________________
संग्रहणिः .
॥१८॥
'उभयक्षयस्य धर्माधर्मक्षयस्य धर्मादन्यः को हेतुः स्यादिति वाच्यं, निर्हेतुकत्वे सति सदाभावादिप्रसङ्गात् । अथ स्वादियं तव बुद्धिः-ध्यानमुभयक्षयस्य हेतुरिति, अत्राह–इष्टमिदमस्माकं, नात्र विप्रतिपत्तिः, यस्मात् 'तत्' ध्यानं न 'धर्माद' वक्ष्यमाणस्वरूपात् पृथग्भूतं, तस्योत्तरगुणरूपत्वात् ॥२४॥ इह धर्माधर्मक्षयस्य हेतुर्द्धर्म इत्युक्तं, तत्रापरो धर्माधर्मखरूपमजानानः प्रश्नयति-ननु धर्मादधर्मस्य क्षयो भवतु, तस्य तेन सह विरोधात्, धर्मस्य पुनः कथं ?, नहि खस्मात् खस्यैव क्षयो भवितुमर्हति, सर्वभावानामपि खरूपत एव क्षयप्रसक्त्या सकलशून्यताऽऽपत्तेरित्यत आह
जो पुण्णकम्मरूवो धम्मो तस्स क्खयातो सिवगमणं ।
जो पुण आतसहावो पगरिससुद्धो ण तस्सावि ॥ २५ ॥ 8| इह द्विविधो धर्मः-पुण्यकर्मप्रकृतिलक्षणः सम्यग्ज्ञानादिरूपात्मपरिणामलक्षणश्च, तत्र धर्माधर्मक्षयात् शिवगतौ गमनं भवतीत्यत्र यः पुण्यकर्मरूपो धर्मस्तस्य क्षयादिति द्रष्टव्यं, न पुनर्य आत्मखभावः सम्यग्दर्शनादिरूपःप्रकर्षशुद्धस्तस्यापि क्षयात् , ततो न कश्चिदिह पूर्वोक्तदोषावकाशः । ननु यद्यसौ सम्यग्दर्शनादिरूपो धर्मः १ अत एव व्याख्याप्रज्ञप्तौ धम्मकामए पुण्णकामए इति पदयुगलपाठः।
CARRORAN
Jain Education in
For Private & Personel Use Only
Alwww.jainelibrary.org