________________
ASSESSORIAS***
ता तंपि तहारूवं गेण्हइ किंवा तमन्नति ? ॥ ४२४ ॥ तत्सामर्थ्यप्रभवो, न च स-विकल्पस्तत्सामर्थ्यादुद्भूतोऽपि सजातीयभेदग्रहरूपः-सजातीयादपि व्यक्त्यन्तरात् मृ|त्पिण्डादिघटान्तरादेः भेदस्य ग्राहकः सकलसजातीयव्यावृत्तवस्तुग्रहणरूप इतियावत् , किंतु सजातीयेन सहाभेदस्य ग्राहकः,तथानुभवात् । 'ता' तस्मात्तदपि-अविकल्पकं प्रत्यक्षं भावं तथारूप-सजातीयाव्यावृत्तखरूपं गृह्णाति, अन्यथा तस्य विकल्पस्य तद्रूपानुकाराभावेन तत्सामर्थ्यप्रभवत्वानुपपत्तेः । परमेव दूषयितुं पृच्छति-'किं वा तमन्नंति' किं वा तत्-अविकल्पकं तथारूपाद्भावात् अन्यं भावं गृह्णाति ? ॥४२४ ॥ पर आह
तं चिय उभयविभिन्नं किन्न वियप्पोवि तारिसो होइ ? ।
सारिक्खविप्पलंभा तह भेदे किमिह सारिक्खं ? ॥ ४२५ ॥ यमेव भावं विकल्पो गृह्णाति तमेव निर्विकल्पकमपि परं किंतु उभयविभिन्नं-सजातीयविजातीयविभिन्नं,विकल्पस्तु विजातीयादेव व्यावृत्तं न सजातीयादपि । आचार्य आह-किन्न विकल्पोऽपि तत्सामर्थ्यप्रभवस्तादृशः सजा-2 तीयविजातीयविभिन्नभावखरूपग्राहको भवति ?, तत्सामर्थ्यप्रभवत्वाद्धि सोऽपि विकल्पस्तादृश एव युक्तो नान्या-18 |दृश इति भावः। पर आह-'सारिक्खविप्पलंभात्' सदृशापरापरदर्शनात् विप्रलम्भात् नासौ विकल्पस्तादृशो विजा
SOSAROSAGARCANCCC
Jain Education Intern
For Private & Personel Use Only
14.56
m
jainelibrary.org