SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ SSCROSC खभावेन नश्वरान् कुर्वन्ति, प्रकृत्या नश्वरत्वाच तेऽपि भावा उत्पत्त्यनन्तरमेव विनश्यन्ति । 'तो' तस्मात्ते क्षणिका इति स्थितम् ॥ ४१६ ॥ अत्राचार्यः प्रतिविधित्सुराह निरहेउगो विणासो अहव सहेऊ निरस्थिगा चित्ता (चिंता)। नहि एत्थऽणवत्थाणं परिणामे सवहा अत्थि ॥ ४१७ ॥ नन्वयं विनाशः किं निर्हेतुकोऽथवा सहेतुक इति या चिन्ता क्रियते सा सर्वथा निरर्थ (र्थि) कैव । कुत इत्याह-13 हि यस्मात् न अत्र-परिणामे परिणामपक्षाभ्युपगमे भावानामनवस्थानं-विनाशः सर्वथा-एकान्तेनास्ति, किंतु कथंचिदवस्थानमपि, तथा च सति सर्वथा विनाशाभावात्कथं तद्विषया सहेतुकचिन्तोपयुज्यते ॥४१७॥ कथं सर्वथाऽनवस्थानं नास्तीति चेदत आह जं तं चिय परिणमए पतिसमयं चित्तकारणं पप्प । दलविरहातो अन्नह जुज्जइ न फलं तु भणियमिणं ॥ ४१८॥ यत्-यस्मात्तदेव-मृत्पिण्डादिरूपं वस्तु चक्रचीवरादिकं चित्रं-नानारूपं कारणं प्राप्य प्रतिसमयं तथा तथा परिणमते, ततः कुतः सर्वथाऽवस्थानं विनाशो वेति । इत्थं चैतदङ्गीकर्तव्यमन्यथा परिणामपक्षानभ्युपगमे पूर्वकारणस्य ORRESS Jain Education in For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy