________________
सप्रपञ्चं नामादिनिक्षेपप्रकारानाचष्ट इत्यदोपः, तदुक्तम्-"अप्रस्तुतार्थापाकरणात्प्रस्तुतार्थव्याकरणाच्च निक्षेपः फलवानिति" ॥ २७ ॥ तत्र यथोद्देशं निर्देश इति न्यायान्नामधर्ममभिधित्सुराह-॥ दारगाहा ॥
जीवरसाजीवस्स व अन्नत्थविवज्जियस्स जस्सेह।
धम्मो णाम कीरइ स नामधम्मो तदक्खा वा ॥ २८ ॥ दारं ॥ जीवस्याजीवस्य या यथोक्तधर्मशब्दान्वर्थविवर्जितस्य यस्य कस्यचिद् ‘इह' जगति धर्म इति नाम क्रियते, स! दानाम्ना धर्मों नामधर्मो, यद्वा नामनामवतोरभेदोपचारान्नाम चासौ धर्मश्चेति व्युत्पत्तेनामधर्म इत्युच्यते । तत्रैव
प्रकारान्तरमाह-'तदक्खा वत्ति' तस्य-धर्मस्य आख्या वा-संज्ञा वा नामैव धर्मो नामधर्म इति व्युत्पत्त्या नामधर्मः ॥ २८ ॥ दारं । साम्प्रतं स्थापनाधर्ममाह
सब्भावासब्भावे पडुच्च लेप्पक्खचित्तमादीसु।
धम्मवतो जा ठवणा ठवणाधम्मो स विन्नेओ॥ २९॥ सद्भावम्-आकारं प्रतीत्य-आश्रित्य लेप्यचित्रादिषु, असद्भावम्-आकाराभावमाश्रित्याक्षवराटकादिषु, 'धर्मवतः' १ निक्षेपनगराभिसरणाय नामादीनां द्वाराणां प्ररूपिका गाथा द्वारगाथा । २ समस्तन्यासस्थलस्यापि लक्ष्यत्वात् ।
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org