SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ धर्म ॥१७४॥ Jain Education Inte |तीयभेदस्येव सजातीय भेदस्यापि ग्राहको भवतीत्यत्राह - 'तह भेए किमिह सारिक्ख' तथा — सर्वेभ्यः सर्वात्मना | भेदे - वैलक्षण्ये सति किमिह भावानां परस्परं सादृश्यं यद्वशाद्विप्रलम्भः स्यात् ?, नैव किंचिदित्यभिप्रायः । अथोच्येतअतत्कारणात्कार्यव्यावृत्तिनिबन्धनं परिकल्पितं सादृश्यमस्त्येव, तत्कथमुच्यते ' तह भेए किमिह सारिच्छ मिति अतत्कारणादिभ्य इव तत्कारणादिभ्योऽपि व्यावृत्तेः पटादविशेषेण व्यावृत्तयोरपि गोघटयोरिव परस्परं व्यावृत्ततया व्यावृत्तिनिबन्धनस्यापि सादृश्यस्य परिकल्पयितुमशक्यत्वात्, परिकल्पितस्य च परमार्थतः खरविषाणकल्पत्वेन यथावस्थित वस्तुभेदग्रहणविबन्धकत्वायोगात् ॥ ४२५ ॥ पराभिप्रायं दूषयितुमारेकते - अह तं अपडुं वा तम्मि सजातीय भेदगहणम्मि । इतरमि तु णो एवं उभयसभावादिदोसाओ ॥ ४२६ ॥ अथ तदपि निर्विकल्पकं प्रत्यक्षं सजातीयभेदग्रहणे भ्रान्तमितरस्मिंश्च विजातीयभेदग्रहणे न भ्रान्तमतस्तत्पृष्ठभावी विकल्पोऽपि न विजातीयभेदस्येव सजातीयभेदस्यापि ग्राहको भवति, यद्वा तदपि निर्विकल्पकं सजातीयभेदग्रहणे न पटु इतरस्मिंश्च पटु, ततः (अ) पवनुभवाहितसंस्कारप्रकोपसामर्थ्यादयमप्युपजायमानो विकल्पो विजातीय| भेदस्यैव ग्राहको भवति नतु सजातीय भेदस्यापि । अत्राह - 'एवमुभयसहावादिदोसाओ' एवं सति उभयस्वभावादि For Private & Personal Use Only संग्रहणि" ॥१७४॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy