलोचनया- विचारण्या तस्यैव- ध्रुवादेरभावो योऽधिगम्यते सा अयुक्तिरिति विकल्पत्रयं, गत्यन्तराभावात् ॥ ३११ ॥ तत्राद्यं विकल्पमधिकृत्याह - जइ रायसासणं ता तदन्नणिवसासणेण वभिचारो । आणव य निच्चादी भागवयाईवि तहबोहा ॥ ३१२ ॥ यदि राजशासनं - राज्ञामाज्ञा ध्रुवादेरघटमानतोच्येत ततो यत् भावत्कात् राजशासनात् अन्यत् नृपशासनं तेन व्यभिचारः, तथाहि - ध्रुवादिरूपं वस्तु प्रतिपत्तव्यं न क्षणिकमित्येवं तदन्यनृपैः शासने कृतेऽपि न खलु क्षणिकत्वस्याघटमानता भवति, तद्वदिहापि न भविष्यतीति । तदन्यनृपशासनमेव दर्शयति - आज्ञापयति च 'निश्चेत्यादि' नित्य - |संग्रहणिः, ॥१३४॥ ww.jainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ Jain Education परिणाम्यादि 'भागवतादिरपि' भागवतो - भगवद्दर्शनानुरागी, आदिशब्दात् तदन्यनृपादिपरिग्रहः, 'तथाबोधात्' नित्यादिरूपतया अवगमात् ॥ ३१२ ॥ द्वितीयपक्षदूषणाभिधित्सया आह अह franchi अग्गहणं एत्थ णिच्छओ कह णु ? | जं तमवबोधमेत्तं संगहियासेसगं चेव ॥ ३१३ ॥ अथ निर्विकल्पकेनाग्रहणम् - अपरिच्छेदो ध्रुवादेर घटमानतेत्यत्राह - 'एत्थ इत्यादि' अत्र - निर्विकल्पेनाग्रहणमात्रादघटमानत्वविषये कथं नु नाम निश्चयो ?, नैव कथंचनापीतिभावः । कुत इत्याह-'यत्' यस्मात् तत् - निर्विकल्पकं ज्ञानम् 'अवबोधमात्रम्' अव्यक्तखरूपावगममात्रम् । एतदेव स्पष्टयति- 'संगहिया से सगं चेवत्ति' संगृहीताशेपकमेव उपसर्ज नीकृताशेषविशेषकमेव केवलसन्मात्रग्राहित्वात् । एतदुक्तं भवति - यदि निर्विकल्पकं प्रत्यक्षं क्षणिकत्वादिरूपेणापि वस्तुग्रहणपटु स्यात् स्यादेव तेन ध्रुवादेरग्रहणादयुक्तरूपता यावता तत्केवलसन्मात्रावगमनिष्ठितसत्ताकमेव, ततः कथं तेनाग्रहणमात्रात् ध्रुवादेरयुक्तरूपता?, मा प्रापत् क्षणिकत्वाद (त्वस्या) प्ययुक्तरूपताप्रसङ्ग इति । इह 'जं तमववोहमेत्तं संगहियासेसगं चेवेति' वदता आचार्येण यदुच्यते परैः - 'निर्विकल्पक प्रत्यक्षे सकलसजातीयविजातीयव्यावृत्तमसाधारणं वस्तु सर्वात्मना प्रतिभासत इति तदयुक्तं द्रष्टव्यमित्यावेद्यते । तथाहि तत्प्रतिभासो निश्चयबलेन व्यवस्थाप्यते, Page #274 -------------------------------------------------------------------------- ________________ संग्रहणिः . ॥१३५॥ CROSSES अन्यथा तद्यवस्थानायोगात् , वचनमात्रेण प्रतिभासान्तरस्यापि कल्पयितुं शक्यत्वात् । न च निर्विकल्पकानन्तरम- साधारणवस्तुगोचरो निश्चय उपजायते, किंतु सन्मात्रगोचर एव, तथानुभवभावात् , क्वचित् शीघ्रदर्शनादौ तथाप्रतीतेः । न चान्यथा वस्तुग्रहे अन्यथा निश्चयोत्पादो युक्तः, असमञ्जसतापत्तेः। एवं हि नीलदर्शनादपि पीतादिनिश्चयप्रसङ्गः, तथा च सति पीतादिवस्तुव्यवस्थानायोगः, तन्निश्चयस्यान्यत एव नीलदर्शनादेरुत्पादात् , तदन्यस्य च व्यवस्थापकस्याभावात् । ततः प्रथमाक्षसन्निपातजे निर्विकल्पके अवग्रहकल्पे सन्मात्रमेव केवलमाभासत इत्येवाभ्युपगन्तुं युक्तम् । उक्तं च-"सद्रव्याद्यनेकखभावे वस्तुनि सन्मात्रग्राह्येवावग्रहकल्पमविकल्पमङ्गीकर्त्तव्यम्" एवंभूते | चास्मिन्नावयोरविवादः, एवंविधावग्रहस्यास्माभिरभ्युपगतत्वादिति ॥ ३१३ ॥ तृतीयपक्षमपाचिकीर्षुरिदमाह आलोयणाएवि कहं तस्साभावो ? वियप्पनाणाओ। जम्हा एवं तई पवत्तई तं च भे' मिच्छा ॥ ३१४ ॥ आलोचनयापि-विचारणयापि कथं तस्य ध्रुवादेरभावो निश्चीयते?,नैव निश्चीयत इति भावः। कुत इत्याह-यस्मात् 'तइत्ति' सका आलोचना प्रवर्त्तते विकल्पज्ञानात् , निर्विकल्पकस्य सकलकल्पनातीतत्वेनाविचारकत्वात् , तच्च १ ते इति कपुस्तके। ॥१३५॥ Jain Education in For Private & Personel Use Only Page #275 -------------------------------------------------------------------------- ________________ ६ विकल्पज्ञानं 'भे' भवतां मतेन मिथ्या, यथावस्थितवस्तुसंस्पर्शित्वानभ्युपगमादिति ॥ ३१४ ॥ अत्रैव पराभिप्राय दूषयितुमाशङ्कते अह तस्सेवमजुत्ती णेया अथकिरियाविरोहाओ।। खणिगे तीऍ विरोहो णिच्चे उण जुजई कहवि ॥ ३१५ ॥ अथ तस्य-ध्रुवादेरेवं-वक्ष्यमाणप्रकारेण अयुक्तिर्जेया । केन प्रकारेणेत्यत आह-अर्थक्रियाविरोधात , अर्थक्रियाकारित्वं हि वस्तुनो लक्षणं, “यदेवार्थक्रियाकारि तदेव परमार्थसदितिवचनात् ," सा चार्थक्रिया ध्रुवादौ नोपपद्यते, ततस्तस्याघटमानतेति । अत्राह-'खणिगेत्यादि' क्षणिके वस्तुनि तस्या अर्थक्रियाया विरोधो, नित्ये पुनः कथंचिदभ्युपगम्यमाने सा युज्यत एव । तथाहि-क्षणिकस्यार्थस्यार्थक्रिया किं स एव भाव आहोखित् भावान्तरम् ? । यदि स एव भावस्ततोऽर्थक्रियां करोतीत्यात्मानं करोतीत्यायातम् , एतच्चायुक्तम् , आत्मन एवात्मन उत्पा-3 दानभ्युपगमात् , खभाववादापत्तेः । अथ भावान्तरमर्थक्रियेति पक्षस्तदप्ययुक्तम् , तथापि तत्करणसामर्थ्यायोगात्। तद्धि सामर्थ्य ततो व्यतिरिक्तम् अव्यतिरिक्तं वा?, यदि व्यतिरिक्तं तर्हि तस्येदं सामर्थ्य मिति संवन्धानुपपत्तिः, तदन्यस्येव व्यतिरेकाविशेषात् , अथाव्यतिरिक्तं न तर्हि भावान्तरोत्पत्ताविदमुपयोगि, तदुत्पत्तिकाले विवक्षितभाव Jain Education a l Page #276 -------------------------------------------------------------------------- ________________ धर्म ॥१३६॥ Jain Education In स्येव तस्यापि सामर्थ्यस्य तदव्यतिरेकेण सर्वथा विनिवृत्तत्वात् । तस्मान्न कथंचनापि क्षणिके वस्तुनि अर्थक्रिया घटते, किंतु कथंचिन्नित्ये एव, तस्यैव तेन तेन रूपेण भवनात्, अतस्तद्रूपमेव वस्तु अभ्युपगन्तुं युक्तं, नत्वेकान्तक्षणिकमिति । अथवा क्षणिके तस्या अर्थक्रियाया विरोधो, नित्ये पुनः कथंचित्कयाऽपि खभावकल्पनया युज्यते एव, नहि क्षणिकपक्षेऽपि क्षणिकमित्येवार्थक्रियाकारितोपपद्यते, किंतु तत्करणस्वभावतया, सा च नित्यपक्षेऽपि विद्यते, ततो नित्यमपि क्रमसाध्यामर्थक्रियां क्रमेण यौगपद्यसाध्यां यौगपद्येन करिष्यति, आकालं तत्रमयौगपद्यसाध्यार्थक्रियाकरणैकस्वभावत्वात् स्वभावस्य चापर्यनुयोगार्हत्वात् । क्षणिकपक्षे पुनस्तथाभूतस्वभावकल्पनयापि सा अर्थ - क्रिया न घटत एव, यतः क्षणिकस्यार्थनिष्पादनशक्तिः आत्मभूतिरेव, "भूतिर्येषां क्रिया सैवेति" वचनात्, सा चात्मभूतिर्दुरुपपादा, कारणस्य निरन्वयविनाशे सति उत्तरस्यात्यन्तासतः खरविषाणस्येवोत्पादायोगात्, एतच्च 'नाभावओ भावो' इत्यादिना प्रागेवाभिहितम्, ततोऽर्थक्रियाविरोधेन यदि वस्तु सदभ्युपगम्यते तद्वरं नित्यमभ्युपगम्यतां न तु क्षणिकमिति । कथंचिदित्यनेन चाचार्यों नित्यपक्षेऽप्यरुचिमात्मनो दर्शयति, परं नित्यपक्षादप्ययं पक्षः पापीयानिति दर्शयितुमेवमुपन्यस्तमिति ॥ ३१५ ॥ अन्यच्च खणिगत्ते सदसत्तं तस्सुप्पाओ तओ विणासो य । संग्रहणि. ॥१३६॥ Page #277 -------------------------------------------------------------------------- ________________ णटुस्स तओ भावो सइ णासे तट्टिई किह णु ? ॥ ३१६ ॥ क्षणिकत्वे भावानामभ्युपगते सति सामर्थ्यात्सतोऽसत्त्वं भवतीत्यभ्युपगतं भवति, तथा च सति तस्य कादा-18 चित्कतया भवत्येवोत्पादो, यचोत्पद्यते तदवश्यं विनश्यति, तत उत्पादाभ्युपगमात्तस्य विनाशोऽभ्युपगतः, तस्मा-17 चासत्त्वस्य विनाशाभ्युपगमात्पूर्व नष्टस्य सतो भावस्य पुनर्भावप्रसङ्गः, सत्त्वासत्त्वयोरेकतरनिवृत्तरपरविधिनान्तरीयकत्वात् । स्यादेतत् न वै नाशो नामान्य एव कश्चिद् , अपि तु क्षणस्थितिधा भाव एव, न च तस्योत्पत्त्याद्यापादने कश्चिदोष इति । तदप्ययुक्तम् , यतो द्वितीयादिक्षणेष्वस्थितौ सत्यामेष भावः क्षणस्थितिधर्मेति वक्तुं पार्यते नान्यथा, सा चास्थितिःप्रथमेऽपि क्षणे न विद्यते, भावस्याभावप्रसङ्गात् , तथा चाह-'सइ नासेत्यादि तथा प्रथमेऽपि शिक्षणे नाशेऽभ्युपगम्यमाने सति तस्य-भावस्य स्थितिः-आत्मलाभः कथं भवेत् ?, नैव कथंचनेति भावः, अस्थित्या क्रोडीकृतत्वात् , किंतु द्वितीयादिक्षणेष्वेव, ततस्तदवस्थमेव कादाचित्कत्वादभावस्योत्पत्त्यादि । अथोच्यते-नैवा भावो नाम कश्चिद्भवति, तस्यैकान्ततुच्छरूपत्वेन सकलशक्तिविकलतया भवनधर्मकत्वायोगात् , केवलं स एव । प्रभावः खहेतुभ्यस्तथा उत्पन्नो येन क्षणादूद्ध न भवतीति । तदुक्तम्-"न तत्र किंचिद्भवति न भवत्येव केवलमिति"| ननु यद्येवं तर्हि सर्वथा तन्निवृत्तेरभवनात्सदा अभावस्य भावप्रसङ्गः, तथा च सति क्षणिकत्वाभ्युपगमाय दत्तो जला-18 Jain Education Intex For Private & Personel Use Only A w.jainelibrary.org Page #278 -------------------------------------------------------------------------- ________________ धर्म- संग्रहणि. ॥१३७॥ अलिः । अथ तस्य किंचित् तुच्छरूपं भवितृ प्रतिषिध्यते न पुनर्भावस्थापि सर्वथा निवृत्तिः, सा हि अभ्युपगम्यत एव, द्वितीये क्षणे तस्य निवर्त्तनात् । अहो निरतिशयनिबिडजडिमावष्टब्धान्तःकरणताविलसितं ! भावस्य निवृत्तिभवनमिच्छति अभावस्य तु भवनं नेच्छतीति । न खलु भावस्य खनिवृत्तिभवनादन्यदभावभवनं किंतु तदेव, तच कादाचित्कं, ततः कथमस्योत्पत्त्यादि प्रतिक्षेनुं शक्यते ? इति । एकान्ततुच्छत्वात्कथमस्योत्पत्त्यादि युक्तिमदिति चेत् ?, ननु भावस्याप्यतुच्छरूपत्वात्कथमुत्पत्त्यादि युक्तिमदिति वाच्यं ?, किमत्र वाच्यं ? तस्मिन्नेव विवक्षिते क्षणे भाव उत्पद्यते इति युक्तमेव तस्योत्पत्त्यादीति चेत् , हन्त तदिदं विवक्षित एव क्षणे उत्पद्यमानत्वमेकान्ततुच्छस्याप्यभवनस्याविशिष्टं, भावभवनकाले तस्याप्यभावादिति निवेश्यतां सम्यगवगमे चेतः । अथोच्येत-भावस्योत्पत्तिमत्वेन एकान्ततुच्छरूपा निवृत्तिर्भवेत् , तस्य स्वयमतुच्छरूपत्वात् , यत्तु अभवनं तदेकान्ततुच्छरूपं, ततस्तस्य निवृत्त्या किं प्रयोजनं ?, निवृत्त्या हि तुच्छरूपताऽऽपादनीया, सा च तस्याग्रेऽपि स्वयं सिद्धेवैति, तदप्ययुक्तम् , भावाभावयोरेकतरप्रतिषेधस्यापरविधिनान्तरीयकत्वेनाभावस्य खरूपप्रतिषेधे भावरूपतापत्तेः । असतः कथं भावरूपतापत्तिरिति चेत् सतोऽपि कथमभावरूपतापत्तिरिति वाच्यं ?, सहेतुकत्वात्तस्यावश्यं विनाशेन भवितव्यं तेनायमदोष इति चेत्, तदेतदितरत्रापि समानं, नह्येतदपि अभवनं भावकालेऽप्यस्ति, ततस्तत्क्षणादूर्द्धमेतत् नियमात्तद्धेतुकं, तथा च सत्यवश्यमस्यापि विनाशप्रसङ्ग इति । एवं च यदपि परैरभिधीयते-"एतेनाहेतुकत्वेऽपि, ह्यभूत्वा नाशभावतः। सत्ता ॥१३७॥ Jain Education Interi For Private & Personel Use Only Glaw.jainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ Jain Education Inte नाशित्वदोषस्य, प्रत्याख्यानप्रसञ्जनम् ॥१॥ इति, तदप्यपाकृतमवसेयम्, तुच्छरूपस्याप्यभवनस्य प्रथमक्षणेऽभावतो द्वितीयादिषु च क्षणेषु भावतः कादाचित्कतया सत्तानाशित्वदोषस्य प्रत्याख्यातुमशक्यत्वादिति स्थितम् ॥ ३१६ ॥ कार्यकारणभावावगमे एव प्रस्तुते दूषणान्तरमाह णय तद्धम्मागमो कहंचिदवि अस्थि जं ततो नियमो । वइमे त्तकोसपाणादिसवहगम्मो मुणेयवो ॥ ३१७ ॥ शब्दो दूषणान्तरसमुच्चये । न च यत् यस्मात्तद्धर्म्मानुगमः कथंचिदपि कार्ये विद्यते, कारणस्य निरन्वयविनाशितयाऽभ्युपगमात् ततस्तस्मादयं कार्यकारणभावनियमोऽवगमपूर्वक उच्यमानो वाङ्मात्रं कोशपानादिशपथगम्यो वा, न प्रमाणनिबन्धनः, नियमविषयप्रमाणप्रवृत्तिहेतोरन्वयस्याभावात् । इह 'कज्जाणं अखिलाणं असेसकारणविसेसरहियाणामित्यादि' पूर्वमुक्तं कार्यकारणयोर्यथाक्रमं तज्जन्यताखभावतज्जननस्वभावविशेषविघटनविषयमिदं तु कार्य - कारणभावावगमविघटनविषयमिति न पुनरुक्तता ॥ ३१७ ॥ अत्र पराभिप्रायमपाकर्तुमाशङ्कते - अह उत्तरावरट्टिय-खणदुगगहणमिह दिस्सते सक्खं । किं तेण ? जंण तेसिं सोवगतो हेतुफलभावो ॥ ३१८ ॥ Page #280 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि, ॥१३८॥ ROCEROSECONOR अथ उत्तरावररूपता यत् क्षणद्विकं तस्य ग्रहणमिह साक्षात् दृश्यते-खसंवेदनप्रमाणेनानुभूयते, तत्कथमुच्यते- न कथंचनापि कार्यकारणभावावगमः, उत्तरावरयोरेव क्षणयोः कारणकार्यत्वात्तयोश्च प्रत्यक्षेण ग्रहणादिति । अत्रोत्तरमाह-'किं तेणेत्यादि' किं तेनोत्तरावरस्थितक्षणद्विकग्रहणेन ?, यत्-यस्मान्न तयोः-उत्तरावरत्वेन स्थितयोः क्षणयोः 'स' हेतुफलभावोऽवगतः, नह्यन्त(धुत्त)रावरस्थितक्षणद्विकग्रहणमित्येव कार्यकारणभावावगमः, मृत्पिण्डपटक्षणयोरपि कदाचिदुत्तरावरत्वेन स्थितयोह्यमाणत्वात् , तयोश्च कार्यकारणभावानभ्युपगमादिति ॥३१८॥ पुनरप्यत्रैवाभ्युचयेन दूषणमाह ण य सामन्नं पतिवत्थु-सबहाभेदवादिणो किंचि । अस्थि वियारिजंतं जस्स वला होइ तदवगमो ॥ ३१९ ॥ __ अयं हि कार्यकारणभावावगमः सामान्यविषयो, यथा एतादृशं धूमलक्षणं कार्यमेतादृशाग्निलक्षणकारणजन्यमिति, अन्यथा कार्यानुमानोच्छेदप्रसङ्गात् । तथाहि-न ययोरेव महानसे धूमहुतवहयोः कार्यकारणभावोऽवगतः तावेव पर्वतनितम्बे स्तः, किंत्वन्यौ, न च तयोः कार्यकारणभावोऽवगत इति कार्यानुमानोच्छेदप्रसङ्गः, तस्मात्सामान्यविषयः कार्यकारणभावावगमः, न च तत्सामान्यं सर्वथा प्रतिवस्तुभेदवादिनो बौद्धस्य किंचित् व्यावृत्तिलक्ष CCCCCCCX ॥१३॥ Jain Education Intel For Private & Personel Use Only Www.jainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ मपि यावत् विचार्यमाणमस्ति, यद्वशात्तदवगमः-कार्यकारणभावावगमः स्यात् , ततः कथं क्षणिके वस्तुनि कार्यकारणभावावगम इति ? ॥३१९॥ यथा च विचार्यमाणं न किंचिदपि सामान्यमस्ति तथोपपादयन्नाह पतिनियतेगसहावा भावा सवे मिहो विभिण्णा य । सव्वत्तो सव्वेसिं अविसिट्रा तेण वाबत्ती ॥ ३२० ॥ इह हि प्रतिनियतैकखभावा भावा मिथः-परस्परं भिन्नाच, तेन कारणेन सर्वेभ्यो व्यावृत्तिरविशिष्टा, ततो न तद्वारेणापि भवतः सामान्यकल्पनासंभवः । एतदुक्तं भवति-यथा घटधूमयोः सर्वेभ्यः सर्वात्मना ब्यावृत्तयोः परस्परमप्येकान्तेन व्यावृत्तत्वात नोभयोरविशिष्टा अधूमव्यावृत्तिनिबन्धना धूमसामान्यकल्पना कतु युज्यते,तथा विवक्षितधूमयोरपि परस्परमेकान्तेन व्यावृत्तेरविशेषादिति ॥३२०॥ जइ कोइ कुतोइ भवे अबावित्तो कहंचि तो होजा। वावित्तीण विसेसो तत्तो सामन्नववहारो ॥ ३२१ ॥ यदि कोऽपि धूमादिः कुतश्चित्-धूमान्तरादेरेव कथंचित-अधूमव्यावृत्तत्वादिना प्रकारेण भवेदव्यावृत्तस्ततो भवेद्भावेषु व्यावृत्तीनां विशेषः, यथा-न घटादिपु धूमाव्यावृत्तिरस्ति. धूमेपु च धूमान्तराद्विद्यत एवेति, तसाच धर्म. २४ Jain Education Inter AN T w.jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ संग्रहणि ।।१३९॥ SOCIRCACCORRECORDER व्यावृत्तिविशेषादनन्तरोक्तस्वरूपसामान्यव्यवहारो भवेत् , यथा एतेषु अधूमव्यावृत्तिरविशिष्टा तस्मादेतेषु धूमसामान्य कल्प्यते नेतरेष्विति,न चैतदस्ति,ततः कथं सामान्यव्यवहार इति ॥३२॥ परोऽन्यथा भावानां विशेष कल्पयन्नाह ण य कोइ कुतोइ कहंचि विजते भावतो अभिन्नो उ। तुल्लत्थसाहगत्ता तहवि विसेसो सहावातो ॥ ३२२॥ न च कोऽपि कुतश्चित् कथंचित् भावतः-परमार्थतोऽभिन्नः-अव्यावृत्तो विद्यते । तुः पूरणे । तथापि स्वभावात् यत् भावानां केषांचित्परस्परं-तुल्यार्थसाधकत्वं कण्ठमालनकालीकरणादिसमानार्थक्रियाकारित्वं, तस्माद्विशेषस्तदन्यभावेभ्यो भविष्यति, तस्माच सामान्यव्यवहार इति ॥३२२॥ अत्र दूषणमाह __ अविसिटुम्मि तु भेदे तुल्लत्थपसाहगत्तमेवेह । ___ण घडइ गोघडतुल्लत्थ-साधगत्तप्पसंगातो ॥ ३२३॥ ननु अविशिष्टे भावानां परस्परमेकान्तेन भेदे सति एतदेव तुल्यार्थप्रसाधकत्वं न घटते। कुत इत्याह-गोघटयोरपि परस्परं तुल्यार्थसाधकत्वप्रसङ्गात् , भेदाविशेषात् । अविशिष्टे हि भेदे सति अविशेषेण सर्वेषामपि तुल्यार्थप्रसाधकत्वं | स्याद् नवा कस्यचिदपीति भावः ॥३२३॥ अत्र परस्थावकाशमाह ॥१३९॥ Jain Education in For Private & Personel Use Only S Mw.jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ तुल्लत्थसाधिगा अह सत्ती णो तेसि जेसु ता अत्थि। ते चेव तहाभूता सा एगा वा अणेगत्ति ? ॥ ३२४ ॥ अथ तयोः गोघटयोः परस्परं तुल्यार्थप्रसाधिका शक्तिर्न विद्यते, ततो न तयोस्तुल्यार्थप्रसाधकत्वम् , येषु पुनबूंमादिषु परस्परं तुल्यार्थप्रसाधिका शक्तिरस्ति त एव तथाभूताः-परस्परं तुल्यार्थक्रियाप्रसाधकास्ततो न कश्चिद्दोप इति । अत्र दूपणमाह-'सेत्यादि' सा तुल्यार्थक्रियाप्रसाधिका शक्तिस्तेषु धूमादिपु किमेका वा स्यादनेका वेति विकल्पद्वयं, गत्यन्तराभावात् ॥३२४॥ तत्र जति एगा कह भिन्नेसु वट्टते ? किं च तह ण सामण्णं ? । अञ्चंतणेगपक्खे सो चेव अतिप्पसंगो तु ॥ ३२५॥ यद्येका शक्तिरिति पक्षाभ्युपगमस्तर्हि सा कथं तेषु धूमेपु देशकालभेदभिन्नेषु वर्त्तते ?,नैव वर्तत इतिभावः। एकस्थानेकत्र देशेन कात्न्येन वा सर्वथा वृत्त्ययोगात् । देशेन हि वृत्त्यभ्युपगमे सदेशवप्रसङ्गः, कात्स्न्येन तु एकत्रैव सर्वात्मना परिसमाप्तत्वादन्यत्र वृत्त्यभावप्रसङ्गः । अपिच, यद्येका शक्तिरनेकत्र वर्तमानेष्यते तर्हि नैयायिकादिपरिकल्पितं सामान्यं विवक्षितशक्तिवत् अनेकत्र वर्तमानं किं नेष्यते ?,तुल्ययोगक्षेमत्वात् ,तथाचाह-'किंच तह न साम Jain Education Intel For Private & Personel Use Only Mww.jainelibrary.org Page #284 -------------------------------------------------------------------------- ________________ ॥१४॥ नमिति' वर्तत इति संबध्यते । अथैतद्दोषभयादनेका शक्तिरिति पक्षाभ्युपगमः, तत्राह-'अचंतेत्यादि' अत्यन्ताने | संग्रहणिः, कपक्षे-परस्परात्यन्तविलक्षणानेकशक्त्यभ्युपगमपक्षे स एव-पूर्वोक्तो गोघटयोरपि परस्परं तुल्यार्थप्रसाधकत्वप्रसङ्ग-18 लक्षणोऽतिप्रसङ्गः प्राप्नोति । तुशब्दो विशेषणार्थः, स च एकशक्त्यभ्युपगमपक्षेऽनेकत्र वृत्त्यभावो दोषः, अनेकशक्तिपक्षे तु स एवातिप्रसङ्ग इति विशेषयति ॥३२५॥ अत्र पर आह भेयम्मिवि सा तुल्ला णेवं अण्णत्ति णेवमविसिट्ठो। भावाण हंत भेदो फलभेदाभेदओ णेओ॥३२६ ॥ भेदेऽपि-परस्परं वैलक्षण्येऽपि सा तुल्लत्ति' जातावेकवचनं ताः शक्तयस्तेषु धूमेषु परस्परं तुल्याः समानाः,न एवं परस्परं तुल्याः अन्या-गोघटादिषु वर्तमानाः शक्तय इत्येवं नाविशिष्टो हन्त भावानां भेदो ज्ञेयः। कुत इत्याहफलभेदाभेदात्-विषयेण विषयिणो लक्षणात् फलभेदाभेददर्शनात् । तथाहि-तुल्यशक्तिकेषु भावेषु फलाभेदःतुल्यफलभावो दृश्यते, यथा धूमेष्वेव परस्परम् , अतुल्यशक्तिकेपु तु फलभेदः-परस्परं विलक्षणफलभावो, यथा गोपटयोरिति तुल्यशक्तिकतया धूमादिषु सामान्यव्यवहारो भविष्यति, न गोघटादिष्विति ३२६॥ अत्राह ॥१४०॥ तुल्लत्थसाधिगा इह सत्ती तम्हा समाणपरिणामो। RECENCRACCCCCCCC Jain Education in For Private Personel Use Only ww.jainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ %AGARCAS सो भावोत्ति सहावो तद्धम्मो चेव एसोऽवि ॥ ३२७॥ __यत उक्तन्यायेन धूमादिषु शक्तीनां परस्परं तुल्यरूपताऽभ्युपगम्यते तस्मादिदमायातं-धूमादिषु तुल्यार्थसाधिका शक्तिरस्तीति, किमुक्तं भवति ?-समानपरिणामोऽस्तीति, यत एषोऽपि-समानपरिणामो वस्तूनां स्वभावः, खभावश्च खो भावः खभाव इति व्युत्पत्तेस्तद्धर्मो-वस्तुधर्मः, धर्मः शक्तिरिति चानान्तरमिति ॥ ३२७ ॥ एसो कहंचि भिन्नो संवेदणवयणकज्जतो णेओ। अवरोप्परं समाणत्त-मण्णहा सबधाऽजुत्तं ॥ ३२८ ॥ एप-समानपरिणामः कथंचित-देशादिभेदापेक्षया भिन्नः-असमानपरिणामानुविद्धो ज्ञेयः। कुत इत्याह-संवेदनवदाचनकार्यतः-संवेदनवचनलक्षणकार्यभेददर्शनात् । तथाहि-घटेषु घटो घट इति सामान्याकारं मार्तिकस्ताम्रो राजत इति व्यावृत्ताकारं च संवेदनं वचनं चोपजायमानमुपलभ्यत इति । इत्थं च एतदङ्गीकर्तव्यमन्यथा-असमानपरिणासमानुवेधमन्तरेण भावानां परस्परं समानत्वमेव न युक्तम् , एकरूपतापत्तेः । समानपरिणामश्च सामान्यम् , “वस्तुन एव समानः परिणामो यः स एव सामान्य"मिति वचनात् , असमानपरिणामश्च विशेषः, "असमानस्तु विशेष" इति || Jan Educat an inte w .jainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ धर्म-18 वचनात् । ततो भवताप्युक्तनीत्या सामान्यविशेषात्मकं च वस्त्वभ्युपगतं, तथा चाविप्रतिपत्तिरिति स्थितम् ॥३२८॥ संग्रहणि कार्यकारणभावावगमे एव पुनरपि पराभिप्रायं दूपयितुमाशङ्कमान आह सिय वासणातो गम्मइ सा वासगवासणिजभावेण । जुत्ता समेच्च दोण्हं ण तु जम्माणंतरहतस्स ॥ ३२९ ॥ स्यादेतत् , वासनातः कार्यकारणभावोऽवगम्यते, तथाहि-पूर्व कारणविषयं ज्ञानं निरन्धानमुत्तरं कार्यविषयं विज्ञानं वासयति, तस्माच वासनाविशेषादत इदमुत्पन्नमिति कार्यकारणभावावसायो भवतीति । अत्रोत्तरमाह-'सा वासगेत्यादि' सा-वासना द्वयोरपि-वास्यवासकयोः समेत्य-मिलित्वा स्थितयोर्युक्ता, पुष्पादितिलायोस्तथादर्शनात् , न तु जन्मानन्तरमेव हतस्य, वास्यकाले वासकस्यैवाभावात् । किंच, इह यत् यस्य विशेषकं तत्तस्य वासकमितरच वास्यं, यथा तिलादेः पुष्पादि, सुरभिगन्धादिकल्पश्च विशेषो वासना, सा च भवदभ्युपगमपर्यालोचनया सर्वथा 8 नोपपद्यते एव ॥ ३२९ ॥ तथाहिसा वासगातो भिण्णा-ऽभिण्णा व हवेज ? भेदपक्खम्मि । ॥१४॥ को तीऍ तस्स जोगो ? तस्सुण्णो वासइ कहं च ? ॥ ३३० ॥ Jain Education Int For Private & Personel Use Only Page #287 -------------------------------------------------------------------------- ________________ C OMSACRO-5-45055 सा वासना वासकात्सकाशाद्भिन्ना वा स्यादभिन्ना वेति विकल्पद्वयं, गत्यन्तराभावात् । तत्र भेदपक्षे तस्य-वासकस्य | तया-वासनया सह को योगः?-कस्संबन्धो, नैव कश्चिदितिभावः, भेदाभ्युपगमे तादात्म्याभावात् , समानकालतया तदुत्पत्तेरप्यनभ्युपगमाच । कथं वा तच्छून्यः-तया वासनया शून्यः सन् अन्यं वासयतीति भावः, पदार्थान्तरवत् ॥३३०॥ द्वितीयपक्षमाशङ्कमान आह अह णो भिन्ना कह तीऍ संकमो होइ वासणिजम्मि ? । तदभावम्मि य तत्तो णो जुत्ता वासणा तस्स ॥३३१॥ अथ सा वासना वासकात् सकाशात् न भिन्ना इष्यते किंवभिन्ना तर्हि तस्या-वासनाया वासनीये कथं संक्रमो भवति ?, नैव भवतीत्यर्थः । वासकादव्यतिरिक्तत्वात्स्वरूपवत् । तदभावे च-संक्रमाभावे च ततो-वासकात् तस्यवास्यस्य वासना न युक्तेति ॥३३१॥ अथ मा भूदृष्टहानिरिति वास्ये कथमपि वासनायाः संक्रम इष्यते, तत आह सति यण्णयप्पसिद्धी पक्खंतरमो य णत्थि इह अन्नं । ___ परिकप्पिता तई अह ववहारंगं ततो कह णु ? ॥ ३३२॥ सति च वासनाया वास्ये संक्रमे अन्वयप्रसिद्धिः प्राप्नोति, कारणगतविशेषस्य कार्ये अनुवर्त्तनाभ्युपगमात् , न Jain Education in For Private & Personel Use Only T ww.jainelibrary.org Page #288 -------------------------------------------------------------------------- ________________ संग्रहणिः SMOKER धर्म- चेहान्यत् पक्षान्तरमस्ति, मो' इति निपातः पादपूरणे, यद्वलाद्वास्यवासकभाव उपपद्येत । अत्र पराभिप्रायमाह-अथ 'तईत्ति' सका वासना परिकल्पिता, यथा-अवृक्षव्यावृत्त्या वृक्षत्वसामान्यं, ततो न भेदाभेदोक्तदोषावकाश इति । ॥१४२॥ अत्राह-'ववहारेत्यादि' यदि परिकल्पिता वासना ततः कथं नु व्यवहाराङ्ग-कार्यकारणभावावगमलक्षणव्यवहारकारणं भवेत् ?, नैव भवेदितिभावः । परिकल्पितस्य खरविषाणकल्पत्वात् ॥ ३३२ ॥ उपसंहारमाह एगंतखणिगपक्खेवि जुजते णो सुहादिजोगेवं । अस्थि य जं तो आया परिणामी होइ णायवो ॥ ३३३ ॥ IFI यत्-यस्मादेवम्-उक्तप्रकारेण एकान्तक्षणिकपक्षेऽपि आस्तां नित्यपक्षे इत्यपिशब्दार्थः, न युज्यते सुखादियोगः, अस्ति चायं खसंवेदनप्रत्यक्षादिना प्रमाणेनोपलभ्यमानत्वात् , 'तो' तस्मादयमात्मा परिणामी ज्ञातव्य इति ॥३३३॥ परिणामित्व एव हेतूनाह बालादिदरिसणातो सुहादिजोगातो तह सतीओ य। संसारातो कम्मफल-भावतो मोक्खओ चेव ॥ ३३४ ॥ बालादिदर्शनात्-वालाद्यवस्थाभेददर्शनात् , स एव हि पुरुषो बालो भूत्वा कुमारो भवन् दृश्यते, कुमारश्च भूत्वा ॥१४२॥ A Jain Education in CY For Private & Personel Use Only Oillww.jainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ CANCIES AUSTOCAUSESSORRUCTOR युवा, नचायं बालाद्यवस्थाभेद एकान्तनित्यपक्षे युज्यते, तस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावतया अवस्थान्तरसंभवाभावात् । नाप्येकान्तक्षणिकपक्षे, तत्रापि निरन्वयविनाशिताऽभ्युपगमात् , स एवायं वालः कुमारो भूत इत्यादिप्रत्यवमर्शानुपपत्तेरिति । तथा सुखादियोगतः, यस्यैव हि प्राक् पुत्रलाभादिना सुखमुत्पन्नमासीत् तस्यैवेदानीं तद्वियोगादिना दुःखमुपजायमानमुपलभ्यते, नचैवं सुखादियोगः परिणामित्वमन्तरेणोपपद्यते इति । तथा स्मृतेश्च, स्मृतिर्हि तस्यैव प्रागनुभवपूर्विका नान्यस्य, तथाऽनुपलम्भात् , तथा च सति स एवात्मा तथा परिणमत इति परिणामित्वम् । तथा संसारात्-नारकादिभवभ्रमणरूपात्, स एव हि जीवो देवो भूत्वा मनुष्यो भवति, मनुष्यश्च भूत्वा देवादिरिति संसारादात्मा परिणामीत्यनुमीयते । तथा कर्मफलभावतः य एव हि शुभमशुभं वा कर्म बनाति स एव जन्मान्तरे तत्फलमुपभुते, न चासावेकस्य कर्मसंवन्धभोगभावस्तथापरिणामित्वमन्तरेणोपपद्यत इति । तथा मोक्षतश्चैव, बन्ध| पूर्वको हि मोक्षः, तौ च बन्धमोक्षावेकाधिकरणायकस्यैव सतोऽवस्थाभेदनिबन्धनौ, ततो नैती परिणामित्वमन्तरेण| दोघटेते इति ॥ ३३४ ॥ तत्राद्यं हेतुं विवृण्वन्नाह बालो होइ कुमारो सोवि जुवा मज्झिमो य थविरो य । एगंतनिच्चपक्खे अणिञ्चपक्खे य कहमेयं ? ॥ ३३५ ॥ GROCESCRACOCCARMER Jain Education Inter24 For Private & Personel Use Only Kilaw.jainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ धर्म-18 संग्रहणि ॥१४३॥ बालो भवति कुमारः, प्रतिक्षणं विशिष्टविशिष्टतरोपचयदर्शनात् , सोऽपि च कुमारो भवति युवा, ततो मध्यमः स्थविरश्च, एतच्चैकस्यैव वालाद्यवस्थाभेदभवनमेकान्तनित्यपक्षे अनित्यपक्षे वा कथं घटतेः ? नैव घटत इति भावः ॥ ३३५ ॥ कुत इत्याह एगसहावत्ता सति निरन्नयत्तेण कारणाभावा । निच्चे धम्माजोगो भेदादिविगप्पिओ नेओ॥ ३३६॥ नित्यपक्षे सर्वदा एकखभावत्वादघटनम् , अनित्यपक्षे च कारणस्य निरन्वयत्वेनाभावाद्-विनाशात् । स्यादेतत् , नित्यपक्षे कथं बालाद्यवस्थाभेदाऽघटना, यावता तत्रापि धर्मधमिभावो विद्यत एव, तत एतेऽपि बालाद्यवस्थाः सुखादयश्चात्मनो धर्मा भविष्यन्तीति को नो दोप ? इत्यत आह-निचेइत्यादि' नित्ये आत्मनि धर्माणां-बालाद्यसवस्थाभेदादिलक्षणानामयोगः-अघटमानता ज्ञेयः । किंविशिष्ट इत्याह-भेदादिविकल्पितः-भेदाभेदविकल्पितः, तथाहि-ते धस्तितो भिन्ना वा स्युरभिन्ना वा ?, यदि भिन्नास्ते तस्येति संवन्धानुपपत्तिः । समवायलक्षणः संबन्धो|ऽस्तीति चेत् । न । तस्याग्रे निषेत्स्यमानत्वात् । अथाभिन्नास्तर्हि तेषामुत्पादे विनाशे च तदव्यतिरिक्तत्वात् आत्मनोऽप्युत्पादविनाशप्रसङ्गः, तथा च सति नित्यत्वक्षितिरिति ॥ ३३६ ॥ खपक्षे पुनदोषाभावमाह परिणामे पुण जं धम्मधम्मिणो इह कहंचि भेदोउ। SAMACHCRACAACARECRUCHCHANGESCR ॥१४३॥ For Private & Personel Use Only Page #291 -------------------------------------------------------------------------- ________________ SCREENNGRECROCCORICALCOCCRIL एसो अणुहवसिद्धो माणं च तओ अबाधाओ ॥ ३३७ ॥ परिणामे पुनरभ्युपगम्यमाने धर्मयोग आत्मनो घटत एव, यत् यस्मादिह-परिणामे धर्मधम्मिणोः कथंचित् । अभेदानुविद्धो भेदो, न तु केवलो भेदोऽभेदो वा, नचासौ कथंचिद्भेदः खकल्पनाशिल्पिनिर्मापितसत्ताको यत आह -'एप' धर्मधमिणोः कथंचिद्भेदोऽनुभवसिद्धः-अनुभूयते यथावस्थितं वस्त्वनेनेत्यनुभवः-"भूशेरल् प्रत्ययः" प्रत्यशक्षादिप्रमाणं तेन सिद्धः-प्रतीतोऽनुभवसिद्धः । न च वाच्यमेषोऽनुभवः कथंचिद्भेदविषयः प्रमाणान्तरवाध्यमानत्वाद प्रमाणम् । यत आह-'मानं च' प्रमाणं च 'तउत्ति' सकोऽनुभवः कथंचिद्भेदविषयः । कुत इत्याह-अबाधातः, अवाध्यमानविषयत्वादित्यर्थः ॥ ३३७ ॥ यदुक्तमेषोऽनुभवसिद्ध इति, तत्रानुभवं दर्शयति __ सबेसि दवपज्जव-दुगरूवोऽणुहवो विसेसेणं। जं न मिहो ते भिन्ना भुवणम्मिवि सबहा अस्थि ॥ ३३८॥ 'सर्वेषां' सकलदेशकालवर्तिनां प्रमातॄणामविशेषेणानुभवो द्रव्यपर्यायद्विकरूपो-द्रव्यपर्यायरूपद्विकग्रहणखभायो । जायते । तत्र द्रव्यमन्वयिरूपं, पर्यायाः मृदादेरन्वयिनो द्रव्यस्य क्रमेण प्रतिक्षणभवनादिक्रियाभिसंवन्धाः, यदाह शाकटायनः-"क्रमेण पदार्थानां क्रियाभिसंबन्धः पर्याय इति,” एवंरूपं यद् द्विकं तद्विषयं रूपम्-आकारः प्रतिभासो SANSACRECCORDCCCCCROCOCCCCCCE Jain Education Inted For Private & Personel Use Only ww.jainelibrary.org Page #292 -------------------------------------------------------------------------- ________________ संग्रहणिः H ॥१४४॥ RANC%20RRESCREOGODSOM ग्रहणपरिणामो यस्मिन् अनुभवे इत्थंभूतः । कस्मात्पुनरयमनुभव इत्थंभूत ? इत्याह-जंणेत्यादि' यत्-यस्मात्ते-द्रव्यपर्यायाः समस्तेऽपि भुवने न सर्वथा मिथो विभिन्नाः सन्ति, नहि मुकुलितार्द्धमुकुलिताद्याकारशून्यं किंचित् कुसुमादिद्रव्यं कुसुमादिद्रव्यविनि ठिता वा केचित् मुकुलितार्द्धमुकुलिताद्याकारा उपलभ्यन्ते इति । उक्तं च-"द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा, दृष्टा मानेन केन वा ?॥१॥” इति । तस्मादनुभवसिद्धत्वात द्रव्यपर्यायरूपं वस्त्वङ्गीकर्त्तव्यम् , । तथाच सति तस्यैव तथापरिणामित्वात्सिद्धो धर्माधर्मिमणोः कथंचिद्भेद इति ॥ ३३८ ॥ यदपि चोक्तम् 'माणं च तओ अवाहाउत्ति' तदपीदानीं भावयन्नाह नय बाहगं पमाणं इमस्स लोयम्मि दिस्सति कहंचि । अह अत्थाणिंदियं से ण साहगं तंपि का जुत्ती ? ॥ ३३९ ॥ न चास्य-द्रव्यपर्यायविषयस्यानुभवस्य बाधकं प्रमाणं किंचिल्लोके दृश्यते येनास्याप्रामाण्यं स्यात् , ततोऽबाधित-1 विषयत्वादसौ प्रमाणमेव । अत्र पराभिप्रायमाशङ्कमान आह-'अहेत्यादि' अथ मन्येथाः-निरस्ताशेषावरणभेदप्रपञ्चम-13 निन्द्रियं ज्ञानं 'से' तस्य द्रव्यपर्यायविषयस्यानुभवस्य बाधकं भविष्यतीत्यत्राह-'नेत्यादि' तदपि अनिन्द्रियं ज्ञानं द्रव्यपर्यायग्रहणप्रवणतया न विवक्षितस्यानुभवस्य साधकं किंतु बाधकमित्यत्र का युक्तिः, नैव काचित् , यदि हि तस्य AKADCALCROCOCCCCCC ISTORIRAMIRIWwwwwwwanwarREARRIAS Jain Education Inter For Private & Personel Use Only X ww.jainelibrary.org Page #293 -------------------------------------------------------------------------- ________________ RODISIASAIGRASRASIGRISTES खरूपेण ग्रहणं स्यात् ततो निश्चीयेत यथैतस्य साधकं बाधकं वेति, न च तस्य स्वरूपेण ग्रहणमस्ति, अतीन्द्रिय-6 त्वात् । देशनाविशेषात्तत्स्वरूपनिर्णय इति चेत्, न, देशनाया अपि विनेयानुगुण्यतोऽन्यथापि प्रवर्तनात् । तदुक्तम्"नित्यं योगी विजानाति, अनित्सं नेति का प्रमा। देशनाया विनेयानुगुण्येनापि प्रवृत्तितः॥१॥"इति॥३३९॥अन्यच भूतत्थगाहगं जं तमणिंदियं एस चेव च तउत्ति । जुत्तीऍ अन्नहा जं न जुज्जए वत्थुसब्भावो ॥ ३४० ॥ यत्-यस्मात्तत्-अनिन्द्रियं ज्ञानं भूतार्थग्राहक-यथावस्थितार्थग्राहकं, यथावस्थितार्थपरिच्छेदकं, सकोऽपि च च-भूताथे एप एव-द्रव्यपर्यायोभयलक्षणः। कुत इत्याह-यत्-यस्मादन्यथा वस्तुसद्भावो युक्त्या विचार्यमाणः सर्वथा न युज्यते, (यथा च न युज्यते ) तथा प्रागेव केवलनित्यानित्यपक्षयोः सप्रपञ्चमभिहितं, ततोऽनिन्द्रियमपि ज्ञानं तस्यानुभवस्य साधकमेव न तु बाधकमिति ॥३४०॥ तदेवमनुभवप्रमाणवलेन वस्तुनो द्रव्यपर्यायोभयरूपतां प्रसाध्य यथा केवलभेदाभेदनिरासेनानयोः कथंचिद्भेदः सिध्यति तथोपपादयन्नाह अणुवित्तिं वावित्तिं विहाय ण य उभयरूवता जम्हा । भेयाभयविगप्पो तम्हा णेओ असवातो ॥ ३४१ ॥ धर्म. २५ Jain Education Inter For Private & Personel Use Only ( A naw.jainelibrary.org Page #294 -------------------------------------------------------------------------- ________________ धर्म ॥ १४५ ॥ Jain Education In अनुवृत्तिं— सकलमृत्पिण्डशिवकाद्यवस्थासु मृदोऽनुगमरूपां व्यावृत्तिं च- पूर्व पिण्डादिरूपपर्याय [भवन ] परित्यागो|त्तरघटादिरूपर्यायोत्पादात्मिकां " पूर्वभवनान्यथाभूतभवनात्मको व्यय" इति वचनात् विहाय - परित्यज्य नोभयरूपता-न द्रव्यपर्यायलक्षणोभयरूपता यस्माद्भवति वस्तुनः तस्माद्योऽयं द्रव्यपर्याययोरेकान्तेन भेदोयथा नैयायिकादिभिः परिकल्प्यते एकान्तेनाभेदो वा यथा वौद्धैः स भेदाभेदविकल्पोऽसद्वादो ज्ञेयः । तथाहि - मृदेव तेन तेनाकारेण परिणममानोपलभ्यते, ततो मृदा लोलीभावेन व्याप्तस्योर्ध्वाद्याकारस्योपलम्भान्नानयोरेकान्तेन भेदः, नाप्यभेदो द्वयोरपि मृदुद्याकारयोरुपलभ्यमानत्वात्, यस्तु केवलभेदाभेदपक्षाभ्यामत्यन्तवहिर्भूतो गुडसुण्ठी| माधुर्यकटुकत्वादिवदितरेतरानुवेधेन जात्यन्तरात्मकः कथंचिद्भेदपक्षः स समीचीनो द्रष्टव्यः, तत्रोभयपक्षभाविदोपासंभवात् । पाठान्तरं वा- 'भेदाभेदविगप्पो तम्हा नेओ उ सवादो' अस्यायमर्थः - तस्मादनुवृत्तिं व्यावृत्तिं चोक्त| स्वरूपां विहाय नोभयरूपता-न द्रव्यपर्यायोभयरूपता भवति वस्तुनस्तस्मात् यो द्रव्यपर्यययोर्भेदाभेदविकल्पो जात्यन्तरात्मकः स सद्वाद एव, इतरेतरानुवेधतो जात्यन्तरात्मकतया तत्र केवल भेदाभेदोभयपक्षभाविदोषासंभवात्, गुडसुण्ठिमाधुर्यकटुकत्वादौ तथादर्शनात् । तथाहि —न गुडसुण्ठ्योर्माधुर्य कटुकत्वाननुविद्धं, कटुकत्वं वा माधुर्यादेकान्ततः पृथग्भूतं नाप्यनयोरेकरूपता, किंत्वितरेतरानुवेधतो जात्यन्तरमिदम्, अतस्तदुपभोगात् कफादिदोषाभावः, अन्यथा केवलगुडसुण्ठयुपभोगादिवत्तदुभयोपभोगादपि कफपित्तदोषलक्षण ( कफपित्तलक्षणदोष ) द्वयप्र संग्रहण: ॥ १४५ ॥ Page #295 -------------------------------------------------------------------------- ________________ वृद्धिःप्रसज्येत, खखभावानपगमात्। स्यादेतत्-नैवेदं जात्यन्तरं, किं तर्हि ?, माधुर्येण कटुकत्वोत्कर्षहानिराधीयते. कटुकत्वेन च माधुर्योत्कर्षहानिरतस्तत्र पित्तादिदोषाभाव इति, तदप्ययुक्तम् , उभयोर्मन्दतापत्तावपि तदुपभोगान्मन्दपित्तादिदोपसंभवापत्तेः । एतेनेतरेतरप्रवेशतोऽन्यतरैकमाधुर्याद्यभ्युपगमोऽपि निरस्तो द्रष्टव्यः, तत्राप्येकतरदोपापत्तेः, अनुभववाधा चैवं प्रसज्यते, यतोऽनुभूयते तत्राविगानेन माधुर्य कटुत्वं चेति । अथोच्यते-प्रत्येकं गुडसुण्ठिभ्यामन्यैव एकरूपा जातिः गुडसुण्ठिः कफपित्तलक्षणदोषद्वयोपशमनस्वभावा जन्यते, ततो नेदमुभयात्मकं जात्यन्तरमिति। तदुक्तम्-"तन्मूलमन्यदेवेदं, गुडनागरसंज्ञितमिति," तदपि अश्लीलम् , एकान्तेनैकखभावायास्तस्याः कफपित्तलक्षणदोपद्वयोपशमकारित्वायोगात् , सा हि गुडसुण्ठिरेकतरस्मिन् कफोपशमे पित्तोपशमे वा कास्येनोपयुक्ता सती कथमन्यत्रोपयुज्येत?, स्वभावान्तराभावात् । अथेत्थंभूत एव तस्या एकः खभावो येनोभयमुपशमयति तेनायमदोष इति, न, इत्थं चित्रतागर्भस्य खभावस्य सर्वथैकत्वायोगात्, नहि ययैव शक्त्या सा गुडसुण्ठिः पित्तमुपशमयति तयैव कफमपि, पित्तोपशमनिमित्तशक्तेः कफोपशमकारित्वायोगात्, अन्यथाऽतिप्रसङ्गतो वस्तुव्यवस्थाविलोपप्रसङ्गात् , अतस्तत्र खभावनानात्वमवश्यमुररीकर्तव्यं, तचानुभूयमानमाधुर्यकटुकत्वगुणेतरेतरानुवेधनिमित्तम् , अन्यथा माधुर्यकटुत्वयोः स्वखभावानपगमनेन खखकफादिदोषकारितापत्तेः । एवमिहापि द्रव्यपर्याययोः केवलभेदाभेदपक्षा-18 १ स्वस्वभावस्येति खपुस्तके । Jain Education in For Private & Personel Use Only L ww.jainelibrary.org Page #296 -------------------------------------------------------------------------- ________________ CAMPA | संग्रहणिः . ॥१४६॥ भ्यामत्यन्तविलक्षणोऽन्योऽन्यानुवेधेन जात्यन्तररूपो भेदाभेदस्ततो नोभयपक्षभाविदोपसंभव इति स्थितम् । एतेन यदपि महतीमास्थामालम्ब्य परैरुच्यते-“यथा स्निग्धत्वोष्णत्वयोः केवलखरूपयोः पृथक् पृथक् कफपित्तकारित्वात् मापे तयोरन्योऽन्यानुवेधेन जात्यन्तररूपत्वेऽपि न खखदोषकर्तृत्वनिवृत्तिः, तथाऽदर्शनात्, तद्वदिहापि भेदाभेदयोरन्योऽन्यानुवेधतो जात्यन्तररूपत्वेऽपि नोभयदोपनिवृत्तिः, उक्तं च-"प्रत्येकं यन्निदानं यत्, खतो मिश्रं तदा त्मकम् । किं न दृष्टं यथा माषः, स्निग्धोष्णः कफपित्तकृद् ? ॥१॥” इति तदपाकृतमवसेयम् , माषे स्निग्धत्वोष्णत्वयोर्जात्यन्तरात्मकत्वाभावात् । अन्योऽन्यानुवेधेन हि स्वभावान्तरभावनिबन्धनं जात्यन्तरात्मकत्वम् , न चात्रान्योऽन्यानुवेधोऽस्ति, तयोः खण्डशो व्यायाऽवस्थानात्, न च वाच्यं कथमेकस्मिन् द्रव्ये परस्परानुवेधमन्तरेण गुणानामवस्थानं घटत इति?, कचित्तथा दर्शनात् , गुजाफलादौ हि परस्परानुवेधमन्तरेणापि रक्तत्वकृष्णत्वादीनां गुणानां देशव्याप्त्याऽवस्थानमुपलभ्यत एव, तथा मापेऽपि अन्योऽन्यानुवेधमन्तरेण देशव्याप्त्या स्निग्धत्वोष्णत्वयोरवस्थान भविष्यतीति न कश्चिद्दोषः । देशभेदावस्थितगुणद्वयाभेदतोऽनेकरूपतापत्तेः द्रव्यस्य कथमेकरूपतेति चेत्, नैष है दोषः, एकान्तेन द्रव्यस्यैकरूपताऽनभ्युपगमात्, समानपरिणामो हि विशिष्टो द्रव्यमित्युच्यते, "तुल्यांशो द्रव्यमिति वचनात्," स चासमानपरिणामाऽविनाभूततया एकानेकखभाव इति । यत्र तु स्निग्धत्वोष्णत्वयोरितरेतरानुवेधतो जात्यन्तरात्मकतोपजायते तत्र प्रत्येकावस्थासंभविदोषाभाव एव, यथा दाडिमे, “स्निग्धोष्णं दाडिम का॥१४६॥ Join Education inte For Private 3 Personal Use Only R mjainelibrary.org Page #297 -------------------------------------------------------------------------- ________________ Jain Education Int हृद्यं, श्लेष्मपित्तविरोधि चेति” । ततो माषे स्त्रिग्धत्वोष्णत्वयोरन्योऽन्यानुवेधेन जात्यन्तरात्मकत्वाभावात् कफपित्तदोपकारित्वं न नो व्यभिचारनिबन्धनम् ॥ इत्थं च द्रव्यपर्याययोर्भेदाभेदपक्षे जात्यन्तरात्मके व्यवस्थिते सति यदप्येतत् परैरुच्यते- "ये भेदाभेदमात्रे तु दोषाः संभविनः कथम् । तत्सद्भावेऽपि ते न स्युरिति ब्रूयाद्विचक्षणः १ ॥ १ ॥" तथा एकान्तिकावनन्यत्वाद्भेदाभेदौ तयोर्ध्रुवम् । अन्योऽन्यं वा तयोर्भेदो, नियतो धर्मधर्मिणोः ॥ २ ॥ तयोरपि भवेद्भेदो, यदि येनात्मना तयोः । पर्याया द्रव्यमित्येतत्, यदि भेदस्तदात्मना ॥ ३ ॥ भेद एव तथा च स्यान्नैवैकस्य द्विरूपता । द्रव्यपर्यायरूपाभ्यां न चान्योऽस्तीह कश्चन ॥ ४ ॥ खभावो यन्निमित्तः स्यात्, तयोरेकत्वकल्पना । ततस्तयोरभेदे हि स्वात्महानिः प्रसज्यते ॥ ५ ॥ तस्याभेदोऽपि ताभ्यां चेत्, यदि येनात्मना भवेत् । धर्माधर्मस्तदन्यश्च, यदि भेदस्तदात्मना ॥ ६ ॥ भेद एवाथ तत्रापि, तेभ्योऽन्यत्परिकल्प्यते । तेषामभेदसिद्ध्यर्थ, प्रसङ्गः पूर्ववद्भवेत् ॥७॥ धर्मित्वं तस्य चैवं स्यात्, तत्तन्त्रत्वात्तदन्ययोः । न चैवं गम्यते तत्र, वादोऽयं जाल्मकल्पितः ॥ ८ ॥ इति" । तदप्यत्यन्तं जिनमताऽनभिज्ञतासूचकमेव, प्रकारान्तरेण द्रव्यपर्याययोर्गुडसुण्ठिमाधुर्यकटुकत्वयोरिव भेदाभेदस्य व्यवस्थापनात्, तत्र चोक्तदोषाणां लेशतोऽपि प्रवृत्त्यसंभवादिति । एतेन यदपि "सर्वत्रैव हि जैनद्रव्यपयययोः संख्यासंज्ञालक्षणकार्यभेदाद्भेदो देशकालस्वभावाभेदाच्चाभेद इष्यते, यथा घटस्य रूपादीनां चेति । अत्र हि एको घटो रूपादयो बहव इति संख्याभेदः, घटो रूपादय इति च संज्ञाभेदः, अनुवृत्तिलक्षणं द्रव्यं नित्यं च, Page #298 -------------------------------------------------------------------------- ________________ संग्रहणिः व्यावृत्तिलक्षणाः पर्यायाः क्षणिकाः कियत्कालावस्थायिनश्चेति लक्षणभेदः, घटेनोदकाहरणं क्रियते रूपादिभिस्तु ॥१४७॥ वस्तुराग इति कार्यभेदः, तदेवं द्रव्यपर्याययोः संख्यादिभिर्भदो देशादिभिस्त्वभेद इत्याद्याशय-तदयुक्तं, यदि हि खभावतो न भेदो धर्मधर्मिणोः संख्यादिभेदादपि नैव भेदः, ते हि पररूपाः संख्यादयो भिद्यमाना अपि नात्मभूतमभेदं वाधितुं समर्था" इत्याधुक्तम् , तदपि तत्त्वतः पलालप्रायम् , खभावतोऽपि भेदाभेदस्य व्यवस्थापितत्वात् । तथाहि-द्रव्यपर्याययोर्दाडिमगतस्निग्धत्वोष्णत्वयोरिव परस्परानुवेध इष्यते, अन्योऽन्यानुवेधश्च भेदाभेदे सति भवति नान्यथा, यतोऽन्योऽन्यशब्देन परस्परं भेद आक्षिप्यते, अनुवेधशब्देन चाभेदः, तदाह-"अन्योऽन्य|मिति यद्भेदं, व्याप्तिश्चाह विपर्ययम् । भेदाभेदे द्वयोस्तस्मादन्योऽन्यव्याप्तिसंभव ॥१॥” इति ॥ एवं च सति कथमे| कान्तिकखभावभेदाभेदनिबन्धनो दोपोऽस्माकमुपढौकत इति । देशकालमात्रापेक्षया त्वभेदोऽनभ्युपगमादेव न नः क्षितिमावहति ।योऽपि संख्यादिभेदा दः सोऽपि कथंचित् खभावभेदनिवन्धन एव, ततो “नहि पररूपाः संख्यादयो । भिद्यमाना अप्यात्मभूतमभेदं बाधितुं समर्था" इति यदुक्तं तत् प्लवत एव । यत्पुनरुच्यते-"संख्याभेदस्तावदसमर्थ एवैकस्मिन्नपि द्रव्ये बहुत्वेन व्यवहारदर्शनात् , यथा गुरव इति," तदपि न मनोहरम् , अनेकपर्यायोपनिपातलक्षहैणनिमित्तापेक्षया बहुवचनस्याप्युपपद्यमानत्वात् । न च वाच्यमेवं सति न कदाचिदपि गुरुरित्येकवचनं स्यादिति, जयतो द्रव्यपर्यायात्मकं वस्तु, देशकालपुरुषाद्यपेक्षया चोद्भूतानुभूतं द्रव्यादिकं, ततो यदा उपसर्जनीभूतद्रव्यं प्रधानी ॥१४७॥ For Private & Personel Use Only Page #299 -------------------------------------------------------------------------- ________________ Jain Education In कृतपर्यायोपनिपातं च वस्तु शब्देन च वक्तुमिष्यते तदा तद्वाचकस्य शब्दस्य बहुवचनं पर्यायाणां बहुत्वात् यदा तूपसर्जनीकृतपर्यायोपनिपातं प्रधानीकृततुल्यांशं च तदेव वस्तु वक्तुमिष्यते तदा एकवचनं, तुल्यांशस्य कथंचि - देकत्वात् । अत एव च एकवचनकाले बहुवचनकाले वा द्रव्यपर्यायोभयरूपं वस्तु सकलमविगानेन प्रतीयते । एवं च सति "संभविधम्मिरूपमात्राभिधेयत्वेन विवक्षितमत एकवचन" मिति चेदित्याशङ्कय यदुक्तं परेण - "न, तस्यैकत्वेन विवक्षायां कार्त्स्यगौरवयोरप्रतीतिप्रसङ्गात् उभयरूपस्य वस्तुनो गुरुशब्दवाच्यत्वात् कथं संभविनो धर्मरूपस्यैकत्वेन विवक्षेति" तत् दूरापास्तप्रसरं द्रष्टव्यम्, तथानभ्युपगमादिति । यदा तूभयोरपि उद्भूतत्वं विवक्ष्यते तदा द्वयोरपि द्रव्यपर्यायवाचकयोः शब्दयोः यथाक्रममेकवचनबहुवचने भेदः, यथा - घटस्य रूपादय इति । अनेनैव च क्रमेण व्रीह्मादिषु शब्देषु समानासमानपरिणामप्रधानोपसर्जन भावविवक्षायामेकवचनबहुवचने द्रष्टव्ये, यथा - " त्रीहिरेकोऽपि संपन्नः सुभिक्षं करोतीत्यादि" । तथा च सति यदुक्तं – “श्रीहय इति जातिवचने धर्मिणो रूपादीनां चानभिधानान्न किंचिदुत्तरमिति" तदपि वालिशजल्पितं, सर्वथा वस्तुगत्यनवगमात् अत्रोपसर्जनीकृतसमानपरिणाम स्यानेकात्मकस्यासमानपरिणामस्याभिधानादिति । यदपि संज्ञाभेदाद्भेदं दूषयता अभिहितं - " संज्ञापि संकेतनिबन्धना संकेतश्चेच्छायत्तवृत्तिरिति कुतस्ततोऽर्थभेद इति” तदपि न शोभनम्, शब्दार्थयोः संबन्धस्य वास्तवत्वात्, तथाहि-- यदि शब्दार्थयोः संबन्धः सांकेतिक इष्यते तर्हि येन शब्देनायमित्यादिना तस्य Page #300 -------------------------------------------------------------------------- ________________ धर्म ॥१४८॥ Jain Education In शब्दस्य संकेतः क्रियते तेन किं संकेतितेन असंकेतितेन वेति वक्तव्यं ?, यदि संकेतितेन तर्हि तस्यापि येन शब्देन संकेतः कृतो विद्यते तेनापि संकेतितेन असंकेतितेन वेत्यादि तदेवावर्तत इत्यनवस्था, अथासंकेतितेन तर्हि सिद्धः शब्दार्थयोः संबन्धो वास्तवः, असंकेतितादपि तस्मात् शब्दात् विवक्षितवाच्यप्रतीतेः । अथोच्येत यादृशो बाह्योऽर्थो घटादिः प्रत्यक्षे ज्ञाने प्रतिभासते न तथा शब्दोत्थे, तत्कथमनयोः शब्दार्थयोः वास्तवः संबन्धः इति ?, तदप्ययुक्तम्, शब्दादपि तादृशस्यैव वाह्यस्यार्थस्य प्रतीतेः, तथाहि - अपवरकमध्यस्थितात् स्थालात् अधोहरितमुपरि पीतमतिरमणीयं सुरभिगन्धं महदाम्रफलमानयेत्युक्तः सन् तदन्याम्नफलमध्यात्तदेवानयति नान्यदिति, न च शब्दस्यास्पष्टः प्रतिभासो भिन्नविषयतानिबन्धनम्, एकस्मिन्नपि नीलादिवस्तुनि समीपविप्रकृष्टदेशवर्त्तिनोः पुंसोः स्पष्टास्पष्टप्रतिभासयोरुपलभ्यमानत्वात् । न च वाच्यं शब्दार्थयोः संबन्धस्य वास्तवत्वे सति प्रधानादिशब्दानामपि तात्त्विकविषयताप्रसक्तिः, तेषां मिथ्याभाषावर्गणोपादानत्वेनालीकार्थानामेवाभ्युपगमात्, एवमतीतानागतयोरपि वर्त्तमानत्वेन वाचकानां शब्दानामलीकार्थता द्रष्टव्या ये त्वतीतानागतयोरप्यतीतानागतत्वेन वाचकाः शब्दास्ते तद्विषये सार्वज्ञज्ञानमिव सत्यार्थी एव, एतच प्रागेवोक्तम् । एतेन यदप्युच्यते - "इन्द्रियज्ञाननिर्मासि, वस्तुरूपं हि गोचरः शब्दानां नैव तत् केन, संज्ञाभेदाद्विभिन्नता ? ॥१॥" | "परमार्थैकतानत्वे" इत्यादिवचनात् । तथा-" शब्देनाव्यापृताक्षस्य, बुद्धावप्रतिभासनात् । अर्थस्य दृष्टाविव तत्, शब्दाः कल्पितगोचराः ॥ १ ॥ कल्पितस्यैव तद्भेदः, संज्ञाभेदा 1 संग्रहणिः. ॥१४८॥ Page #301 -------------------------------------------------------------------------- ________________ ACCU भवेद्यदि ॥२॥" तथा "अन्यदेवेन्द्रियग्राह्यमन्यच्छब्दस्य गोचरः। शब्दात्प्रत्येति भिन्नाक्षो, नतु प्रत्यक्षमीक्षते ॥३॥ इत्यादि" तदपि प्रत्युक्तमवसेयम् , यथोक्तभावार्थशून्यत्वात् । यदपि चोच्यते-एकस्मिन्नपि च संज्ञाभेदो दृश्यते, यथाइन्द्रः शक्रः पुरंदर इति, तत्कथमस्य भेदनिमित्ततेति । तदपि कवलितनिविडजडिमोद्गाररूपं, शक्रादिशब्दानामपि खस्खभिन्नप्रवृत्तिनिमित्तभावात् , तथाहि-इन्दनात् इन्द्रः, शकनात् शक्रः, पूर्दारणात् पुरंदर इति । शक्तिशक्तिमतोश्च कथंचिदभेदात् शक्रादिशब्दैः शकनादिशक्तिविशिष्टं समस्तमेव वस्तु प्रतीयते, नतु खखप्रवृत्तिनिमित्तभूत६ शकनादिशक्तिमात्रम् , ततः शक्रादिशब्दैस्तद्वाचिनां सामानाधिकरण्यमप्युपपद्यत एव । न च वाच्यमेवमपि एकस्मिन् धर्मिरूपे शक्रादिशब्दानां प्रवृत्त्यभ्युपगमात् न संज्ञाभेदो विषयभेदप्रतीतिनिमित्तमिति, तस्यापि कथंचि-IN दनेकखभावतया सर्वथैकत्वासिद्धेः। एवं च सति अत्रापि इन्दनात् शकनात् पूर्दारणात् शक्तिभेदो गम्यत इति चेदित्याशङ्कय यदेतदभिहितं-"न,समस्तस्यैव कार्यकर्तृत्वात् , न हि शक्तिरेवेन्दति शक्नोति विदारयति च, किं| तर्हि ?, धर्मिरूपमपि, तयोरेकखभावतोपगमात्, शक्नोत्यादिपदैस्तद्वाचिनां सामानाधिकरण्यदर्शनाच्च । न चास्खलदृत्तिप्रत्ययविषयत्वादुपचारकल्पनेति" । तदपीह निरवकाशमवसेयम्, शकनादिशक्तिविशिष्टस्य धर्मिरूपस्य कथंचिदनेकखरूपस्य शकनादिशक्तिनिमित्तकैः शक्रादिशब्दैर्वाच्यत्वेनाभ्युपगमात्, उपचारस्य चानाश्रयणादिति । यः पुनरत्र लक्षणभेदोऽभिहितोऽनुवृत्तिलक्षणं द्रव्यमित्यादिरूपः सोऽभ्युपगम्यत एव, न बभ्युपगमा एवं बाधायैव भव SRONOCOCOCCOCOCAUSERONE Jain Education in For Private & Personel Use Only Mirww.jainelibrary.org Page #302 -------------------------------------------------------------------------- ________________ न्तीति । यत्पुनरुच्यते-"लक्षणभेदो भेदं प्रति अहेतुरसिद्धत्वात्, न ह्येको भावः कचिदन्वयी सिद्धः, अथ न कूट- संग्रहणिः ॥१४॥ स्थिनियतया नियं द्रव्यमार्हतैरिष्यते, परिणामनित्यतोपगमात्, सा च पूर्वोत्तरक्षणप्रवन्धवृत्त्या, न यस्य पर्यायाभणामिवोच्छेदः, पर्याया एव हि पर्यायरूपेण निरुध्यन्ते न तु द्रव्यमिति, तदप्ययुक्तम् , अस्या अपि नित्यताया द्रव्ये असंभवात् , पर्यायव्यतिरिक्तस्य द्रव्यस्यैवासिद्धेः, तस्योपलब्धिलक्षणप्राप्तस्य तद्विवेकेनानुपलक्षणादिति” । तदसमीचीनम् , पर्यायव्यतिरिक्तस्य द्रव्यस्यानुपलक्षणासिद्धेः । तथाहि-अन्वयिरूपमिह द्रव्यमुच्यते, तच्चान्वयिरूपं मृल्ल क्षणं प्रत्यक्षत एव सकलमृत्पिण्डशिवकस्थासकोशकुशूलघटकपालादिरूपाखवस्थाखनुभूयते, न च वाच्यमन्यैव मृत्पिकण्डादिरूपा मृत् आसीत् , अन्यैव चेयमुपलभ्यमाना घटादिमृदिति, सतः सर्वथाविनाशायोगात्, तथादर्शनाभावात्। न च प्रदीपादिना व्यभिचारस्तत्रापि तमःप्रभृतिविकारदर्शनात् , तथा अत्यन्तासत उत्पादायोगात् , खरविषाणस्याप्युत्पत्तिप्रसङ्गात् । अथोच्येत विवक्षितं कारणं विवक्षितकार्यजननखभावमेव न तु खरविषाणजननखभावमपि, तत्कथं तस्याप्युत्पत्तिप्रसङ्ग इति, तदप्ययुक्तम् , कार्यकाले कारणस्य निरन्वयविनष्टतया तदव्यतिरिक्तस्य तजननखभावेनो-17 भयत्रापि विशेषाभावात् । तन्न पिण्डमृदः सर्वथा अन्यैव घटमृदित्यनुयायिनी मृत्, ततः पर्यायव्यतिरिक्तस्य द्रव्य-18 स्योपलब्धिलक्षणप्राप्तस्यानुपलक्षणमसिद्धमितिस्थितम् । एवं च सति यदवादीत्-“पर्यायेष्वेव तुल्यरूपकार्यकर्तृषु द्रव्याभिमानो मन्दमतीनां न पुनस्तत्त्वतो विलक्षणमुपलक्ष्यते इति" तत्तस्यैव मन्दमतितासूचकम् , उक्तवत्तदनुपल ACCOCCAMERCESSOCIROO RRRRR550%AR ॥१४॥ Jain Education Intematon For Private & Personel Use Only Page #303 -------------------------------------------------------------------------- ________________ म्भासिद्धेः । योऽपि च प्राक्कार्यभेदो दर्शितो, यथा-“घटेनोदकाहरणं क्रियते रूपादिभिस्तु वस्तुराग इति" सोऽपि | परसिद्धान्तात्यन्तानभिज्ञतासूचको, न ह्येवमार्हतैर्द्रव्यपर्याययोः कार्यभेदोऽभ्युपगम्यते, घटस्य उत्कलितरूपादिगुणानां सच तत्परमाणूनां प्रत्येक द्रव्यपर्यायस्वभावतया उभयरूपस्यैव वस्तुनः उदकाहरणवस्तुरागादिक्रियासु प्रवृत्तेः, किंतु संवेदनादिलक्षणः, स च प्रतिप्राण्यनुभवसिद्धत्वादप्रतिक्षेपार्हः, तथाहि-देशान्तरे कालान्तरे नरान्तरे अवस्थान्तरे च मृत्पिण्डशिवकस्थासकोशकुशूलघटकपालादिष्वविशेषेण सर्वत्रानुवृत्तस्य मृदन्वयस्य संवेदनमनुभूयते, प्रतिभेदव्यवस्थितपर्यायव्यावृत्तिसंवेदनं च । न चेदमसिद्धं, यतो न यथाप्रतिभासं मृत्पिण्डसंवेदनं तथाप्रतिभासमेव शिवकसंवेदनम् , आकारभेदानुभवात् । न च यथाप्रतिभासभेदमेव तद्विजातीयेषु दहनपवनवनस्पत्यादिषु तथाप्रतिभासभेदमेव मृत्पिण्डशिवकादिपु, मृद्रूपान्वयानुभवादिति कृतं प्रसङ्गेन । तदेवं जात्यन्तरात्मकभेदाभेदपक्षः सकलदोपविनिर्मुक्तत्वात्सद्वादो न केवलभेदाभेदवादाविति स्थितम् ॥ ३४१॥ अत्र परश्चचोदयिपुरिदमाह धम्मम्मि नियत्तते जइ णो दवं नियत्तई भेओ। अह उ णियत्तइ एवं तओ अभेउत्ति कहमुभयं ? ॥ ३४२ ॥ ननु पर्यायनिवृत्तौ द्रव्यं निवर्त्तते न वा ?, तत्र यदि धर्म-पर्याये निवर्तमाने द्रव्यं न निवर्त्तते इति पक्षस्तर्हि AMACHCRECARDAS+CCESSAGE Jain Education in For Private & Personel Use Only O ww.jainelibrary.org Page #304 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः ॥१५॥ द्रव्यपर्याययोर्भेदप्रसङ्गः । तथाहि-यस्मिन् निवर्तमानेऽपि यन्न निवर्तते तत्ततो भिन्नं, यथा घटात्पटः, न निवर्तते च पर्याय निवर्तमानेऽपि द्रव्यमिति व्यापकविरुद्धोपलब्धिः । अभेदो हि तुल्ययोगक्षेमतया व्याप्तः, अन्यथा तद्यवस्थाविलोपप्रसङ्गातू, तद्विरुद्धं चेदमेकतरनिवृत्तावन्यानिवर्तनमिति । अथ निवर्तत इति पक्षः ? एवं तर्हि ततो द्रव्यात्पर्यायस्याभेद एव प्राप्नोति, तुल्ययोगक्षेमत्वात् इति । तस्मात्कथं द्रव्यपर्याययोरुभयं भेदाभेदलक्षणं भवति, उक्तवदे कान्तेन भेदस्साभेदस्य वायुज्यमानत्वादिति ॥ ३४२ ॥ अत्राह उभयं अणुहवसिद्धं भणियमिणं अणुहवोऽवि कह तम्मि ? । लघइं वियप्पजुयलंति हंत तो सो तदाभासो ॥ ३४३ ॥ मोत्तृणमणुभवं किं पमाणभावो वियप्पजुयलस्स ? । तदणहवस्सवि एवं अपमाणत्तम्मि किं तेण ? ॥३४४॥ Smammam OneSCHOL-KARMACANCIENCENG ॥१५॥ १ अस्या मूलगाथाया वृत्तिन दृश्यते, छाया त्वियम्--उभयमनुभवसिद्धं भणितमिदमनुभवोऽपि कथं तस्मिन् ? । लङ्घते विकल्पयुगलमिति हन्त ततः स तदाभासः॥ ३४३ ।। Jain Education Intel For Private & Personel Use Only Page #305 -------------------------------------------------------------------------- ________________ ननु विकल्पयुगलस्यापि भवदुक्तस्यानुभवं मुक्त्वा किमन्यत् प्रमाणभावः प्रामाण्यं ?, नैव किंचित् , किंतु स एवा-18 नुभव इति भावः, स चानुभवो भवतोऽप्रमाणम्, ततश्च तदनुभवस्यापि-भवदुक्तविकल्पयुगलानुभवस्यापि एवं भेदाभेदानुभवस्येवाप्रमाणत्वे सति किं तेन-विकल्पयुगलकेनोपन्यस्तेन?,अप्रमाणस्य साधकबाधकभावानुपपत्तेः॥३४४॥ तहवि य पमाणभावो जइ तस्सितरस्स णेति का जुत्ती ? । अह उ अवाहियबोधत्तणं न इयरेण बाधातो ॥३४५॥ तथापि-अनुभवरूपत्वाविशेषेऽपि यदि तस्य-भवदुक्तविकल्पयुगलानुभवस्य प्रमाणभावो नत्वितरस्य-भेदाभेदोभयानुभवस्य तर्हि 'इति' एवं कल्पनायां का युक्तिः१, नैव काचित् , किंत्विदं वचनमात्रमेवेतिभावः। अथोच्येत अवाधितबोधत्वमेव युक्तिः, तथाहि-न विकल्पयुगलानुभवसंबन्धी बोधः-परिच्छेदः केनाप्यपाकर्तुं शक्यते, तस्मादसौ प्रमाणमेव । एतत् प्रतिषेधति-'नेति' यदेतदुक्तं तन्न । कुत इत्याह-इतरेण-भेदानुभवेन तस्य विकल्पयुगलानुभवस्य बाधातः-बाध्यमानत्वात् ॥ ३४५॥ तस्स तु ण तेण बाधा तदभावे तस्स चेवऽभावाओ। एगंतनिच्चऽनिच्चम्मि भाविओ चेव सो किंच ॥ ३४६ ॥ धर्म. २६४ ANSLCCCCCCUSACADERX SCSCALCONCANCIES- 4 Jain Education Inter For Private & Personel Use Only 57 Tww.jainelibrary.org Page #306 -------------------------------------------------------------------------- ________________ धर्म॥ १५१ ॥ तस्य पुनर्भेदाभेदानुभवस्य न तेन - विकल्पयुगलानुभवेन वाधा । कुत इत्याह- तदभावे - द्रव्यपर्याययोः केवलभेदाभेदनिरासेन जात्यन्तरात्मकभेदाभेदाभावे तस्य-विकल्पयुगलानुभवस्याभावात् । तथाहि अयं विकल्पयुगलानुभवः प्रदीघनुस्यूतरूपोऽनुभूयते तच्च प्रदीर्घानुस्यूतरूपत्वं न तस्यैव तथापरिणमनमन्तरेणोपपद्यते, तथापरिणामाभ्युपगमे च द्रव्यपर्याययोर्भेदाभेद एव, अन्यथा परिणामायोगात्, ततो द्रव्यपर्याय भेदाभेदानभ्युपगमे तस्यैव प्रदीर्घानुस्यूतरूपविकल्पयुगलानुभवस्याभावो भवति । ननु कथमेष प्रदीर्घानुस्यूतरूपो विकल्पयुगलानुभवो न तस्यैव तथापरिणमनमन्त| रेणोपपद्यते येन द्रव्यपर्याययोर्भेदाभेदानभ्युपगमे तस्यैवाभावः स्यादित्यत आह- 'एगंतेत्यादि' सः - प्रदीर्घानुस्यूतरूपविकल्पयुगलानुभवाभावः प्रागेव एकान्तनित्यपक्षे 'एवं अणुहवसिद्धो घडपडसंवेदणादिभेदोवि' इत्यादिना ग्रन्थेन, एकान्तानित्यपक्षे च 'णणु सो विणस्सरोचिय" इत्यादिना भावित एवेति नेह पुनर्भाव्यते तन्न भेदाभेदानुभवस्य तेन विकल्पयुगलानुभवेन बाधा, तथा च सत्यसाववाधितबोधत्वात्प्रमाणं प्रमाणत्वाच्च तत्सिद्धो भेदाभेदः सुसिद्ध | इति । यत्पुनरुक्तं - ' यस्मिन्निवर्त्तमाने यन्न निवर्त्तते तत्ततो भिन्नमित्यादि, तदप्ययुक्तम्, तुल्ययोगक्षेमताया अभेदव्यापकत्वासिद्धेः, तस्यास्तन्निबन्धनत्वाभावात् तद्धितस्य व्यापकं यदन्वयव्यतिरेकौ यदनुकरोति, न चाभेदस्तुल्ययोगक्षेमताया अन्वयं व्यतिरेकं वाऽनुकरोति, व्यभिचारदर्शनात्, तथाहि - यथा विवक्षिते क्षणे घटक्षण उत्पद्यते तथा कश्चित्पटक्षणोऽपि यथा च तदुत्तरे क्षणे घटक्षणो निवर्त्तते तथा सोऽपि पटक्षणः, न चैवं तुल्ययोगक्षेमतायामपि संग्रहणि ॥ १५१ ॥ Page #307 -------------------------------------------------------------------------- ________________ Jain Education Inte तयोरभेद इति नासावभेदनिबन्धनम्, संतानापेक्षया तुल्ययोगक्षेमता अभेदनिबन्धनं न क्षणापेक्षयेति चेत्, तदप्यसा-रम्, तत्रापि तस्यास्तन्निबन्धनत्वासिद्धेर्व्यतिरेकाभावात्, तथाहि - ज्ञानसंताने घटमवलोकयतो घटसारूप्यमुत्पद्यते, पटमवलोकयतश्च तन्निवर्त्तते पटसारूप्यमुत्पद्यते, अथ चेत्थं तुल्ययोगक्षेमत्वाभावेऽपि ज्ञानसंतानघटसारूप्ययोरभेदोऽस्ति, तन्न क्षणापेक्षया संतानापेक्षया वा अभेदस्तुल्ययोगक्षेमतानिबन्धन इति न सा व्यावर्त्तमाना अभेदं व्यावर्त्तयितुमीष्टे, तस्यास्तं प्रति व्यापकत्वायोगात् । यदि नाभेदस्तुल्ययोगक्षेमतानिबन्धनस्तर्हि किंनिबन्धन इति चेत् | उच्यते - अन्योऽन्यानुवेधनिबन्धनः, न चात्रातिप्रसङ्गादिदोपसंभवः, तथाऽनुपलम्भात्, स चान्योऽन्यानुवेधो द्रव्यपर्याययोरप्यस्तीति नाभेदक्षितिः, द्वितीयपक्षस्त्वनभ्युपगमादेव न नः क्षितिमावहति ॥ ३४६ ॥ संप्रति प्रकारान्तरेण | भेदाभेदपक्षे दोषाभावमभ्युच्चेतुमाह-किंच धम्मे नियत्तमाणे नियत्तए इह कहंचि दव्वंपि । तमय अणियत्तंते ण णियत्तति सबहा सोऽवि ॥ ३४७ ॥ किंचेत्यभ्युच्चये । धर्मे पर्याये निवर्त्तमाने द्रव्यमपि कथंचित्तत्संबन्धिरूपतया निवर्त्तत एव तस्मिंश्च द्रव्ये अनिवर्त्तमाने सोऽपि - धर्मः पर्यायः सर्वथा -- निरन्वयतया न निवर्त्तते, तस्याप्यन्ययमात्रस्य द्रव्याभेदिरूपतया अनुवर्त्तमान ww.jainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ धमे स्योपलभ्यमानत्वात्। तथा च लोको घटकपालानि दृष्ट्वा तदन्वयमात्रमनुभूय 'घटस्थामूनि कपालानि न शरावादीना | संग्रहणिः . मिति' विवेचयति,ततश्च न निवर्त्तते च पर्याये निवर्तमानेऽपि द्रव्यमित्यसिद्ध एव हेतुः,तथा पर्याय निवर्तमाने निवर्तत ॥१५२॥ 18 एव द्रव्यमित्यपीति। यदपि चोच्यते-"न विनाशोऽनुवृत्तिश्च, व्यावृत्तिर्नाश उच्यते। द्रव्यविनाशे पर्याया, नाशिनः किं दातदात्मकाः १॥१॥ नष्टाः पर्यायरूपेण, ते चेत् द्रव्यस्वभावतः। किमन्यरूपता तेषां,न चेन्नाशस्तदा कथ ॥२॥ मिति"g तदप्येतेन निरस्तं द्रष्टव्यम्, द्रव्यस्यापि कथञ्चिन्निवृत्तः पर्यायस्यापि च कथंचिदनुवृत्तेरिति ॥ ३४७ ॥ द्रव्यपर्याययोः कथंचिनिवृत्त्यनिवृत्ती एव भावयन्नाह दीसइ पच्चक्खं चिय एवं वक्कम्मि उजुए होते। अंगुलिदवम्मि परं भावेतवं इहेक्केणं ॥ ३४८॥ 'दृश्यते' समुपलभ्यते प्रत्यक्षमेव 'एतत्' कथंचित् द्रव्यनिवृत्त्यादि । केत्याह-चक्रे अङ्गुलिद्रव्ये ऋग्वीभवति सति, परं दृश्यमानमपि यावन्न सूक्ष्मबुध्ध्या पर्यालोच्यते तावन्न बुध्यते, तत 'इह' विचारप्रक्रमे 'ऐक्येन' एकाग्रतया अनन्य-1 मनस्कतयेत्यर्थः, भावयितव्यम् ॥ ३४८ ॥ तामेव भावनामाह ॥१५२॥ वक्त्तमंगुलीओ कहंचि अभिन्नति तीऍ जोगाओ। Jain Education in For Private & Personel Use Only A ww.jainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ COMCOLOGROCESSAROSCAUCROCOCOM भिन्नपि अवत्थंतरभावे तत्तो नियत्तीओ ॥ ३४९ ॥ इह द्रव्यपर्याययोः कथंचिन्निवृत्त्यनिवृत्ती भेदाभेदनिवन्धने इति तावेवेहोपपादयति-वक्रत्वमङ्गुलिद्रव्यात्सकाशात्कथंचिदभिन्नम् , कुत ? इत्याह-तया-अङ्गुल्या सह योगात्-संबन्धात् , अन्यथा तत्तस्या इति संबन्धो न स्यात् । भिन्नमपि च तत्कथंचित् , कुत इत्याह-अवस्थान्तरे ततोऽङ्गुलेः सकाशात्तस्य निवृत्तेः ॥३४९॥ तदेवं वक्रत्वमङ्गुले[भिन्नाऽभिन्नं प्रसाध्याङ्गुलिद्रव्यस्यान्वयमाह तं चिय कहंचऽवत्थंतरेवि तं तुल्बुद्धितो हंदि । एगंतेणऽन्नत्ते भिज्जेज इमीवि तह चेव ॥ ३५० ॥ तद्-अङ्गलिद्रव्यमवस्थान्तरेऽपि-ऋजुत्वादिलक्षणे प्रादुर्भवति कथंचित्तदेव यत् प्रागवस्थायामासीत् । कुत इत्याहतुल्यबुद्धितः । 'हंदीति' परामन्त्रणे । विपक्षे बाधामाह-एगेत्यादि' एकान्तेन अङ्गलेरवस्थान्तरप्रादुर्भावेऽन्यत्वे सति तथा चैव-अङ्गुलिरिव इयमपि तद्विषया बुद्धिर्विभिद्येत, न च विभिद्यते, तस्मादवस्थान्तरेऽपि तत् अङ्गुलिद्रव्यं कथंचित्तदेव ॥ ३५० ।। अत्र पर आह भिन्नच्चिय अवियप्पा एगंतेणेव एस तु विगप्पो । OCTOCTENCACCOCOCCA0AMACROG Jain Education Intern For Private & Personel Use Only jainelibrary.org Page #310 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि: ॥१५३॥ KAR तुल्लत्ति अप्पमाणं गिहीतगहणादिदोसाओ ॥ ३५१ ॥ ननु यदुक्तम्-एकान्तेनाङ्गलेरन्यत्वे सति इयमपि तद्विषया वुद्धिर्विभिद्यतेति तदस्त्येव,यतोऽ(वि)कल्पिका बुद्धिस्तद्विपया एकान्तेन भिन्नैवोपजायते, सैव च नः प्रमाणं, यस्त्वेष इयमङ्गुलिस्तुल्येति विकल्पः प्रवर्तते सोऽप्रमाणं, गृहीतग्रहणादिदोषात् , आदिशब्दात् निर्विषयत्वपरिग्रहः । ततः कथमुच्यते ?-तदेवाङ्गुलिद्रव्यमवस्थान्तरेऽपीति ॥३५१ ॥ अत्राचार्यः प्राह न हु ता गिहीतगाही तस्साभावा तदाऽविसयतो उ। अज्झारोवेणवि णो गेण्हइ तं तम्मि तदभावा ॥ ३५२ ॥ हु' शब्दोऽवधारणे । नहु-नैव तावदसौ विकल्पो गृहीतग्राही येनास्याऽप्रामाण्यं स्यात् । कुत इत्याह-तदाविकल्पकाले तस्य-निर्विकल्पगृहीतवस्तुनः क्षणिकत्वेनाभावात् , तथा अविपयतश्च-विकल्पं प्रति तस्याविषयभावतश्च, न हि विकल्पस्य बाह्यं वस्तु विषयोऽभ्युपगम्यते । स्यादेतत् , अतद्रूपेऽपि वप्रतिभासे तेन विकल्पेन खलक्षणरूपमविकल्पकज्ञानपरिच्छिन्नमध्यारोप्यते, ततो गृहीतग्राही न परमार्थत इत्यत आह-अध्यारोपेणापि न तं-निर्विकल्पकज्ञानगृहीतमर्थ गृह्णाति ।कुत ? इत्याह-तस्मिन-विकल्पज्ञाने सति तदभावात्' तस्य-निर्विकल्पकज्ञानगृहीत MERCELCASA Jain Education in For Private & Personel Use Only Page #311 -------------------------------------------------------------------------- ________________ स्यार्थस्याभावात् । एतदुक्तं भवति-यदि वाह्योऽर्थस्तेन दृष्टः स्यात् तदा खात्मनि तदध्यारोपः क्रियेत, अदृष्टस्याध्यारोपयितुमशक्यत्वात् , अन्यथा पष्टस्कन्धस्यापि अध्यारोपप्रसक्तेः, यावता न बाह्योऽर्थस्तेन दृष्टः, तत्काले तस्याभावात्, तदविषयत्वाच, तत्कथं तेन खात्मनि तदध्यारोपः क्रियत इति । अथोच्येत-मा भूत्तदानीं वाह्योऽर्थस्तथापि तमर्थ निर्विकल्पकज्ञानप्रतिविम्बितं दृष्ट्वा खात्मन्यध्यारोपयिष्यति, ततश्चैवमपि तस्य गृहीतग्राहित्वमेवेति ॥ ३५२ ॥ तदप्ययुक्तम् , यत आह अत्तुल्लं अविगप्पं न य दिटुं भावतो जओ तंपि । ता कहमज्झारोवो नियमेणऽन्नस्स किं नेवं ? ॥ ३५३ ॥ यतो-यस्मात्तदपि-अविकल्पकं ज्ञानमतुल्यम्-अतुल्यार्थविषयम् , अनेन परस्याध्यारोपनिमित्तं दर्शयति । परो हि निर्विकल्पकारूढोऽर्थोऽसाधारणोऽर्थक्रियासमर्थो विकल्पेन दृष्ट्वा खात्मन्यध्यारोप्यत इति मन्यते, नच-नैव भावतःपरमार्थेन दृष्टं, तदनन्तरं तस्योत्पादात् , 'ता' तस्मात्कथं नियमेन तस्यैव विवक्षितस्यार्थस्याविकल्पज्ञानद्वारेणाप्यध्यारोपो युक्तो ?, नैवासौ युक्त इतिभावः, तत्काले तस्याभावतस्तेन तस्यादर्शनात् , यावता अन्यस्यापि विकल्पाननुभूतस्यार्थस्य एवम्-उक्तनीत्या किं नाध्यारोपो भवति ?, विशेषाभावात् ॥ ३५३ ॥ पर आह 950-5205 ॐ4% Jain Education in For Private & Personel Use Only Colww.jainelibrary.org Page #312 -------------------------------------------------------------------------- ________________ संकारविसेसातो सबमिणं हंदि तम्मिवि समाणं । जं सोवि लक्खणं वा होज वियप्पो व? किं अन्नं ॥३५४॥ संग्रहणि ॥१५४॥ GOROSCAMERASACSCAMERMS संस्कारविशेषात-खलक्षणानुभवाहितात् तेन विकल्पेन तदेव विवक्षितं खलक्षणं निर्विकल्पेनानुभूतं खात्मन्यध्यारोप्यते न यत् किमपि तेनायमदोष इति चेत् ? अत्राह-'सबमित्यादि' 'हंदि तस्मिन्नपि-संस्कारे सर्व इदम्-अनन्तरोक्तं प्रतिनियतार्थसमारोपाऽघटनं समानम् । कुत ? इत्याह-यत्-यस्मात्सोऽपि-संस्कारः खलक्षणं वा भवेत् निर्विकल्पविज्ञानमित्यर्थः, विकल्पो वा?, अन्यथा किमन्यत्ताभ्यां भवेत् ?, नैव किंचिदितिभावः ज्ञानरूपस्य सतोगत्यन्तरा भावात् । तत्र चोक्तो दोषः, तथाहि-यदि खलक्षणं ततः कथं तत्प्रतिभासिनमर्थ विकल्पः स्वात्मनि अध्यारोपयेत् ?, ४ तत्काले तस्याभावात् ?, तस्य तदविषयत्वाच । अथ विकल्पः ततः कथं सोऽपि तदर्थाध्यारोपयुक्त इति ॥ ३५४ ॥ पुनरप्यत्रैवाभ्युच्चये दूषणमाह किंचोवादाणं से ? तं चिय जइ वत्थुणो कहमवत्थु ? । तं पि हु कहं चि वत्थु तो णावत्थू विरोहो वा ॥ ३५५ ॥ ॥१५४॥ Jain Education Intel For Private Personel Use Only N oww.jainelibrary.org Page #313 -------------------------------------------------------------------------- ________________ ___चोऽत्राधिक्षेपसूचने। किमुपादानम्-उपादानकारणं से' तस्य विकल्पस्य स्यादिति वाच्यम् ?, किमत्र वक्तव्यं ?,तदेव निर्विकल्पं ज्ञानं तस्योपादानमिति चेत् ? । अत्राह-तदेव निर्विकल्पकं यदि उपादानमिष्यते ततः कथं वस्तुनः-खलक्षणरूपानिर्विकल्पकादवस्तु-अवस्तुरूपमिदं विकल्पज्ञानमुपजायते ?,अवस्तुता चास्य द्रष्टव्या,तत्कल्पनस्याऽवस्तुत्वात् ,18 तस्य च तदव्यतिरिक्तत्वात् । अथोच्येत-तदपि विकल्पज्ञानं कथंचित्खसंवित्त्यपेक्षया वस्त्विष्यते । अत्राह-'तो' ततो नावस्तु, किन्तु वस्त्वेव, खसंवित्त्यतिरिक्तस्य रूपान्तरस्साभावात् । दूषणान्तरमाह-विरोधो वा, तथाहि-यदि वस्तु। कथमवस्तु ? अवस्तु चेत् कथं वस्तु ?,वस्तुत्वावस्तुत्वयोः परस्परपरिहारेणावस्थानात्। तदेवं विकल्पः पराभ्युपगमपर्यालोचनया न गृहीतग्राही युज्यत इति व्यवस्थापितम् ॥ ३५५ ॥ सांप्रतमादिशब्दाक्षिप्त निविषयत्वं दूषयितुमाशङ्कमान आह अह सो निविसओ चिय ण पयदृइ किमिह छट्ठखंधेवि । तदंसणुत्तरद्धं च किं ततो तप्पवित्ती य ? ॥ ३५६ ॥ अथ स-विकल्पको निर्विषय एव "विकल्पोऽवस्तुनिर्भासा-"दित्यादिवचनात् अतोऽप्रमाणमिति। यद्येवं ततः। किमिह रूपादिस्कन्धपञ्चकव्यतिरिक्त षष्ठे स्कन्धे स विकल्पो न प्रवर्तते ?, उभयत्रापि निर्विषयत्वाविशेषात् । Jain Education Inted For Private & Personel Use Only Marw.jainelibrary.org Page #314 -------------------------------------------------------------------------- ________________ S धर्म संग्रहणि 15अन्यच्च. तहर्शनोत्तरकालं-विवक्षितार्थनिर्विकल्पदर्शनोत्तरकालं किमिति ततो-विकल्पात्तस्मिन्नियतेऽर्थे प्रवृत्ति- भवति ?, नैयासौ भवितुमर्हतीतिभावः ॥ ३५६ ॥ कुत ? इत्याह॥१५५॥ जह अन्नमविसओ से इय तंपि ण जुज्जती ततो नियमा। तत्तो तम्मि पवित्ती संपत्ती चेव तेणेव ॥ ३५७ ॥ यतो यथा अन्यत्-विवक्षितादितरत् 'से' तस्य विकल्पस्याविषय इति तस्मिन् प्रवृत्तिन युज्यते, इतिः-एवं मतदपि-विवक्षितं वस्तु तस्याविषयस्ततो नियमाद्-अवश्यंतया तस्मिन्-विकल्प्यमाने अर्थे ततो-विकल्पान्न प्रवृत्तियुज्यते, नापि तेन-विकल्पज्ञानेन प्रवर्तितस्य सतो नियमेन तदर्थसंप्राप्तिर्यथा संशयेन प्रवर्तितस्य, अथ च दृश्यते विकल्पानियमेन प्रवृत्तिस्तदर्थप्राप्तिश्च तस्मान्नासौ निर्विषयः ॥ ३५७ ॥ अत्र पराभिप्रायमाशङ्कमान आह अह सो तप्पडिबद्धो वत्थावत्थूण को णु पडिबंधो ? । सो वि हु कहंचि वत्थु तो नावत्थु विरोहो वा ॥ ३५८॥ अथ स-विकल्पः परंपरया तस्मिन्-वस्तुनि प्रतिबद्धः, तथाहि-तेन वस्तुना निर्विकल्पकं जन्यते तेन चायं CRICOREGAR CORNSRCCCCC ॥१५५॥ 4-58 Jain Education Intel For Private & Personel Use Only P w .jainelibrary.org Page #315 -------------------------------------------------------------------------- ________________ Jain Education Int विकल्प इति, तेन निर्विषयत्वेऽपि ततो नियमेन प्रवृत्त्याद्युपपद्यते इति मन्येथाः । अत्राह - वस्त्ववस्तुनोः को नु प्रतिबन्धो ?, नैव कश्चित् संबन्धस्य वस्तुरूपोभयनिष्टत्वात् नहि घटस्य खरविषाणेन सह कश्चित् संबन्धोऽस्तीति, | अवस्तु चासौ विकल्पस्तदव्यतिरिक्तस्य प्रतिभासस्यावस्तुत्वेनाभ्युपगमात् । सोऽपि विकल्पः कथंचित् स्वसंवित्यपेक्षया वस्तु इष्यते, तेनायमदोष इति चेत् । अत्राह - 'तो' ततो नावस्तु, स्वसंवित्त्यतिरेकेण तस्य रूपान्तराभावात् । दूषणान्तरमाह - विरोधो वा वस्तुत्वावस्तुत्वयोः परस्परपरिहारेण व्यवस्थितयोरेकत्रासंभवात् ॥ ३५८ ॥ उपसंहारमाह तम्हा अवग्गहादी कहंचि भिन्नत्थगाहगा णेया । अणुहव संधाणेणं एवं ववहारसिद्धीओ ॥ ३५९ ॥ यत एवं तस्मात् पूर्वपूर्वानुभवसंधानेन प्रवर्त्तमाना एते अवग्रहादयो ज्ञानविशेषाः कथंचित् गृह्यमाणार्थोत्तरविशेषापेक्षया भिन्नार्थग्राहका ज्ञेयाः, न पुनर्गृहीतग्राहिणो नापि निर्विषयाः । कुत ? इत्याह-एवं व्यवहारसिद्धितो (तः) एवं पूर्वपूर्वानुभवसंधानेन कथंचित्तदर्थोत्तरोत्तरधर्मापेक्षया भिन्नार्थग्राहकत्वेन व्यवहारस्य - प्रवृत्त्यादिलक्षणस्य सिद्धे१ धर्मोपेक्षयेति कपुस्तके | w Page #316 -------------------------------------------------------------------------- ________________ संग्रहणि. धर्म- ॥१५॥ नान्यथा, तथा च ते प्रमाणम् , ततश्च यतोऽपायरूपेण विकल्पेनाङ्गुलिद्रव्यस्य तुल्यता गृह्यते तस्मादयस्थान्तरेऽपि तदेवाङ्गुलिद्रव्यमिति स्थितम् । अवग्रहादिखरूपं च सम्यग्ज्ञाननिरूपणाप्रस्तावे दर्शयिष्यते ॥ ३५९ ॥ पर आह एवंपि किंचि नियमा णियत्तती तस्स ण पुण अन्नंति । एतेसि कहमभेदो उभयनिवित्तीए वाऽणुगमो ? ॥ ३६० ॥ 'एवमपि' कथंचित् द्रव्यपर्याययोनिवृत्त्यनिवृत्तिभावेऽपि किंचित् रूपं तस्य-वस्तुनः संवन्धि नियमान्निवर्त्तत एव, अन्यत् पुनव,अन्यथैकान्तनित्यत्वानित्यत्वापत्तेः,तत एतयोः-निवर्तमानाऽनिवर्तमानयो रूपयोः कथमभेदो?,नैवाभेद इति भावः, भिन्नस्वभावत्वात् । यदि पुनरभेदाभावभयादनिवर्तमानमपि रूपं तस्य निवर्तमानमिष्यते तत उभय स्यापि निवृत्तौ कथमनुगमो भवेत् ?, नैव कथंचनापि, अनुवर्तमानरूपाभावात् । उपलक्षणत्वात् यद्यभेदहानिभहै यान्न किमपि रूपं निवर्तमानमिष्यते तदा कथं व्यतिरेक ? इत्यपि द्रष्टव्यम् ॥ ३६० ॥ तस्स नियत्तति जम्हा अतो न भेदोत्ति सवहा मूढ !। सति तम्मि कोऽणुजोगो? तस्सत्ति अइप्पसंगो य ॥ ३६१ ॥ NACOCOM ॥१५६॥ in Education Intematona For Private & Personel Use Only Page #317 -------------------------------------------------------------------------- ________________ तस्यानिवर्तमानस्य रूपस्य संबन्धि यस्मादपरं रूपं निवर्तते ततस्तस्मान्न मूढ ! सूक्ष्मार्थविचारणानिपुणशेमुषीविकल! निवर्तमानेन रूपेण सहानिवर्तमानस्य रूपस्य सर्वथा भेदः, तस्येति व्यपदेशो हि संवन्धनिबन्धनः, संबन्धश्चेह। तादात्म्यं, तादात्म्यं च कथंचिदभेदनिबन्धनमिति, यदि पुनः सर्वथा भेदः स्यात् ततस्तस्मिन् भेदे सति कोऽनुयोगःसंबन्धस्तस्य निवर्तमानस्य रूपस्यानिवर्तमानेन रूपेण सह ?, नैव कश्चित् । तथाहि-भेदाश्रयणान्न तादात्म्यं, जन्यजनकभावाभावाच न तदुत्पत्तिः, संबन्धाभावे च कथं तस्येति व्यपदेशप्रवृत्तिरिति । अथ संबन्धाभावेऽपि तस्य तदिति व्यपदिश्यते तद्यतिप्रसङ्गः, तथा सति हि यत्किंचित् यस्य कस्य वा संवन्धीति व्यपदेशार्ह स्यात्, तथा चाह-"अइप्पसङ्गो यत्ति" ॥ ३६१ ॥ अत्र पर आह जइ तस्स कह नियत्तति ? कहंचि जं तस्स तो ण दोसोऽयं । मोत्तृणमभिनिवेसं संवेदणमो न चिंतेसि ? ॥ ३६२ ॥ यदि तनिवर्तमानं रूपं तस्यानिवर्तमानस्य संबन्धीष्यते ततस्तस्मिन् अनिवर्तमाने कथं तत् निवर्तते ?, नैव निवर्तेतेतिभावः, तत्संबन्धित्वेन तत्वरूपवत्तस्य निवृत्त्यनुपपत्तेरिति । आचार्य आह-कथंचित् भेदगर्भान्योऽन्यानुवेधेन यत्-यस्मात्तत् निवर्तमानं रूपं तस्य-अनिवर्तमानस्य संबन्धि, न तु तत्वरूपवत् सर्वथैक्येन, 'तो' ततो न कश्चिदयम् COCRACCOCOCCOLIC-SSCR-RH धर्म.२७ Jain Education a l For Private & Personel Use Only Page #318 -------------------------------------------------------------------------- ________________ धर्म ॥ १५७॥ | अनन्तरोक्तो दोषः । एतच प्रत्यक्षसिद्धमनेकधोच्यमानमपि यद्दोषवशान्नावबुध्यते तमपाकर्तुं परं शिक्षयन्नाह - ' मोत्तूणेत्यादि' मुक्त्वा अभिनिवेशं खदर्शन विषयक दाग्रहलक्षणं किन्न संवेदनं यथा वस्तुविषये प्रवर्त्तते तथा चिन्तयसि ? येनेत्थं पुनः पुनरस्मान्नायासयसि । तदेवं यस्मात् द्रव्यपर्याययोर्भेदस्तस्माद्वालाद्यवस्थाभेददर्शनादात्मा परिणामीति स्थितम् ॥ ३६२ ॥ स्यादेतद् - वालाद्यवस्थाभेदः शरीरस्य न त्वात्मनः, तत्कथं तद्दर्शनादात्मनः परिणामित्वमापाद्यते | इति ? । उच्यते - शरीरात्मनोः कथंचिदभेदात् । तदुक्तम्- " अण्णोण्णाणुगयाणं इमं च तं चत्ति विभयणमजुत्तं । जह खीरपाणियाणमित्यादि" । Jain Education Internatide अमुमेवाभेदं व्यतिरेकमुखेनाह - णय देहागंण एस अन्नो उवग्गहे तस्स । सुहजोगा मुत्तस्स व न सिया एसो उ अन्नत्ते ॥ ३६३ ॥ न च देहादेकान्तेन एप - आत्मा भिन्नः, किंतु कथंचित् । कुत ? इत्याह- 'उवग्गहे तस्स सुहजोगा' तस्य - शरीरस्य उप-सामीप्येन क्षीरनीरवत् ग्रहे-संबन्धे सति सुखयोगात्, उपलक्षणमेतत्, सुखदुःखघटनात् । अथवा, तस्य - शरी १ अन्योन्यानुगतयोरिमं च तच्चेति विभजनमयुक्तम् । यथा क्षीरपानीययोः । संग्रहणिः. ॥१५७॥ Page #319 -------------------------------------------------------------------------- ________________ Jain Education Inter | रस्योपग्रहे- स्रक्कन्दनादिभिरनुग्रहे सुखयोगात्, उपलक्षणमेतत् विषशस्त्रादिभिरुपघाते दुःखयोगदर्शनात् । कथंचिद-भेदे हि शरीरोपग्रहादावात्मनः सुखादियोगो भवति नान्यथा । तथा चाह - 'मुत्तस्स वेत्यादि' एकान्तेन आत्मनः सकाशात् शरीरस्यान्यत्वे सति एप - शरीरोपग्रहनिमित्तमुखयोगो मुक्तस्येव न स्यात्, उभयमपि प्रत्यन्यत्वाविशेषात् । अपि च, यदि शरीरादात्मा एकान्तेन भिन्नः स्यात् ततो नात्मनः शरीरासचेष्टादिनिमित्तो बन्धः स्यात्, नहि खत एव गिरिशिखरादुपनिपतता पाषाणेन जीवघाते सति देवदत्तस्य तन्निमित्तो बन्धो भवतीति । न च वाच्यं नैवात्मनः शरीरासच्चेष्टादिनिमित्तो बन्धः, किंतु खत एव तत्करणस्वभावत्वादिति । शरीरादेकान्तेनार्थान्तरभूतस्य मुक्तानामिव निष्क्रियत्वेन तत्कर्तृत्वायोगात् । अथ मा भूदेष दोष इति नैवात्मा कर्मणां कर्त्तव्यते किंतु प्रकृतिः, आत्मा तु केवलं तेषां भोक्तेति । तदप्ययुक्तम्, एवमन्यकृतकर्मान्यतत्फलभोगाभ्युपगमे देवदत्तकृतस्यापि कर्मणो जिनदत्तस्य फलोपभोगापत्तेः । अन्यच्च प्रकृतिरचेतना ततः कथं सा घटवत् अध्यवसायशून्यत्वात् कर्म्म करोति ? । | पुरुषेण प्रेरिता सती कर्म करोति न केवला ततो न कश्चिद्दोष इति चेत् । न, पुरुषस्योदासीनत्वाभ्युपगमेन प्रेरकत्वायोगात्, योगे वा अप्रच्युतानुत्पन्न स्थिरैकस्वभावतया सदा तदुपरमाभावप्रसङ्गतो मुक्त्यभावप्रसङ्गः । किंच - आन्तरादपि शरीरादेकान्तेनात्मनोऽन्यत्वाभ्युपगमे सति फलोपभोगोऽपि बुद्धिप्रतिविम्वोदयरूपो व्यावर्ण्यमानो नोपपद्येत, तस्यैकान्तेनामूर्त्तस्याकाशस्येव प्रतिविम्बासंभवात् । तस्मान्न शरीरादयमात्मा सर्वथा भिन्नः, किंतु कथंचित्, ततश्च Page #320 -------------------------------------------------------------------------- ________________ धर्म ।। १५८।। Jain Education I तस्यावस्थाभेदे सत्यात्मनोऽपि कथंचिदवस्था ( भेद) संभवात्परिणामित्वम् || ३६३॥ शरीरसंबन्धाभिधानप्रस्तावानुरोधादेव चात्मनः शरीरप्रमाणतामुपपादयति णय सवगतो जीवो तणुमेत्ते लिंगदरिसणाओ तु । Raid संसरणं कह ? तेण सरीरमाणो सो ॥ ३६४ ॥ न चासौ जीवः - आत्मा सर्वगतः किंतु तनुमात्रः । कुत ? इत्याह- तनुमात्रे एव लिङ्गस्य - चैतन्यसुखादेर्दर्शनात् । तुशब्दोऽवधारणार्थे भिन्नक्रमश्थ, स च यथास्थानं योजित एव । अन्यच - तस्मिन् आत्मनि सर्वगतेऽभ्युपगम्यमाने सति कथं संसरणं नारकादिभव भ्रमणरूपमुपपद्यते ?, नैवोपपद्यत इति भावः । तेन कारणेनासावात्मा शरीरमान एव ॥ ३६४ ॥ एतदेव भावयन्नाह - आसज्ज कुंथुदेहं तत्तियमेत्तो गयम्मि गयमेत्तो । णय संजुज्जति जीवो संकोयविको दोसेहिं ॥ ३६५ ॥ आश्रित्य (आसाद्य) कुन्थुदेहमयमात्मा तावन्मात्रः - कुन्थुदेहमात्रो, गजे तु-गजदेहे तु गजमात्रः - गजदेहमात्रः । न संग्रहणिः . ॥ १५८॥ Page #321 -------------------------------------------------------------------------- ________________ CSS, CCC है च संकोचविकोचदोपैरेप जीवो युज्यते, तस्य संसारावस्थायां तथाखभावत्वतस्तयोरभ्युपगमात् । यदुक्तम्-"देहमात्रः | संसारी संकोचविकाशधर्मेत्यादि" ॥३६५॥ एतदेव दृष्टान्तेन द्रढयन्नाह जह दीवो महति घरे पलीवितो तं घरं पगासेति । अप्पप्पतरे तं तं एवं जीवो सदेहाइं॥ ३६६ ॥ यथा दीपो महति गृहे प्रदीपितः सन् तत्-महत् गृहं प्रकाशयति, अल्पाल्पतरे च तत् तत् , एवं दीप इव जीवः खदेहानि चैतन्यज्योतिषा प्रकाशयति ॥ ३६६ ॥ अत्र पर आह णणु लोगंते णाणं जायइ इह तं च जेणमायगुणो। ण य अदवा य गुणा तेण ततो सबवावित्ती ॥ ३६७ ॥ ननु इह व्यवस्थितस्य पुंसो येन कारणेन लोकान्ते ज्ञानं जायते, तच ज्ञानमात्मनो गुणः, गुणाश्चाद्रव्या-द्रव्यमन्तरेण केवला न च क्वापि वर्तन्ते, तेन कारणेन-लोकान्तज्ञानलक्षणगुणदर्शनाऽन्यथाऽनुपपत्तिलक्षणेन एवं ज्ञायते 'तउत्ति'सक आत्मा सर्वव्यापी । अथ ब्रूयादात्मदेशस्थमेव सत् ज्ञानं लोकान्तगतमपि ज्ञेयं परिच्छेत्स्यति ततो न १ एतत् इति क पुस्तकपाठः। RCM Jain Education Intel For Private & Personel Use Only AMw.jainelibrary.org Page #322 -------------------------------------------------------------------------- ________________ 55 धर्म संग्रहणिः. ॥१५९॥ सर्वव्याप्यात्मेति । तदयुक्तम् , संबन्धमन्तरेण ज्ञेयस्य परिच्छेत्तुमशक्यत्वात् , न खलु शिखापरिपूर्णोऽपि दीपः कुम्भमध्यनिक्षिप्तो गृहान्तर्वर्त्तिनो भावान् प्रकाशयितुमलम् । तथा चोक्तम्-"ज्ञातुं वपुःपरिमितः क्षमते त्रिलोकी, जीवः कथं कथय सङ्गतिमन्तरेण ? । शक्नोति कुम्भनिहितः सुशिखोऽपि दीपो, नार्थान् प्रकाशयितुमध्युदरं गृहस्य ॥१॥" ततोऽवश्यं लोकान्तगतं ज्ञानमेष्टव्यम् , तथा च सिद्ध आत्मा सर्वव्यापीति ॥३६७ ॥ आचार्यस्तु परमतीव |जडबुद्धित्वात् क्षुद्रत्वाच क्रीडनकप्रख्यमवलोक्य तेन सह तावचसूरिमारभते नियदेससंठियस्सवि रविणो किरणा जहेव अन्नपि । उज्जोययंति देसं तहेव एयपि नायव्वं ॥ ३६८॥ निजदेशे-खनभोभागरूपे संस्थितस्यापि सतोरवेः-आदित्यस्य किरणा यथैवान्यं-पृथिव्यादिरूपं देशमुद्योतयन्ति, तथैव-रवः किरणा इव, एतदपि ज्ञानमात्मनः खदेशावस्थितस्यापि सतो भिन्नदेशान्तरस्थितवस्तुतत्त्वप्रकाशकं ज्ञातव्यमिति ॥ ३६८ ॥ अत्र परो दृष्टान्तदार्टान्तिकयोवैषम्यमुद्भावयन्नाह ते तुलं सवदिसं नाणं पुण होति एगदेसम्मि । कम्मघणपडलाच्छादियरूवस्सेवं न सुद्धस्स ॥ ३६९ ॥ SACRECORNERGROCAROGRAPA A ॥१५९॥ GAROLOG R Jain Education Ind! For Private & Personel Use Only Pbww.jainelibrary.org Page #323 -------------------------------------------------------------------------- ________________ Jain Education Inte ते–रविकिरणाः तुल्यं–समकालं सर्वदिशं सर्वासु दिक्षु ज्ञेयमुद्योतयन्ति, ज्ञानं पुनर्भवति एकस्मिन् देशे वस्तूनां प्रकाशकं ततो नेह रविकिरणा दृष्टान्तत्वेनोपयुज्यन्ते, ज्ञानस्य तैः सह साधर्म्याभावात् । अत्राह - 'कम्मघणेत्यादि' एवं एकदेशस्थित वस्तुप्रकाशकत्वलक्षणेन प्रकारेण ज्ञानमात्मनो भवति कर्मघनपटलाच्छादितरूपस्य सतो, न तु विशुद्धस्य - सकलकर्म कलङ्कविप्रमुक्तस्य तथाभूतस्य संबन्धिनो ज्ञानस्य समकालं सर्वासु दिक्षु सकलज्ञेयविषयतया प्रवर्त्त|मानत्वात् । ततो न दृष्टान्तदान्तिकवैषम्यं, खेरपि घनपटलाच्छादितस्य किरणानामेकदेशविषयत्वात् ॥ ३६९ ॥ | अधुना प्रकारान्तरेण परो दृष्टान्तदार्शन्तिकयोर्वैपम्यमाह - किरणा गुणा ण द तेसि पगासो गुणो ण यादवो । जं नाणं आयगुणो कहमद्दवो स अन्नत्थ ? ॥ ३७० ॥ ननु किरणा गुणा न भवन्ति किंतु द्रव्यं यस्तु तेषां किरणानां प्रकाशः स गुणो, न चासौ प्रकाशरूपो गुणोऽद्रव्यो- द्रव्यदेशादन्यत्र वर्त्तते, ज्ञानं पुनरिदं यत् - यस्मादात्मगुणस्ततः स कथमद्रव्यो- द्रव्यरहितः सन् अन्यत्र आत्मदेशपरित्यागेन भवेत् ?, नैव भवेदितिभावः । तस्माल्लोकान्ते ज्ञानदर्शनादयमात्मा सर्वव्यापी प्रतीयते एव ॥ ३७० ॥ तदेवं चिरादवबुध्यमानेन परेणाभिहिते सत्याचार्यः सम्यगुत्तरमाह - Page #324 -------------------------------------------------------------------------- ________________ संग्रहणि ॥१६०॥ गंतुंण परिच्छिदइ नाणं णेयं तयम्मि देसम्मि। आयत्थं चिय नवरं अचिंतसत्तीउ विन्नेयं ॥ ३७१॥ न ज्ञानं यस्मिन् देशे ज्ञेयमस्ति तस्मिन् देशे गत्वा ज्ञेयं परिच्छिनत्ति, नवरं किंतु आत्मस्थमेव सत् तत् दरदेश स्थस्यापि ज्ञेयस्य परिच्छेदकमचिन्त्यशक्तेर्विज्ञेयम् ॥ ३७१ ॥ अमुमेवा) दृष्टान्तेन भावयति लोहोवलस्स सत्ती आयत्था चेव भिन्नदेसंपि । लोहं आगरिसंती दीसइ इह कजपच्चक्खा ॥ ३७२ ॥ लोहस्साकर्षक उपलः लोहोपलः, अत्राकृष्याकर्षकभावलक्षणसंबन्धे षष्ठी, यथा राज्ञः पुरुष इत्यत्र पोष्यपोषकभावे, | तस्य शक्तिरात्मस्थैव सती भिन्नदेशमपि-भिन्नस्थ(लस्थ)मपि लोहमाकर्षन्ती दृश्यते, न च दृष्टे अनुपपन्नं नाम। अती|न्द्रियत्वाच्छक्तीनां कथं तस्या दर्शनमिति चेत्। अत आह-कार्यप्रत्यक्षा' कार्य-लोहाकर्षणलक्षणं प्रत्यक्षं यस्याः सा कार्यप्रत्यक्षा, एतदुक्तं भवति-तत्कार्यस्य प्रत्यक्षत्वात् सापि दृश्यत इति व्यवहियत इत्यदोषः ॥३१२॥ तदेवं दृष्टान्तमभिधाय दार्शन्तिके योजनामाह एवमिह नाणसत्ती आयत्था चेव हंदि लोगंतं । ॥१६॥ Jain Education in For Private Personel Use Only Miww.jainelibrary.org Page #325 -------------------------------------------------------------------------- ________________ Jain Education In जइ परिच्छिदइ सम्मं को णु विरोहो भवे एत्थं ? ॥ ३७३ ॥ 'एवं' लोहोपलशक्तिरिव 'इह' जगति 'हंदीति' परामन्त्रणे, यदि ज्ञानरूपा शक्तिरात्मस्थैव सती सम्यक् लोकान्तं परिच्छिनत्ति ततः को नु अत्र विरोधो भवेत् ?, नैव कश्चिदिति भावः ॥ ३७३ ॥ अत्र परो दृष्टान्तं विघटयन्नाह - लोहोलछायाणू घडि लोहेण तो (तं) पलट्टेति (पकड़ेंति) । किमेत्थ ? अन्नह तदभावो चेव ते बुद्धी ॥ ३७४ ॥ terrifधनः छायाणवी लोहदेशं गत्वा लोहेन सह घटन्ते - संयुज्यन्ते, ततो घटित्या तत्-लोहं प्रकर्षन्तिसमाकृषन्ति, नतु लोहोपलस्य शक्तिरात्मस्थैव सती लोहमाकर्षतीति दृष्टान्तानुपपत्तिः । अत्राचार्य आह - ' माणमित्यादि' अत्र - अस्यामेवंविधायां कल्पनायां मानं-प्रमाणं किं ?, नैव किंचिदित्यर्थः । न च प्रमाणमन्तरेण प्रमेयसिद्धि:, मा प्रापत् सर्वेषामिष्टसिद्धिप्रसङ्गः । अथ ते तव इयं बुद्धिः - अन्यथा - एवमनभ्युपगमे तदभाव एव - लोहाकर्षणाभाव एव प्राप्नोति, तस्माल्लोहाकर्षणाऽन्यथाऽनुपपत्तिरेवास्यां कल्पनायां प्रमाणम् ॥ ३७४ ॥ तथाहिजत्तियमेते खेत्ते संति तु ते तेत्तियाउ तं एई । कड्डेज उ सत्तीए सबं भुवणोयरगयंपि ॥ ३७५ ॥ - Se Page #326 -------------------------------------------------------------------------- ________________ धर्म संग्रहणिः. ॥१६॥ ROCCORREARRANCAMER यावन्मात्रे क्षेत्रे छायाणवः सन्ति तावन्मात्रादेव क्षेत्रात् , तुरवधारणे भिन्नक्रमश्व, स च यथास्थानं योजितः, तत्-लोहम् एति-आगच्छति, अन्यथा यदि लोहोपल आत्मस्थया शक्त्या भिन्नदेशस्थस्याऽपि लोहस्याकर्षक इष्येत ततः सर्वमपि भुवनोदरान्तर्गतं लोहमाकत, सर्वस्यापि अप्राप्तत्वाविशेषात् ॥ ३७५ ॥ अत्राचार्य आह परिमियविसया सत्ती जम्हा दोसो ण एस तो होइ। छायाणवोवि अन्नह सवं गंतूण कड्डेजा ॥ ३७६ ॥ यस्मात् शक्तिः परिमितविषया भवति तस्मात्रैव सकलभुवनोदरवर्तिलोहाकर्षणलक्षणो दोपोऽस्माकं भवति, इत्थं चैतदङ्गीकर्तव्यमन्यथा शक्तेः परिमितविषयत्वानभ्युपगमे छायाणवोऽपि गत्वा सर्व भवनोदरवर्त्तिनं लोहमाक युः, शक्तिवशाद्धि गमनाकर्षणादिक्रियोपपत्तिस्तस्याश्चापरिमितविषयत्वमिति । तस्मादवश्यं शक्तेः परिमितविषयत्वमङ्गीकर्तव्यं, तथा च सति कुतः पूर्वोक्तदोषावकाश इति ? ॥ ३७६ ॥ अपि च __तस्सेव एस सत्ती जं परिमियदेसगामिणो हंदि । छायाणवोवि सा पुण तत्थत्था चेव कजकरी ॥ ३७७ ॥ 'हंदि'तस्यैव लोहोपलस्य एपा शक्तियत्तत्संवन्धिनः छायाणवोऽपि परिमितदेशगामिनो भवन्ति, सा पुनरित्थ ॥१६॥ Jain Education in For Private & Personel Use Only X ww.jainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ Jain Education Int भूता शक्तिस्तत्रस्थैव - लोहोपलस्थैव सती कार्यकरी - खसंबन्धिच्छायाणुपरिमितदेशगमनकरी, तद्वदियमपि लोहा करेंणशक्तिस्तत्रस्था परिमितदेशविषया लोहाकर्षणकरी भविष्यति, ततो न कश्चिद्दोषः ॥ ३७७ ॥ अत्र पर आह— नो तस्स तन्निमित्तो तम्मि देसम्म तेसि सन्भावो । किंतु तदविणाभूता सहावतो चेव ते होंति ॥ ३७८ ॥ नो तस्य-लोहोपलस्य तन्निमित्तः - शक्तिनिमित्तस्तस्मिन् परिमिते देशे तेषां - छायाणूनां सद्भावः, किंतु खभावत एव ते छायाणवस्तदविनाभूता- लोहोपलाऽविनाभूताः प्रवाहतो लोहोपलममुञ्चतो लोहदेशगामिनो भवन्ति, ततो नात्मस्था लोहोपलस्य शक्तिर्भिन्नदेशकार्य करीति तद्दृष्टान्तानुपपत्तिः ॥ ३७८ ॥ अत्राचार्य आह तेसि खलु जो सहावो तस्स व णणु सेव होति सत्तित्ति । अविणाभावम्मिय से इतरम्मि वि अत्थि सामत्थं ॥ ३७९ ॥ तेषां - छायानां यः स्वभावो लोहोपलाऽविनाभावनिबन्धनं ननु स ' तस्सवेति' तस्यैव लोहोपलस्यैव स्वभावतस्तस्य | तथास्वभावाभावे तेषामपि तथास्वभावत्वायोगात्, 'सेव होइ सत्तित्ति' सैव च भवति शक्तिः, शक्तिस्वभावशब्दयोः पर्यायत्वात्, अविनाभावे च तेषां छायाणूनामविनाभावविषये च 'से' तस्य लोहोपलस्य शक्ताविष्यमाणायामितर Page #328 -------------------------------------------------------------------------- ________________ | संग्रहणि धर्म- ॥१६२॥ CARDCORRC- स्मिन्नपि लोहाकर्षणे सामर्थ्य-शक्तिरस्तीत्यभ्युपगम्यतां, विशेषाभावात् ॥ ३७९ ॥ अपि च अब्भुवगम्माणूणं तहभावं भणितमेतमो एत्थ। तद्देसम्मि य तेसिं नियमा सत्तंपि हु असिद्धं ॥ ३८० ॥ अभ्युपगम्य अणूनां तथाभावं-तथा लोहेन संघट्य ते लोहमाकर्षन्तीत्येवंभावम् एतत्-पूर्वोक्तं 'परिमियविसया सत्ती' इत्यादिकमत्र-विचारप्रक्रमे भणितम् , यावता तद्देशे तेषां-लोहोपलच्छायाणूनां नियमात्सत्त्वमप्यसिद्धं, तद्राहकप्रमाणाभावात् । नन्वस्ति तद्वाहकमनुमानम् । तथाहि-यदाकर्षणं तत्संसर्गपूर्वकं, यथाऽयोगोलकस्य संदंशेन, भवति चाकर्षणं लोहस्य लोहोपलेन, तत्र साक्षात्संसर्गो लोहोपलयोः प्रत्यक्षवाधित इत्यर्थात्संसर्गः छायाणुभिरिति छायाणूनां सत्त्वम् । तदयुक्तम् , हेतोरनैकान्तिकत्वात् , मन्त्रेण व्यभिचारात् । तथाहि-मत्रेण स्मर्यमाणेनापि भवति है विवक्षितवस्त्वाकर्षणं, न च तत्र कश्चिदपि संसर्गस्ततो नेदमनुमानमिति न सिद्धं छायाणूनां सत्त्वम् । तस्मात् यथा लोहोपलस्य शक्तिरात्मस्थैव सती भिन्नदेशमपि लोहमाकर्पति तथेदमपि ज्ञानमात्मस्थं सत् अचिन्त्यशक्तियुक्ततया लोकान्तं परिच्छिनत्तीति स्थितम् ॥ ३८ ॥ स्यादेतत् , परिच्छिनत्तु ज्ञानमात्मस्थमेव सत् ज्ञेयं, तत् पुर्नज्ञेयं लोकातस्थमपि यावत् परिच्छिनत्तीति कथं श्रद्धीयते ? शक्तेः परिमितविषयतया दर्शनादित्यत आह MASSACROCOCONCE ॥१६२॥ RACK Jain Education in For Private & Personel Use Only w Page #329 -------------------------------------------------------------------------- ________________ LACKALORORESCALCREARS सत्तीण य उक्करिसो दीसइ जं कजओ इह विचित्तो। लोगंतावगमोवि हुन विरुज्झइ तेण तस्सत्ति ॥ ३८१ ॥ इह यत्-यस्मात् भावेषु यथानुरूपं तथा तथा कार्यदर्शनात् शक्तीनामुत्कर्षो विचित्रो दृश्यते, तेन कारणेन तस्य ज्ञानस्य तथाविधसामग्रीविशेषभावत उत्कर्षे सति लोकान्तावगमोऽपि न विरुध्यते ॥ ३८१॥ इह "सर्वगतावभासं भगवन्त मित्यादि" वचनश्रवणतः केचित् केवलज्ञानं सर्वतः सर्वगतमभिमन्यन्ते, तन्मतं सर्वज्ञसिद्धावग्रे निराकरिष्यमाणमपि प्रकरणानुरोधादिहापि लेशतो निराकर्तुमुपक्रमते केई केवलनाणं गंतूणमलोगमवगच्छती तन्नो। जम्हा ण त(यs)त्थ कस्स(त्थ)इ दिटुं अद्दवगुणग्गमणं ॥ ३८२॥ केचिदाचार्या इदमाहुः-गत्वा केवलज्ञानमलोकमवगच्छतीति। तदेतत् न युक्तम् । कुत इत्याह-यस्मान्नैवात्र-जगति है कुत्रापि प्रदेशे दृष्टमद्रव्यगुणगमनं-द्रव्यमन्तरेण केवलानां गुणानां गमनं, किंतु द्रव्याश्रितानामेव, यथा किरणद्रव्याश्रितप्रकाशस्य, न चान्यथा दृश्यमानमन्यथा कल्पयितुं शक्यते, मा भूदतिप्रसङ्गः ॥ ३८२ ॥ अन्यच, दवगमणंपि जज्जड न कहचिवि तत्थ धम्मविरहाओ। MACROCOLOROSCARBORRORSCIENCE धर्म.२८ Jain Education in For Private & Personel Use Only Riww.jainelibrary.org Page #330 -------------------------------------------------------------------------- ________________ SEKAS-X-R संग्रहणिः , ॥१६॥ COMROSAROLORRRRRRC तम्हा आतत्थं चिय सवं परिछिदइ तयंपि ॥ ३८३ ॥ द्रव्यगमनमपि आस्तामद्रव्यगुणगमनमित्यपिशब्दार्थः,न कथंचिदपि तत्र-अलोके युज्यते । कुत इत्याह-धर्मविरहात्-गत्युपष्टम्भकधर्मास्तिकायाभावात् । तस्मात्तदपि केवलज्ञानमात्मस्थमेव सत् सर्व-लोकालोकात्मकं ज्ञेयं परि-1 छिनत्ति। यदपि च 'सर्वगतावभासमित्यादि वचनं तदप्यविरुद्धमेव, परिच्छेदशक्तरेवावभासशब्दवाच्यत्वात् । उक्तंच-"सर्वगतावभासमित्यादि विरुध्यत इतिचेत् । न । परिच्छेदशक्तेरेवावभासत्वात् , अवभासः परिच्छित्तिः संविदिति बनान्तरमिति" ॥३८३॥ उपसंहारमाह एवं सरीरमेत्तो आया सिद्धो ण याणुमित्तादी । __ जुगवं सवसरीरे चेतण्णासंभवाओ य ॥ ३८४ ॥ एवम्-उक्तेन प्रकारेण शरीरमात्रः-शरीरप्रमाण आत्मा सिद्धः। स्यादेतत् ,मा भूदुक्तवदयम् आत्मा सर्वव्यापी,अणुमात्रादिरूपो भविष्यति,यथा अन्यैः परिकल्प्यते, "श्यामाकतन्दुलमात्रोऽयमात्मा,अङ्गुष्ठपर्वमात्रोऽयमात्मा" इत्यादि, तत्कथं शरीरमात्रःसिद्ध इत्यत आह-'न येत्यादि' न चासावात्मा अणुमात्रादिः,आदिशब्दादङ्गुष्ठपर्वमात्रादिपरिग्रहः। कुत ? इत्याह-युगपत्सर्वशरीरचैतन्यासंभवात्-चैतन्यासंभवप्रसङ्गात् ,अनुभूयते च सामान्याकारेण सर्वस्मिन्नपि शरीरे RESENSUSCAR ॥१६३॥ Jain Education in For Private & Personel Use Only Page #331 -------------------------------------------------------------------------- ________________ Jain Education Inte स्वसंबन्धिनि चैतन्यमिति ॥ ३८४ ॥ तदेवमात्मनः शरीरमात्रत्वं प्रसाध्य संप्रति सप्रदेशत्वं सिसाधयिपुराह - करचरणादिसु जोगा न य अपदेसोत्ति होइ विन्नेओ । अपदेसम्म य पावइ करचरणादीणमेगत्तं ॥ ३८५ ॥ करचरणादियोगात् — करचरणशिरोहृदयादिसंबन्धान्न चासावात्मा अप्रदेश इति भवति ज्ञातव्यः । कुत इत्याहअपदेसेत्यादि चो' हेतौ यस्मात्तस्मिन्नात्मन्यप्रदेशे सति करचरणादीनामेकत्वं प्राप्नोति ॥ ३८५ ॥ एतदेव ," भावयन्नाह जो चैव उकरदेसे स एव जं होति चरणदेसेवि । तो एगत्तं भेदे सपदेसो नियमतो होइ ॥ ३८६ ॥ यत् - यस्मात् य एवात्मा करदेशे व्यवस्थितः स एव चरणदेशेऽपि 'तो' तस्मात्तदभिन्नदेशत्वादात्मन इव तयोरपि करचरणयोरेकत्वम् - एकदेशत्वं प्राप्नोति । अथ मा भूत् दृष्टहानिरिति तयोः करचरणयोर्भेद इष्यते । तत आहभेदे - भिन्नत्वे करचरणयोः सति तदभिन्नत्वादात्मापि नियमतः सप्रदेशो भवति, अन्यथा युगपत्करचरणादिभिः सह संबन्धायोगात् ॥ ३८६ ॥ प्रदेशपरिमाणमाह Page #332 -------------------------------------------------------------------------- ________________ धर्म ॥१६४॥ Jain Education Inter सोय असंखपएसो लोगागासप्पदेसतुल्लोत्ति । जइ एवं संकुडिओ थेवपए से कह चिट्ठ (ठा ) ति ? ॥ ३८७ ॥ स च - आत्मा असंख्यप्रदेशः । कुत इत्याह- 'लोगागासपदेस तुलत्ति' यस्मादसौ लोकाकाशप्रदेश तुल्यो- लोकाकाशप्र| देशतुल्यप्रदेशः, केवलिसमुद्घातावस्थायां चतुर्थसमये तत्प्रदेशैः सकललोकाकाशपूरणादिति, तस्मात्सोऽसंख्य प्रदेशः । पर आह- 'जइ इत्यादि' यदि एवं सकललोकाकाशप्रमाणप्रदेशोऽयमात्मा, ततः कथं संकुटितः सन् स्तोकप्रदेशेषुस्तोकाकाशप्रदेशेषु तिष्ठति, संकुटनेऽपि तत्सत्ताया अपचयाभावात्, तदवस्थस्य च तदल्पतरदेशेऽवस्थानायोगादिति, तदेतदबाधकं तथाष्टत्वात् ॥ ३८७ ॥ तथा चाह जह खलु महापमाणो णेत्तपडो कोडितो णहग्गम्मि । तमिव तावति ते चि फुसइ पएसे ण इय जीवो ॥ ३८८ ॥ यथा खलु महाप्रमाणोऽपि हस्तशतादिमानतया नेत्रपटः कोटितः - संकोचितः सन् नखाग्रे तिष्ठति, न च तत्संकोचने तत्सत्ताया अपचयः, तद्वदयमध्यात्मा लोकाकाशप्रदेशप्रमाणोऽपि संकुटितः सन् तत्सत्ताया अनपचयेऽपि | स्तोकप्रदेशेषु स्थास्यतीति । परो दृष्टान्तदान्तिकयोर्वैषम्यमापादयन्नाह - तस्मिन्नपि नखाग्रे तिष्ठन् नेत्रपटस्तावत संग्रहणिः ॥१६४॥ w.jainelibrary.org Page #333 -------------------------------------------------------------------------- ________________ Jain Education एवाकाशप्रदेशान् स्पृशति यावतो विस्तारितः सन् संकोचविकाशयोस्तत्सत्तापचयोपचयाभावात्, केवलं तत्र प्रतरघनमात्रकृत एव विशेषः, 'न इय जीवोत्ति' न इतिः - एवं नेत्रपटवत् संकोचे विकाशे च तावन्मात्रप्रदेशस्पर्शको जीवः, समुद्घातावस्थायां सकलमपि लोकमभिव्याप्य तत ऊर्ध्वं तदसंख्येयभागमात्रेऽवस्थानादिति ॥ ३८८ ॥ अत्राहदेसे संपुन्नाणं अभावतो तस्स सुहुमपरिणामा । ठगमवि बहवे बादरतो व पडवे ॥ ३८९ ॥ तस्य - आत्मनः सूक्ष्मपरिणामादेकस्मिन्नप्याकाशदेशे बहवः प्रदेशास्तिष्ठन्ति, दृष्टं च सूक्ष्मपरमाणूनां मूर्त्तानामपि यावत् एकस्मिन्नप्याकाशप्रदेशे बहूनामवस्थानं, यथैकापवरकस्थित प्रदीपशतप्रभापरमाणूनाम्, 'नेवं पडदवे इति 'न एवं | पटद्रव्ये पटद्रव्यविषयाः प्रदेशा बहवोऽप्येकस्मिन्नाकाशदेशेऽवतिष्ठन्ते । कुत इत्याह-वादरत्वात् । ननु यद्यात्मप्रदेशानां बहूनामप्येकस्मिन्नाकाशदेशेऽवस्थानं ततः कथं कदाचित्सर्वेषामपि न भवति ?, संकोचविपयसामर्थ्यस्य कुन्ध्यादिषु प्रकृष्टतरस्यापि दर्शनात् । अत आह- 'देसे संपुण्णाणं अभावउत्ति' देशे - एकस्मिन्ना काशप्रदेशे संपूर्णानां सर्वेषामप्यात्मप्रदेशानामवस्थानाभावात् । कथमिदं ज्ञायत इति चेत् । उच्यते - सर्वस्य हि संसारिणोऽवश्यं कार्मणेन वपुषा भवितव्यं तच्च तथाविधानन्तानन्तपरमाणुस्कन्धप्रचितत्वाज्जघन्यतोऽप्यसंख्यप्रदेशावगाहि, ततः कथंचिदभेदेन Page #334 -------------------------------------------------------------------------- ________________ धर्म ॥१६५॥ Jain Education In *** तदुपश्लेषादात्मनोऽप्यसंख्येयप्रदेशावगाहित्वमेव युज्यते, नतु कदाचिदेकप्रदेशावगाहित्वम्, सिद्धानां पुनः कायादिकरणाभावेन तथाविधप्रयत्नाभावात् न संकोचविकाशधर्मता, किंतु योगनिरोधावसरे यावत्प्रमाणावगाहिता आसीत् | तावत्प्रमाणैवेति । तदेवमयमात्मा लोकाकांशप्रमाणप्रदेशस्त त्तच्छरीरपरिग्रहाच्च तावत्प्रमाणाकाशदेशावगाही, शरी| राच्च कथंचिदभेदात्तस्यावस्थाभेदे सति तस्याप्यवस्थाभेदात्परिणामीत्युपपादितम् ॥ ३८९ ॥ सांप्रतमेतदेव परिणामित्वमनुसंधित्सुरप्रकृतमुपसंहरन्नाह पगतमिदाणिं भणिमो कयं पसंगेण तं पुण इमं तु । परिणामी खलु जीवो देहावत्थाण भेदाओ ॥ ३९० ॥ कृतं - पर्याप्तं प्रसङ्गेन, प्रकृतमिदानीं भणामः । तच्च प्रकृतमिदं, यदुत परिणामी खल्वयं जीवो देहावस्थानां - बाल - त्वादीनां भेदात् ॥ ३९० ॥ एवं सुहादिजोगो न अन्नहा जुज्जए सती चेव । संसारो कम्मफलं मोक्खो य पसाहियमिदं च ॥ ३९१ ॥ २ तावत्तावत्प्रमाणेति क. ख. पुस्तक - पाठः । १ लोकाकाशप्रदेशप्रमाणप्रदेश इति क - पुस्तकपाठः । संग्रहणिः, ॥१६५॥ Page #335 -------------------------------------------------------------------------- ________________ Jain Education Inter पच्चक्खपसिद्धातो सयलव्ववहारमूलभूतातो । बसंतरभेदाओ अण्णयवइरेयभावातो ॥ ३९२ ॥ एवं परिणामित्वे सति सुखादियोगो युज्यते नान्यथा, तथा स्मृतिश्चैव, संसारः, कर्मफलं, मोक्षश्च । इदं च परिणामित्वं प्रागेव प्रसाधितम् । कुत इत्याह- प्रत्यक्षप्रसिद्धात् अन्वयव्यतिरेकभावात् - अनुवृत्तिव्यावृत्तिभावात् कथंभूतादित्याह - बाह्यान्तरभेदात्, तथा (त्र) वाह्यो देहघटादिगत आन्तर आत्मगतः, पुनरप्येनमेव विशेषयति-सकलव्यवहारमूलभूतात्, न ह्यन्वयव्यतिरेकभावमन्तरेण कश्चित्कार्यकारणभावादिको व्यवहारो घटत इत्युपपादितं प्राक् प्रपञ्चेनेति ॥ ३९१ - ३९२ ॥ सांप्रतमेतदेव प्राक् प्रसाधितं परिणामित्वं विनेयजनानुग्रहाय दृष्टान्तेन भावयन्नाह - जह कंचणस्स कंचण-भावेण अवट्ठियस्स कडगादी | उप्पनंति विणस्संति चेव भावा अणेगविहा ॥ ३९३ ॥ यथा काञ्चनस्य सुवर्णस्य काञ्चनभावेन - सर्वभावानुयायिन्या सुवर्णसत्तमा अवस्थितस्य कटकादयः - कटककेयूर - कर्णालङ्कारादयो भावाः - पर्याया अनेकविधा उत्पद्यन्ते विनश्यन्ति च ॥ ३९३ ॥ Page #336 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ॥१६६॥ एवं जीवद्दवस्स दवपज्जवविसेसभइतस्स। निच्चत्तमणिच्चत्तं च होति नाओवलब्भंतं ॥ ३९४ ॥ एवं जीवद्रव्यस्य द्रव्यपर्यायविशेषभक्तस्य-अनुभवप्रमाणसिद्धयोभयरूपतया विशिष्टस्य न्यायेनोपलभ्यमानं नित्यतत्वमनित्यत्वं च भवति । न्यायः पुनरयं-इह बालाद्यवस्थासु मिथो विभिन्नाखपि जीवत्वाद्यन्वय उपलभ्यते तत्रैव | च बालाद्यवस्थाभेदश्चेति ॥ ३९४ ॥ अमुमेव न्यायं समर्थयितुकाम आह कारणधम्माणं जइ णो कज्जे संकमो कहंचिदवि । तो कह णु तस्स कजं तं तस्स च कारणं इतरं ? ॥ ३९५॥ यदि कारणधर्माणां कार्ये कथंचिदपि न संक्रमः स्यात्ततः कथं तत्तस्य कार्यमितरच तस्य कारणं ?, नैव कथंचिदपीति भावः ॥ ३९५॥ तथाहि पुढवीधम्माण पडे ण संकमो जह तहेव य घडेवि । तुल्ले असंकमे किं घडो तु कजं नतु पडादी ? ॥ ३९६ ॥ १ यस्स इति खपुस्तके। ACCOACCUSAROSCOct ॥१६६॥ Jan Education For Private Personel Use Only Syoww.jainelibrary.org Page #337 -------------------------------------------------------------------------- ________________ पृथ्वीधर्माणां-मृत्पिण्डधर्माणां मृत्त्वादीनां यथा पटे न संक्रमस्तथा घटेऽपि,ततश्चैवमसंक्रमे तुल्ये सति किं मृत्पि-12 ण्डस्य घट एव कार्य भवति नतु पटादिः,नियामकाभावात् ,तदपि तस्य कार्य भवेदिति भावः। तस्मात् कार्यकारणभावव्यवस्थामिच्छता कारणधर्माणां कार्ये संक्रमोऽवश्यमभ्युपगन्तव्यस्तथा च सत्यन्वयसिद्धिः ॥ ३९६ ॥ अत्रैवा-18 भ्युच्चयेनाह अन्नं च दलविहीणं कह जायति किं दलंति से बच्चं?। जइ कारणं अणुगमो अह णो अदला हु उप्पत्ती ॥३९७॥ अन्यच्च तत्कार्य दलविहीनं कथं जायते !, नहि वियति कुसुमादिद्रव्यलक्षणदलव्यतिरेकेण केचिन्मुकुलितार्धमुकुलितादिरूपा भावा उपजायन्ते । तस्मात् 'से'तस्य कार्यस्य किंदलमिति वाच्यं ?, तत्र यदि कारणं दलमिष्यते तर्हि नियमादनुगमानुपङ्गः, कार्यकालेऽपि तद्दलतया तस्य भावात् । अथ न कारणं दलमिष्यते तर्हि कार्यस्योत्पत्तिरदला स्यात् , सा च विरुद्धा, तथादर्शनाभावात् ॥ ३९७ ॥ तदित्थमन्वयं प्रसाध्य व्यतिरेकं सिसाधयिषुरिदमाह अणियत्ते य कहंची अविणाभूयम्मि तस्स परिणामे। जातमिणंति न जुज्जइ अदरिसणं तह य इतरस्स ॥ ३९८ ॥ Jain Education Inter For Private & Personel Use Only H ow.jainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ धर्म ॥१६७॥ Jain Education अनिवृत्ते च कथंचित् तस्य - कारणस्य मृत्पिण्डादेः परिणामे - मृत्पिण्डत्वादिरूपे कथंचिदविनाभूते जातमिदं घटादिलक्षणं कार्यमिति न युज्यते, तथा इतरस्य — कारणस्य मृत्पिण्डादिरूपस्यादर्शनम्, तस्माद्यतिरेकोऽप्यवश्यमङ्गीकर्तव्यः तथा च सत्यन्वयव्यतिरेकत्वात् घटादीनां परिणामित्वं सिद्धम्, एवमात्मन्यपि द्रष्टव्यम् ॥ ३९८ ॥ तथा चाहअभितविक एवं चिय भावणेह कायवा । तब्भावम्मिय सिद्धो परिणामी हंत जीवोवि ॥ ३९९ ॥ आभ्यन्तरेऽपि कार्ये - सुरादिपर्यायलक्षणे मनुष्यादिपर्यायादुत्पद्यमाने एवं घटादिवत् भावना 'इह' विचारप्रक्रमे कर्त्तव्या । ततश्च तद्भावे - अन्वयव्यतिरेकभावे सति, हन्तेत्यवधारणे, जीवोऽपि परिणामी सिद्ध एवेति ॥ ३९९ ॥ पुनरपि परः प्रकारान्तरेण परिणामित्वं दूषयितुमुपक्रमते - रितुगो विणासो णु भावाणं तओ य खणिगत्तं । जुज्जइ य अवत्थाणं सहेतुगे इह विणासम्मि ॥ ४०० ॥ ननु भावानां विनाशो निर्हेतुकः, तस्माच्च - निर्हेतुकविनाशात् क्षणिकत्वम्, यस्मादिह सहेतुके विनाशे सति भावानामवस्थानं युज्यते नान्यथा ॥ ४०० ॥ तथाहि संग्रहणिः. ॥१६७॥ Page #339 -------------------------------------------------------------------------- ________________ GAOCALCOCOCCASIOCOCONDO जाव ण विणासहेऊ ता चिट्ठति सति य तम्मि उ विणस्से । न य ते घडत्ति (घडंति) सम्म चिंतिजंता कहंचिदवि ॥ ४०१ ॥ यावन्न विनाशहेतुरुपढौकते तावदसौ भावस्तिष्ठत्येव, सति च तस्मिन् विनाशहेतावुपढौकिते विनश्येत् । यद्येवं तत एतदेवास्तु किं निर्हेतुकविनाशाभ्युपगमेनेत्यत आह-न येत्यादि' न च ते विनाशहेतवः सम्यक्विन्त्यमानाः कथंचिदपि घटन्ते । अथ चावश्यंभावी भावानां विनाशो दृश्यते,तस्मादसौ निर्हेतुक एव ॥४०१॥ कथं विनाशहेतवो न घटन्त इत्यघटनोपपत्तिमाह किं कुणइ नासहेऊ? जओ विणस्सं तु किं तओ अन्नं ?। किं तदभावं किं वा न किंचि? नणु एत्तिगा भेदा ॥ ४०२ ॥ यतो-यस्मादेष विनाशहेतुः-मुद्रादिः किं विनाश्यमेव-घटादिकं करोति, किंवा तदन्यत्-कपालादिकं, किंवा तदभावं-घटाद्यभावं,किंवा न किंचिदपि करोतीति,नन्वेतावन्त एव भेदा-विकल्पाः,न चैतेषां भेदानामन्यतमोऽपि भेदो घटते ॥४०२॥ तथाहि न विणस्समेव जम्हा सहेउतो चेव सो पसूतोत्ति । ROSHARRASRAAG JainEducational Page #340 -------------------------------------------------------------------------- ________________ धर्म ॥१६८॥ Jain Education In जातस्सवि पुण करणे जायइ अणवत्थदोसो उ ॥ ४०३ ॥ न विनाश्यमेव घटादिकं तावद्विनाशहेतुः - मुद्गरादिः करोति यस्मात्स विनाश्यो — घटादिः खहेतुत एव - मृत्पिण्डादेः समुत्पन्नस्तस्मान्न तमेव विनाश्यं करोति । अथ यद्यपि स्वहेतुभ्यः समुत्पन्नस्तथापि तं करिष्यतीत्याशङ्कापोहायाह - 'जायस्सेत्यादि' जातस्यापि पुनः करणेऽभ्युपगम्यमाने जायते - आपद्यते अनवस्थादोषः, जातत्वाविशेषेण पुनःकरणप्रसक्तेः ॥ ४०३ ॥ द्वितीयं पक्षं दूषयितुमाशङ्कमान आह अह उ तदन्नं किं तस्स आगयं ? तेण तादवत्थातो । दीसेज तओ कुजा कज्जंतरमो य जहपुत्रिं ॥ ४०४ ॥ अथ तदन्यत् —— कपालादिकं विनाशहेतुः करोतीत्यभ्युपगमः, तर्हि किं तस्य -- विनाश्यस्य घटादेरागतं ?,नैव किंचित्, विनाशहेतोस्तदन्यकरणे व्यापृतत्वात् तेन कारणेन 'तउत्ति' सको विनाश्यो घटादिः प्रागिव दृश्येत, यच्च स्वप्रतिबद्धं कार्यान्तरं तदपि कुर्यात् यथा स्वविनाशहेतूपनिपातात्पूर्वम् । कुत इत्याह- तादवस्थ्यात् — स्वरूपाभ्रंशात् । ॥ ४०४ ॥ अथ तेन कपालादिना आवृतत्वान्न प्राग्वदस्य दर्शनादिप्रसङ्ग इति मन्येथास्तत्राह - आवरणंपि न जुज्जइ तप्पभवं तस्स तादवत्थातो संग्रहणिः० ॥१६८॥ Page #341 -------------------------------------------------------------------------- ________________ अन्नह तओ उ णासो एत्थ य पुवोदिओ दोसो ॥ ४०५ ॥ आवरणमपि-आब्रियमाणत्वमपि तस्य-घटादेविनाश्यस्य तत्प्रभवं-मुद्रादिजन्यमानतदन्यकपालादिप्रभवं न | युज्यते-न घटते। कुत इत्याह-तादवस्थ्यात् , अन्यथा-तादवस्थ्यानभ्युपगमे तत एव तदन्यस्मात्कपालादेन शोऽभ्युपगतः स्यात् । स्यादेवं को दोष इति चेत् । अत्राह-अत्र च कपालादेन शाभ्युपगमे पूर्वोदितो दोषो द्रष्टव्यः । तथाहि-तेनापि कपालादिना किं तदेव घटादिकं क्रियते किंवा तदन्यद्भावान्तरमित्यादि तदेवावर्चत इति ॥४०५॥ तृतीयं पक्षमधिकृत्याह ततियम्मि पज्जुदासे हंत वियप्पम्मि अविगला दोसा। एतच्चिय विन्नेया भावंतरओ उ तस्सावि ॥ ४०६ ॥ इह तदभावं विनाशहेतुः करोतीति किं पर्युदासविधिना विवक्षिताद्भावादू भावान्तरमेव करोतीत्युच्यते, किंवा तत्प्रध्वंसमिति विकल्पद्वयम् । तत्र पर्युदासरूपे तृतीये विकल्पे आश्रीयमाणे ये दोषाःप्राक् द्वितीये विकल्पेऽभिहिता एत एवेहाप्यविकला ज्ञेयाः। कुत? इत्याह-'भावन्तरओय तस्सावित्ति' तस्यापि-पयुदासविधिनाऽभिमतस्य तदभावस्य भावान्तरत्वात् , तथा च सति विनाशहेतोस्तत्रैव व्यापाराद्विनाश्यस्य तादवस्थ्यमित्यादि प्रसज्यते इति ॥४०६ ॥ CAREOCALORECASEARC Jain धर्म.२९ For Private & Personel Use Only R ww.jainelibrary.org Page #342 -------------------------------------------------------------------------- ________________ संग्रहणिः , ॥१६९॥ अथ मा भूदेष दोष इति तदभावः प्रसज्यप्रतिषेधात्मा विनाशहेतुना क्रियत इत्यभ्युपगम्यते, इत्येतदेव दूषयितुमाश-1 कमान आह तभावमह करेती तदभा (तब्भा) वं हंत एव ण करेइ । भावं च अकुवंतो कहं स हेतुत्ति ? चिन्तमिदं ॥ ४०७ ॥ अथ तदभावं-प्रसज्यप्रतिषेधरूपं विनाशहेतुः करोतीत्यभ्युपगमस्तर्हि हन्त एवं सति तद्भावं न करोतीत्यायातं प्रसज्यप्रतिषेधे हि नञ् क्रियापदसंबन्धी, ततस्तदभावं करोतीति, किमुक्तं भवति ?-तद्भावं न करोतीति । तथापि को दोष इति चेत् । अत्राह-भावं च-घटादिभावं चाकुर्वन् कथं स मुद्गरादिस्तस्य विनाशहेतुरुच्यते ?, इति चिन्त्यमिदम्, न युक्तमित्यर्थः । पटादयोऽपि हि न घटादिभावकरणे व्याप्रियन्ते न च ते तस्य विनाशहेतवस्तद्वदयमपि मुद्रादिन | तस्य विनाशहेतुरिति ॥४०७ ॥ चरमपक्षमधिकृत्याह ___ चरमम्मि वि कह हेऊ ? न किंचि कुवंति जे विणासस्स । भावे य सदाभावा एसिं खणभंगसिद्धित्ति ॥ ४०८ ॥ चरमेऽपि पक्षे कथं ते मुद्रादयो विनाशहेतवो भवेयुर्ये विनाश्यस्य-घटादेन किमपि कुर्वन्ति ?, मा प्रापत्पटादी K-RAMANGACANCCC RA ॥१६॥ Jain Education Inte l For Private & Personel Use Only Khww.jainelibrary.org Page #343 -------------------------------------------------------------------------- ________________ दिनामपि घटादीन् प्रति विनाशहेतुत्वप्रसङ्गः। अभ्युपगम्याप्येतत् दोषमाह-भावे च-प्रकरणाद्विनाशं प्रति हेतुभावे चाकिंचित्कराणामिष्यमाणे क्षणभङ्गसिद्धिः । कुत ? इत्याह-एषामकिंचित्कराणां सर्वत्र सर्वदा च भावादिति ॥ ४०८॥ तदित्थं विनाशहेतूनामसामर्थ्यमघटमानतानिवन्धनमुद्भाव्य सांप्रतं वैयर्थं तन्निबन्धनमुपपादयन्नाह अन्नं च नस्सरो वा सहावतो होज अणस्सरो वावि ? । भावो णस्सरपक्खे नासे किं हेतुणा तस्स ? ॥ ४०९॥ अन्यच स नाश्यो भावः स्वभावतः-स्वरूपेण नश्वरो वा स्यादनश्वरो वेति विकल्पद्वयं, गत्यन्तराभावात् । तत्र निश्वरपक्षेऽङ्गीक्रियमाणे तस्य-नाश्यस्य घटादे शे-नाशविषये किं हेतुना मुद्रादिरूपेण कर्त्तव्यं ?, नैव किंचित् , तस्य तत्खभावतया खयमेव नाशात् ॥ ४०९ ॥ एतदेव भावयति नो अन्नमिह स भावो भावे भावस्सऽवेक्खए हेउं । काठिन्नादी पुढवादिणं च तद्धेतुओ चेव ॥ ४१०॥ &| न इह स नश्वरो भावो भाव्ये-उत्पाद्येऽभावे नाशे खोत्पादहेत्वतिरेकेणान्यं हेतुमपेक्षते, किंतु तद्धेतुत एव-तस्य खोत्पादहेतुत एवासौ-अभावो भवति, यथा पृथिव्यादीनां काठिन्यादि। नहि पृथिव्यादयः काठिन्यादिभावे खोत्पा REC55555555555 JainEducation in For Private Personel Use Only law.jainelibrary.org Page #344 -------------------------------------------------------------------------- ________________ धर्म- ॥१७॥ दहेत्वतिरेकेणान्यं हेतुमपेक्षन्ते, किंतु तत्वभावतया तेषां खोत्पादहेतुत एव काठिन्यादि भवति, तथा विनाशो- संग्रहणि, पीति ॥ ४१०॥ अत्रैव विपक्षे बाधामाह __ अतदुब्भवत्तणम्मि य पावइ तस्स णणु निस्सहावत्तं । अह णस्सरोत्ति एवंपि नासहेऊ विधा तस्स ॥ ४११॥ काठिन्यादेरभावस्य वा अतदुद्भवत्वे-तस्मात्खोत्पादहतोरुद्भवाभावे तस्य-भावस्य काठिन्यादिखभावस्य पृथिव्यादेनश्वरखभावस्य वा घटादेननु निःखभावत्वं प्राप्नोति, तेषां काठिन्यादिखभावात्मकत्वात् , तस्य च हेत्वन्तरापेक्षणेनाद्याप्यभावात् । तस्मात् यो यत्स्वभावः स खहेतोरेव तादृश उत्पन्नो न तद्भावे हेत्वन्तरमपेक्षते, यथा काठिन्यादौ पृथिव्यादयः। नश्वरखभावाश्चामी भावास्ततो न तद्भावे हेत्वन्तरमपेक्षन्ते इति । द्वितीयं पक्षं दूषयितुमुपन्यस्यन्नाह 'अहेत्यादि' अथानश्वर इति पक्षः, एवमपि तस्य नाश्यस्य नाशहेतुर्वृथैव ॥ ४११॥ तथाहिनहि भावाउ सहावो तीरइ अन्नेण अन्नहा काउं। ॥१७॥ गयणस्सव मुत्तत्तं नय दुसहावो विरोधातो ॥ ४१२ ॥ नहि यस्मात् भावात् खभावोऽन्येनान्यथा कर्तुं शक्यते, यथा गगनस्यामूर्त्तत्वं, तद्यदि भावोऽनश्चरखभावस्ततः GROCEROSCARSACRESEARGICAL Jain Education Inter For Private & Personel Use Only &nw.jainelibrary.org Page #345 -------------------------------------------------------------------------- ________________ है। कथं तस्य नाशहेतुना नाशः क्रियते ?, स्वभावस्थान्यथाकर्तुमशक्यत्वात् । अपिच, खहेतोरनश्वरस्वभावस्योत्पन्नस्य पश्चात् |नाशहेतुना नश्वरखभावता आपाद्यमाना हेतुभेदात् खरूपभेदाच पूर्वसभावादर्थान्तरं स्यात् , तच्चायुक्तम् , यत आह 'नयेत्यादि' न च द्विखभावो-नश्वरत्वानश्वरत्वलक्षणखभावद्वयोपेतो भावो भवति । कुत इत्याह-विरोधात्, अविहरुद्धा हि खभावा बहवोऽप्येकस्मिन् तादात्म्येन भवेयुरपि, यथा ज्ञेयत्वसत्त्वादयः, नतु विरुद्धाः, शीतोष्णत्वादिवत्, विरुद्धौ च परस्परं नश्वरत्वानश्वरत्वस्वभावौ, तत्कथमेतावकत्र भवेतामिति ? ॥४१२॥ अत्रैवाभ्युच्चयेन दूषणमाह किंच सहेउगपक्खे कजस्स व तस्स पावती नासो। तण्णासम्मि य भावो पुरविणटुस्स भावस्स ॥ ४१३ ॥ किंच सहेतुपक्षे-सहेतुकविनाशाभ्युपगमे कार्यस्येव तस्य-नाशस्य नाशः प्राप्नोति, तन्नाशे च-नाशनाशे च सति पूर्वविनष्टस्य भावस्थाभावः-सत्ता प्राप्नोति, भावाभावयोरेकतरप्रतिषेधस्यापरविधिनान्तरीयकत्वात् ॥ ४१३ ॥ अपि च, नय सो हवेज नियमा कयगाणवि कारणंतरावेक्खो। वत्थस्स जहा रागो कयगोवि ततो न नासेज्जा ॥ १४ ॥ Jain Education Inter For Private & Personel Use Only H ow.jainelibrary.org Page #346 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ॥१७॥ कोवि कदाई भावो कारणविरहातो तस्स भावेवि । नहि कारणाई नियमेण होति जं कजवंताई ॥ ४१५ ॥ न च सः-विनाशः कारणान्तरापेक्षः सन् कृतकानामप्यन्तेऽवश्यमभ्युपगतविनाशानां नियमाद्भवेत् , यथा वस्त्रस्य रागः, रागो हि वस्त्रे तदतिरिक्तकारणान्तरापेक्षत्वान्नावश्यंभावी, कारणान्तराणां खखहेतुप्रतिबद्धत्वात्, तेषां च | वचित्कदाचिद्भावात् , तद्वदेषोऽपि विनाशः कारणान्तरापेक्षत्वान्नावश्यं भवेत् , ततश्च कश्चिद्भावः कृतकोऽपि सन् | कदाचित्कारणविरहान्न विनश्येदपि, 'तस्स भावेवित्ति' तस्य-कारणस्य भावेऽपि कश्चिद्भावः कदाचिन्न विनश्यत् । कुत इत्याह-'नहीत्यादि' हि यस्मान्न कारणानि नियमेन कार्यवन्ति भवन्ति, प्रतिवन्धवैकल्यसंभवात् ॥ ४१४ ॥ ॥४१५॥ उपसंहारमाह ता भावहेतवो च्चिय कुणंति पयईऍ नस्सरे भावे । उप्पत्तणंतरं चिय तेवि विणस्संति तो खणिगा ॥ ४१६ ॥ यस्मादित्थं कारणान्तरापेक्षविनाशाभ्युपगमे अनेकदोषोपनिपातसंभवस्तस्माद्भावहेतव एव भावान् प्रकृत्या ALSANSALKARNAMASALAMA ॥१७॥ For Private & Personel Use Only Page #347 -------------------------------------------------------------------------- ________________ SSCROSC खभावेन नश्वरान् कुर्वन्ति, प्रकृत्या नश्वरत्वाच तेऽपि भावा उत्पत्त्यनन्तरमेव विनश्यन्ति । 'तो' तस्मात्ते क्षणिका इति स्थितम् ॥ ४१६ ॥ अत्राचार्यः प्रतिविधित्सुराह निरहेउगो विणासो अहव सहेऊ निरस्थिगा चित्ता (चिंता)। नहि एत्थऽणवत्थाणं परिणामे सवहा अत्थि ॥ ४१७ ॥ नन्वयं विनाशः किं निर्हेतुकोऽथवा सहेतुक इति या चिन्ता क्रियते सा सर्वथा निरर्थ (र्थि) कैव । कुत इत्याह-13 हि यस्मात् न अत्र-परिणामे परिणामपक्षाभ्युपगमे भावानामनवस्थानं-विनाशः सर्वथा-एकान्तेनास्ति, किंतु कथंचिदवस्थानमपि, तथा च सति सर्वथा विनाशाभावात्कथं तद्विषया सहेतुकचिन्तोपयुज्यते ॥४१७॥ कथं सर्वथाऽनवस्थानं नास्तीति चेदत आह जं तं चिय परिणमए पतिसमयं चित्तकारणं पप्प । दलविरहातो अन्नह जुज्जइ न फलं तु भणियमिणं ॥ ४१८॥ यत्-यस्मात्तदेव-मृत्पिण्डादिरूपं वस्तु चक्रचीवरादिकं चित्रं-नानारूपं कारणं प्राप्य प्रतिसमयं तथा तथा परिणमते, ततः कुतः सर्वथाऽवस्थानं विनाशो वेति । इत्थं चैतदङ्गीकर्तव्यमन्यथा परिणामपक्षानभ्युपगमे पूर्वकारणस्य ORRESS Jain Education in For Private & Personel Use Only Page #348 -------------------------------------------------------------------------- ________________ AR धर्म | संग्रहणि ॥१७२॥ CAREOSCAKCSCAMERIOR निरन्वयविनाशे सति दलविरहात्-दलाभावात् उत्तरं फलं न युज्येत । इदं च 'दलविहूणं कह जायइ' इत्यादिना प्रागेव भणितमिति न पुनः प्रपश्यते ॥ ४१८ ॥ अत्र परमतमाशङ्कमान आह अह तं पुत्वं रूवं चइऊण तहा हवेज नियमेण । तभावे तदभावो अतादवत्थं चऽनिच्चत्तं ॥ ४१९ ॥ अथ तत्-मृत्पिण्डादिरूपं वस्तु नियमेन पूर्व रूपं-मृत्पिण्डत्वादिलक्षणं त्यक्त्वा तथा घटादिरूपतया भवेत् , अन्यथा तदभावे-मृत्पिण्डत्वादिलक्षणपूर्वरूपपरित्यागाभावे तदभावो-घटादिरूपतया भवनाभावो भवेत्, न हि मृत्पिण्डाकारापरित्यागे घटाकारो भवन् दृश्यते, तस्मादवश्यं पूर्वरूपस्यातादवस्थ्यमेष्टव्यम् । इदमेव च भावानामनित्यत्वम् , “अतादवस्थ्यमनित्यतां ब्रूम" इति वचनात् । अतः परिणामपक्षेऽप्येकान्तक्षणिकत्वं समापतितमिति ॥४१९॥ अत्राचार्य आह नियमेण तस्स चातो कहंचि ननु (तु) सबझे (हे) व भणितमिणं । एवं च तावदत्थे निच्चत्तं कस्स व विरुद्धं ? ॥ ४२०॥ नियमेन तस्य-पूर्वरूपस्य त्यागो भवत्येव, परं कथंचित्, न सर्वथा, तत्संवन्धिनो मृदादिरूपस्यान्वयतो दर्शनात् , C OALSAROSAROSCORCE ॥१७॥ Jain Education i n For Private & Personel Use Only MMww.jainelibrary.org Page #349 -------------------------------------------------------------------------- ________________ Jain Education Inte इदं च सप्रपञ्चं प्राक् भणितमेव । ततः किमित्याह - एवं च सति कथंचित् पूर्वरूपनिवृत्त्या भावानामतादवस्थ्ये |सति अनित्यत्वं कस्य वा विरुद्धं ?, नैव कस्यचिदित्यर्थः ॥ ४२० ॥ इह परिणाम सिद्धौ वस्तुनः कथंचित्पूर्वरूपत्यागसि - द्विर्नान्यथेति तां प्राक् सुखादियोगान्यथानुपपत्तिवलेनोपपादितामपि सांप्रतमध्यक्षत उपपादयन्नाह - पच्चक्खेणेव तहा अणुगमवइरेगगहणतो सिद्धं । वत्थु परिणामि (म)रूवं मिम्मयघडवेदणाउत्ति ॥ ४२१ ॥ तथेति समुच्चये । प्रत्यक्षेणैवानुगमव्यतिरेकयोर्ग्रहणात् वस्तु परिणामिरूपं सिद्धं, परिणामस्यानुगमव्यतिरेकात्मकत्वात् । कथं पुनः प्रत्यक्षेणानुगमव्यतिरेकयोर्ग्रहणमिति चेत् ? । अत आह-'मिम्मयघडवेयणाउत्ति' मृण्मयघटवेदनात्। एतदुक्तं भवति यतो मृत्पिण्डादुपजायमाने घटे मृत् अन्वयिनी मृत्पिण्डत्वपर्यायव्यावृत्तिश्च प्रत्यक्षत एव वेद्यते, तस्मात्तदात्मक परिणामरूपं वस्तु प्रत्यक्षत एव सिद्धम् ॥ ४२१ ॥ अत्र पराभिप्रायं दूषयितुमारभतेसिदं पञ्चक्खं वियप्पतो तमविगप्पगं होउ । तेवि तहेव सो णु घेप्पइ जम्हा सरूवेण ॥ ४२२ ॥ स्यादेतत्-नेदमनुगमव्यतिरेकग्रहणात्मकं ज्ञानं प्रत्यक्षम् । कुत इत्याह - विकल्पाद् - विकल्परूपत्वात्, प्रत्यक्षं हि Xxx w.jainelibrary.org Page #350 -------------------------------------------------------------------------- ________________ धर्म ॥१७३॥ कल्पनापोढम् । तदुक्तम् - " प्रत्यक्षं कल्पनापोढमभ्रान्तमभिलापिनी । प्रतीतिः कल्पनेत्यादि" । इदं तु अनुगमव्यतिरेकग्रहणात्मकं ज्ञानं कल्पनात्मकमतो न प्रत्यक्षम्, तत्कथमुक्तं परिणामरूपं वस्तु प्रत्यक्षतः सिद्धमिति । आचार्य आह-'तमविकप्पगं होउ' तत्प्रत्यक्षमविकल्पकं भवतु, नात्र कश्चिद्दोषः यस्मात्तेनाप्यविकल्पकप्रत्यक्षेण स भावः | खरूपेण तथैव-परिणामिरूपतया गृह्यते, नान्यथा, तस्य यथावस्थितार्थग्रहणस्वभावत्वात्, अर्थस्य च परिणामरूपतयैव | स्थितत्वादिति ॥ ४२२ ॥ अत्रैवाशङ्काशेपमपाकुर्वन्नाह - नय तस्स तं ण रूवं कारणनियमादिभावतो णेयं । पचपिभावी हंत विह (य) प्पो विणा हेऊ ॥ ४२३ ॥ न च तस्य-भावस्य तत्— अनुगमव्यतिरेकात्मकत्वरूपं न ज्ञेयं, किंतु तदेव ज्ञेयम् । कुत इत्याह-कारणनियमादिभावतः, आदिशब्दात्कार्यनियमभावपरिग्रहः, कार्यकारणभावनियमादित्यर्थः । अन्यथा स एव नोपपद्येत, यथा च नोपपद्यते तथा प्रागेव सप्रपञ्चमभिहितमिति न पुनरिहोच्यते । अपि चायं विकल्पः प्रत्यक्षपृष्ठभावी सन् नाहेतुको युक्तः, सदाभावादिप्रसङ्गात् ॥ ४२३ ॥ किंतु तस्सामत्थप्पभवो न य स सजातीय भेदगहरूवो । संग्रहणिः. 1120311 ww Page #351 -------------------------------------------------------------------------- ________________ ASSESSORIAS*** ता तंपि तहारूवं गेण्हइ किंवा तमन्नति ? ॥ ४२४ ॥ तत्सामर्थ्यप्रभवो, न च स-विकल्पस्तत्सामर्थ्यादुद्भूतोऽपि सजातीयभेदग्रहरूपः-सजातीयादपि व्यक्त्यन्तरात् मृ|त्पिण्डादिघटान्तरादेः भेदस्य ग्राहकः सकलसजातीयव्यावृत्तवस्तुग्रहणरूप इतियावत् , किंतु सजातीयेन सहाभेदस्य ग्राहकः,तथानुभवात् । 'ता' तस्मात्तदपि-अविकल्पकं प्रत्यक्षं भावं तथारूप-सजातीयाव्यावृत्तखरूपं गृह्णाति, अन्यथा तस्य विकल्पस्य तद्रूपानुकाराभावेन तत्सामर्थ्यप्रभवत्वानुपपत्तेः । परमेव दूषयितुं पृच्छति-'किं वा तमन्नंति' किं वा तत्-अविकल्पकं तथारूपाद्भावात् अन्यं भावं गृह्णाति ? ॥४२४ ॥ पर आह तं चिय उभयविभिन्नं किन्न वियप्पोवि तारिसो होइ ? । सारिक्खविप्पलंभा तह भेदे किमिह सारिक्खं ? ॥ ४२५ ॥ यमेव भावं विकल्पो गृह्णाति तमेव निर्विकल्पकमपि परं किंतु उभयविभिन्नं-सजातीयविजातीयविभिन्नं,विकल्पस्तु विजातीयादेव व्यावृत्तं न सजातीयादपि । आचार्य आह-किन्न विकल्पोऽपि तत्सामर्थ्यप्रभवस्तादृशः सजा-2 तीयविजातीयविभिन्नभावखरूपग्राहको भवति ?, तत्सामर्थ्यप्रभवत्वाद्धि सोऽपि विकल्पस्तादृश एव युक्तो नान्या-18 |दृश इति भावः। पर आह-'सारिक्खविप्पलंभात्' सदृशापरापरदर्शनात् विप्रलम्भात् नासौ विकल्पस्तादृशो विजा SOSAROSAGARCANCCC Jain Education Intern For Private & Personel Use Only 14.56 m jainelibrary.org Page #352 -------------------------------------------------------------------------- ________________ धर्म ॥१७४॥ Jain Education Inte |तीयभेदस्येव सजातीय भेदस्यापि ग्राहको भवतीत्यत्राह - 'तह भेए किमिह सारिक्ख' तथा — सर्वेभ्यः सर्वात्मना | भेदे - वैलक्षण्ये सति किमिह भावानां परस्परं सादृश्यं यद्वशाद्विप्रलम्भः स्यात् ?, नैव किंचिदित्यभिप्रायः । अथोच्येतअतत्कारणात्कार्यव्यावृत्तिनिबन्धनं परिकल्पितं सादृश्यमस्त्येव, तत्कथमुच्यते ' तह भेए किमिह सारिच्छ मिति अतत्कारणादिभ्य इव तत्कारणादिभ्योऽपि व्यावृत्तेः पटादविशेषेण व्यावृत्तयोरपि गोघटयोरिव परस्परं व्यावृत्ततया व्यावृत्तिनिबन्धनस्यापि सादृश्यस्य परिकल्पयितुमशक्यत्वात्, परिकल्पितस्य च परमार्थतः खरविषाणकल्पत्वेन यथावस्थित वस्तुभेदग्रहणविबन्धकत्वायोगात् ॥ ४२५ ॥ पराभिप्रायं दूषयितुमारेकते - अह तं अपडुं वा तम्मि सजातीय भेदगहणम्मि । इतरमि तु णो एवं उभयसभावादिदोसाओ ॥ ४२६ ॥ अथ तदपि निर्विकल्पकं प्रत्यक्षं सजातीयभेदग्रहणे भ्रान्तमितरस्मिंश्च विजातीयभेदग्रहणे न भ्रान्तमतस्तत्पृष्ठभावी विकल्पोऽपि न विजातीयभेदस्येव सजातीयभेदस्यापि ग्राहको भवति, यद्वा तदपि निर्विकल्पकं सजातीयभेदग्रहणे न पटु इतरस्मिंश्च पटु, ततः (अ) पवनुभवाहितसंस्कारप्रकोपसामर्थ्यादयमप्युपजायमानो विकल्पो विजातीय| भेदस्यैव ग्राहको भवति नतु सजातीय भेदस्यापि । अत्राह - 'एवमुभयसहावादिदोसाओ' एवं सति उभयस्वभावादि संग्रहणि" ॥१७४॥ Page #353 -------------------------------------------------------------------------- ________________ ACCOCIECCALCOHOLESA दोषाः प्राप्नुवन्ति । तुः पूरणे । तथाहि-तनिर्विकल्पकं येनैव स्वभावेन विशिष्टं सत् सजातीयभेदग्रहणे भ्रान्तमपटु दवा किं तेनैव खभावेन विजातीयभेदग्रहणे अभ्रान्तं पटु वा, आहोश्चित् अन्येन ? । यदि तेनैव तर्हि सजातीयभेद-15 स्येव तत्खभावसामर्थ्याद्विजातीयभेदस्यापि ग्रहणं न स्यात्, यद्वा विजातीयभेदग्रहणवत् खभावाभेदात् सजातीयभेदग्रहणमविकल्पं स्यात् , तथा च तदनुभवाहितसंस्कारप्रकोपसामर्थ्यादुपजायमानो विकल्पोऽपि सजातीयविजा|तीयभेदयोरविशेषेण ग्राहकः स्यात् न वा कस्यचिदपि । अथान्येनेति पक्षस्तर्हि हन्त तस्योभयस्वभावताऽऽपत्तिः, सा च खतन्त्रनीतिविरोधिनी, सर्ववस्तूनां निरंशैकखभावतया अभ्युपगमात् । अपि च, तौ स्वभावौ ततो निर्विकल्पकात् भिन्नौ वा स्यातामभिन्नी वा भिन्नाभिन्नौ वा ? । यदि भिन्नौ ततस्तस्य ताविति संवन्धानुपपत्तिः। अथाभिन्नौ तर्हि तयोः स्वभावयोरकत्वम् , एकस्मात् धर्मिणोऽनन्यत्वात्तत्स्वरूपवत्, तथा च सति कथमेकमुभयखभावमिति ? अथ भिन्नाभिन्नौ तर्हि खतजनीतित्यागो जात्यन्तरात्मकभेदाभेदाभ्युपगमलक्षणपरसिद्धान्ताश्रयणादिति । अन्यच, 'तं चिय उभयविभिन्न मिति' यदुक्तं तत्वाभ्युपगमविरुद्धं, यतो विकल्पस्य गृहीतग्राहित्वमिष्यते तत् 'तं चिय | उभयविभिन्न'मित्यभ्युपगमे सति विरुध्यते ॥ ४२६ ॥ तथाहि निच्छयनाणेण तहा जारिसतो सोऽवगम्मती भावो। MACOCALONELORCAMSKSACARENCE R OO For Private & Personel Use Only Ril Page #354 -------------------------------------------------------------------------- ________________ धर्म ॥१७५॥ जड़ तेचि तारिसओ तो तस्स गिहीतगाहित्तं ॥ ४२७ ॥ तथेति दूषणान्तरसमुच्चये । यादृशो भावो निश्चयज्ञानेन - सविकल्पकेनावगम्यते यदि तेन- अविकल्पकेन तादृशएवावगम्यते ततस्तस्य - विकल्पज्ञानस्य गृहीतग्राहित्वं स्यान्नान्यथेति ॥ ४२७ ॥ इतश्च 'तं चिय उभयविभिन्न' | मित्युक्तं,' यस्मात् - अज्झवसियत भावा दिस्सविगप्पाण एगकरणेण । तम्मि पत्ती पत्ती जुज्जति नतु अन्नहा किंचि ॥ ४२८ ॥ अध्यवसितो - निश्चितस्तस्य - दृश्यस्य यो भावः - स्वरूपं तस्मात् दृश्यभावविनिश्चयादित्यर्थो दृश्यविकल्पयोरेकी करम दृश्यधिकल्प्यावर्थावेकीकृत्येत्यर्थः तस्मिन् - दृश्ये वस्तुनि प्रवृत्तिः, प्रवृत्तस्य च सतस्तस्यार्थस्य प्राप्तिर्युज्यते, न त्वम्यथा अध्यवसिततद्भावमन्तरेणं किंचिदपि दृश्यविकल्पैकीकरणप्रवृत्त्यादि युज्यते ॥ ४२८ ॥ कुत इत्याहअच्तं भेदाओ अतिप्पसंगातों किंच तं मोतुं । तुले अवबोहत्ते उग्गहमेसम्म को रागो ? ॥ ४२९ ॥ संग्रहणिः, ॥ १७५ ॥ fi Page #355 -------------------------------------------------------------------------- ________________ Jain Education Int अत्यन्तं भेदात्, दृश्यं हि स्खलक्षणमर्थक्रियासमर्थ सकलसजातीयविजातीयव्यावृत्तं, विकल्प्यं तु सामान्यलक्षणं क्रियाविकलमिष्यते, ततोऽत्यन्तं भेदात् कथमनयोरकीकरणम् ?; एकीकरणनिमित्तस्य साधर्म्यस्यैकान्तेनाभावात् । अथेत्थमत्यन्तं भेदेऽप्येकीकरणमिष्यते, तत्राह -- अतिप्रसङ्गात् नीलविकल्पाकारस्यापि पीतखलक्षणेन सह एकीकरणप्रसङ्गापत्तेः भेदाविशेषात्, तथा च प्रतिनियतसकलव्यवहारोच्छेदप्रसङ्गः । तस्मादव्यवसिततद्भावत्वा देवै कीकरणादि युज्यते नान्यथा । दृश्यं चाविगानेनाध्यवसीयते सजातीयाव्यावृत्तमतस्त तथाभूतमेवाङ्गीकर्त्तव्यम् । तथा च |सति निर्विकल्पमपि यथावस्थितार्थग्रहणस्वभावत्वात् तथारूपमेव तत् गृह्णाति न तूभयविभिन्नमिति स्थितम् ॥ निर्विकल्पक समानतामेव विकल्पस्य प्रकारान्तरेण समर्थयमानोऽभ्युच्चयन्नाह - 'किंचेत्यादि' किंच तं- विकल्पं मुक्तत्वा तुल्ये – समाने अवबोधत्वे - परिच्छेदरूपत्वे सति अवग्रहमात्रे - अवग्रहकल्पनिर्विकल्पकमात्रे को रागः १ आसक्तता भवतो येन तदेवमिष्यते न विकल्पः नैवासौ युक्तो, द्वयोरपि विशेषाभावेनास्य निर्निबन्धनत्वादिति भावः ॥ ४२९ ॥ पराभिमतं विशेषमाशङ्का दूषयति अह सोऽवाहितविसओ इतरस्सवि हंत केण वाधा तु ? | अत्थे सदाभावा तद्गतत्ता य तस्सति ॥ ४३० ॥ Page #356 -------------------------------------------------------------------------- ________________ धर्म ॥१७६॥ Jain Education In अथ सः - अवग्रहो निर्विकल्पकापरपर्यायोऽबाधितविषय इति हेतोस्तस्मिन्नवग्रहे रागः । अत्राह -- इतरस्यापि - विकल्पस्य हन्त केन बाधा ?, नैव केनापीत्यर्थः । पर आह- अर्थे शब्दाभावात् तदनुगतत्वाच्च - शब्दानुगतत्वाच्च तस्यविकल्पस्य बाध्यमानविषयता भवतीति शेषः । एतदुक्तं भवति यस्मादर्थादिदमिन्द्रियज्ञानमुदयपदवीं समासादयति तस्यैवार्थस्य रूपमनुकर्तुमुत्सहते, जनकत्वात्, नान्यस्य । तदुक्तम् — “ तद्धि अर्थसामर्थ्यनोदीयमानं तद्रूपमेवानुकुर्या | दिति" । न चार्थे शब्दाः सन्ति, नाप्यर्थात्मानः शब्दाः, येन तस्मिन्नर्थे स्वकार्यभूतविज्ञानादर्शके प्रतिभासमाने अर्थवदनुकारितान्वयव्यतिरेकाः सन्तस्तेऽपि कारणभूताः शब्दाः प्रतिभासेरन् । न चान्यादृशोऽर्थः स्वकार्यभूते विज्ञाने अन्यादृशं प्रतिभासं पुरस्कर्तुमलं यतः कारणस्य जनकत्वं कार्यान्तरात् स्वकार्यस्य भेदकत्वे सति भवति, अन्यथा सर्वस्यापि स्वकारणातिरेकेण कारणान्तरादप्युत्पत्त्या कुत्रचिदप्यन्वयव्यतिरेकानुविधानाभावादहेतुकता स्यात् । तस्मान्नायमर्थः स्वविज्ञानं जनयत् अर्थान्तरसंबन्धिनं प्रतिभासं तत्राधत्ते । तदुक्तम् — “ तस्मादयमुपनिपत्य विज्ञानं जनयन्नानात्मनान्तरीयकं प्रतिभासं पुरस्कर्तुं युक्तो रूपादय इव परस्परमिति” । अर्थान्तरभूतशब्दसंवन्धिप्रतिभासात्मकं चेदं विकल्पज्ञानमतो न बाह्यरूपादिखलक्षणविषयं तज्जन्यत्वाभावात्, अकारणस्य च विषयत्वायोगात् । यदाह - " नाकारणं विषय " इति, अथ च तदध्यवसायि ततो वाध्यमानविषयतेति ॥ ४३० ॥ अत्रोत्तरमाह - अत्थगयसद्दगहणा णो तदणुगतो ततोत्ति अवि एवं । संग्रहणिः, ॥१७६॥ Page #357 -------------------------------------------------------------------------- ________________ तब्बोहसहजमणवइजोगाओ कम्महेऊतो ॥ ४३१ ॥ 'तओत्ति'सको विकल्पो न अर्थगतशब्दग्रहणात्तदनुगतः-शब्दप्रतिभासानुगतः, अपित्वेवं-किंतु एवमेव शब्दप्रतिभासानुगतः, एवमेवापि कुतः समुपजायत इति चेदत आह-कर्महेतुकात्तद्बोधसहजमनोवचनयोगात्-कर्मजनितविवक्षितार्थावबोधसहभूतमनोवचनयोगात् । इदमुक्तं भवति-अर्थात्मानः शब्दाः सन्तीयेवमर्थगतशब्दग्रहणान्नासौविकल्पः शब्दाकारानुगत इष्यते, तथाप्रतिभासाभावात् , किंतु तथाविधकर्मविपाकोदयसामर्थ्य हेतु कविवक्षितार्थावबोधसहसमुद्भूतमनोयोगवचनयोगप्रभावात् , तत्र मनोयोगसामर्थ्यादन्तर्जल्पाकारस्य प्रभवो, वचनयोगसाम-17 र्थ्याच बाह्यशब्दस्य,ततो न कश्चिदिह पूर्वोक्तदोषावकाशः। नहि घटं विकल्पयतः पुंस इत्थं प्रतिभास उदयते यथा| अयं घटः शब्दः शब्दयुक्तो वेति, तथानुभवाभावात् , किंतु अयं घटो घटशब्दवाच्य इति । ततो यदुच्यते-'नह्यर्थे शब्दाः सन्ति तदात्मानो वा, येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरन्निति, तद्वहिः प्लवते, अर्थगतशब्दग्रहणात्मकशब्दाकारस्य तथाप्रतिभासत्वेनानभ्युपगमात् , तदन्यरूपस्य च शब्दाकारस्य वोधरूपतादिवत् खहेतोरुपजायमानस्य ज्ञानस्यार्थसामर्थ्यजन्यत्वाबाधकत्वात् । यदपि चोक्तं-'न चान्यारशोऽर्थः खकार्यभूते विज्ञाने' इत्यादि, तदप्यन्धकारननप्रख्यं, वाह्यार्थजन्यतया शब्दाकारस्थानभ्युपगमात्, वाह्यार्थगतरूपग्रहणात्मकतया रूपाकारस्येव 18 वाद्यार्थगतशब्दग्रहणात्मकतया तस्यानुभवाभावात् ॥ ४३१॥ ASAARCCCCCCCCCCX REGARCASSENGER-RHGAOSALSARS - Jnin Education in Doww.jainelibrary.org Page #358 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ॥१७७॥ ROCKROSASSAMS अह अस्थमंतरेणवि भाषा इसरम्मि किं न सो अत्थि ? । अज्झारोवेण तओ एत्थवि तीतादवेक्खाए ॥ ४३२ ॥ __ अथोच्येत-न विकल्पस्य शब्दाकारानुविद्धतया बाध्यमानविषयता, किंतु कदाचिदर्थमन्तरेणापि भावात् , यदि ह्यर्थनिबन्धनोऽयं विकल्पः स्यात् ततो न कदाचनाप्यर्थमन्तरेण भवेत्, भवति चार्थमन्तरेणापि, यथा-मरीचिकासु जलविकल्पस्तस्मान्नैवासावर्थनिबन्धनः। अत्राह-'इयरम्मि किन्न सो अत्थि' इतरस्मिन्-निर्विकल्पके किन्न सोऽर्थमन्तरेणापि भावोऽस्ति ?, अस्त्येवेतिभावः, कोशांदुकादौ तथादर्शनात् । इतर आह-'अज्झारोपेण तओ' सकोऽर्थमन्तरेणापि निर्विकल्पकभावोऽध्यारोपेण-यः पूर्वमुपलब्धोऽर्थस्तत्समारोपेण, न बर्थमन्तरेणापि उपजायमानमविकल्पकमसन्तानुपलब्धषष्ठस्कन्धविपयमुपजायते, तस्मात्तदप्यर्थनिबन्धनमिति न काचित्क्षितिः । अत्राह-एत्थवि तीयादवेक्खाए' अत्रापि-विकल्पे अतीताधर्थापेक्षया अध्यारोपेण भावः समान एव, नहि विकल्पोऽपि पुरोवर्त्तिनमर्थमन्तरेणोपजायमानः पूर्वानुभूतार्थाध्यारोपमन्तरेणोपजायते इति ॥४३२॥ पर आह तं अन्नत्तविसिटुं समाणमेयं ति एवमाईयं । जं जं निमित्तमिहइं तं तं इतरम्मि बि समाणं ॥ ४३३ ॥ ॥१७७॥ Jain Education For Private & Personel Use Only Page #359 -------------------------------------------------------------------------- ________________ Jain Education तत्-निर्विकल्पकमन्यतः शेषविज्ञानेभ्यो विशिष्टमतोऽवाधितविषयमिति चेत् । अत्राह - समानमेतत् एतत् - | विशिष्टत्वं विकल्पेऽपि समानं, तस्याप्यन्यतो विशिष्टत्वात् । कियच्चेहातिप्रबलमहामोहनिद्रावशविह्वलीभूतबुद्धीनामुस्वप्नायमानं प्रत्येकं प्रतिविधातुं शक्यमतोऽतिदेशेनो भयोरप्यवाधितविषयत्वं निमित्तसमानतामाचिख्यासुराह - 'इति एवमाईयमित्यादि' इतिः - अमुना प्रकारेण एवमादिकं यत् यत् अवाधितविषयतया निमित्तमिह - निर्विकल्पकेऽभिधीयते तत्तत् निमित्तमितरस्मिन्नपि - सविकल्प के समानं द्रष्टव्यम् ॥ ४३३ ॥ निमित्तासमानताविषयं पराभिप्रायं दुदूषयिपुराशङ्कते - अच्चंताऽसाहारणगाहगमह तं ण एवमियरं ति । तस्सेवाभावातो एवं पि न जुत्तिपडिबद्धं ॥ ४३४ ॥ अथ निर्विकल्पक प्रत्यक्षमत्यन्ताऽसाधारणग्राहक मतोऽवाधितविपयं, बाह्यार्थस्य तथारूपत्वात् न एवमत्यन्ताSसाधारणग्राहक मितरत् - विकल्पज्ञानं, सामान्यविषयत्वात् तेन वाधितविषयं, बहिरर्थस्य सामान्यरूपतया अभावात् । अत्राह - ' तस्सेवेत्यादि' एतदपि अनन्तरोक्तं न युक्तिप्रतिबद्धम् । कुत इत्याह- तस्यैवात्यन्ताऽसाधारणस्याभावात् ॥ ४३४ ॥ स एव कथमितिचेत् अत आह Page #360 -------------------------------------------------------------------------- ________________ SCNCR है। संग्रहणि XALLOCALAM ॥१७॥ सत्तादीणं साधारणत्ततो अणुभवप्पसिद्धीतो। होज व भावाभावो तेसिं अञ्चंतभेदम्मि ॥ ४३५ ॥ सत्त्वादीनामादिशब्दात् ज्ञेयत्वप्रमेयत्वादीनां साधारणत्वात् । एतदपि कथं सिद्धमित्यत आह-अनुभवप्रसिद्धितः, अविगानेन ह्यनुभवप्रसिद्धाः सत्त्वादयो धर्मा वस्तूनां साधारणाः । अत्रैव विपक्षे वाधामाह-'होज वेत्यादि' वाशब्दोऽवधारणे भिन्नक्रमश्च, स च यथास्थानं योक्ष्यते । अन्यथा तेषां वस्तूनामत्यन्तं भेदे सति साधारणसत्त्वादिधर्माभावे सति भावाभाव एव-स्वरूपाभाव एव भवेत् । तथाहि-यदि सत्त्वस्यापि व्यावृत्तिस्ततोऽसत्त्वमेवापद्यत इति ॥४३५ ॥ अत्र परमतमाशङ्कमान आह जं एगम्मी सत्तं अन्नम्मिवि अह तु तस्स भावम्मि । पावइ एगत्तं चिय तेसिं तम्हा ठिओ भेदो ॥ ४३६ ॥ ___ अथ मन्येथास्तुः पूरणे, यत्सत्त्वमेकस्मिन् भावे वर्त्तते तस्य-सत्त्वस्यान्यत्रापि भावे सति तयोरेकत्वमेव प्राप्नोति, न चैतदस्ति, तयोर्भेदेनोपलभ्यमानत्वात् । तस्मात्तयोः सत्त्वस्य परस्परं भेदः स्थित इति ॥ ४३६॥ अत्राह साधारणं ण एगं अवि समाणतणं ति ण य एतं । OSAROLOGROCROCOCCC OROSCAMOST ॥१७८॥ Jain Education For Private & Personel Use Only | Page #361 -------------------------------------------------------------------------- ________________ Jain Education Inte एताऽभेदम्मि विजुज्जइ पच्चक्खसंसिद्धं ॥ ४३७ ॥ ननु सत्त्वादि साधारणमस्माभिरुक्तं, न च साधारणमित्येकमुच्यते, अपि तु परस्परं समानत्वम्, नचैतत्समानत्वं प्रत्यक्षप्रमाणसिद्धमेकान्ताभेदेऽपि युज्यते, आस्तामेकान्त भेदेऽपीत्यपिशब्दार्थः, तस्मान्न भावानां परस्परमेकत्वं प्राप्नोतीति । तदेवं यस्मात्साधारणसत्त्वाद्यनभ्युपगमे भावाभावः प्राप्नोति तस्मात्तदवश्यमङ्गीकर्त्तव्यम्, तथा च सति वस्तुनोऽत्यन्ताऽसाधारणरूपस्याभावात्तद्वाहकं भवत्परिकल्पितं निर्विकल्पकप्रत्यक्षमेव वाधितविषयं नतु प्रमाणसं - सिद्धसमानासमानरूपवस्तुग्रहणप्रवणं सविकल्पकमतस्तदेव प्रमाणं नत्वितरदिति ॥ ४३७ ॥ एतदेवोपसंहरन्नाह - तम्हा तग्गहणाओ ततो पवित्तीओं लोगसिद्धीओ । सवियप्पं पच्चक्खं सिद्धं ति कयं पसंगेण ॥ ४३८ ॥ तस्मात्तद्ग्रहणात्-समानासमानरूपवस्तुग्रहणात्तस्माच्च तद्ब्रहणात्प्रवृत्तेरविगानेन सकललोकसिद्धेः । चशब्दस्यानुक्तसमुच्चयार्थस्य गम्यमानत्वादेतदपि द्रष्टव्यं-प्रवृत्तस्य सतस्तथाभूतार्थप्राप्तेश्च संविकल्पकं ज्ञानं प्रत्यक्षं प्रमाणं सिद्धमक्षाश्रितत्वादविसंवादकत्वाच्च । ततः प्रत्यक्षप्रमाणेन अन्वयव्यतिरेकात्मकतया गृह्यमाणत्वाद्वस्तु परिणामरूपं सिद्धं, तत्सिद्धौ च सर्वथा विनाशाभावात् किमयं नाशः सहेतुकः किंवा निर्हेतुक इति चिन्ताऽप्यत्र नोपपद्यते इति कृतं Page #362 -------------------------------------------------------------------------- ________________ धर्म ॥ १७९॥ | प्रसङ्गेन ॥ ४३८ ॥ तदेवं परोक्तदूषणानामिह लेशतोऽप्यनवकाशस्तथापि परस्यातीव जडबुद्धितां प्रचिकट विषुर्दूपणा भासतामुद्भावयन्नाह- तह भावaat far कुणंति पयईऍ णस्सरे भावे । जं भणियं तदत्तं अगदोसप्पसंगाओ ॥ ४३९ ॥ तथा यद्भणितं खपक्षमुपसंहरता भावहेतव एव प्रकृत्या नश्वरान् भावान् कुर्वन्तीति, कुत इत्याह- अनेकदोषप्रसङ्गात् ॥ ४३९ ॥ तमेव दर्शयति इय भावहेतवो च्चिय तन्नासस्सावि हेतवो नियमा । एवं च उभयभावो पावइ एगम्मि समयम्मि ॥ ४४० ॥ इतिः - एवमभ्युपगमे न भावहेतव एव घटादिभावहेत्तव एव मृत्पिण्डादयो नियमात् तन्नाशस्यापि घटादिनाशस्यापि हेतव आपद्यन्ते । अस्त्वेवं का नो हानिरिति चेत् ?, अत आह— एवं सति एकस्मिन्नेव समये-क्षणे उभयभावःउत्पादविनाशभावः प्राप्नोति ॥ ४४० ॥ भावम्मिय भावो इतरस्स न जुज्जती उ भावे य । तदयुक्तमवगन्तव्यम् । संग्रहणिः. ॥ १७९ ॥ Page #363 -------------------------------------------------------------------------- ________________ क तेणाविरोधतो पुण पावइ निचंपि तब्भावो ॥ ४४१॥ तद्भावे च-उभयभावे चैकस्मिन्समये प्राप्नुवति सति इतरख उत्पादस्य भावः-सद्भावो न युज्यते, स्वविनाशेन तस्य क्रोडीकृतत्वात् , द्वितीयक्षणवत् । अथ मा भूत् दृष्टविरोध इति खविनाशभावेऽपि तस्य भाव इष्यते। तत आह-भावे चोत्पादस्येष्यमाणे तेन-खविनाशेन सहाविरोधात् नित्यमपि-आकालमपि तद्भावो-वस्तुभावः प्राप्नोति ॥ ४४१॥ __ अह उ खणहितिधम्मा भावो नासो न जुत्तमेयंपि। निरहेउगो स इट्टो एसो य जओ सहेउ त्ति ॥ ४४२ ॥ अथ क्षणस्थितिधर्मा भाय एच नाशस्तदुक्तं-"न विनाशो नामान्य एव भावात् कश्चित् , भाव एव विनाश इति," ततो न कश्चित्पूर्वोक्तदोषावकाशः । अत्राह-न युक्तमेतदपि-पूर्वोक्तं, यस्मात्स विनाशो निर्हेतुक इष्टः, 'अहेतुत्वाद्वि| नाशस्य, खभावादनुबन्धिते"तिवचनात्, एष च भावः सहेतुक इति, तस्मात् स एव भावः क्षणस्थितिधर्मा विनाश इत्ययुक्तमिति ॥४४२॥ अह मोत्तूण सहेडं अन्नं नावेक्खइ ति णिरहेऊ । Jain Education in For Private & Personel Use Only ww.jainelibrary.org Page #364 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ॥१८॥ ६ तुल्लमिणं इतरम्मि वि अत्थविसेसे विधणिमेत्तं ॥४४३॥ अथ खहेतुं खोत्पादहेतुं-मुक्त्वा स भावो न खविनाशेऽन्यं हेतुमपेक्षते इति तस्य नाशो निहतुक इत्युच्यते । अत्राचार्य आह-तुल्यमिदमितरस्मिन्नपि-उत्पादे, न हेतुमतिरिच्यान्यं हेतुमपेक्षते इति, तत इत्थमर्थाविशेषेऽपि यदिदमुच्यते सहेतुक उत्पादो निर्हेतुको विनाश इति, तत् भावार्थशून्यं ध्वनिमात्रमेवेति ॥४४३॥ अह तं पइ हेउस्सा अहेउगत्तं पसाहियं पुत्विं । णेयेहि वियप्पेहिं जातिवियप्पा हु ते णेया ॥ ४४४ ॥ अथोच्येत-किमनेन वाग्जालेन ?, घटादिविनाशं प्रति यो हेतुर्मुद्गरादिरभ्युपगम्यते तस्याहेतुत्वमनेकैर्विकल्पैः। पूर्व-प्राक् प्रसाधितं, तदपेक्षया चासौ निर्हेतुक इत्युच्यत इत्यदोषः । अत्राह-'जाइविगप्पा हु ते नेया' ये मुद्गरादेरहेतुत्वप्रसाधनाय अनेके विकल्पाः प्रागभिहितास्ते सर्वेऽपि हुरवधारणे प्रत्यक्षबाधितविषयतया जातिविकल्पा एव ज्ञेयाः॥४४४॥ जातिविकल्पत्वमेव द्रढयति जम्हा अणुहवसिद्धे तस्सुप्पाए वि एवजातीया। संति वियप्पा तेसिं भावे विय तस्स णाभावो ॥४४५॥ ॥१८॥ Jain Education For Private & Personel Use Only Vi Page #365 -------------------------------------------------------------------------- ________________ यस्मात्तस्य-भावस्योत्पादेऽपि प्रतिप्राण्यनुभवप्रमाणसिद्धे एवंजातीया विकल्पाः सन्ति, न च तेषां विकल्पानां भावेऽपि तस्य-उत्पादस्याभावो भवति, तद्वन्नाशपक्षेऽपि भविष्यतीति ॥ ४४५॥ तानेवोत्पादविषयान् विकल्पान् दर्शयन्नाह उप्पत्तिसहावं वा-णुप्पत्तिसहावगं व तद्धेऊ । कुज्जा भावं उभया-णुभयसहावं व इति भेदा ? ॥ ४४६ ॥ तद्धेतु:-भावहेतुर्भावमुत्पत्तिखभावं वा कुर्यात् , अनुत्पत्तिखभावं वा, उभयखभावम्-उत्पत्त्यनुत्पत्तिखभावमनुभयस्वभावं वेति, भेदा-विकल्पाः , न चैतेषामन्यतमोऽपि भेदो घटते ॥ ४४६ ॥ तथा चाह जइ उप्पत्तिसहावं अफलो तस्सेव तस्सभावत्ता । तू तदवेक्खम्मि य तम्मि विणासेवि किमजुत्तं ? ॥ ४४७॥ यदि भावहेतुरुत्पत्तिखभावं भावं करोतीति पक्षस्ततः स हेतुरफलः । कुत इत्याह-तस्यैव तत्स्वभावत्वात्तदुत्पादसिद्धेः । अथोच्येत-तस्येत्थंभूत एव स्वभावो येन विवक्षितं हेतुमपेक्ष्योत्पद्यते नान्यथेत्यत आह-'तदवेक्खम्मीत्या DMCAMOSAROKAR For Private & Personel Use Only O ww.jainelibrary.org Page #366 -------------------------------------------------------------------------- ________________ संग्रहणि. % ॥१८॥ % दि' तस्मिन्नत्पादे तदपेक्षे-विवक्षितहेत्वपेक्षे अभ्युपगम्यमाने हन्त विनाशेऽपि किमयुक्तं स्याद् ?, नैव किंचित् ॥४४७॥ तथाहि तस्सेवेस सहावो पतिणिययं चेव अणुवगारिपि । हेउं पप्प विणस्सइ भावोत्ति सहेउगो तो सो॥ ४४८॥ तस्यैव-घटादेः खहेतोरुत्पन्नस्य एष खभावो येन प्रतिनियतमेवानुपकारिणमपि सहकारिणं हेतुमपेक्ष्य स घटादिर्भावो विनश्यतीति तस्मादुत्पादवत्सोऽपि विनाशः सहेतुक एव ॥४४८ ॥ एतदेव भावयति णय भावहेतवो वि हु कुणंति भावस्स किंचि तुह पक्खे । जं तस्सत्तामेत्तं पडुच्च भणितो तदुप्पातो ॥ ४४९ ॥ न हि तव पक्षे भावहेतवोऽपि भावस्य किंचित् कुर्वन्ति, यत्-यस्मात्तत्सत्तामात्रं-खहेतुसत्तामात्रं प्रतीत्य तदुत्पादो भणितः, कारणस्य निरन्वयविनाशे सति तत् प्रतीत्य कार्यस्योत्पादाभ्युपगमात् ॥ ४४९॥ द्वितीयपक्षमधिकृत्याह अहऽणुप्पत्तिसहावं कुन्जा एवं नु खरविसाणंपि । % A5 ॥१८॥ % Jain Education Interna For Private Personel Use Only Page #367 -------------------------------------------------------------------------- ________________ CONCREASEA5545405 अह सो न तस्स हेऊ इतरस्स उ केण हेउत्ति ? ॥ ४५०॥ अथ भावहेतुरनुत्पत्तिस्वभावं सन्तं भावं करोतीतिपक्षः। नन्वेवं तर्हि स हेतुः खरविषाणमपि कुर्यात् , उभयोसरप्यनुत्पत्तिखभावत्वाविशेषात् । अथोच्यत-न स विवक्षितो भावहेतुः खरविषाणस्यापि हेतुः, किंतु भावस्यैव, ततो न कश्चिद्दोष इति । अत्राह-इतरस्यापि-विवक्षितभावस्य केन कारणेन स विवक्षितो हेतुर्भवति?,न केनापि कारणेन हेतुर्भवितुमर्हतीति भावः॥४५०॥ कुत इत्याह जमणुप्पत्तिसहावा खरसिंगघडादओऽविसेसेण । __ता एगस्साऽहेऊ सेसाणवि, भेयसिद्धी वा ॥ ४५१ ॥ यत्-यस्मादविशेषेणानुत्पत्तिखभावाः खरशृङ्गघटादयः'ता' तस्मात् यद्येकस्य खरविषाणस्याहेतुस्तर्हि शेषाणामपि -घटादीनामहेतुरेव । भेदसिद्धिर्वेति-उत्पत्त्यनुत्पत्तिलक्षणखभावभेदसिद्धिा परस्परं खरशृङ्गघटादीनां सा प्रसज्यते ॥४५१॥ तथाहि तस्सत्थि इहं हेऊ तत्थो उप्पजते य ता कह णु ? । एसोऽणुप्पत्तिसहावगो त्ति पन्ना ववइसंति ॥ ४५२ ॥ Jain Education inte For Private & Personel Use Only Page #368 -------------------------------------------------------------------------- ________________ ॥१८२॥ इह-जगति तस्य-उत्पाद्यस्य घटादेरुत्पत्ती हेतुस्तत्स्थः-उत्पाद्यघटादिस्थः तथाभवनखभावतालक्षणोऽस्ति । चो संग्रणित यस्मादर्थे । यस्मात् घटादिकमुत्पद्यते, विषयेण विषयिणो लक्षणात् उत्पद्यमानं दृश्यते, न तु खरविषाणस्य तत्स्थो हेतुरस्ति, विवक्षितकारणानन्तरं तदुत्पादादर्शनादिति, अस्त्वेवं भेदसिद्धिः, सुयुक्तियुक्तत्वादिति चेत् । अत आह-'ता कह णु इत्यादि' यद्येवं भेदसिद्धिरिष्यते ततः कथं नु एषः-उत्पाद्यो घटादिको भावोऽनुत्पत्तिखभाव इति प्राज्ञा भवादशा व्यपदिशन्तीति ॥ ४५२ ॥ तृतीयं पक्षमधिकृत्याह उभयसहावत्तम्मि उ विरोहदोसोऽणिवारियप्पसरो। इतरम्मिवि उप्पातो अभावतो चेव नो जुत्तो ॥ ४५३ ॥ उभयखभावत्वे तु अङ्गीक्रियमाणे विरोधदोषोऽनिवारितप्रसरः प्राप्नोति, तथाहि-यदि उत्पत्तिखभावं कार्य कथम-18 नत्पत्तिखभावं?, अथानुत्पत्तिखभावं कथमत्पत्तिखभावमिति?, एकस्य विरुद्धधर्माध्यासायोगात । कथंचित योगेऽपि men है स्वकृतान्तप्रकोपात् । चरमपक्षं दूपयितुमाह-इतरस्मिन्नपि-अनुभयखभावत्वे तथाभूतस्य वस्तुनोऽभावान्नोत्पादो युक्त इति ॥४५३॥ अत्र पर आह SORRORSCORRECOLOGIENCE For Private Personal use only Page #369 -------------------------------------------------------------------------- ________________ SALMERRORAKC किं तिण्हं किं सण्ह किं कसिणं सुकिल्लं च खरसिंग। जह निविसया भेया एए एमेव एतेवि ॥ ४५४ ॥ | यथा खरशृङ्गं कि तीक्ष्णं किं श्लक्ष्णं किं कृष्णं किं वा शुक्लमित्येते भेदाः-विकल्पाः क्रियमाणा निर्विषया एव, विषयस्य खरशृङ्गस्य खरूपतोऽभावात् । एवमेतेऽपि उत्पत्तिखभावमित्यादयो विकल्पा निर्विषया द्रष्टव्याः॥४५४ ॥ जम्हाऽणुप्पन्नो सो भावो खरसिंगतुल्ल एवेह। उप्पन्नम्मि य तम्मिवि वियप्पणा निप्फला चेव ॥ ४५५ ॥ यस्मादसौ भावोऽनुत्पन्नः सन् इह-जगति खरशृङ्गतुल्य एव, खरूपसत्त्वाभावाविशेषात् । अथोच्यत-नानुत्पन्ने | भावे एते विकल्पाः क्रियन्ते, किंतूत्पन्ने, ततो नाधिकृतविकल्पानां खरविषाणतण्यादिविषयविकल्पानामिव निर्वि पयतेति, अत्राह-'उप्पन्नम्मीत्यादि' उत्पन्ने च तस्मिन् भावे या पूर्वोक्ता विकल्पना सा निष्फलैव, दृष्टस्य बाधिहै तुमशक्यत्वात् ॥ ४५५॥ तथाहि जो उप्पन्नो णियहेतु-भावतो दिस्सती तहाभावो । १ लन्हें इति क-पुस्तके । SNOODLOCALLUCKNORORSCONG Jain Education in For Private & Personel Use Only alww.jainelibrary.org Page #370 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ॥१८॥ तस्स वियप्पाभावो जलणस्सुण्हत्तणं किह णु ? ॥ ४५६ ॥ यो भावो घटादिको निजहेतुभावतः-खोत्पादहेतुखभावतः उत्पन्नस्तथैव चोत्पन्नतया दृश्यते तस्य भावस्य विकल्पाभावः-कल्पनाऽसंभवः । अत्रैव दृष्टान्तमाह-यथा ज्वलनस्य-दहनस्योष्णत्वं कथं न्विति ? ॥ ४५६ ॥ अत्राचार्य आह उप्पत्तीऍऽविगाणं कह एसा जुज्जइ ति चिन्तमिदं ?। भणियविगप्पेहि य सबहेव एसा अजुत्ता तु ॥ ४५७ ॥ उत्पन्नो भावस्तथैव दृश्यत इत्येवमुत्पत्तावविगानं, न हि भावानामुत्पत्तौ दृश्यमानायां कश्चिद्विप्रतिपद्यते, केवलमिहेदं चिन्त्यं कथमेपोत्पत्तिदृश्यमाना युज्यत इति ?, भणितविकल्पैश्च उत्पत्तिखभावं वा तद्धेतुः कुर्यादित्यादिरूपश्चिन्त्यमाना सर्वथैवैषा-भावानामुत्पत्तिरयुक्ता । तुः पूरणे । तन्न खरशृङ्गतैयादिविकल्पा इव एते विकल्पा |निर्विषया नापि निष्फला इति ॥४५७॥ अन्यच, यथा भावानामुत्पत्तिदृश्यते तथा दीसइ य णासहेऊ-वणिवायाओ य तस्स नासोवि । तम्हा जाइवियप्पा जह एते एव तेवि त्ति ॥ ४५८ ॥ ॥१८॥ in Eduentan In For Private & Personel Use Only Page #371 -------------------------------------------------------------------------- ________________ नाशहेतपनिपातात्तस्य-भावस्य नाशोऽपि दृश्यते । चशब्दोऽभ्युच्चये, स च प्रथममेव पातनिकायां भावितः, तस्माद्यथा एते उत्पत्तिविषया विकल्पाः प्रत्यक्षबाधितविषयत्वाजातिविकल्पाः, एवमेतेऽपि 'किं कुणइ नासहेतू'। इत्यादयो विकल्पा जातिविकल्पा द्रष्टव्याः। प्रत्यक्षसिद्धस्य सहेतुकस्य नाशो (शस्य उत्पादस्येव विकल्पशतैरप्यन्यथा कर्तुमशक्यत्वात् ॥ ४५८ ॥ अपि च, यदुक्तं "जम्हाणुऽप्पन्नो" इत्यादि जातिविकल्पद्विकं तत् नाशपक्षेऽपि समानमित्यावेदयन्नाह अविणहस्स विणासे वियप्पणाऽसंगता विणहस्स । किं तीऍ फलं ? एत्थवि तुल्लमिदं जातिभेददुगं ॥ ४५९ ॥ अविनष्टस्य सतो घटादेविनाशे-विनाशविषया विकल्पना असङ्गतैव, विषयस्याभावात् । अथ मा भूदेष दोष इति विनष्टस्य सतः क्रियत इत्याह-विनष्टस्य सतो घटादेविनाशे किं तया-विनाशविषयया कल्पनया कर्त्तव्यं ?, दृष्टस्यापह्नोतुमशक्यत्वादित्येवमत्रापि-नाशपक्षेऽपि जातिभेदद्विकं-जातिविकल्पद्विकं तुल्यं-समानमिति ॥४५९॥ अत्र पराभिप्रायमाह अह उप्पत्ती दीसइ णतु णासो तस्सभावतो ण तओ। Jain Education For Private & Personel Use Only ( ww.jainelibrary.org Page #372 -------------------------------------------------------------------------- ________________ धर्म ॥१८४॥ SASSAD एगंतेणाभावो घडा कवालादिभावाओ ॥ ४६०॥ अथोच्येत-भावानामुत्पत्तिरध्यक्षतो दृश्यते, ततो यदुक्तं-'जो उप्पन्नो नियहेतु-भावओ दीसह य तह चेव । तस्स विकप्पाभावो' इति तत्सूक्तमेव, नतु नाशो दृश्यते, तस्य तुच्छरूपत्वात् , तत्कथमुच्यते 'दीसइ य नासहेऊवणिवायाओ य तस्स नासोवि ति, तस्मादुत्पादविषया एव विकल्पा जातिविकल्या न तु नाशविपया इति । आचार्य आह-न 'तउत्ति'सको विनाश एकान्तेनाभावस्तुच्छरूपः । कुत इत्याह-तस्सभावओ' भावप्रधानोऽयं निर्देशः, तत्वभावत्वात् तस्य-उत्पाद्यमानस्य कपालादेवस्तुनः खभावत्वात् । एतदपि कुतः सिद्धमिति चेत् ? अत आह'घडा कवालाइभावाओ' घटात् सकाशादव्यवधानेन कपालादेर्भावात् । एतदुक्तं भवति-मुद्रादिसंपर्कतो घटादेरनन्तरमुत्पद्यमानं कपालाद्येव तन्निवृत्तिविशिष्टं दृश्यते न तु केवला तन्निवृत्तिरेव, तत उत्पाद्यमानकपालादिखभावो घटाद्यभावो न तु तुच्छरूपः, तथा च सति कथमस्थादर्शनमहेतुजन्यता वेति? ॥४६०॥ तुच्छरूपतामेव विनाशस्य दोषान्तरप्रदर्शनेन निराकुर्वन्नाह णय एगंतेण तओ अन्नो निरुवेक्ख एव सो तत्तो। भावा, सहावभेदे भेदाभेदादिया दोसा ॥ ४६१ ॥ १esil OSASSA Jain Education in For Private 3. Personal Use Only 4 w .jainelibrary.org Page #373 -------------------------------------------------------------------------- ________________ Jain Education Inte न च ततो- मुद्गरादिना जन्यमानात्कपालादेरेकान्तेनान्यो - भिन्नखरूपो निरुपाख्यः स - घटादिविनाशः । कुत ? इत्याह- ' तत्तो भावा' इत्यादि यस्मात्ततो भावात्कपालादेर्विनाशस्य खभावभेदे - तुच्छातुच्छरूपतया खरूपभेदे सति भेदाभेदादयो दोषाः प्राप्नुवन्ति, तथाहि--यदि भेदः ततः संबन्धाभावात् घटादिनिवृत्तिविशिष्टमिदं कपालादीति विशेषणविशेष्यभावानुपपत्तिः, अथाभेदस्तर्हि तदभिन्नत्वात्कपालादेरपि तुच्छरूपतापत्तिर्निवृत्तेर्वा कपालादिरूपता, तथा च सति घटादिनिवृत्तेरभावात् घटादिभावप्रसङ्गः । भेदाभेदपक्षस्तु विरोधात्रातत्वान्न युक्तः, कथंचित् युक्ततायां च एकान्ततुच्छरूपता हान्या परसिद्धान्तापत्तिरिति । अपि च, निरुपाख्यस्य सकलशक्तिविकलतया ज्ञेयत्वोत्पत्त्यादिखभावानुत्पत्तेः तज्ज्ञानोत्पत्त्याद्यभावप्रसङ्गः केन निवारयितुं पार्यते ? । तस्मान्नैकान्तेनोत्पाद्यात्कपालादेरन्यो निरुपाख्यो विनाशः, किन्तु तद्धर्म इति ॥ ४६१ ॥ अत्र पर आह दमको भावो सुक्के व सरम्मि आतवादिसु य । तमदवादिपरिणती छायाई चैव विन्नेया ॥ ४६२ ॥ यद्युत्पाद्यमानभावान्तरधर्मरूप एव पूर्वभावस्याभावः ततो दीपे शुष्के वा सरसि आतपादिषु च आदिशब्दात् बुद्ध्यादिपरिग्रहः, को नु भावः ? - किंतु उत्पाद्यमानं भावान्तरं । यद्धर्मरूपत्वं तेषामभावस्य परिकल्प्येत, नैव किंचि - Page #374 -------------------------------------------------------------------------- ________________ धर्म॥१८५॥ Jain Education In दिति भावः । अत्राह - 'तमेत्यादि' तमोद्रव्यादिपरिणतिः छायादयश्च भावान्तररूपा विज्ञेयाः, तत्र दीपस्य भावान्तरं तमः, शुष्कसरसः शीतपवनः, आतपस्य छाया, बुद्धेश्च सामान्यं चैतन्यमात्रं विशिष्टं वा ज्ञानमित्यादि । तेन यदुच्यते भट्टांचेटेन -"यदि पूर्वभावविनिर्मुक्तं भावान्तरं प्रध्वंसाभावः ततो य एते अनुपजातविकारा दीपबुद्ध्यादयो ध्वंसन्ते तेषां कतरत् भावान्तरं व्यवस्थाप्येतेति” तत्प्रतिक्षिप्तमवसेयम्, प्रदीपानामनुपजातविकारत्वासिद्धेः, तमआदेर्विकारस्य दर्शितत्वात् । यत् पुनः " तेऽप्यव्यक्ततामात्मभावं च विकारमेव ध्वंसलक्षणमालम्बत इति चेत्, " इत्याशय "न, दीपादेर्भावरूपाव्यक्तताभावे प्रमाणाभावात्, यदि हि शक्तिरूपतापत्तिरव्यक्तिस्तदा शक्तेः कार्यदर्शनोन्नीयमानरूपत्वात् तदभावे कथं प्रदीपादयः शक्त्यात्मना व्यवस्थिताः कल्प्येरन् ?, अथोपलब्धियोग्यताविकलात्मतापत्तिरव्यक्तिरत्रापि तदात्मना व्यवस्थितौ नैव प्रमाणमस्ति न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः, आत्मनश्वासत्त्वात्कथं तदभावो वृद्ध्यादीनां विकारः ?" इत्युच्यते तदनभ्युपगमादेव न नः क्षितिमावहति, नहि प्रदीपादीनामव्यक्तरूपं विकारमभिमन्यन्ते जैनाः येन प्राचीनं विकल्पयुगलमवतेतीर्येत, किंतु तमःप्रभृतिकं, तस्याध्यक्षतो दर्शनात्, तत्र चोक्तदोषानवकाश इति । यदपि चात्मनोऽसत्त्वमुक्तं तदप्यनुपपन्नं, पूर्वोत्तरज्ञानक्षणयोरेवानुगमस्यात्मशब्दवाच्यत्वात् तस्य च स्वसंवेदनप्रत्यक्षप्रमाणसिद्धतया अपाकर्तुमशक्यत्वात्, अन्यथा पूर्वज्ञानक्षणस्य विनाशे १ भट्टचनेति ख- पुस्तके | संग्रहणि: ॥१८५॥ Page #375 -------------------------------------------------------------------------- ________________ ***Y** सति तदुत्तरस्य ज्ञानक्षणस्यात्यन्तासतः खरविषाणस्येवोत्पत्त्ययोगादिति ॥ ४६२ ॥ अत्र पर आह किं तेण ततो कीरइ ? इमिदं सिद्धसाहणं एवं । णो इत (इतर )णिवित्तिअंतरेण जं तेण एत्थं पि ॥ ४६३ ॥ सावि हु तदुब्भवच्चिय तब्भावे भावतो जहुप्पत्ती । णय एगंताभावो सा नेया वत्थुधम्मत्ता ॥ ४६४ ॥ यदि भावान्तररूप एव भावस्य प्रध्वंसस्ततः किं तेन मुद्रादिना क्रियते ?, ननु कपालायेव तेन क्रियते इत्यापतितम् । अस्तु को दोष इति चेदत्राह-'इट्ठमियमिति' इदं-मुद्गरादिना कपालाद्युत्पादनमस्माकमिष्टमेव, तथादर्शनात्, तत एवं सति सिद्धसाधनमेवेति । अत्राचार्य आह-'नो'इत्यादि यत्-यस्मान्न इतरस्य-घटादेर्निवृत्तिमन्तरेण कपालादि उत्पद्यते तेन कारणेन अत्रापि-मुद्रादिजन्यकपालाद्युत्पत्तिपक्षेऽपि ॥ ४६३ ॥ सापि-घटादिनिवृत्तिरास्तां कपालाद्युत्पत्तिर(रित्य)पिशब्दार्थः, तदुद्भवैव-मुद्रायुद्भवैव । कुत? इत्याह-तद्भावे-मुद्रादिभावे भावात् , दृष्टान्तमाहयथोत्पत्तिरिति, यथा कपालाधुत्पत्तिस्तद्भावे भावात् तदुद्भवा, तद्वदियमपि घटादिनिवृत्तिः, तदुक्तमन्यैरपि“सन् बोधगोचरःप्राप्तस्तद्भावेनोपलभ्यते । नश्यन् भावः कथं तस्य, न नाशः कार्यतामियात् ? ॥ १॥ प्राग-| ACCACANCARRICA ASSISESEISS Jain Education Inted For Private & Personel Use Only view.jainelibrary.org Page #376 -------------------------------------------------------------------------- ________________ धम संग्रहणि ॥१८॥ भूत्वा भवन् भावो, हेतुभ्यो जायते यथा। भूत्वापि न भवस्त द्वत् , हेतुभ्यो न भवत्ययम् ॥२॥” इति ॥ स्यादेतत्, घटादिनिवृत्तिस्तुच्छरूपा तत्कथं तत्र कारकव्यापारसंभवः ?, भवनधर्मिण्येव तत्संभवोपपत्तेः, न च तस्य भवनधर्मताऽस्ति, तुच्छरूपतया सकलशक्तिविकलत्वादत आह-'नयेत्यादि' न च सा-घटादिनिवृत्तिरेकान्तेनाभावस्तुच्छरूपः । कुत? इत्याह-वस्तुधर्मत्वात् । एतच प्रागेवाभिहितम् , 'नो तस्सभावओ भेओ एगंतेणाभावों' इत्यनेन ग्रन्थेन ॥ ४६४ ॥ अत्रैव विपक्षे वाधामाह अह सा ण वत्थुधम्मो ण तई ता तस्स घडणिवित्तीए । जह वत्तमाणसमए सगडस्स निवित्तिसुन्नं वा ॥ ४६५ ॥ अथ सा-घटादिनिवृत्तिन वस्तुधर्मोऽभ्युपगम्यते किंत्वेकान्ततुच्छरूपा, तत्राह-'न तई ता तस्सत्ति' न 'ता'ततः 'तई त्ति' सका घटादिनिवृत्तिस्तस्य-घटादेः संबन्धिनी प्राप्नोति, वस्त्ववस्तुनोः संबन्धाभावात् , तादात्म्यस्य तदुत्पत्तेर्वा वस्तुद्वयाधिष्ठानत्वात् । अत्रैव दृष्टान्तमाह-'घडेत्यादि' यथा घटनिवृत्ती सत्यां वर्तमानसमये-विवक्षितसमये शकटस्य निवृत्तिन घटसंबन्धिनी भवति, तादात्म्यादेः संवन्धस्याभावात् , तद्वदियमपि न तत्संबन्धिनी स्यात् । मा भूत्को दोष इति चेत् तदयुक्तम् , एवं सति घटस्य नाशो विनष्टो घट इति प्रतिप्राणिप्रसिद्धतादात्म्यसंबन्धनिबन्धन RRC-RECECONOMOCRACK ॥१८६॥ Jain Education For Private & Personel Use Only Page #377 -------------------------------------------------------------------------- ________________ ASANSORRECORR-- व्यवहारविलोपप्रसङ्गात् । नन्वयं दोषो भवत्पक्षेऽप्यपरिहार्य एव, तथाहि-घटादिनिवृत्तिरुत्पाद्यकपालादिवस्तुखभावरूपा। तदुक्तम् 'तस्सभावओ न तओ एगंतेणाभावो' इति, न च तदानीं घटो विद्यते, निवृत्तत्वात् , अन्यथा कपालाद्यनुत्पत्तेः, तत्कथं घटादितनिवृत्त्योस्तादात्म्यलक्षणः संवन्धो ? येन 'घटस्य नाश इत्यादिको व्यवहार उपपद्येतेति। उच्यते, इह घटवस्त्वेव कपालरूपतया परिणमति, सतः सर्वथाविनाशस्यात्यन्तासत उत्पादस्य चायोगात्, ततः कथंचिदवस्थितस्य घटवस्तुनः समुत्पद्यमानकपालपर्यायेण सह तादात्म्योपपत्तौ तत्वभावरूपया घटनिवृत्त्याऽपि सह तस्य तादात्म्यमुपपद्यत एव । स्यादेतत् , मृद्रव्यमेव न निवर्त्तते घटपर्यायवस्तु सर्वात्मना निवर्तत एव, तत्कथं । तस्य तन्निवृत्त्या सह तादात्म्यं घटत इति ? । नैष दोषः। मृद्रव्यवत् तस्यापि कथंचिदनिवर्तनात् , तथा प्रत्यक्षतोड-| नुभवात् । तथाहि-घटकपालानि केवलान्यपि दृष्ट्वा लोकस्तद्गतोांद्याकारानुवृत्तिदर्शनात् 'घटस्यामूनि कपालानि न शरावादीनामिति' विवेचयन् दृश्यत इति । उक्तं च-तम्मि य अणियत्तंते न नियत्तइ सवहा सो वित्ति' । घटादिनिवृत्तेर्वस्तुधर्मत्वानभ्युपगम एव दोषान्तरमाह-'सुन्नं वा' इति, यदि हि घटादिनिवृत्तिरेकान्तेन तुच्छरूपा स्यात् ततो न घटात् अनन्तरमेव कपालोत्पत्तिर्भवेत् , किंतु शून्यं, न चैतदुपलभ्यते, निर्व्यवधानं घटात् कपालोत्पत्तेर्दर्श-16 मनात् । तस्मादियं घटादिनिवृत्तिनैकान्तेन तुच्छरूपा किंतूत्पाद्यमानकपालादिवस्तुस्वभावा, तथा च सति भवनधर्म कत्वाविरोधान्न तत्र कारकव्यापारासंभवः । एतेन "तस्यापि नाशस्याभूत्वा भावोपगमात्कार्यता न विरुध्यत इति CROCARRANA निवृत्तेर्वस्तुधर्मत्वानभ्युपगम ए - किंत शून्यं, न चैतदुपलभ्यत, तथा च सति भवन ----- धर्म.३३ For Private & Personel Use Only O ww.jainelibrary.org Page #378 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि. ॥१८७॥ चेदि'त्याशङ्कय 'न, तस्य भवनधर्मिणो भावरूपताप्राप्तेरभावत्वहानेः । यतो भवतीति भावो भण्यते ततो नापरकुञ्जरादेरपि भावशब्दःप्रवृत्तिनिमित्तमिति" यदुच्यते तत् प्रतिक्षिप्तं द्रष्टव्यम् , भावानुविद्धतया कथंचित्तस्या अपि भावरू-18 |पत्वाभ्युपगमात् । अन्यथा ज्ञेयत्वाद्यनुपपत्तेः । यद्येवं तर्हि भावादभावस्य विशेषाभावप्रसङ्ग इति चेत् ? । न । पूर्वापररूपव्यापत्त्यापत्तिलक्षणस्वभावभेदतो विशेषाभावप्रसङ्गाभावात् । पूर्वरूपव्यापत्तिखभावो हि घटाघभावः, अपररू-| पापत्तिखभावा च कपालाद्युत्पत्तिरिति ॥४६५ ॥ अथोच्येत-नैव काचिदन्या घटादिनिवृत्तिः किंतु कपालाद्युत्पत्तिरेव, तदनन्तरं तस्सा एवोपलभ्यमानत्वादत आह णय सा उप्पत्ति च्चिय भिन्ननिमित्तत्ततो विरोधातो। परिकप्पिय त्ति निच्चं अन्नत्ते पुत्वदोसा उ ॥ ४६६ ॥ न च सा-घटादिनिवृत्तिः उत्पत्तिरेव-कपालाद्युत्पत्तिरेव केवला । कुत इत्याह-भिन्ननिमित्तत्वतो विरोधात्-भिन्ननिमित्तत्वेन ऐक्यस्य विरोधात् । तथाहि-घटादिनिवृत्तेनिमित्तं घटादिखरूपव्यापत्तिरूपतया भवनस्वभावता, कपालाद्युत्पत्तेश्च तद्रूपभवनखभावतेति, कथमनयोरैक्यं ?, मा प्रापदतिप्रसङ्ग इति, न घटाधनन्तरं कपालाद्युत्पत्तिरेव केवला उपलभ्यते, किंतु तन्निवृत्तिविशिष्टा, अविगानेन सर्वेषां तथानुभवभावात् । अत्रैवाशङ्काशेष परिहर्तुमाह-'परि ॥१८७॥ Jain Education Intera For Private & Personel Use Only Aurjainelibrary.org Page #379 -------------------------------------------------------------------------- ________________ तुच्छरूपा अभ्युपमाणे पूर्वोक्ता एव खभावा एवं कप्पिय त्ति' सा घटादिनिवृत्तिः परिकल्पिता तेनादोष इति चेत् ? । अत्राह-निचमिति' यदि परिकल्पिता ततो नित्यं भावकालेऽपि तद्भावप्रसङ्गः, कल्पनाया इच्छामात्रानुरोधित्वात् । अथ कपालोत्पत्तेरियं घटनिवृत्तिभिन्नखरूपैव तुच्छरूपा अभ्युपगम्यते नतु तदनुविद्धेत्यत्राह-'अन्नत्ते पुत्वदोसा उ' अन्यत्वे-भिन्नखरूपत्वे कपालोत्पत्तेः सकाशातस्या घटनिवृत्तरिष्यमाणे पूर्वोक्ता एव भेदाभेदादयो दोषाः प्राप्नुवन्ति । तस्मान्नान्या किंतु तदनुविद्धेति स्थितम् ।। तदेवं यतो घटादयः खहेतुभ्यः सकाशादित्थंखभावा एव समुत्पन्नवन्तो येनानुपकारिणमपि प्रतिनियतं मुद्रादिकं । सहकारिणमासाद्य विनिवर्तन्ते, तथैवोपलभ्यमानत्वात् , ततः कपालादीनामुत्पत्तिरिव घटादीनामपि निवृत्तिर्विवक्षितहेत्वन्वयव्यतिरेकानुविधानात्सहेतुकेत्युपपादितम् ॥ ४६६ ॥ सांप्रतमत्रैव पराकूतशेषं दुदूषयिषुरिदमाह अह उ सहेउउ च्चिय उववन्नो अप्पणो विणासम्मि । नोवेक्खई तदन्नं हेडं निरहेउगो तेण ॥ ४६७ ॥ अथोच्येत-खहेतुभ्य एव इत्थंभूतस्वभावो घटादिरुत्पन्नो येनात्मनो विनाशे न तदन्यं-खोपादानहेत्वतिरिक्तं हेतुमपेक्षते, तेन कारणेनासौ निर्हेतुक एव न पुनर्भवत्कल्पनया सहेतुक इति ॥ ४६७ ॥ अत्राचार्य आह किं एवं ति ? अह मती तत्तो च्चिय तस्स तस्स भावो उ। MA-CRACC -%80-40 - Jain Education in For Private & Personel Use Only M w w.jainelibrary.org Page #380 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ॥१८८॥ SASAKAKARANACADACHAR एसो चेव सहावो इमस्स णय किंचि वि पमाणं ॥ ४६८॥ किमेवं कल्पनायां भवतः फलं ? नैव किंचिदितिभावः । पराभिप्रायमाशङ्कमान आह 'अह मई' इत्यादि, अथ| मतिः-तत एव-खहेतोरेव तस्य-घटादेस्तस्य नाशस्य भाव इति । तुः पूरणे । आचार्य आह-एष एव खभावोऽस्य-17 घटादेयंदुत आत्मनो विनाशे नान्यो हेतुरपेक्षणीय इत्यत्र च न च-नैव किंचित्प्रमाणं, न चाप्रमाणकमाद्रियन्ते वचो |विपश्चित इति यत्किंचिदेतत् ॥ ४६८ ॥ अत्र परः प्रमाणमाह अत्थकिरियाएँ भावो णहि सा उप्पत्तिमन्तरेणऽन्ना । सा य णिरन्नयपक्खे असंगताऽतिप्पसंगाओ ॥ ४६९ ॥ अर्थक्रियाया भावः पूर्वोक्तखभावकल्पनायां प्रमाणम् । तथाहि-अर्थक्रियासामर्थ्य सत्त्वलक्षणम् , “अर्थक्रियासमर्थ यत् तदेव परमार्थसदिति वचनात्”, सा चार्थक्रिया क्षणिकवस्तुन्येव घटते नाक्षणिके, क्रमेण यौगपद्येन वा तत्र तस्या विरोधात् । तथाहि-क्रमेणार्थक्रियां कुर्वन् अक्षणिको भावः किं येन खभावेन प्रथमे क्षणे कार्य करोति द्वितीयेऽपि क्षणे किं तेनैव किंवा स्वभावान्तरेण ? । तत्र यदि तेनैवेति पक्षस्ततो द्वितीयक्षणभाविनोऽपि कार्यस्य प्रथसमक्षण एव करणप्रसङ्गः, तजननखभावत्वात् , प्रथमक्षणभाविकार्यवत्, यद्वा द्वितीयेऽपि क्षणे तत्कार्य मा काति, ॥१८॥ Jain Education For Private Personel Use Only A w w.jainelibrary.org Page #381 -------------------------------------------------------------------------- ________________ तस्य स्वरूपाविशेषात् , प्रथमक्षणवत्। तस्मानास्य क्रमेणार्थक्रियासंभवः, नापि यौगपद्येन, प्रथमक्षण एव सकलार्थक्रियानिष्पादने सति द्वितीये क्षणे करणस्याभावतोऽकारकत्वप्रसङ्गेन खभावभेदापत्तेः, तन्नाक्षणिके अर्थक्रियासामय 2 सत्त्वलक्षणं घटते । तदुक्तम्-“असन्तोऽक्षणिकास्तस्यां, क्रमाक्रमविरोधत" इति । क्षणिकं च वस्तु उत्पत्त्यनन्तरं निर्हेतुकविनाशे सति घटते नान्यथा, ततोऽर्थक्रियाभावान्यथानुपपत्तिः पूर्वोक्तखभावकल्पनानिबन्धनमित्यदोषः । अत्र चार्थक्रियाभावः प्रमाणनिबन्धनत्वात् प्रमाणमित्युक्तः, कारणे कार्योपचारात् । अत्राचार्य आह-'नहीत्यादि' नहि सा अर्थक्रिया भवत्पक्षे उत्पत्तिमन्तरेणान्या काचित्, किंतूत्पत्तिरेव । यदुक्तम् “भूतिर्येषां क्रिया सैव, कारक |सैव चोच्यत" इति । सा चोत्पत्तिनिरन्वयपक्षे-कारणस्य निरन्वयविनाशाभ्युपगमे उत्तरस्यात्यन्तासतःअसंगता, कुत ? इत्याह-अतिप्रसंगात् , खरविषाणस्याप्युत्पत्त्यापत्तेरिति ॥४६९ ॥ निर्हेतुकविनाशाभ्युपगमे परस्य खागमविरोधं दर्शयति पाणाइवायविरई-सिक्खावतदेसणामुहा एवं । निविसयत्ता जणगो हिंसागारित्ति पंडिच्चं ! ॥ ४७० ॥ प्राणातिपातविरतिलक्षणशिक्षाप्रतदेशना एवं-खहेतुत एव नाशाभ्युपगमे सुधा-वृथा प्राप्नोति, निर्विषयत्वात् , Jain Education Intel For Private & Personel Use Only Tal Page #382 -------------------------------------------------------------------------- ________________ धर्म - ॥ १८९॥ यदि हि कोऽपि विनश्येत् ततः सा उपपद्येत नान्यथेति । अपि च, यदि खोत्पादहेतुत एव नाशस्तर्हि खोत्पादहेतुरेव तस्य विनाशकः प्राप्तः तथा च सति पुत्रस्य जनकः-पिता हिंसाकारी - हिंसक इत्यापतितमित्यपूर्वमहो पाण्डित्यं तव, लोकागमव्यवस्थोत्तीर्णत्वात् ॥ ४७० ॥ तदेव भावयति हि सुयजम्मे पिउणो सिद्धं लोगम्मि हिंसगो एस । समएव णावि सिक्खा - वयभंगो तस्स जम्मम्मि ॥ ४७१ ॥ नहि पितुः सकाशात् सुतस्य जन्मनि सति इदं लोके सिद्धम् 'एष' पिता सुतस्य हिंसक इति । नापि तस्य -सुतस्य जन्मनि समयेऽपि - आगमेऽपि पितुः शिक्षानतभङ्गो देशित इति ॥ ४७१ ॥ पर आहपरिणामाओ हिंसा सोऽवि कहं खणिगपक्खवायम्मि ? | परिणमणं परिणामो जम्हावत्थंतरावती ॥ ४७२ ॥ स्यादेतत्, न जनकत्वमात्रेण हिंसा, किंतु हन्म्येनमिति चेतसि संक्लेशपरिणामात्, न चासौ पितुः सुतजन्मनि विद्यते, ततो न कश्चिद्दोष इति । तत्राह - 'सोऽवीत्यादि' सोऽपि परिणामः कथमेकान्तक्षणिकपक्षवादे घटते १, नैव घटते इत्यर्थः, यस्मात्कथंचिदवस्थितस्य कथंचित् पूर्वरूपत्यागेन अवस्थान्तरापत्तिः परिणाम उच्यते, परिणमनं परिणाम इति संग्रहणिः ॥ १८९॥ Page #383 -------------------------------------------------------------------------- ________________ शब्दान्वर्थात, तदुक्तम्-"तद्भावः परिणामो यत्तेन तथा भूयत इति"। तस्मात्स कथमेकान्तक्षणिकपक्षे स्यादिति ?। अथोच्येत-किं तेन कथंचिदवस्थान्तरापत्तिरूपेण परिणामेन ?, पूर्वक्षणसामर्थ्यादेव हि तथारूपसंक्लेशपरिणामोपेतःस उत्तरक्षण उपजायते, ततस्तस्य हिंसकत्वमिति । तदप्ययुक्तम् , पूर्वक्षणादसंक्लिष्टात् केवलात् तथासंक्लेशविशिष्टोत्तरक्षणानुपपत्तेः, अन्यथा योगिनामपि तत्प्राप्तिप्रसङ्गात् । मा भूत् केवलात् पूर्वक्षणात्, हिंस्यादिसहकारिसचिवात्तु भविष्यतीति चेत् । न । हिंस्यादिसहकारिणः सकाशात् पूर्वक्षणस्य समकालभावितया अतिशयलाभायोगात् । अनतिशयाच तस्मात् हिंस्यादिसहकारिविकलादिव तथारूपसंक्लेशविशिष्टस्योत्तरक्षणस्योत्पादासंभवात् ॥ ४७२ ॥ अथ मा स्मोत्पादि पूर्वक्षणसामर्थ्यादेष तथारूपसंक्लेशपरिणामः किंतु निर्हेतुक एवासावुत्पद्यत इति, एतहपयितुमाशङ्कते निरहेउगो तओ अह निच्चं भावो ण वा कदाचिदवि । तस्सेवंपि हु सिक्खावतदेसणमणुववन्नं तु ॥ ४७३ ॥ अथ 'तउत्ति'सकस्तथारूपसंक्लेशपरिणामो निर्हेतुक इत्यत्राह-'निचं भावो न वा कदाचिदवि' यदि स परिणामो निर्हेतुकस्ततस्तस्य नित्यं भावः प्राप्नोति न वा कदाचिदपि । “नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणादिति न्यायात्" । ततस्तस्यैवमपि प्राणातिपातविरमणलक्षणशिक्षाव्रतदेशनमनुपपन्नमेव । तुशब्द एवकारार्थः । तन्न खहेतुत Jain Education in For Private & Personel Use Only ww.jainelibrary.org Page #384 -------------------------------------------------------------------------- ________________ ९८२ संग्रहणि ॥१९॥ एव भावानां विनाशः किंतु मुद्रादेरिति स्थितम् ॥ यत्पुनरुक्तं 'विनाशहेतुः किं विनाश्यमेव कुर्यादित्यादि तत्र विनाश्यपक्षः केवलतदन्यभावान्तरपक्षश्वानभ्युपगमादेव न नः क्षितिमावहति । तदभावपक्षोऽपि केवलपर्युदासरूपः केवलप्रसज्यरूपो वा अनभ्युपगमेनैव तिरस्कृतः । उभयरूपाभ्युपगमे तु दोषाभावः । यदप्यत्रोक्तम्-तदभाव-18 मथ करोतीति पक्षस्तर्हि भावं हन्त न करोतीत्यापतितं, प्रसज्यपक्षे नञः क्रियापदेनैव संबन्धात् , अभावस्य प्रसज्यप्रतिषेधरूपस्य एकान्ततुच्छरूपतया कर्तुमशक्यत्वादिति । तदप्यनल्पतमोविलसितम् , अभावस्य प्रसज्यप्रतिषेधरूपस्य वस्तुधर्मतया एकान्ततुच्छरूपत्वाभावात् , एतच्च प्रागेवाभिहितमिति । चरमपक्षोऽप्यबाधक एव, अकिंचि-18 कराणामप्युत्पत्ताविय नाशेऽपि हेतुत्वाभ्युपगमे दोषाभावात् । यदप्युक्तम् 'नश्वरो वा स्यादनश्चरो वेति विकल्पद्वयम्,' तत्रानश्वरपक्षोऽनभ्युपगमादेवापास्तः । नश्वरपक्षेऽपि प्रतिनियतानुपकारिसहकारिसापेक्षत्वेन नश्वरखभावाभ्युपगमे दोषाभाव इति । एतेन 'न यसो हवेज नियमा कयगाणवि कारणंतरावेक्खो' इत्याद्यपि प्रत्युक्तम् । यतस्तेषामित्थंभूत एव स्वभावः स्वहेतुभ्यः समुत्पन्नो येनानुपकारिणमपि प्रतिनियतमेव सहकारिणमासाद्यावश्यं विनश्यतीति । तथा च सति न केषांचित् कृतकानामपि न विनाशः प्राप्नोति, तत्वभावसामर्थेन कारणान्त- राणामवश्यमुपनिपातसंभवात् । अन्यथा तेषां तत्स्वभावत्वायोगात् । वस्त्रस्य तु तथाखभावत्वाभावान्नावश्य रागकारणोपनिपातसंभवस्तदसंभवाच नावश्यं रागसंभव इति । यदप्युक्तम् 'किंच सहेउपक्खे कजस्स व तस्स ॥१९॥ Jain Education Inter ? For Private Personel Use Only & w.jainelibrary.org Page #385 -------------------------------------------------------------------------- ________________ पर पावई नासो । तन्नासम्मि य भावो पुचविणहस्स भावस्स त्ति' । तदप्यसमीचीनम् , यतो घटादिनिवृत्तिविशिष्टानामेव कपालादीनामुत्तरोत्तरकार्यरूपतया परिणामः, ततो घटादिनिवृत्तेरपि उत्तरोत्तरपर्यायधर्मरूपतया परिणममानत्वात् न कृतकत्वान्नाशापादनमस्माकं दोषाय, तथाभ्युपगमात् । न च वाच्यं तन्नाशे घटादिभावोन्मजनप्रसङ्गः, यतः सा कपालसंबन्धिरूपतया विनश्यति न सर्वथा, परिणामपक्षे सर्वथा नाशाभावात् , उक्तं च-"नार्थान्तरगमो यस्मात्सर्वथैव न चागमः । परिणामः प्रमासिद्धः, इष्टश्च खलु पण्डितैः॥१॥ इति" ॥ इत्थं चैतदङ्गीकर्तव्यमन्यथा त्वत्पक्षेऽपि भावकाले तुच्छरूपस्याभावस्याभावात् तत्क्षणानन्तरं च तस्य भावतः कादाचित्कतया भावस्येवं नाशे सति 8 दापुनर्भावोन्मजनप्रसङ्गो दुर्निवारः । अपि च, घटाभावस्य नाशहेतुर्मुत्पिण्डपर्यायः सकलसामग्रीकोऽन्त्यावस्थाप्राप्तो. यतो य एव घटभावः स एव तदभावनाशस्ततो य एव घटस्य हेतुः स एव तदभावनाशस्थापि, घटस्य च हेतुर्यथोक्तरूपो मृत्पिण्डपर्यायः, सच घटपर्यायादृद्रं प्रायो न भवति, ततस्तदभावात् घटाभावनाशस्याप्यभाव इति कृतं प्रस नेन । तदेवं न निर्हेतुको भावानां विनाशः किंतु सहेतुकस्तथा च कुतः क्षणिकत्वमिति ?॥ ४७३ ॥ एवमन्येऽपि ये तक्षणिकत्वप्रसाधनाय परिणामादयो हेतवः परैरुपन्यस्यन्ते ते सर्वेऽप्यहेतव एव द्रष्टव्याः, तथा चाह १ भवतः इति ख-पुस्तके । २ भावस्यैव इति ख-पुस्तके । Jain Education inte For Private & Personel Use Only Sww.jainelibrary.org Page #386 -------------------------------------------------------------------------- ________________ संग्रहणि ASKAR ॥१९॥ इय परिणामंतक्खय-दरिसणपमुहावि हेयवो सवे । एगंतखणिगपक्खे अहेतवो चेव दट्टवा ॥ ४७४॥ इतिः-एवमुक्तनीत्या परिणामान्तक्षयदर्शनप्रमुखा अपि ये हेतव एकान्तक्षणिकपक्षे परैरुपन्यस्यन्ते ते सर्वेऽप्यहेतवो द्रष्टव्याः। तथाहि-परिणामो नाम कथंचिदवस्थितस्य कथंचित्पूर्वरूपत्यागेनावस्थान्तरापत्तिरभिधीयते । तदुक्तम्'परिणमणं परिणामो जम्हावत्थंतरावत्ती,' इति। तत्कथमेष क्षणिकत्वप्रसाधनायालं भवेत् ? । यदपि चोच्यते "परिणामवादिभिरवश्यं भावानामतादवस्थ्यमभ्युपगन्तव्यमन्यथा परिणामायोगात्, तथा च सत्यस्माकमिष्टसिद्धिः, अतादवस्थ्यमनित्यतां ब्रूम' इतिवचनादनित्यत्वसिद्धेरिति । तदपि बालिशजल्पितम् , अतादवस्थ्यस्य परिणामपक्षे कथंचिदेवाभ्युपगमात् , तस्य चान्वयाविनाभूतत्वेनैकान्तक्षणिकत्वप्रतिपन्थित्वादिति । अन्तक्षयदर्शनमपि अन्त एव क्षयसाधनायालं नादावपि । स्यादेतत् , यद्यादौ क्षयो नाभ्युपगम्यते ततोऽन्तेऽपि क्षयो न स्यात् , युक्तित आकालनित्यतापत्तेः, तथाहि-घटस्य वर्षदशकस्थितिखभावस्य प्रथमक्षणातिक्रमे तत्वभावनिवृत्तिर्भवति वा न वा ?, तत्र यद्याद्यः पक्षस्ततोऽतादवस्थ्यं, तथा च क्षणिकत्वप्रसङ्गः । अथ द्वितीयः पक्षस्तर्हि क्षणान्तरातिक्रमेऽपि स एव खभावो यावचरमक्षणेऽपि स एव स्वभावः, ततो यथा प्रथमक्षणभाविवर्षदशकस्थितिखभावत्वसामर्थ्यात्तस्य वर्षद BOOCALCCASISAMARNAMA el RERA Jain Education Interational For Private & Personel Use Only Page #387 -------------------------------------------------------------------------- ________________ शकं यावदवस्थानमभूत् तथा चरमक्षणवर्तितत्वभावसामर्थ्यादन्यदपि वर्षदशकं यावत्तेनावस्थातव्यं, न्यायस्य समानत्वात् , तत्रापि चरमसमये स एव स्वभाव इत्यन्यदपि वर्षदशकं यावत्तेनावस्थातव्यं, तत्रापि चेयमेव युक्तिरित्याकालनित्यतापत्तिः, अथ चान्ते क्षयो दृश्यते, तस्मादन्तक्षयदर्शनान्यथाऽनुपपत्त्या तस्यादावपि क्षयोऽनुमीयत इति, तदेतदयुक्तम् , वर्षदशकस्थितिखभावत्वेऽभिहिते सति परमार्थतो विकल्पयुगलस्याप्रवृत्तेः, तस्य कथंचिद्वादानुयायित्वात् । तथाहि-घटः खहेतुभ्यो वर्षदशकस्थितिखभावः समुत्पन्नस्तत्कथमस्य प्रथमक्षणमात्रातिक्रमे सति एकान्तेनातादवस्थ्यं भवेत् ?,प्रथमक्षणस्य वर्षदशकवायोगात् , कथं वा तादवस्थ्यमेव ?, तथा सति वर्षदशकस्थितिखभावत्वविरोधात्, यदि हि तस्य कथंचित् प्रतिक्षणमपचयभावेन वर्षदशकचरमक्षणे वर्षदशकस्थितिखभावत्वस्य सर्वात्मना निवृत्तिर्भवति तदा तस्य तत्वभावत्वकल्पना कर्तुं युज्यते नान्यथा, तन्न वर्षदशकस्थितिखभावत्वस्य प्रथमक्षणातिक्रमे सत्येकान्तेन निवृत्ति प्येकान्तेनानिवृत्तिः किंतु कथंचित् । तथाहि-प्रथमक्षणापेक्षया निवृत्तिः, शेषक्षणापेक्षया चानिवृत्तिरिति । एतदुक्तं भवति-वर्षदशककालस्य नियतमानत्वात् एतद्वर्षदशकस्थितिस्वभावत्वं मनुव्यपर्यायवत् प्रतिक्षणमवश्यं न्यूनभावेन परिणामि । तथाहि-यदेव प्रथमे क्षणे वर्षदशकस्थितिखभावत्वमासीत् तदेव द्वितीये क्षणे प्रथमक्षणहीनवर्षदशकस्थितिखभावत्वरूपतया उपजातम् , एवमुत्तरक्षणेष्वपि भावनीयमिति न कश्चिद्दोष इति कृतं प्रसङ्गेन ॥ ४७४ ॥ उपसंहारमाह ACCORMATOMACANCCNX Jain Education Intel For Private & Personel Use Only A ww.jainelibrary.org Page #388 -------------------------------------------------------------------------- ________________ संग्रहणि ॥१९२॥ C%ACOCOCALCASKAR तम्हा परिणामी खलु जीवो लोगप्पमाणओ सिद्धो। अधुणा जहेस णाता तह सुत्तादेसतो वोच्छं ॥ ४७५ ॥ तस्मात्परिणामी खलु जीवो लोकतः प्रमाणतश्च सिद्ध इति स्थितम् ॥ (इति) परिणामित्वसिद्धिः॥ समर्थितं मूलद्वारगाथो पन्यस्त परिणामित्वमिदानीं तु ज्ञायकत्वं समर्थयितुकामस्तदुपक्षेपं कुर्वन्नाह-'अहुणेत्यादि' अधुना यथा एष जीवो ज्ञाता भवति तथा सूत्रादेशतः वक्ष्ये ॥ ४७५ ॥ प्रतिज्ञातमेवाह णाता संवित्तीओ जीवो नहि नाणभिन्नरूवाणं । सा अत्थि घडादीणं तकज्जाऽदरिसणाउ ति ॥ ४७६ ॥ ज्ञाता-जखभावो ज्ञानादभिन्न इति प्रतिज्ञा। संवित्तेः-संविदानत्वादिति व्यतिरेकी हेतुः । व्यतिरेकमेवास्य विपक्षासाधयति 'नहीत्यादि' न हि-यस्मात् घटादीनां ज्ञानाद्भिन्नरूपाणां सा संवित्तिः-संविदानता अस्ति । कुत ? इत्याह'तत्कार्यादर्शनात्' तत्कार्यस्य-पर्यालोचनापूर्वकनियतप्रवृत्तिनिवृत्त्यादिलक्षणस्यादर्शनात् इति । तस्मादयं जीवः संवित्युपलब्धेर्ज्ञानादभिन्न इत्यनुमीयते । एतदुक्तं भवति-इयं संविदानता तावजीव एवोपलभ्यते नतु घटादौ, तद्यदि ज्ञानाद्भिन्नरूपेऽपि जीवे स्यात् ततो घटादावपि प्रसज्येत, भेदाविशेषात् , तथा च सति सर्ववस्त्वाश्रयतया भवेत् For Private Personal Use Only Clow.jainelibrary.org Jain Education Page #389 -------------------------------------------------------------------------- ________________ AALOCCCCCCCCOCOCCURRENCH-MOREA नियताश्रयतया च व्याप्सा, ततो व्यापकानुपलब्ध्या ज्ञानाद्भिन्नरूपाद्विपक्षाद् व्यावर्त्तमाना ज्ञानाभिन्नवस्त्वाश्रयतया व्याप्यत इति विवक्षितहेतुसाध्ययोः प्रतिबन्धसिद्धिरिति ॥४७६॥ यदुक्तं भेदाविशेषात् घटादावपि सा प्रसज्येतेति, तत्र परः समाधानमाह तेसिं न तेण जोगो अन्नगुणत्तातो तेण सा नत्थि । अविसिटे अन्नत्ते एतं पि य किंकयं एत्थ ? ॥ ४७७ ॥ तेपा-घटादीनां न तेन-ज्ञानेन सह योगः-संबन्धोऽस्ति, अन्यगुणत्वात् , ज्ञानं ह्यात्मनो गुणो न घटादीनां, ततस्तत् तेनैव सह संबध्धं न तु घटादिभिः, तेन कारणेन योगाभावलक्षणेन सा-संवित्संविदानता न तेषां घटादीनामस्ति, न तु ज्ञानाद्भिन्नरूपत्वेन, तन ज्ञानाभिन्नवस्त्वाश्रयतया संवित्तेाप्तिरिति । अत्राचार्य आह-'अविसिट्टे इत्यादि' अविशिष्टे अन्यत्वे एतदपि-ज्ञानमात्मनो गुणो न घटादीनामितीदमपि अत्र-विचारप्रक्रमे किंकृतं-किनिबन्धनं १, नैव सनिबन्धनमिति, वाङ्मात्रमेतदिति भावः ॥ ४७७ ॥ अत्र परस्प मतमाशङ्कमान आह अह उ सहावकतं चिय पतिणियता चेव जं गुणा लोए । एसो वि हु अनिमित्तो सहावपक्खो सपडिवक्खो ॥ ४७८ ॥ MANCHCHOCOCCSCSC -. 2 5 Jain Education धर्म.३३ For Private & Personel Use Only Page #390 -------------------------------------------------------------------------- ________________ धर्म ॥१९३॥ Jain Education Int अथोच्येत - ज्ञानमात्मनो गुणो नत्वन्येषामित्येतत् खभावकृतमेव - खभावनिबन्धनमेव, यत् - यस्मात्स्वभावत एव | लोके प्रतिनियता गुणा भवन्तीति । अत्राह - एषोऽपि च खभावपक्षोऽनिमित्तो - निमित्तमन्तरेण कल्प्यमानः सप्रतिपक्षः - खभावान्तरकल्पनाप्रसङ्गलक्षणप्रतिपक्षयुक्तः ॥ ४७८ ॥ सप्रतिपक्षत्वमेव भावयति एते विभिन्नं नाणं आयाउ तग्गुणो तहवि । तोचि णन्नगुण तहासहावातों किं माणं ? ॥ ४७९ ॥ एकान्तेनात्मनः सकाशात् विभिन्नं ज्ञानं तथाप्येतत्तथाखभावात्तद्गुण - आत्मगुणो न पुनरत एव भेदाविशेषात् अन्यगुणोऽपीत्यत्र किं मानं प्रमाणं ?, नैव किंचित् । ततोऽन्यगुणतयाऽपि कल्पनाप्रसङ्गात् न यथोक्तखभावपक्षः | श्रेयानिति ॥ ४७९ ॥ यच्चोक्तम्- 'पइनियया चेव जं गुणा लोए' इति तदूषयितुमाह 1 पतिणियतता तु लोए गुणाण दिट्ठा निमित्तभेदेण । एतभेदखे ण य जुज्जइ तमविसेसाओ ॥ ४८० ॥ प्रतिनियतता तु लोके गुणानां दृष्टा निमित्तभेदेन - निमित्तविशेषेण कथंचिदभेदलक्षणेन । तथाहि — यस्य गुणस्य येन सह कथंचिदभेदोऽस्ति स तत्र प्रतिनियतो भवति, एकान्तभेदपक्षे चाङ्गीक्रियमाणे, चशब्दो भिन्नक्रमः स च संग्रहणिः ॥१९३॥ Page #391 -------------------------------------------------------------------------- ________________ s यथास्थानं योजितः, न युज्यते तत्-प्रतिनियतताया निमित्तं किंचित् । कुत इत्याह-'अविशेषात्' आत्मघटादीनां ज्ञानाद्भिन्नरूपत्वेन विशेषाऽभावात् ।। ४८० ॥ परो भेदाविशेषेऽपि निमित्तमादर्शयति समवाया संबंधो तेसिं तस्सेव तेहि णण केण?। जति अन्नेणणवत्था अह उ सयं किन्न तेसिं पि? ॥ ४८१ ॥ । समवायात्सकाशात् यः परस्परं तयोर्ज्ञानात्मनोः संबन्धः स भेदाविशेषेऽपि प्रतिनियततायाः-ज्ञानमात्मन एव गुणो नान्येषामित्येवंरूपाया निमित्तमिति चेत् । अत्राह-'तस्सेवेत्यादि' तस्यैव समवायस्य ताभ्यां समवायिभ्यां सह केन संबन्धः स्यात् ?,किमन्येन समवायेन किंवा वरूपेणैव ?। तत्र यद्यन्येनेति पक्षस्तबनवस्था, तस्यापि खसमवायिभिः सह संवन्धस्य तदन्यसमवायबलादेव भावात्, तस्याप्यन्यत इति । अथ, तुः पूरणे, स्वयं खरूपेणेति पक्षस्ततः किन्न तयोरपि-ज्ञानात्मनोः गुणगुणिनोः खयं संबन्ध इप्यते ?, किमेतदर्द्धजरतीयमिति ॥४८१॥ अत्र पराभिप्रायं दूषयितुमाह सिय सो उभयसहावो अप्पाणं ते य संघडावेति । सपरप्पकासधम्मो तहासहावा पदीवोव ॥ ४८२ ॥ Jain Education Inter For Private & Personel Use Only Plaw.jainelibrary.org Page #392 -------------------------------------------------------------------------- ________________ धर्म ॥१९४॥ Jain Education In स्यादेतत्, समवायः उभयखभावः - खपरसंबन्धनखभावस्तत आत्मानं समवायिभ्यां सह तौ च - समवायिनौ परस्परं घटयति-संबन्धयति । अत्रैव दृष्टान्तमाह — 'सपरेत्यादि' यथा प्रदीपस्तथास्वभावत्वात् खपरप्रकाशकरणस्वभावः तद्वदेषोऽपि समवायः स्वपरसंबन्धनखभाव इति न तदन्यसमवायापेक्षणेनानवस्थादोष इति ॥ ४८२ ॥ आह ते चेत्र किन्न ? एवं तहासहावविरहा ण माणमिह । न घडइ चिंतितं तुह पक्खे दीवणातं पि ॥ ४८३ ॥ तावेव - ज्ञानात्मलक्षणौ गुणगुणिनौ किन्न एवं - खभावत एव परस्परं संबद्धौ भवतो ?, येन तदन्यः समवायः परिकल्प्यते इति । पर आह - 'तहासहावविरहा' तथास्वभावविरहात् । सूरिराह - 'न माणमिह' इह ज्ञानात्मनोः खत एव संबन्धे न खभावः समवायस्य त्वस्तीत्यत्र न किमपि मानं प्रमाणं, न च प्रमाणमन्तरेण तत्त्वव्यवस्था, मा प्रापदतिप्रसङ्ग इति । यदपि च प्राक् दीपज्ञातमुदीरितं तदपि युक्तत्या चिन्त्यमानं सर्वथा तव पक्षे न घटत एव ॥ ४८३ || अघटनमेव भावयति जमभिन्नो सपगासा सो सपरपगासगो णयाभेदो । संग्रहणिः, ॥ १९४॥ Page #393 -------------------------------------------------------------------------- ________________ Jain Education I सिं पितुज्झ इट्टो ता सो वि तहाविहो किह णु ? ॥ ४८४ ॥ यत्-यस्मात्खप्रकाशादभिन्नः सन् स प्रदीपः खपरप्रकाशको भवति, न च तयोरपि-प्रदीपखप्रकाशयोस्तवाभेद इष्टः, किंतु भेदः, गुणगुणिनोर्भेदाभ्युपगमात् । 'ता' तस्मात्सोऽपि - प्रदीपस्तथाविधः - खपरप्रकाशकः कथं नु स्यात् ?, नैव कथंचनेतिभावः ॥ ४८४ ॥ एतदेव भावयति — दीवो विहंत दवं तस्स पगासो मतो इहं धम्मो । एतेसिं भेदम्मि तु सो सपरपगासगो मोहो ॥ ४८५ ॥ हन्तेति वाक्यारम्भे । तदुक्तम् - " हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोरिति" । हन्त इह दीपोऽपि द्रव्यं, तस्य - दीपस्य पुनः प्रकाशः - प्रकाशत्वशक्तिर्मतो धर्मो - गुणस्तत एव तयोः - दीपतत्प्रकाशयोर्भेदेऽपि । तुशब्दोऽपि - शब्दार्थः । ' स दीपः खपरप्रकाशक' इति यदुच्यते तन्मोहो - मोहविलसितं, प्रकाशाद्भेदाविशेषेण घटादीनामपि खपरप्रकाशकत्वप्रसक्तेरिति ॥ ४८५ ॥ यदुक्तम् - "सिय सो उभयसहावो' इति तत्रैवाभ्युच्चयेन दूषणमाह किंच इह ते सहावा तत्तो भिन्ना व होज्ज भिन्ना वा ? | भेदे तस्सत्ति कहूं ? एतेऽभेदे कहं दोन्नि ? ॥ ४८६ ॥ Page #394 -------------------------------------------------------------------------- ________________ ॥ १९५॥ किंच, इह - विचारप्रक्रमे तौ खपरसंबन्धनखभावौ ततः - समवायात्सकाशाद्भिन्नौ वा स्यातामभिन्नौ वा ? | यदि | भिन्नौ ततो भेदे सति तस्य - समवायस्यैतौ खभावाविति संबन्धः कथं स्यात् ?, नैव कथंचनापि । संबन्धनिबन्धनस्य समवायान्तरस्यानवस्थाभयादनभ्युपगमात् । अथाभिन्नौ ततः समवायमात्रमेव, न तौ, तदव्यतिरिक्तत्वात्, तत्खरूपवत् । तथाह - 'अभेदे कह दोन्नि' अभेदे सति कथं द्वौ - समयायतत्स्वभावद्वयलक्षणौ कथं भवतो ?, नैव कथंचन, खभावयोः समवाये अन्तर्भूतत्वात् ॥ ४८६ ॥ अन्यच्च, 'अयुतसिद्धानामाधार्याधारभूतानामिहेति प्रत्ययहेतुर्यः संवन्धः स समयाय' इति वचनादिहेति बुद्धिगम्यः समवाय इष्यते, सोऽप्यनैकान्तिक इति दर्शयन्नाह - समवाइसु समवातो इह बुद्धी जह विणा तयं इट्ठा । इय जीवे णाणमियं ण हवइ णणु केण कज्जेणं ? ॥ ४८७ ॥ यथा तर्क - समवायं विना इह - समवायिषु समवाय इतीह बुद्धिरिष्टा । इतिः- एवमिह - जीवे ज्ञानमितीयमपि इह बुद्धिः समवायं विना केन कार्येण - केन कारणेन न भवति ?, भवत्येवेति भावः । तुल्ययोगक्षेमत्वात् । तदेवमास्तां तावत्खरूपतश्चिन्त्यमानः समवायो न घटते, इहप्रत्ययगम्यतयापि न घटत इत्युपपादितम् ||४८७॥ सांप्रतमुपसंहारमाहएवं समवातोऽवि हु चिंतिज्जंतो न सवहा घडइ । संग्रहणिः ॥ १९५॥ Page #395 -------------------------------------------------------------------------- ________________ Jain Education Inte ता गुणगुणिणो सिद्धो संवेदणओ अभेदोवि ॥ ४८८ ॥ एवम् उक्तेन प्रकारेण समवायोऽपि 'हु' निश्चितं गुणानां प्रतिनियताधारताया निमित्तं परैः परिकल्पितश्चिन्त्यमा - नः सर्वथा न घटते । तस्मात् गुणगुणिनोः - ज्ञानात्मलक्षणयोः संवेदनतः - प्रतिनियताधारतान्यथानुपपत्तिलक्षणयुक्तिमूलानुभवादभेदोऽपि कथंचित्सिद्ध इति स्थितम् ॥ ४८८ ॥ अत्र परस्य मतमाशङ्कमान आहसिय करणमेव नाणं आता कत्त त्ति चैव भेदो तु । हि वसवणं इहं अभेदो कहंचिदवि ॥ ४८९ ॥ स्यादेतत् ज्ञानं करणमेव, आत्मा तु कर्त्ता, इतिरेवं कर्तृकरणभावेन ज्ञानात्मनोर्भेद एव । तुशब्द एवकारार्थः । भेदमेव कर्तृकरणयोर्दृष्टान्तेन साधयन्नाह - 'नहीत्यादि' नहि वासिवर्द्धक्योरिह - जगति अभेदः कथंचिदपि भवति, किंतु भेद एव, स च कर्तृकरणभावनिबन्धनः, कर्तृकरणभावश्च ज्ञानात्मनोरप्य विशिष्ट इत्यत्रापि भेद एवेति भावः ।। ४८९ ।। अत्राह - तं खलु बज्झं करणं नाणं पुण अंतरं ति वेधम्मं । न य अपरिणओ उ तहा अगेण्हिउं तीं अयं घडति ॥ ४९० ॥ %% Page #396 -------------------------------------------------------------------------- ________________ संग्रहणि तत्-खलु वासिलक्षणं करणं वाह्य, ज्ञानं पुनरान्तरमतो दृष्टान्तदा न्तिकयोधर्म्यम् । यदि हि किंचित्करणमान्तरमेकान्तेन भिन्नमुपदश्येत ततः स्यात् दृष्टान्तदाान्तिकयोः साधये, न च तत्तथाविधमस्ति । न च बाह्यकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते, अन्यथा 'दीपेन चक्षुषा देवदत्तः पश्यतीत्यत्रापि' दीपादिवचक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात् । तथा च सति लोकप्रतीतिविरोधः। अपि च, साध्यविकलोऽपि वासिवर्द्धकिरष्टान्त इत्यावेदयन्नाह–'नय इत्यादि' न च अयं वर्द्धकिस्तथा काष्ठमिदमनया वास्या घटिष्ये इत्येवं वासिग्रहणपरिणामेनापरिणतः सन् 'तीति' तां वासिमगृहीत्वा घटयति, किंतु तथापरिणतस्तां गृहीत्वा ॥४९॥ ततः |किमित्याह परिणामे पुण एगत्थ-साहगत्तस्सऽभेदओ किह णु। जुजइ इमं जमुत्तं ण तेसि ऽभेदो कहंचिदवि ? ॥ ४९१ ॥ परिणामे-यथोक्तखरूपे सति पुनरेकार्थसाधकत्वस्य-विवक्षितकाष्ठघटनलक्षणैकार्थकारकत्वस्याभेदतो वासिरपि तस्य काष्ठस्य घटने व्याप्रियते पुरुषोऽपीत्येवंलक्षणतः कथं नु इदं युज्यते ? यदुक्तम् 'न तेसिऽभेदो कथंचिदपि इति ?' है। नैव कथंचन । अभेदस्याप्येकार्थकारितया तयोर्भावात् ॥ ४९१॥ ACARSALUTAGRAMCLROC ॥१९६॥ Jain Education in For Private & Personel Use Only ww.jainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ इय नाणगहणपरिणामभावतो अत्तणो गहो जेण । सो चेव किन्न नाणं तुल्लम्मि तदनुभवगमम्मि ?॥ ४९२ ॥ इतिः-एवं वासिग्रहणवत् येन ज्ञानग्रहणपरिणामभावतो विवक्षितमर्थमनेन ज्ञास्यामीत्येवं ज्ञानग्रहणपरिणामभावेनात्मनो ग्रहो ज्ञानस्य भवति स-एवं परिणामस्तुल्ये-बोधरूपतया समाने 'तदभ्युपगमे तस्य परिणामस्याभ्युपगमे, बोधरूपे तस्मिन्नभ्युपगम्यमाने इत्यर्थः, किन्न ज्ञानमिप्यते बोधरूपतया ?, तत एव सकलविवक्षितार्थसिद्धेः स एव ज्ञानतया अभ्युपगन्तुं युक्त इति भावः । तथा च सत्यात्मनः कथंचिदभिन्नं ज्ञानं सिद्धमिति ॥ ४९२ ॥ अपि च, इय कत्तिकरणभावे कजं संवित्तिलक्खणं कत्थ ?। जति जीवे कहमन्नं नाणं तदभिन्नरूवं तु ? ॥ ४९३ ॥ । इतिः-एवं वासिवर्द्धकिवत् आत्मज्ञानयोः कर्तृकरणभावे सति कार्य संवित्तिलक्षणं कुत्र स्यात् ?, किं जीवे उत विषये ? । तत्र यदि जीवे ततः कथमात्मनो ज्ञानमन्यत्स्यात् ?, नन्वेवं तत्तदभिन्नरूपमेव स्यात् , संवित्तिपरिणामस्यैव ज्ञानशब्दवाच्यत्वात् , तस्य च जीवादभिन्नत्वात् । तुरेवकारार्थः॥ ४९३॥ अह विसए णणु एवं कहमिह जीवस्स अणुहवो लोए ?। Jain Education Intl For Private & Personel Use Only Minww.jainelibrary.org Page #398 -------------------------------------------------------------------------- ________________ धर्म ॥१९७॥ ********SUSANAAAAAAAA अह तत्तो च्चिय भेदे कहं ण अन्नस्स तदभेदा?॥४९४॥ संग्रहणि:अथ विषये कार्य संवित्तिलक्षणमिष्येत नन्वेवं तर्हि कथमिह जगति प्रतिप्राणि प्रसिद्धो जीवस्यानुभवः स्यात् ?, नैव कथंचन, तस्य विषयेऽभ्युपगमात् । अथ तत एव विषयाजीवस्याप्यनुभवो भवतीतीष्यते । तत्राह-भेदे इत्यादि' भेदे सति कथंचन ( कथं न ) अन्यस्य-विवक्षितस्य पुंसो भवति?, तस्यापि स्यादेवेति भावः। कुत इत्याह-'तदभेदात्' तस्याभेदस्याभेदाद्-अविशेषात् ॥ ४९४ ॥ अभ्युपगम्याप्येतत् दोषान्तरमाह तत्तोवि जइ तइ तम्मि हंत एवंपि सा णहि ण णाणं । तब्भावम्मि य चिंतं आता णाणाउ अन्नो त्ति ॥ ४९५॥ ततोऽपि-विषयादपि यदि 'तई त्ति' सका संवित्तिरनुभवापरपर्याया तस्मिन्-विवक्षिते जीवे भवतीतीप्यते, हन्त एवमपि, हन्तेति परस्य स्वपक्षव्यवस्थापने दुःस्थितस्याऽनुकम्पायाम् , “हन्त हर्षेऽनुकम्पायामिति" वचनात् , नहि सा संवित्तिन ज्ञानं, किंतु ज्ञानमेव । ज्ञानं संवित्तिरनुभव इत्यादिशब्दानां पर्यायत्वात् । तद्भावे च-ज्ञानभावे च एतत् ||१९७॥ चिन्त्यं आत्मा ज्ञानादन्य इति ॥ ४९५॥ अत्र परस्याभिप्रायमाशङ्कते सिय कत्तिकरणभावो अभेदपक्खम्मि जुजई किह णु ? । Jain Education Internation Page #399 -------------------------------------------------------------------------- ________________ Jain Education Inter वेढे अही अत्ताणमत्तणा चेव जह लोए ॥ ४९६ ॥ स्यादेतत्, ज्ञानात्मनोरभेदपक्षे सति कथं नु कर्तृकरणभावो युज्यते ?, नैव कथंचन, तस्य भेदाधिष्ठानत्वादितिभावः । अत्राचार्य आह - ' वेढेइ' त्यादि यथा लोके - 'वेष्टयत्यहिरात्मानमात्मने' त्यत्राभेदेऽपि कर्तृकरणभावो भवति, तद्वत् ज्ञानात्मनोरपि भविष्यतीति ॥ ४९६ ॥ पर आह परिकपितो तु एसो अह णो तक्कजदरिसणातो उ । सेक्भादो वेढणमिह कप्पणाए वि ॥ ४९७ ॥ तुशब्दो हेतौ । अथोच्येत - यस्मादपोऽहेः कर्तृकरणभावः परिकल्पितस्ततो न कश्चिद्दोषः । परिकल्पितस्य परमार्थतोऽसत्त्वात् । अत्राह - 'नो इति' यदेतदुक्तं तन्न । कुत ? इत्याह- 'तत्कार्यदर्शनात् ' तत्कार्यस्य-कर्तृकरणभावकार्यस्य वेष्टनलक्षणस्य दर्शनात् । यदि पुनरिह कर्तृकरणभावः कल्पितः स्यात् ततः कथं तस्मात्परमार्थसत् वेष्टनलक्षणं कार्य भवेत् ? । वस्तुसतो हि वस्तुसत उत्पत्तिर्नावस्तुसतः, तथाचाह - 'न येत्यादि' चो यस्मादर्थे । न यस्मादिह-जगति | शैलस्तम्भादौ कर्तृकरणभावस्य कल्पनायामपि तत्कार्य वेष्टनलक्षणमुपपद्यते । तस्मान्नाहेः कर्तृकरणभावः परिकल्पितः । | यथा चेहाभेदेऽपि कर्तृकरणभावोऽपरिकल्पितस्तथा ज्ञानात्मनोरपि द्रष्टव्यः ॥ ४९७ ॥ एतदेवोपसंहरति Page #400 -------------------------------------------------------------------------- ________________ धर्म ॥१९८॥ Jain Education तम्हा तहाविहाणगचितपरिणामभावतो सिद्धो । अणुहवपामन्ना कत्तिकरणभावो अभेदे वि ॥ ४९८ ॥ तस्माद - अनुभवप्रामाण्यात् ज्ञानात्मनोरभेदऽपि तथाविधाऽनेकचित्तपरिणामभावतः कर्तृकरणभावः सिद्ध इति स्थितम् ॥ ४९८ ॥ साम्प्रतं ज्ञानविचारप्रकरणानुराधा दज्ञानिक मतमपाचिकीर्षुस्तन्मतं तावदुपन्यस्यन्नाह - अन्न भणति नाणं परलोगविवाहगं विगाणातो । न य निच्छयस्स हेऊ तम्हा अन्नाण मो सेयं ॥ ४९९ ॥ अन्ये भणन्ति - यस्मात् ज्ञानं विगानात् विप्रतिपत्तेः परलोकविवाधकम् । तथा, इदं सम्यग्ज्ञानं न मिथ्येत्येवं यो निश्चयः न च तस्यापि निश्चयस्य कश्चिद्धेतुरस्ति । तस्मादज्ञानमेव श्रेयो न ज्ञानमिति ।। ४९९ ।। तत्र विगानतः परलोकविवाधकं (इति) भावयन्नाह - अन्ने अन्नहादेसियम भावम्मि नाणगवेण । कुणइ विवादं कलुसियचित्तो तत्तो य से बंधो ॥ ५०० ॥ संग्रहणिः, |॥१९८॥ Xww.jainelibrary.org Page #401 -------------------------------------------------------------------------- ________________ । अन्येन पुंसा अन्यथा देशिते सति भावे ज्ञानी ज्ञानगर्वेण कलुषितचित्तः सन् विवादं करोति, ततश्च-तस्माच चित्तिकालुष्यात् 'से' तस्य ज्ञानिनो बन्धोऽशुभकर्मणां भवति, तथा च परलोकव्याघात इति ज्ञानं परलोकविवाधकम् । ॥५०॥ यच्चोक्तम्-'नय निच्छयस्स हेउत्ति' तत्समर्थयमान आह सवे वि मिहो भिन्नं नाणं इह नाणिणो जओ बेंति । तीरड न तओ काउंविणिच्छओ एयमेव त्ति ॥ ५०१॥ सर्वेऽपि-ज्ञानिनो मिथः-परस्परं यतो-यस्मात् ज्ञानं भिन्नमेव ब्रुवन्ति, ततो न विनिश्चयः कर्तुं शक्यते, यथाएतत् ज्ञानम् एवं सम्यक् मिथ्या चेति ॥५०१॥ एतदेव भावयति तविसयदरिसणातो जुजइ एसो ण तं च पारोक्खे । संवेदणमेत्तेण तु पडिपक्खनिसेहणमजत्तं ॥ ५०२॥ तद्विषयदर्शनात्-ज्ञानविषयदर्शनात् एष-ज्ञानस्य सम्यक्त्वमिथ्यात्वविषयो निश्चयः कर्तुं युज्यते नान्यथा, न च तद्विषयदर्शनं पारोक्षे-परोक्षविषये ज्ञाने अस्तीति, तद्विषयस्य परोक्षत्वादेवेति । स्यादेतत् , मा भूत् तद्विषयदर्शनं, १ वेति खपुस्तके। JainE .३४ For Private & Personel Use Only PMw.jainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ संग्रहणिः धर्म-पद तथापि यत युक्त्या घटते तत् सम्यक ज्ञानमितरच मिथ्याज्ञानमिति व्यवस्था भविष्यतीति । अत आह-संवेयणे त्यादि' संवेदनमात्रेण युक्तिमात्रकृतेन प्रतिपक्षनिषेधनमयुक्तं, युक्तीनामुभयत्रापि प्रायः समानत्वात् , तासां पुरुष॥१९९॥ प्रतिभामात्रापेक्षत्वात् ॥ ५०२ ॥ अत्रैव सूरेरभिप्रायमाशङ्कमान आह जं सवण्णुवदेसा जायइ अह तं मयं सुविन्नाणं । तब्भावे किं माणं बहएसु य एस एव त्ति ? ॥ ५०३ ॥ अथोच्येत-यत् ज्ञानं सर्वज्ञोपदेशात् जायते तन्मतं सुविज्ञानं शेपं तु मिथ्याज्ञानमिति। अत्राह-तब्भावेत्यादि' ननु तद्भावे-सर्वज्ञसत्तायां किं मान-प्रमाणं?, भवतु तद्भावस्तथापि बहुषु-कपिलबुद्धवर्द्धमानखाम्यादिषु मध्ये एप एव वर्धमानखामिलक्षणः सर्वज्ञो नत्वितर इत्यत्रापि किं मान-प्रमाणं?, नैव किंचिदित्यभिप्रायः ॥ ५०३ ॥ पुनरप्यत्राचार्याभिप्रायमाशङ्कते देवागमादियं चेव विसेसलिंगं ण एत्थ वि पमाणं । साहारणं च तं पि हु भावम्मि वि तदुबदेसम्मि ॥ ५०४ ॥ देवागमादिकमादिशब्दाचामरादिविभूत्यादिपरिग्रहः विशेषलिङ्गं सर्वज्ञविशेषावगानिमित्तमिति चेत् । अत्रा -SCACROCOCCASSORRECRUGROCRACK ॥१९९॥ Jain Education Inter For Private & Personel Use Only Page #403 -------------------------------------------------------------------------- ________________ ह-'ण एत्थ वि पमाणं' न तत्रापि-देवागमादौ किंचित् प्रमाणं, नहि देवागमादिकं तस्यासीदित्यत्र किंचित् प्रमाणमस्ति, भवेद्वा प्रमाणं तथापि नेदं देवागमादिकं सर्वज्ञविशेषावसायलिङ्गम् । यत आह-'साहारणं च तं पि हु इति तदपि-देवागमादिकं तदन्यमायाविनामपि साधारण-समानम् , उक्तं च भावत्करपि-"देवागमनभोयानचामरादिविभूतयः । मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥१॥” इति ॥ तस्मान्न देवागमादिकमपि सर्वज्ञविशेषावसायलिङ्गम् । अत्रैवाभ्युच्चयेनाह-'भावम्मि वि तदुवएसम्मि' भावेऽपि देवागमादीनां सर्वज्ञविशेषावसायलिङ्गत्वस्य, तदुपदेशे-विवक्षितवर्द्धमानखाम्यादिसर्वज्ञविशेषोपदेशे किं प्रमाणं? यथाऽयं वर्द्धमानखाम्युपदेशो नत्वन्यकृत इति ।। नैवात्र किंचित् प्रमाणमिति भावः ॥५०४॥ अभ्युपगम्याप्येतत् दूषणान्तरमाह णातेवि तदुवदेसे एसेवत्थो मउ ति से कह णु ? । नजइ चित्तत्था खल्लु जं सदा समइयाणेगे ॥ ५०५॥ ज्ञातेऽपि तदुपदेशे-विवक्षितवर्द्धमानखाम्यादिसर्वज्ञविशेषस्य संबन्धित्वेनोपदेशे तस्य-उपदेशस्य एष एवार्थो मतो लोनत्यन्य इति कथं नु ज्ञायते?, नैव कथंचन, यस्मादनेके शब्दाः समयिताः सन्तो लोके खलु चित्रार्था-नानार्थाः श्रयन्ते । तस्मान्न तदुपदेशस्य विवक्षितार्थनियमनिश्चय इति ॥ ५०५॥ अत्र परः सूरमतमाशङ्कमान आह Jain Education in For Private & Personel Use Only Pww.jainelibrary.org Page #404 -------------------------------------------------------------------------- ________________ धर्मः संग्रहणि. ॥२०॥ अह तत्तो सवणाओ आयरियपरंपरा इदाणि पि । सवणे वि तविवक्खा णहि छ उमत्थस्स पञ्चक्खा ॥ ५०६ ॥ अयोच्येत-तदात्वे तत एव-सर्वज्ञात् साक्षात् श्रवणादर्थनियमनिश्चय इदानीं त्वाचार्यपरंपरकात् । अत्र दूपणमाह-सवणेवीत्यादि' न हि यस्मात्ततः साक्षात् श्रवणेऽपि तद्विवक्षा-तस्य सर्वज्ञस्य विवक्षा छद्मस्थस्य प्रत्यक्षा, तस्य ( तस्या ) अतीन्द्रियत्वात् , छझस्थस्य चातीन्द्रियार्थदर्शित्वाभावात् ॥ ५०६ ॥ यदि न तद्विवक्षा छद्मस्थस्य । प्रत्यक्षा ततः किमित्याह तदभावम्मि य नजइ कहमिदमेसो इमस्सऽभिप्पातो ? । तस्साणुवादकरणे मिलक्खणातं फुडं चेव ॥ ५०७ ॥ तदभावे च-तद्विवक्षाप्रत्यक्षत्वाभावे च कथमिदं ज्ञायते एपोऽस्य सर्वज्ञस्याभिप्राय इति ?, नैव कथंचन । ततश्चेस्थमभिप्रायपरिज्ञानाभावे तस्य-सर्वज्ञोपदेशस्य आचार्यपरंपरकणानुवादकरणे-अनुवादे क्रियमाणे स्फुटमेवेह म्लेच्छज्ञातमुपढौकते ॥५०७॥ एतदेव भावयति मिलक्खू अमिलक्खुस्स जहा वुत्ताणुभासए । ॥२०॥ Jain Education in For Private & Personel Use Only ww.jainelibrary.org Page #405 -------------------------------------------------------------------------- ________________ COMCHOCOCCAMECORDS CRescoCOCOC ण हेउं से वियाणेइ भासियं तऽणुभासइ ॥ ५०८ ॥ यथा म्लेच्छः-अनार्यदेशोद्भवोऽम्लेच्छस्य-आर्यदेशोत्पन्नस्योक्ताऽनुभाषकः सन् न हेतुं-प्रवृत्तिनिमित्तं 'से' तस्यो-IR ४क्तस्य विजानाति भाषितं तु-उक्तं तु केवलमनुभाषते ॥ ५०८॥ एवमन्नाणिया णाणं वदंता वि सयं सयं । निच्छयत्थं न याणंति मिलक्खुब अवोधिए ॥ ५०९ ॥ एवमज्ञानिका अपि खकं वकं ज्ञानं-सम्यग्ज्ञानं वदन्तो निश्चयार्थ-परमार्थ न जानन्ति म्लेच्छ इवाऽबोधितः-18 शब्दार्थमनवगमित इति । अत्र यद्यपि कदवलेपादात्मानं ते ज्ञानिनमभिमन्यन्ते तथापि ते परमार्थेनाऽज्ञानिन । एवेति पराभिप्रायं दर्शयितुमज्ञानिका इत्युक्तम् । तदेवं हेत्वभावेन सम्यग्ज्ञानस्य निश्चयाऽसंभवात् संभवे वा विप्रति|पत्तिहेतुतया परलोकप्रतिपन्धित्वात् न तत् श्रेय इत्युपपादितम् ॥ ५०९॥ सांप्रतमत्रैवाभ्युच्चयेन दूषणमाह जं चाऽकजायरणे पवत्तमाणस्स जायई तिबो। परिणामो नाणिस्ता तत्तो बंधो वि तियो ति ॥ ५१०॥ C CCHOCOLORSCOM Jain Education Inter T anelibrary.org Page #406 -------------------------------------------------------------------------- ________________ धर्म | संग्रहणिः ॥२०॥ यच्च-यस्माच ज्ञानिनोऽकार्याचरणे प्रवर्त्तमानस्य सतस्तीवः परिणामो जायते, नहि जानतोऽकार्य तीव्राभिष्वङ्गमन्तरेण प्रवृत्तिर्भवतीति । तस्माच तीव्रपरिणामाद्वन्धोऽप्यशुभकर्मणां तीब्रो भवति ॥५१०॥ अपि च, नाणी वि कुणइ पावं नृणं ता एयमेव सेयं ति। लोगस्स विपरिणामं जणयंतो बंधई कम्मं ॥ ५११ ॥ । यदि ज्ञानं भवत् अवश्यं पापानिवृत्तिं कारयेत् ततः श्रेयो, यावता ज्ञान्यपि-ज्ञानवानपि पापं करोति 'ता'तस्मात् | ज्ञाने सत्यपि विशेषाभावात् नूनमेतदेवाऽज्ञानमेव श्रेय इति । अन्यच, यदा ज्ञानवानप्यकार्ये प्रवर्तते तदा लोकस्य परलोकास्तिक्यादिविषये विपरिणामो जायते,-यदि हि परलोकादिकं किंचित् स्यात् ततः कथमेष ज्ञानवानपीत्थं| हप्रवर्तते ? इति । विपरिणामं च लोकस्येत्थं जनयन् प्रभूतमशुभं कर्म वनाति । तन्न ज्ञानं प्रेक्षावतामुपादातुमुचितमिति ॥५११॥ एतदेवोपसंहरन्नाह तम्हा परलोगसमुजयस्स भिक्खुस्स असढभावस्स । चरणोवघायगेणं नाणेण अलमसंगस्स ॥ ५१२ ॥ -COLOCALCOCALCARRIENCOCOCOG ॥२०॥ Jain Education Inter For Private & Personel Use Only Page #407 -------------------------------------------------------------------------- ________________ ChordRRESS तस्मात् परलोकसमुद्यतस्य भिक्षोरशठभावस्यासंगस्य विगानतश्चित्तकालुष्यापादकतया चरणोपघातकेन ज्ञानेनालं पर्याप्तमिति ॥ ५१२ ॥ अत्राचार्य आह नाणनिसेहणहेतू नाणं इतरं च(व)होज्ज ? जइ नाणं । अब्भुवगमम्मि तस्सा कहन्नु अन्नाण मो सेयं ? ॥ ५१३ ॥ आस्तां तावदन्यत्-येन ज्ञानं निषिध्यते स ज्ञाननिषेधनहेतुः किं ज्ञानं वा स्यात् इतरत्-अज्ञानं वा । तद्यदि ज्ञानमिति पक्षस्ततोऽवश्यं तदभ्युपगन्तव्यं, तस्य चाऽभ्युपगमे सति कथं नु उच्यते 'न ज्ञानं श्रेयः' ?, ज्ञानस्यैवेत्थं ४/श्रेयस्तापत्तेः॥५१३॥ अह अन्नाणं ण तयं णाणनिसेहणसमत्थमेवं पि। अप्पडिसेहातो च्चिय संसिद्धं नाणमेव त्ति ॥ ५१४ ॥ 8 अथाज्ञानं ज्ञाननिषेधनहेतुरिति पक्षस्तदप्ययुक्तं, यस्मान्न तकत्-अज्ञानं ज्ञाननिषेधनसमर्थम् , अज्ञानस्य साध कबाधकत्वायोगात् । तत एवमपि-अज्ञानलक्षणद्वितीयपक्षाभ्युपगमेऽपि अप्रतिषेधादेव ज्ञानं संसिद्धमेव । एक्कारो SAMACROSCRECANCELMCAESCORRENA Jain Education a l For Private & Personel Use Only Page #408 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ॥२०२॥ भिन्नक्रमः स च यथास्थानं योजितः॥५१४॥ यदपि च विगानतः परलोकविवाधकत्वं भावयताभिहितम्-'अन्नेण अन्नहादेसियम्मि इत्यादि', तत्र प्रतिविधानमाह वादे वि कलुसभावो बंधनिमित्तमिह ण पुण णाणं ति । अन्नाणावगमेणं तं पुण कम्मक्खयनिमित्तं ॥ ५१५ ॥ | अन्येनान्यथादेशिते भावे सति वादेऽपि क्रियमाणे यश्चित्तस्य कलुपभावः स एवेह बन्धनिमित्तं न पुनर्ज्ञानं, केवलं तत्पुननिमज्ञानापगमकारितया कर्मक्षयनिमित्तमेव । एतदुक्तं भवति-यदा विवेकपूतात्मतया ज्ञानगर्वमपहाय परेषामुपकारबुद्या वादं विधत्ते तदा तत् ज्ञानं तस्य वादिनः परेषामज्ञानापगमकारितया कर्मक्षयनिमित्तमेव भवति । ततो न ज्ञानं परलोकस्य विवाधकं किंतु चित्तस्य कलुपभाव इति न कश्चिद्दोपः ॥५१५॥ यथा च विवेकामात्मनो वादे चित्तस्य कलुपभावो न भवति तं विधिमुपदर्शयन्नाह वादो वि वादिनरवइपरिच्छगजणेसु निउणबुद्धीसु। मज्झत्थेसु य विहिणा उस्सग्गेणं अणुन्नाओ ॥ ५१६ ॥ वादोऽपि तीर्थकरगणधरैरुत्सर्गेण विधिना अनुज्ञातो वादिनरपतिपरीक्षकेषु निपुणबुद्धिपु-मध्यस्थेषु सत्सु ना ॥२०२।। Jain Education in For Private & Personel Use Only W ww.jainelibrary.org Page #409 -------------------------------------------------------------------------- ________________ O COCOMGAMROGREDIEOCOC न्येषु । तथा च सति कुतस्तस्य कलुपतासमुत्पादो? येन तस्य बन्धो भवेदिति ॥५१६॥ यदुक्तम्-'सवे य मिहो। भिन्नं नाणमित्यादि' तत्राह सबे वि मिहो भिन्नं नाणं जइ वि इह नाणिणो ३ति । तीरइ तओ वि काउं विणिच्छओ एयमेव ति ॥ ५१७ ॥ तविसयदरिसणाऽसंभवे वि दिट्टेट्टवाधिता समया। संवेदणेण य तओ पडिवक्खनिसेहणं जुत्तं ॥ ५१८ ॥ ४इह यद्यपि सर्वेऽपि ज्ञानिनो मिथो भिन्नं ज्ञानं त्रुवन्ति, यद्यपि च तस्य ज्ञानस्य परोक्षविषयत्वात्तद्विषयदर्शनाऽ संभवस्तथापि दृष्टेष्टाऽवाधितात्समयात् विनिश्चयः कर्तुं शक्यते । केनोल्लेखेनेत्यत्राह-'एयमेवत्ति' एतत्-ज्ञानम् एवं-सम्यक् नान्यथेति । ततश्चैवं संवेदनेनाऽपि युक्तिनिवन्धनानुभवलक्षणेन यत् प्रतिपक्षनिषेधनं तद्युक्तमेव, संवेबदनस्य समूलत्वात् , प्रतिपक्षसाधनयुक्तीनां तु निर्मूलतया तदाभासत्वात् ॥ ५१७। ५१८ ॥ यदुक्तम्-'दिठेऽवाहिया इति' तद्भावयन्नाह दिटेणं इट्टेण य जम्मि विरोहो न जुज्जइ कहं चि । CAMERICROGRECRUGGRECARE Jain Education Intel For Private & Personel Use Only Hww.jainelibrary.org Page #410 -------------------------------------------------------------------------- ________________ %8 + धर्म संग्रहणि: ॥२०॥ सो आगमो ततो जं णाणं तं सम्मणाणं ति ॥ ५१९ ॥ यस्मिन्नागमे दृष्टेन-प्रत्यक्षानुमेयरूपेण इष्टेन च-खाभ्युपगतेन न कथंचिदपि विरोधो युज्यते स खलु तत्त्वत: आगमः शेषस्तु तदाभासः । तस्माच दृष्टेष्टाबाधितादागमात् यत् ज्ञानमुपजायते तत्सम्यक ज्ञानं नेतरत् । ततः कथमेतदेवमिति न विनिश्चयः कर्तुं शक्यते इति ॥ ५१९ ॥ कः पुनरसायागमो दृष्टेष्टाऽवाधित इति चेत् | अत आह सो उण जीवववत्थावणादिणा दंसिओ तु लेसेणं । ववहारजोगउ च्चिय वित्थरयो उवरि वोच्छामि ॥ ५२० ॥ __स पुनदृष्टेष्टाऽवाधित आगमो व्यवहारयोगत एव यथैव प्रतिप्राणि प्रसिद्धो व्यवहारो घटते तथैव जीवव्यवस्थासपनादिना लेशेन दर्शित एव । तुरवधारणे । उक्तं च-"तुः स्याद्भेदेऽवधारणे" इति । विस्तरस्तु उपरि सर्वज्ञसिद्धौ | वक्ष्यामीति ॥५२०॥ यदपि च 'जं सवण्णुवएसा जायइ अह तं मयं सुविण्णाण'मित्याशयोक्तम्-'तब्भावे किंमाणदामित्यादि', तत्रापि प्रतिविधानमाह तत्तो च्चिय फलभूओ सबन्नू चिय असंसयं सिद्धो। en Education Internacional For Private Personal use only Page #411 -------------------------------------------------------------------------- ________________ जं सग्गकेवलत्थी तवादि कुज्जा सुते भणियं ॥ ५२१ ॥ तत एवागमात् फलभूतःसर्वज्ञोऽपि चासंशयं सिद्धः। यत्-यस्मात्तस्मिन्नेव श्रुते-आगमे भणितम्-'सरगकेवलथी। वादि कुजत्ति' स्वर्गकेवलार्थी तपआदि कुर्यात् । आदिशब्दात् ध्यानादिपरिग्रहः ॥ ५२१॥ अत्र पर आह आगमतो सबन्नू तत्तोच्चिय आगमस्स पामन्नं । इतरेतरासयो इय दोसो अणिवारणिजो उ ॥ ५२२ ॥ आगमात्सर्वज्ञो भवति, 'तत्तो चिय फलभूओ सवण्ण इतिवचनात् , तत एव च सर्वज्ञादेव च चियशब्दः प्राकृतनिपातोऽवधारणे, आगमस्य प्रामाण्यम् । "जिनप्रणीतं साधु निमित्तसिद्धेर्नान्यत्तदभावादिति वचनात्" । ततः किमित्याह-'इयरेयरेत्यादि' इतिः-एवमुक्तप्रकारेण इतरेतराश्रयदोषोऽनिवारणीयः प्राप्नोति। तथाहि-यावन्नागमस्य प्रामाण्यं तावत्कुतस्तत्र पुरुषस्य प्रवृत्तिः?, निश्चितप्रामाण्य एव तत्र प्रेक्षावतां प्रवृत्तेरन्यथा प्रेक्षावत्ताक्षितिप्रसङ्गात् ।। प्रवृत्त्यभावाच्च कुतस्तत्फलभूतः सर्वज्ञः ?, यावच्च च तत्फलभूतः सर्वज्ञस्तावत्कुतस्तस प्रामाण्यं ?, सर्वज्ञप्रणीतत्वेन तस्य प्रामाण्याभ्युपगमात् , तस्य च प्राग्युक्तेरसंभवात् ॥ ५२२ ॥ अत्राचार्य आह १ शुद्धेरिति क-पुस्तके । Jain Education For Private & Personel Use Only Wioww.jainelibrary.org Page #412 -------------------------------------------------------------------------- ________________ संग्रहणि ॥२०४॥ CHOROSCOURSELCOM आगमओ सवन्नू तत्तोच्चिय आगमस्स पामन्नं । किंतु स एव नवरं तदत्थणाता जओ तस्स ॥ ५२३ ॥ आगमतः सर्वज्ञस्तत्फलभूत इत्येकान्तस्तत एव-सर्वज्ञादागमस्य प्रामाण्यं न तत्प्रणीतत्वेन किंतु एवं-वक्ष्यमाणनीत्या । नवरंशब्दो निपातोऽवधारणे । यतो-यस्मात्स एव-सर्वज्ञतदर्थज्ञाता तस्य-आगमस्य यथावस्थितार्थपरिज्ञाता नत्वन्यः॥५२३॥ एतदेव भावयति तीरइ न अन्नहा आगमस्स अत्थो अणिंदिओ नाउं । एमादि उवरि वोच्छं सत्वं सवन्नुसिद्धीए ॥ ५२४ ॥ न अन्यथा-सर्वज्ञमन्तरेणागमस्थार्थोऽतीन्द्रियो ज्ञातुं शक्यते, ततो नियतार्थप्रदर्शकत्वेन सर्वज्ञादागमस्य प्रामाण्यमिष्यते न साक्षात् तत्प्रणीतत्वेन, तस्य कथंचिन्नित्यतया अभ्युपगमात् । “एसा दुवालसंगी न कयावि नासी, न कयावि नथि, न कयाविन भविस्सइ, धुवा नीया" इत्यादिवचनप्रमाण्यात् । 'जिनप्रणीतं साधु' इत्यादावपि अर्थप्रदर्शकत्वापेक्षया तत्प्रणीतत्वं द्रष्टव्यं, न साक्षात्कर्तृत्वेनेति नेहेतरेतराश्रयदोपप्रसङ्गः । स्यादेतत् , अर्थप्रदर्शक१ एषा द्वादशाङ्गी न कदापि नासीत् , न कदापि नास्ति, न कदापि न भविष्यति ध्रुवा नित्या । -२८C-RRANGANAGAR ||२०४॥ Jain Education a l For Private & Personel Use Only W ww.jainelibrary.org Page #413 -------------------------------------------------------------------------- ________________ Jain Education Int त्वेनापि ततः प्रामाण्याभ्युपगमे इतरेतराश्रयदोषस्तदवस्थ एव । तथाहि - तत्फलभूत सर्वज्ञप्रदर्शितार्थत्वेनागमस्य प्रामाण्यं, निश्चितप्रामाण्ये च तत्र प्रवृत्तौ सत्यां तत्फलभूतः सर्वज्ञ इति, न, सर्वज्ञपरंपराया अनादित्वेन दोषाभावात्, बीजाङ्कुरादिवत् । 'एमादीत्यादि' एवमादिकं - नागमस्यार्थोऽतीन्द्रियोऽन्यथा ज्ञातुं शक्यत इत्येवमादिकं सर्वमुपरि - सर्वज्ञसिद्धौ वक्ष्ये । तत्रावश्यं सप्रपञ्चं भणिष्यमाणत्वादिह पुनर्भणने ग्रन्थगौरवप्रसङ्गादिति ॥ ५२४ ॥ यच्चोक्तम्- 'भावम्मि वि तदुवएसम्मि किं माण' मिति तत्राह जो दिट्ठेऽविरुद्धो दयावरो सवभाववावी य । सो सन्देस जs किमओ परं माणं ? ॥ ५२५ ॥ उपदेशो दृष्टेष्टाविरुद्धोदयापरः- सर्वथा प्राणिहिंसा निषेधपरः, सर्वभावव्यापी च- समस्त वस्तुखरूपाभिधायी च, स ज्ञायते एष सर्वज्ञोपदेश इति । अन्यस्यैवंविधोपदेशदातृत्वायोगात् । ततः किमितो दृष्टेष्टाविरोधदर्शनादितोऽपरं मानं - प्रमाणमु (तदु) पदेशत्वज्ञप्तये मृग्यते ? न युक्तं तदन्वेषणं दृष्टेष्टाविरोधदर्शनादिनैव निःसंशयं तस्य तथाज्ञातत्वादित्यभिप्रायः ॥ ५२५ ॥ यत्पुनरुक्तं 'णाए वि तदुवएसे एसेवत्थो मतो त्ति से किह णु णज्जइत्ति' तत्रेदमाह - ते यदुवदेसे सेवत्थो मउत्ति से एवं । Page #414 -------------------------------------------------------------------------- ________________ धर्म ॥२०५॥ SA नजइ पवत्तमाणं जं ण णिवारेइ तह चेव ॥ ५२६ ॥ संग्रहणिः ज्ञाते च पूर्वोक्तप्रकारेण तदुपदेशे-सर्वज्ञोपदेशे 'से' तस्योपदेशस्य एष एवार्थो मतो नत्वन्य इत्येतत् वक्ष्यमाणयतया ज्ञायते । तामेवाह-यत्-यस्मात् तथा चैव-यथा विवक्षितोपदेशवाक्योक्तप्रकारो ज्ञातस्तेनैव प्रकारेण प्रवर्त-1 मानं सन्तं न निवारयति ॥ ५२६॥ अन्नह य पवत्तंतं निवारती न य तओ पवंचेइ । जम्हा स वीयरागो कहणे पुण कारणं कम्मं ॥ ५२७ ॥ ___ अन्यथा च-यदि तस्योपदेशस्य विवक्षितोऽर्थी नाभिमतो भवेत् किंत्वन्य एव तदा यथाज्ञातेन प्रकारेण प्रवर्तमा-3 नं सन्तं निवारयेत् , हितार्थ हि भगवान् उपदिशति, ततो यद्यन्यथाऽपि तत उपदेशात्प्रवर्तमानं न निवारयेत् तर्हि कथमसौ हितो भवेत् ?, ततो यथाज्ञातप्रकारप्रवृत्त्यनिषेधेन इदं विज्ञायते-एप एवार्थस्तस्योपदेशस्य सम्मत इति। हाथोच्येत-हित एवासी कथं ज्ञायते इत्याह-'नयेत्यादि'नच 'तउत्ति' सकः सर्वज्ञःप्रवधयति-तारयति. त(य)स्यात् ॥२०॥ स वीतरागः, रागग्रहणमुपलक्षणं क्षीणसकलरागद्वेपमोहः, प्रतारणं च रागादिदोपनिवन्धनमिति । यदि वीतराग१ प्रपञ्चयति इति क-ग-पुस्तकयोः । -- -like--00-00 Jain Education Intern Aaw.jainelibrary.org Page #415 -------------------------------------------------------------------------- ________________ Jain Education Intern स्ततः प्रयोजनाभावादुपदेशमपि कस्मात्प्रयच्छतीति चेत् । अत आह— 'कहणे पुण कारणं कम्मं' वीतरागस्यापि सतः भगवतः कथने - उपदेशे पुनः कारणं कर्म - तीर्थकरनाम, ततो न कश्चिद्दोष इति ॥ ५२७ ॥ एतदेव भावयतिअरहंतमादिवच्छछ्यादिजणितं अणुत्तरं पुण्णं । तित्थगरनामगोतं तस्सुदया देसणं कुणइ ॥ ५२८ ॥ यस्मादर्हदादिवत्सलता दिजनितम् — अर्हत्सिद्धप्रवचनादिवत्सलताऽभीक्ष्णज्ञानोपयोगादिजनितम् अनुत्तरं पुण्यं तीर्थकर नामगोत्रं - तीर्थ करनामसंज्ञं, तस्योदयात् भगवान् देशनां करोति । तस्मान्न तस्य वीतरागत्वादुपदेशो विरुध्यत इति ।। ५२८ ॥ ननु यदि भगवानपि सम्म ततोऽस्मादृशस्येव तस्याप्युपदेशो न प्रमाणं स्यादत आह ra तं विधायi केवलस्स भावेवि तस्स तो भगवं । सन्नू कयकिच्चो पमाणमिह देसणाए य ॥ ५२९ ॥ न च तत्, शब्दो यस्मादर्थे, यस्मान्न तत् - तीर्थकर नामकर्म केवलस्य सकलद्रव्यपर्यायज्ञानस्य विघातकं, 'तो' तस्मात्तस्य तीर्थकर नामकर्मणो भावेऽपि भगवान् अष्टमहाप्रातिहार्यैश्वर्यादिवान् सर्वज्ञो वीतरागत्वात् कृतकृत्यः Page #416 -------------------------------------------------------------------------- ________________ धर्म ॥२०६॥ Jain Education Inte प्रमाणमिह देशनायाम्, नत्वस्मादृशः, केवलविघातकृत्तदावरणीय कर्म्माववद्धत्वात् ॥ ५२९ ॥ यदपि चोक्तम्- 'चित्तस्थावि य सद्दा' इत्यादि तत्रापि दोषाभावमाह - चित्तत्था विय सदा तत्तो च्चिय समइया अणेगे तु । सिद्धा तह चैव तओ न दूसणं होइ एयं पि ॥ ५३० ॥ चित्रार्था अपि च अनेके शब्दास्तत एव सर्वज्ञादेव समयिताः - संकेतिताः सन्तो जाता नान्यथा । 'सिद्धा तह चैिव त्ति' यथैव च सर्वज्ञेन समयितास्तथैव च लोकेऽपि सिद्धास्ततो न दूषणमेतदपि - चित्रार्थत्वं भवति । यदा हि भगवतैव एते शब्दाश्चित्रार्थाः चित्रार्थताऽपि च प्रकरणाद्यनुरोधेनैव द्रष्टव्या इत्युपदिश्यते तदा कः पूर्वोक्तदोषावकाश इति १ ॥ ५३० ॥ प्रकारान्तरेण चित्रार्थत्वेऽपि शब्दानां दोषाभावमाह - आयरियपरंपरओ पमाणमेयम्मि होइ अत्थम्मि । अस् य अपमाणत्ते सवागम किरियलोवो उ ॥ ५३१ ॥ एतस्मिन्नर्थे-परोक्षशब्दार्थनियमलक्षणे प्रमाणमाचार्यपरंपरकस्ततो न शब्दानां चित्रार्थताऽपि दोषाय । न च वा संग्रहणिः, |२०६॥ Page #417 -------------------------------------------------------------------------- ________________ Jain Education Inter of च्यमयमाचार्य परंपरको न प्रमाणं, यस्मादस्य परंपरकस्याप्रमाणत्वे सति सर्वागमक्रियालोपः प्रसज्यते, तमन्तरेणान्यस्वार्थनियमव्यवस्थानिबन्धनस्याभावात् । तस्मादसौ प्रमाणमेव ॥ ५३१ ॥ किंच, अन्नाणिमतं पि इमं आगमघडियं व होज्ज इतरं वा ? | पढमम्मि परंपरओ माणं इतरम्मि तु ण जुत्तं ॥ ५३२ ॥ अज्ञानिमतमपि इदं किमागमघटितं वा भवेत् इतरद्वा - अनागमघटितं वा ? । तत्र प्रथमपक्षे परंपरक एव प्रमामायातोऽन्यस्य तदर्थावगम निबन्धनत्वाभावात् । इतरस्मिंश्चानागमघटितत्वलक्षणे पक्षे न युक्तमिदमज्ञा निमतं, निर्मूलत्वात् ॥ ५३२ ॥ पर आहआगमघडितं तहावि उववन्नमेयमेवंति ( वत्ति) । जव णाऊण पवित्तीओ का उववत्ती तु अन्नाणे ? ॥ ५३३ ॥ यद्यप्येतदज्ञानिमतमनागमघटितं तथाप्येतदुपपन्नमेवेतिचेत् । तदयुक्तम्, कुत इत्याह- ज्ञात्वा प्रवृत्तेः । न हि प्रेक्षावतां हेयमुपादेयं वा तत्त्वेनापरिज्ञाय हातुमुपादातुं वा प्रवृत्तिरुपजायते, प्रेक्षावत्ताक्षितिप्रसङ्गात्, तच्च परि| ज्ञानमज्ञानपक्षेऽतीव दुर्घटमिति कथमज्ञानपक्षे भवतां प्रवृत्तिः प्राप्नोति ?, स्वाभ्युपगमविरुद्धत्त्वात् । यदप्युक्तमेतदुपप ww.jainelibrary.org Page #418 -------------------------------------------------------------------------- ________________ धर्म संग्रहणि ||२०७॥ नमेवेति तदपि नूनमज्ञानित्वसूचकमेव, यतो यत् उपपत्त्या निश्चितं तदुपपन्नमित्युच्यते, अज्ञाने चाज्ञानपक्षे चाभ्युपगम्यमाने का उपपत्तिः?, नैव काचित् , तस्या ज्ञाननिबन्धनत्वात् , ज्ञानाच भवतामतीव दुरापास्तत्वादिति ॥५३३॥ यदुक्तं-'ज्ञात्वा प्रवृत्तेरिति,' तत्र परो व्यभिचारमाह अन्नाणओ वि दिट्ठा एत्थ पवित्ती किसादिएसुं ति। सफला य तीऍ वि फलं नाणातो चेव विन्नेयं ॥ ५३४॥ ___ कृष्यादिकर्मसु अत्र-जगति अज्ञानतोऽपि कृषीवलादीनां प्रवृत्तिदृष्टा, सफला च, ततो नावश्यं प्रेक्षावतां । ज्ञात्वैव प्रवृत्तिरिति । अत्राह-'तीए वि' इत्यादि तस्यामपि-कृष्यादिविषयायां प्रवृत्ती फलं ज्ञानादेव विज्ञेयम् ॥५३४॥ अत्र परः प्राह णण संसया पवित्ती फलसंपत्ती य निच्छयाओ उ। धन्नादिणाणरहिओ न हि गहणादौ कुणइ जु(ज)त्तं ॥ ५३५ ॥ | ननु कृष्यादिषु प्रवृत्तिः संशयादेव न ज्ञानात्तत्कथमुक्तम्-'तीए वि फलं नाणाओ चेव त्ति' । तथाहि-प्रवृत्तिनिद बन्धना फलप्राप्तिः प्रवृत्तिश्च संशयादतः फलप्राप्तिरपि संशयादेवेति भावः । आचार्य आह-फलसंपत्ती य निच्छ ॥२०७॥ - For Private & Personel Use Only Page #419 -------------------------------------------------------------------------- ________________ Jain Education Int याओ उ' अस्ति कृप्यादिषु प्रवृत्तिः संशयात्, फलप्राप्तिः - फलादानं पुनः चः पुनरर्थे तत्रापि निश्चयादेव, तुरेवकारार्थः । कुत इत्याह- हिर्यस्मान्न खलु धान्यादिज्ञानरहितस्तग्रहणादौ यत्वं करोति, तथाऽनुपलम्भात्, तन्न प्रवृत्तेः संशयकृतत्वात् फलप्राप्तिरपि संशयादेव । एवमिहाप्यज्ञानपक्षे प्रथमतस्तद्विचाराभिमुख्यादिलक्षणात् संशयादपि प्रवृत्तिः स्यात् तदा दानाभ्युपगमस्तु ज्ञानादेव युज्यते नान्यथा, तब ज्ञानं भवतां खाभ्युपगम विरुद्धमिति यत्किंचिदेतत् । ज्ञात्वा प्रवृत्तेरित्यत्रापि च प्रवृत्तिरुपादानलक्षणा विवक्षिता नेतरेत्यदोषः । अन्यथा ज्ञात्वा प्रवृत्तेरित्यस्योक्तप्रकारेण व्यभिचारदर्शनतोऽसाधनाङ्गत्वे तदभिधातुराचार्यस्य निग्रहस्थानमापद्येतेति ॥ ५३५ ॥ यत्पुनरुक्तम्- 'सवणे वि तत्रिवक्खा नहि छउमत्थस्स पचक्खे' त्यादि तत्र प्रतिविधानमाह - नजतिय विवखापच्चक्खत्ते वि तस्सभिपाओ । भणिओववत्तिओ च्चिय मिलक्खुणातं तओऽजुत्तं ॥ ५३६ ॥ ज्ञायते च तद्विवक्षायाः - सर्वज्ञविवक्षाया अप्रत्यक्षत्वेऽपि तस्य - सर्वज्ञस्याभिप्रायः । कुत इत्याह- भणितोपपत्तितः'पवत्तमाणं जन्न निवारेइ' इत्यादिरूपायाः । ततश्च यत् म्लेच्छज्ञातमुदीरितं तदयुक्तमेव द्रष्टव्यमिति ॥ ५३६ ॥ यदपि च 'जं वा कजे' साद्यभिहितं तदप्यसंगतम्, यत आह Page #420 -------------------------------------------------------------------------- ________________ धर्म ॥२०८॥ Jain Education परिणामो पुण तो पावपवित्तीय बंधहेउ त्ति । नत्थेत्थ विसंवादो य णाणं कारणं एत्थ ॥ ५३७ ॥ परिणामः पुनस्तीत्रः पापप्रवृत्ती- पापहेतुकार्यप्रवृत्तौ भवन् बन्धहेतुर्भवतीति, अत्र नास्ति विसंवादः, अस्माभिरपि तस्यैवमभ्युपगमात् । न चात्र - पापहेतुकार्यप्रवृत्त्यादौ कारणं ज्ञानं येन पूर्वाभिहितदोपप्रसङ्गः स्यात् ।। ५३७ ॥ कुत इत्याह अन्नाणिणोवि जम्हा दीसति एयं किलिट्टभावस्स । णाणिस्स पवित्तीय वि तत्तो तु ण तारिसो भावो ॥ ५३८ ॥ यस्मादज्ञानिनोऽपि क्लिष्टभावस्य सत एतत् पापहेतुकार्यप्रवृत्त्यादि दृश्यते, तस्मान्न ज्ञानमेतस्य कारणं, तदभावेऽपि भावात्, यथा धूमस्य शक्रमूर्द्धेति । यदप्युक्तम् — 'ज्ञान्यपि पापं करोति तस्मादज्ञानमेव श्रेयो, ज्ञाने सत्यपि | विशेषाभावादिति' । तदप्ययुक्तम्, ज्ञाननिबन्धनस्य विशेषस्य दर्शनात् । तथा चाह - ' णाणिस्सेत्यादि ' ज्ञानिनः पाप१ शक्रमूर्द्धा – वल्मीकम् । संग्रहणिः ॥२०८॥ X Page #421 -------------------------------------------------------------------------- ________________ कार्ये प्रवृत्तावपि तत एव-ज्ञानादेव तुरेवकारार्थो, न तादृशो भावः-परिणामो भवति यादृशोऽज्ञानिनः, तस्य दिसंवेगाऽभावात् , ज्ञानिनश्च तद्भावादिति ॥ ५३८ ॥ एतदेव दृष्टान्तेन भावयति जाणतो विसखाणू पवत्तमाणोवि वीहई जह तु । ण उ इतरो तह नाणी पवत्तमाणोवि संविग्गो ॥ ५३९ ॥ यथा विषं स्थाणुं वा जानन् कुतश्चिन्निमित्तविशेषात्तत्र प्रवर्त्तमानोऽपि विभेति, तन्निबन्धनावश्यंभाव्यपाय-14 परिज्ञानात् , नत्वितरः-अजानन् , भयहेतुविषादिस्वरूपपरिज्ञानाभावात् । तथा ज्ञानी तथाविधकर्मविपाकोदयसाम र्थ्यात् प्रवर्त्तमानोऽप्यकार्ये संविनो भवति, तन्निवन्धनदुरन्तसंसारमहागर्तपातसंभवात् तत्रानभिष्वक्तो भवति । संविद्रमस्य च तस्य पूर्वोपार्जितस्यापि पापस्य निवृत्तिरपरिमिता भवति । न चैतदुभयमप्यज्ञानिनः संभवति ॥ ५३९ ॥ तथा चाह जो संवेगपहाणो अचंतसुहो उ होइ परिणामो। पावनिवित्तीय परा नेयं अन्नाणिणो उभयं ॥ ५४०॥ KOREGARDERGRESCUERICANCCESCANDAL Jain Education Inter For Private & Personel Use Only new.jainelibrary.org Page #422 -------------------------------------------------------------------------- ________________ धर्म योऽत्यन्तशुभः संवेगप्रधानः परिणामो ज्ञानिनो भवति, या च परा-प्रकृष्टा पापनिवृत्तिनैतदुभयमप्यज्ञानिनःसंग्रहणिः. ॥२०९॥ ॥ ५४० ॥ कुत इत्याह संसारासारत्ते सारत्ते चेव मुत्तभावस्स । विन्नाते संवेगो पावनिवित्तीय तत्तो उ॥ ५४१ ॥ यस्मात् संसारासारत्वे, सारत्वे चैव मुक्तभावस्य-मुक्तत्वस्य विज्ञाते सति भवति संवेगः, तस्माच संवेगात्पापनिवृत्तिश्च भवति, तदपि च संसारासारत्वादि ज्ञायते सम्यग्ज्ञानात् , ततो नोभयमपीदमज्ञानिनः संभवति । तन्न ज्ञाने हा सत्यपि विशेषाभावः । तथा च सति यदुक्तम्-‘णाणेण अलं असंगस्सेति' तदतीवासमीचीनम् , ज्ञानस्य संसारासाहारत्वाद्यवगमनिबन्धनतया एकान्तेन चरणोपकारित्वात् ॥ ५४१॥ एतदेवोपसंहरन्नाह तम्हा परलोगसमुज्जतस्स भिक्खुस्स असढभावस्स । चरणोवगारगं इय णाणं सुत्तेविमं भणितं ॥ ५४२ ॥ 1.२०९॥ तस्मादितिः-एवमुक्तेन प्रकारेण परलोकसमुद्यतस्य भिक्षोरशठमावख ज्ञानं चरणस-चारित्रस्योपकारक, न तूपवातितकम् । एतदेव स्वमनीषिकाशङ्काव्युदासाय सूत्रेऽप्यतिदिशति-सूत्रेऽपीदं भणितम् ॥ ५४२॥ तदेव सूत्रं पठति For Private & Personel Use Only Page #423 -------------------------------------------------------------------------- ________________ XOSALMANGAROORK ROCAREOGRECCAS "पढमं नाणं तओ दया एवं चिट्ठति सवसंजए। अन्नाणी किं काही ? किं वा णाही छेयपावगं ? ॥ ५४३ ॥" प्रथमम्-आदौ ज्ञानं जीवखरूपसंरक्षणोपायफलविषयं, ततः-तथाविधज्ञानसमनन्तरं दया-संयम एवम्-उक्तेन हा प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति-आस्ते सर्वः संयतः। यः स पुनरज्ञानी साध्योपायफलपरिज्ञानविकलः स किं करिष्यति?, नैव किंचित् , सर्वत्रान्धतुल्यत्वात् । किं वा कुर्वन् ज्ञास्यति छेकं-कालोचितं हितं पातकं वाहितविपरीतं, ततस्तत्करणं भावतोऽकरणमेव, घुणाक्षरकरणवत् ॥ ५४३॥ ततश्च, इय कह नाणेण अलं जुज्जइ वयणं इमं असंगस्स ? । अण्णाणं चिय संगो कारणकज्जोवयारातो ॥ ५४४ ॥ इतिः-एवमुक्तेन प्रकारेण चरणोपकारित्वे सति ज्ञानस्य कथमिदं वचनं युज्यते यदुत-ज्ञानेनालमसङ्गस्येति ।। यस्मादिहाज्ञानमेव कारणे कार्योपचारात् सङ्गस्ततोऽसङ्गस्याज्ञानरूपसङ्गपरिहाराय ज्ञानमेवोपादातुमुचितमिति स्थितम् ॥५४४ ॥ मूलत उपसंहारमाह Jain Education inte For Private Personel Use Only K w .jainelibrary.org Page #424 -------------------------------------------------------------------------- ________________ संग्रहणि, धर्म // 210 // तम्हा नाणी जीवो तं पि य परलोगसाहगं सिद्धं / नाणण्णाणविवेगे उवायमो चेव निरवज्जो // 545 // तस्मादयं जीवो ज्ञानी-ज्ञानखभावः सिद्धः। तदपि च ज्ञानं परलोकसाधकं सिद्धम् / तथा ज्ञानाज्ञानविवेके चइदं सम्यग्ज्ञानमिदं च मिथ्याज्ञानमित्येवं ज्ञानाज्ञान विभागे च कर्त्तव्ये उपायो-हेतुर्ज्ञानं दृष्टेष्टाबाधितसमयमूलत्वानिरवद्यः सिद्धः / इति ज्ञायकत्वसिद्धिः॥ 545 // समर्थितं 'ज्ञायक' इति द्वारम् / / ROKASGAISROSAARISASI इति पूर्वार्द्धः / // 210 // इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 39. Jain Education Intematon For Private & Personel Use Only