________________
तस्साणुट्ठाणफलं देवादिसु सातमेव सिय होज्जा। तं नो धम्मरयाणवि मोक्खाभावप्पसंगातो ॥ २३ ॥
RAMGARCANAGARCASCAMOCRACC
स्यादेतत्, 'तस्य धर्मस्य संबन्धिनोऽनुष्ठानस्य फलं देवादिषु, आदिशब्दाद्विशिष्टकुलादिपरिग्रहः, सातमेव भवेत् , ततः कथं तदनुष्ठानस्य वैफल्यप्रसङ्ग इति । अत्रोत्तरमाह-'तं नो' इति यदेतदुक्तं तन्न, कुत इत्याह-एवमभ्युपगमे सति धर्मानुष्ठाननिरतानामपि मोक्षाभावप्रसङ्गात् , तस्य देवादिविषयसातफलत्वेनैवाभ्युपगमात् , प्रयोगश्चात्र-यत् यजनन एवं प्रतिनियतशक्तिकं न ततस्तदन्यत् भवति, यथा यवबीजात् शाल्यङ्करः, देवादिविषयसातजनन एव च प्रतिनियतशक्तिकमभ्युपगम्यते धर्मानुष्ठानमिति, ततस्तदन्यभावो हि तदन्यजननशक्तिमत्तया व्याप्तः,
तद्विरुद्धं च तजनन एवं प्रतिनियतशक्तिकत्वमिति व्यापकविरुद्धोपलब्ध्याऽप्यस्य मोक्षभावस्याभावः प्रसज्यते, ४ अनिष्टं चैतत् , ततो धर्माधर्मक्षयहेतुर्धर्म इति स्थितम् ॥ २३ ॥ अपिच
उभयक्खयम्मि हेऊ को वा अन्नोत्ति ? झाणमह बुद्धी । इमिदं णो जम्हा धम्मातो ण तं पिहब्भूयं ॥ २४ ॥
Jain Education Inter
For Private & Personel Use Only
ww.jainelibrary.org