________________
MASSACREALNALODCASEX
जमणादौ संसारे तं णत्थि जतं ण अणुभूतं ॥ १५६ ॥ 'सोऽपि' विलयाहाराभिलाषो दृष्टान्तत्वेनोपात्तो न एकान्तेन इहभवानुभूताभिलाषपूर्वक एव, तुरेवकारार्थः। कुत इत्याह-'यत्' यस्मादनादौ संसारे तन्नास्ति यकन्नानुभूतं, किंतु सर्वमनुभूतमेव, तत्कथं दृष्टान्तबलेनैष प्रथमस्तनाभिलाष इहभवानुभूताभिलाषपूर्वक एव प्रसज्यत इति ॥१५६॥ अथ कदाचित् परो मन्येत-नास्य स्तनाभिलाषः, अव्यक्तत्वाद्, अपि त्वेवमेव प्रवृत्तिमात्रमिति, अतोऽनुमानान्तरमप्याह
इय पढमं विन्नाणं विन्नाणंतरसमुन्भवं णेयं ।
विन्नाणत्तातो चिय जुवविन्नाणं व बालस्स ॥ १५७ ॥ इतिरेवमर्थे, एवं यथा स्तनाभिलापोऽभिलाषान्तरपूर्वको ज्ञातस्तथा प्रथम विज्ञान विज्ञानान्तरसमुद्भवं ज्ञेयं, विज्ञानत्वादेव, यथा युवविज्ञानं 'बालस्येति' वालावस्थाविज्ञानसमुद्भवम् ॥१५७॥ इह वस्तुनो नात्यन्तासत उत्पादो, नापि सतो निरन्वय एव विनाशः, किंतु कथंचित्सत एव भावान्तररूपतया परिणमनम् , ततो विज्ञानादेर्वस्तुनः खरूपमन्वयेन व्याप्त, विज्ञानं चेन्न विज्ञानान्तरपूर्वकं स्यात् तर्हि अन्ययविरुद्धोऽसन्तासत उत्पादोऽभ्युपगतः स्यात्,
CHECONGRESSUROORKOREGAON
Jain Education in
For Private & Personel Use Only
W
w w.jainelibrary.org