________________
ववैचित्र्यमिति । 'तत्तो य लाभहरणादी सिद्धत्ति' तत एव तस्मादेव चित्ररूपात्कर्मणः सकाशात् लाभहरणादिः
सिद्धो, न तु भूतानां तथाखभावत्वतः, भेदकमन्तरेण तथाखभावत्वविशेषस्यैवासंभवात् , भेदकाभ्युपगमे च पर्यायतः दि कर्मण एवाभ्युपगमात्, तस्य च कर्मणः कारमन्तरेणानुपपद्यमानत्वात्तत्कर्तुस्तदन्यथाऽनुपपत्त्याऽनुमीयमानस्य
जीवस्य पूर्वभवेऽप्यस्तित्वं सिद्धं, तस्मादस्त्येव जीवः परलोकगामी। तुरवधारणे भिन्नक्रमश्च स चास्तीति क्रियया सह
योजित एव । एवं च सति यदुक्तं-'परलोकिनोऽभावात्, देवनारकत्वादिलक्षणपरलोकाभाव इत्यादि, तत्सर्वनमसमीचीनमेवेति स्थितम् ॥ १५८ ॥
॥ भौतिकपुरुषवादिमतपरीक्षा समाप्ता ॥ NI इह 'जीवो अणाइनिहणो' इत्यादिद्वारगाथायां यत् जीव इत्युपात्तं तत्समर्थितम् , सांप्रतमनुक्रमप्राप्तम् 'अणादिनिहणो' इत्येतत्समर्थयमान आह
जम्हा ण कित्तिमो सो तम्हाऽणादीत्थ कित्तिमत्ते य (उ)।
वत्तत्वं जेण कतो सो किं जीवो अजीवो त्ति ? ॥ १५९ ॥ यस्मादसौ जीवोऽकृत्रिमः करणेन निवृत्तः कृत्रिमः “ड्वितस्त्रिमा तत्कृते" इति त्रिमप्रत्ययः, न कृत्रियोऽक
AKAMACHARACTERROCCC
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org