________________
धर्म
॥१७३॥
कल्पनापोढम् । तदुक्तम् - " प्रत्यक्षं कल्पनापोढमभ्रान्तमभिलापिनी । प्रतीतिः कल्पनेत्यादि" । इदं तु अनुगमव्यतिरेकग्रहणात्मकं ज्ञानं कल्पनात्मकमतो न प्रत्यक्षम्, तत्कथमुक्तं परिणामरूपं वस्तु प्रत्यक्षतः सिद्धमिति । आचार्य आह-'तमविकप्पगं होउ' तत्प्रत्यक्षमविकल्पकं भवतु, नात्र कश्चिद्दोषः यस्मात्तेनाप्यविकल्पकप्रत्यक्षेण स भावः | खरूपेण तथैव-परिणामिरूपतया गृह्यते, नान्यथा, तस्य यथावस्थितार्थग्रहणस्वभावत्वात्, अर्थस्य च परिणामरूपतयैव | स्थितत्वादिति ॥ ४२२ ॥ अत्रैवाशङ्काशेपमपाकुर्वन्नाह -
नय तस्स तं ण रूवं कारणनियमादिभावतो णेयं । पचपिभावी हंत विह (य) प्पो विणा हेऊ ॥ ४२३ ॥
न च तस्य-भावस्य तत्— अनुगमव्यतिरेकात्मकत्वरूपं न ज्ञेयं, किंतु तदेव ज्ञेयम् । कुत इत्याह-कारणनियमादिभावतः, आदिशब्दात्कार्यनियमभावपरिग्रहः, कार्यकारणभावनियमादित्यर्थः । अन्यथा स एव नोपपद्येत, यथा च नोपपद्यते तथा प्रागेव सप्रपञ्चमभिहितमिति न पुनरिहोच्यते । अपि चायं विकल्पः प्रत्यक्षपृष्ठभावी सन् नाहेतुको युक्तः, सदाभावादिप्रसङ्गात् ॥ ४२३ ॥ किंतु
तस्सामत्थप्पभवो न य स सजातीय भेदगहरूवो ।
Jain Education International
For Private & Personal Use Only
संग्रहणिः.
1120311
ww www.jainelibrary.org