________________
464-CONGRESS.
COM
अन्यथा परोपकाराय प्रकरणस्याऽऽरभ्यमाणत्वात् परस्यैव रोचनाद्यभिधातव्यं स्यान्नात्मन इति । यत एवं मम || प्रकरणस्यारम्भः सफलोऽतः ‘कृतं' पर्याप्तमिहाधिकेन प्रसङ्गेन ॥१९॥ इह 'धर्मसङ्ग्रहणिं वक्ष्ये' इत्यनेन सामर्थ्या-3 दस्य प्रकरणस्य धर्मोऽभिधेय उक्तः, तत्र धर्मशब्दान्वर्थमाह
धारेइ दुग्गतीए पडतमप्पाणगं जतो तेणं ।
धम्मोत्ति सिवगतीइ व सततं धरणा समक्खाओ ॥ २० ॥ 'धारयति' निवारयति दुर्गतौ प्रपतन्तमात्मानं यतस्तेन कारणेन धर्म इति समाख्यातो वक्ष्यमाणः सम्यग्दर्शनाद्यात्मपरिणामः । अथवा शिवगतौ सततं 'धारणात्' स्थापनात् धर्म इति समाख्यातः ॥ २० ॥ अत्र परः| पिपृच्छिपुरिदमाह
धम्माधम्मक्खयतो सिवगतिगमणं ति ता कहं ताए।
धारेति ? तओ भन्नति हेतुम्मि फलोवयारोऽयं ॥ २१ ॥ ननु 'धर्माधर्मक्षयात्' पुण्यापुण्यक्षयात्सकाशात् शिवगतौ गमनं भवति, "धर्माधर्मक्षयान्मुक्ति"रितिवच
JainEducation intel
For Private Personal use only