________________
धर्म
संग्रहणि
॥१७॥
कोवि कदाई भावो कारणविरहातो तस्स भावेवि ।
नहि कारणाई नियमेण होति जं कजवंताई ॥ ४१५ ॥ न च सः-विनाशः कारणान्तरापेक्षः सन् कृतकानामप्यन्तेऽवश्यमभ्युपगतविनाशानां नियमाद्भवेत् , यथा वस्त्रस्य रागः, रागो हि वस्त्रे तदतिरिक्तकारणान्तरापेक्षत्वान्नावश्यंभावी, कारणान्तराणां खखहेतुप्रतिबद्धत्वात्, तेषां च | वचित्कदाचिद्भावात् , तद्वदेषोऽपि विनाशः कारणान्तरापेक्षत्वान्नावश्यं भवेत् , ततश्च कश्चिद्भावः कृतकोऽपि सन् | कदाचित्कारणविरहान्न विनश्येदपि, 'तस्स भावेवित्ति' तस्य-कारणस्य भावेऽपि कश्चिद्भावः कदाचिन्न विनश्यत् । कुत इत्याह-'नहीत्यादि' हि यस्मान्न कारणानि नियमेन कार्यवन्ति भवन्ति, प्रतिवन्धवैकल्यसंभवात् ॥ ४१४ ॥ ॥४१५॥ उपसंहारमाह
ता भावहेतवो च्चिय कुणंति पयईऍ नस्सरे भावे ।
उप्पत्तणंतरं चिय तेवि विणस्संति तो खणिगा ॥ ४१६ ॥ यस्मादित्थं कारणान्तरापेक्षविनाशाभ्युपगमे अनेकदोषोपनिपातसंभवस्तस्माद्भावहेतव एव भावान् प्रकृत्या
ALSANSALKARNAMASALAMA
॥१७॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org