________________
AR
धर्म
| संग्रहणि
॥१७२॥
CAREOSCAKCSCAMERIOR
निरन्वयविनाशे सति दलविरहात्-दलाभावात् उत्तरं फलं न युज्येत । इदं च 'दलविहूणं कह जायइ' इत्यादिना प्रागेव भणितमिति न पुनः प्रपश्यते ॥ ४१८ ॥ अत्र परमतमाशङ्कमान आह
अह तं पुत्वं रूवं चइऊण तहा हवेज नियमेण ।
तभावे तदभावो अतादवत्थं चऽनिच्चत्तं ॥ ४१९ ॥ अथ तत्-मृत्पिण्डादिरूपं वस्तु नियमेन पूर्व रूपं-मृत्पिण्डत्वादिलक्षणं त्यक्त्वा तथा घटादिरूपतया भवेत् , अन्यथा तदभावे-मृत्पिण्डत्वादिलक्षणपूर्वरूपपरित्यागाभावे तदभावो-घटादिरूपतया भवनाभावो भवेत्, न हि मृत्पिण्डाकारापरित्यागे घटाकारो भवन् दृश्यते, तस्मादवश्यं पूर्वरूपस्यातादवस्थ्यमेष्टव्यम् । इदमेव च भावानामनित्यत्वम् , “अतादवस्थ्यमनित्यतां ब्रूम" इति वचनात् । अतः परिणामपक्षेऽप्येकान्तक्षणिकत्वं समापतितमिति ॥४१९॥ अत्राचार्य आह
नियमेण तस्स चातो कहंचि ननु (तु) सबझे (हे) व भणितमिणं ।
एवं च तावदत्थे निच्चत्तं कस्स व विरुद्धं ? ॥ ४२०॥ नियमेन तस्य-पूर्वरूपस्य त्यागो भवत्येव, परं कथंचित्, न सर्वथा, तत्संवन्धिनो मृदादिरूपस्यान्वयतो दर्शनात् ,
C OALSAROSAROSCORCE
॥१७॥
Jain Education i
n
For Private & Personel Use Only
MMww.jainelibrary.org