________________
ANSACROCCOSORSCIENCESCSCR
ततश्च विपक्षाद्यापकविरुद्धोपलब्ध्या व्यावर्तमानं विज्ञानं विज्ञानान्तरपूर्वकत्वेन व्याप्यत इति प्रतिवन्धसिद्धिःसंग्रहणिः, यत्पुनः-'प्रतिनियतालब्धवित्तलाभलब्धवित्तापहारसुखदुःखादिवैचित्र्यस्य नियामकमन्तरेणानुपपद्यमानत्वादित्याद्याशंक्य प्रतिपादितं भूतानामेव तथाखभावत्वतो वैचित्र्योपपत्तेर्यदाह-“जलवुद्बुदवज्जीवा" इत्यादि' तन्न साधीयः, प्रत्युत तस्य जीवसिद्धिनिमित्तत्वात् । तथाहि-न जलमात्रात्तद्बुद्बुदवैचित्र्यमुपपद्यते, निमित्ताविशेषतः सदा सर्वत्र चाविशेषेण तद्भावप्रसङ्गात्, ततो यथा जलबुद्धदे वैचित्र्यमन्यथानुपपद्यमानं पवनविशेषादि सहकारिकारण-18 मात्मनो गमयति, तथा भूतमात्रत्वाविशेषेऽपि नरपश्वादिरूपेण सुखित्वदुःखित्वादिरूपेण वा यत् प्रत्यात्मवैचित्र्यमुपलभ्यते तदन्यथाऽनुपपद्यमानमवश्यमदृष्टं गमयति, तदपि च विचित्रकार्यदर्शनाद्विचित्रम् , तदुक्तम्-"आत्मत्वेनाविशिष्टस्य, वैचित्र्यं तस्य यद्वशात् । नरादिरूपं तचित्रमदृष्टं कर्मसंज्ञक ॥१॥" मित्येतदेवाह
चित्तो कम्मसहावो भणिओ तत्तो य लाभहरणादी।
सिद्धत्ति अस्थि जीवो तम्हा परलोगगामी तु ॥ १५८ ॥ 'चित्रो' नानारूपः कर्मणां-सातादिवेदनीयादीनां स्वभावो भणितः प्राक् । तत्र ‘अदिटुंगंतफले'त्यादिना सामा-18 न्यतः काभिहितं, कर्मण एवादृष्टशब्दवाच्यत्वात् , 'न विवजयम्मी'त्यादिना तु तस्यैव शुभाशुभभेदेन स्वभा
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org