SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ ८२ ॥ Jain Education In %% दुदयनिमित्तः प्रथमस्तनाभिलापो भवेत् ?, ततो विपक्षाद्यापकानुपलब्ध्या व्यावर्त्तमानोऽभिलापान्तरपूर्वकत्वेन व्याप्यत इति प्रतिबन्धसिद्धिः ॥ १५४ ॥ अत्र परो विशेषविरुद्धतामुद्भावयति - विलयाहारभिलासो इहअणुभूयाभिलासपुवो तु । सोऽवि सिया एवं चिय णो पढमत्तप्पकोवाओ ॥ १५५ ॥ यूनो विलयाहाराभिलाष इहभवानुभूताभिलाषपूर्वक एव दृष्टः, तुशब्द एवकारार्थः, ततश्च तद्दृष्टान्तावष्टम्भेन | सोऽपि प्रथमः स्तनाभिलाष 'एवं चिय'त्ति एवमेव इहभवानुभूताभिलाषपूर्वक एव स्यात्, तथा च सति कुतोऽस्मादप्यनुमानात् परलोकयायिनो जीवस्य सिद्धिरिति । अत्रोत्तरमाह- 'नो पढमत्तप्पकोपाओ' नेति परोक्तं प्रतिषेधति, कुत इत्याह — एवं सति प्रथमत्वस्य प्रथमत्वविशेषणस्य प्रकोपात्- निरर्थकापत्तेः । एतदुक्तं भवति - प्रथमत्व विशेषणे| नैव बालाद्यस्तनाभिलाषस्येहभवानुभूताभिलाषपूर्वकत्वं वाध्यते, तस्मिन् सति प्रथमत्वस्यायोगात्, ततश्च कुतोऽत्र विशेषविरुद्धता १, तलक्षणायोगात्, अयोगश्च - " विरुद्धोऽसति बाधने " इति वचनात् ॥ १५५ ॥ अपि च- दृष्टान्तवलेनैष विशेषविरुद्ध उद्घुप्यते, न च दृष्टान्तोऽप्येकान्तेन तथाभूतो, यत आहसोऽवि ण एतेणं इह णुभूयाभिलासपुवो तु । For Private & Personal Use Only संग्रहणिः, ॥ ८२ ॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy