________________
Jain Education Inte
इदं च सप्रपञ्चं प्राक् भणितमेव । ततः किमित्याह - एवं च सति कथंचित् पूर्वरूपनिवृत्त्या भावानामतादवस्थ्ये |सति अनित्यत्वं कस्य वा विरुद्धं ?, नैव कस्यचिदित्यर्थः ॥ ४२० ॥ इह परिणाम सिद्धौ वस्तुनः कथंचित्पूर्वरूपत्यागसि - द्विर्नान्यथेति तां प्राक् सुखादियोगान्यथानुपपत्तिवलेनोपपादितामपि सांप्रतमध्यक्षत उपपादयन्नाह - पच्चक्खेणेव तहा अणुगमवइरेगगहणतो सिद्धं ।
वत्थु परिणामि (म)रूवं मिम्मयघडवेदणाउत्ति ॥ ४२१ ॥
तथेति समुच्चये । प्रत्यक्षेणैवानुगमव्यतिरेकयोर्ग्रहणात् वस्तु परिणामिरूपं सिद्धं, परिणामस्यानुगमव्यतिरेकात्मकत्वात् । कथं पुनः प्रत्यक्षेणानुगमव्यतिरेकयोर्ग्रहणमिति चेत् ? । अत आह-'मिम्मयघडवेयणाउत्ति' मृण्मयघटवेदनात्। एतदुक्तं भवति यतो मृत्पिण्डादुपजायमाने घटे मृत् अन्वयिनी मृत्पिण्डत्वपर्यायव्यावृत्तिश्च प्रत्यक्षत एव वेद्यते, तस्मात्तदात्मक परिणामरूपं वस्तु प्रत्यक्षत एव सिद्धम् ॥ ४२१ ॥ अत्र पराभिप्रायं दूषयितुमारभतेसिदं पञ्चक्खं वियप्पतो तमविगप्पगं होउ ।
तेवि तहेव सो णु घेप्पइ जम्हा सरूवेण ॥ ४२२ ॥
स्यादेतत्-नेदमनुगमव्यतिरेकग्रहणात्मकं ज्ञानं प्रत्यक्षम् । कुत इत्याह - विकल्पाद् - विकल्परूपत्वात्, प्रत्यक्षं हि
For Private & Personal Use Only
Xxx
w.jainelibrary.org