SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १७ ॥ Jain Education Inter नात्, ततः कथं तस्यां शिवगतौ धारयति ' तओत्ति ' सको धम्र्मो १, नेवासा धारयति, किन्तु धर्माधर्मक्षय एवेति भावः । अत्राह - ' भण्यते' अत्रोत्तरं दीयते, 'हेतुम्मि फलोबयारोऽयमिति' हेतौ - धर्मे फलस्य - धर्म्मा| धर्म्मक्षयलक्षणस्योपचारोऽयं पूर्वोक्तो निर्देशः, एतदुक्तं भवति - कारणे कार्योपचाराचन्दुलान् वर्षति पर्जन्य | इत्यादिनिर्देशयत् शिवगतौ सततं धारणाद्धर्म्म इत्युक्तमतो न कश्चिद्दोष इति ॥ २१ ॥ तमेव कार्यकारणभावमुप - चारनिबन्धनं दर्शयति ऊ उभयखयरस य धम्मो जं तस्समुज्जतो नियमा | कुणइ तयं तदभावे तस्साणुटुाणवेफल्लं ॥ २२ ॥ 'हेतुश्च' हेतुरेव कारणमेव 'उभयक्षयस्य' धर्म्माधर्म्मक्षयस्य 'धम्म' वक्ष्यमाणः, चोऽवधारणे, भिन्नक्रमश्च, स चादावेव योजितः, कुतो हेतुरेवोभयक्षयस्य धर्म्म इत्यत आह- 'यत्' यस्मात् तस्मिन् धर्मे समुद्यतो 'नियमाद्' अवश्यंतया करोति 'तकम्' उभयक्षयं धर्म्माधर्मक्षयम् । अत्रैव विपक्षे बाधामाह - ' तदभावे' धर्माधर्म्मलक्षणोभयक्षयाभावे 'तस्य' धर्म्मस्य संबन्धिनोऽनुष्ठानस्य वैफल्यं - वैफल्यप्रसङ्गः, तदनुष्ठानं हि धर्माधर्मक्षयार्थ, स चेत्ततो न भविष्यति किं तदनुष्ठानेनेतिभावः ॥ २२ ॥ अत्र पराभिप्रायमाह - For Private & Personal Use Only संग्रहणिः. ॥ १७ ॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy