SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ACCOCIECCALCOHOLESA दोषाः प्राप्नुवन्ति । तुः पूरणे । तथाहि-तनिर्विकल्पकं येनैव स्वभावेन विशिष्टं सत् सजातीयभेदग्रहणे भ्रान्तमपटु दवा किं तेनैव खभावेन विजातीयभेदग्रहणे अभ्रान्तं पटु वा, आहोश्चित् अन्येन ? । यदि तेनैव तर्हि सजातीयभेद-15 स्येव तत्खभावसामर्थ्याद्विजातीयभेदस्यापि ग्रहणं न स्यात्, यद्वा विजातीयभेदग्रहणवत् खभावाभेदात् सजातीयभेदग्रहणमविकल्पं स्यात् , तथा च तदनुभवाहितसंस्कारप्रकोपसामर्थ्यादुपजायमानो विकल्पोऽपि सजातीयविजा|तीयभेदयोरविशेषेण ग्राहकः स्यात् न वा कस्यचिदपि । अथान्येनेति पक्षस्तर्हि हन्त तस्योभयस्वभावताऽऽपत्तिः, सा च खतन्त्रनीतिविरोधिनी, सर्ववस्तूनां निरंशैकखभावतया अभ्युपगमात् । अपि च, तौ स्वभावौ ततो निर्विकल्पकात् भिन्नौ वा स्यातामभिन्नी वा भिन्नाभिन्नौ वा ? । यदि भिन्नौ ततस्तस्य ताविति संवन्धानुपपत्तिः। अथाभिन्नौ तर्हि तयोः स्वभावयोरकत्वम् , एकस्मात् धर्मिणोऽनन्यत्वात्तत्स्वरूपवत्, तथा च सति कथमेकमुभयखभावमिति ? अथ भिन्नाभिन्नौ तर्हि खतजनीतित्यागो जात्यन्तरात्मकभेदाभेदाभ्युपगमलक्षणपरसिद्धान्ताश्रयणादिति । अन्यच, 'तं चिय उभयविभिन्न मिति' यदुक्तं तत्वाभ्युपगमविरुद्धं, यतो विकल्पस्य गृहीतग्राहित्वमिष्यते तत् 'तं चिय | उभयविभिन्न'मित्यभ्युपगमे सति विरुध्यते ॥ ४२६ ॥ तथाहि निच्छयनाणेण तहा जारिसतो सोऽवगम्मती भावो। MACOCALONELORCAMSKSACARENCE R OO For Private & Personel Use Only Rilwww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy