________________
धर्म-
संग्रहणिः,
पश्चात्समयभावी साक्षात् , शेषः पुनः सर्वोऽपि पारम्पर्येण, एकद्वित्र्यादिभवव्यवधानलक्षणेन च पारम्पर्येण तस्य धर्मस्य प्रसाधको भवति वर्गादिफलपुण्यकर्मप्रकृतीर्जनयन्नेव, नान्यथा । ततस्तदपेक्षया सूत्रमप्यनन्तरोक्तं समीची-1 नमेवेति स्थितम् ॥ २६ ॥ तदेवं सप्रपञ्चं धर्मशब्दान्वर्थमभिधाय साम्प्रतं धर्मशब्दनिक्षेपप्रकारमाह
णामं ठवणा दविए खेत्ते काले तहेव भावे य ।
एसो खलु धम्मस्सा णिक्खेवो छबिहो होइ ॥ २७ ॥ नामधर्मः स्थापनाधर्मः द्रव्यधर्मः क्षेत्रधर्मः कालधर्मस्तथैव भावधर्मश्च, एष खलु धर्मस्य निक्षेपः षड्विधो , भवतीति गाथासंक्षेपार्थः । नन्विदं निक्षेपप्रकाराभिधानमयुक्तम् , अप्रस्तुतत्वात् , न हि नामादिभिरिहाभिहितैः किञ्चित्प्रयोजनमीक्षामहे इति, न, व्यामोहनिवृत्तिफलत्वेनास्य प्रस्तुतत्वात् , तथाहि-पूर्वोक्तं धर्मशब्दान्वर्थमाकर्ण्य नामादिपु धर्मशब्दाभिधेयेषु धर्मशब्दान्वर्थादर्शनात् कश्चिद्वयामुह्येत, ततस्तद्वयामोहापनोदार्थ नामादीन अप्रस्तुतान् अपाचिकीर्षः प्रस्तुतेन च वक्ष्यमाणेन भावधर्मेण यथोक्तधर्मशब्दान्वर्थयुक्तेनाधिकारमुपदिदर्शयिपुः १ मोक्षहेतोरपि सम्यक्त्वादेः पुण्यकारणत्वेऽध्यवसायविशेषयुक्ततैव हेतुरिति अत्रत्यो विशेषः शास्त्रवार्त्तावृत्तौ। २ प्रकारानाहेति क पुस्तकपाठः
॥१९॥
--
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org