SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ धर्म | संग्रहणि. त्रिमोऽकृतक इतियावत् , तस्मादकृत्रिमत्वादयमनादिरेव । तुशब्द एवकारार्थः । अथ नासावकृत्रिम इष्यते तर्हि विकृत्रिमत्वेऽभ्युपगम्यमाने सति अवश्यमस्य कत्तोऽभ्युपगन्तव्यः, तमन्तरेण कृत्रिमत्वायोगात् , ततश्च वक्तव्यं येनासौ ॥८४॥ जीवः कृतः स किं जीवोऽजीवो वेति, गत्यन्तराभावात् ॥ १५९ ॥ तत्रायं पक्षमधिकृत्य दूषणमाह जइ जीवो जेण कतो सो अन्नेणंति एवमणवत्था । चरमो अकित्तिमो अह सवेसु तु मच्छरो को णु ? ॥ १६० ॥ यदि येन कृतो जीवः स जीव इष्यते, ततः सोऽपि जीवत्वाविशेषादन्येन जीवेन कर्त्तव्यः सोऽप्यन्येनेत्येवमनवस्था स्यात् । अथानवस्थादोषभयाचरमः-अन्तिमोऽकृत्रिम इष्यते ननु तर्हि तमेकं मुक्त्वा सर्वेषु पुनरन्येषु जीवेषु भवतः कोनु मत्सरो? येन तेषां सर्वेपामप्यकृत्रिमत्वं नेष्यते, निष्कारणत्वाद्, अयमतीवायुक्त इति भावः॥१६०॥ अपि च जो सो अकित्तिमो सो रागादिजुतो हवेज रहितो वा ? । रहियस्स सेसकरणे पओयणं किंति वत्तवं ॥ १६१॥ योऽसावकृत्रिमः पुरुष इष्यते जगतः स्रष्टा स किं 'रागादियुतो' रागादिमान् भवेत् ?, रहितो वा रागादि ॥८४॥ Jain Education in For Private & Personel Use Only hiww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy