SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पुण्यक्षयहेतुरिष्यते, ततो नैवासौ तन्निबन्धनं भवेत् , न हि यो यत्क्षयहेतुः स तदुत्पादहेतुर्भवति, यथाऽऽपो ज्वलनस्य, पुण्यकर्मक्षयहेतुश्चासौ सम्यग्दर्शनाद्यात्मपरिणामलक्षणो धर्मः, "उभयक्खयस्स हेऊ धम्मो" इतिवचनात्, तथा च सति "पच्छा वि ते पयाया खिप्पं गच्छंति अमरभवणाई। जेसिं पिओ तवो संजमो य खंती य बंभचेरं च ॥१॥” इत्याद्यागमविरोधः, अत्र तपस्संयमादेः खर्गादिफलत्वेनाभिधानात् , तस्य चानन्तरपुण्यकर्मप्रकृतिलक्षणकारणनान्तरीयकत्वादित्यत आह सो उभयक्खयहेऊ सेलेसीचरमसमयभावी जो। सेसो पुण निच्छयओ तस्सेव पसाहगो णेओ ॥ २६ ॥ इह 'निश्चयतो' निश्चयमतेन सम्यग्दर्शनादिरूपात्मपरिणामलक्षणो धर्मः स एवोभयक्षयहेतुः, यः शैलेश्यवस्थाचरमसमयभावी, न चासौ पुण्यकर्मप्रकृतिकारणमागमेऽपीष्यते, ततो न कश्चिदागमविरोधः, शेषः पुनः सर्वोऽपि यथोक्तो धर्मः तस्यैव' शैलेश्यवस्थाचरमसमयभाविनो धर्मस्य साक्षात् पारम्पर्येण वा साधकः । तत्र तदनन्तर१ उभयक्षयस्य हेतुर्धर्मः । २ पश्चादपि ते प्रयाता: क्षिप्रं गच्छन्ति अमरभवनानि । येषां प्रियं तपः संयमश्च क्षान्तिश्च ब्रह्मचर्य च । JainEduधर्म.४ाता For Private & Personel Use Only w ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy